Digital Sanskrit Buddhist Canon

षोडशमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Ṣoḍaśamaḥ
CHAPTER 16

SAKALA-JAGAD-VINAYA-MAHA-MANDALA-VIDHI-VISTARA

Hymn of 108 names of Avalokitesvara
अथ सर्वतथागताः पुनः समाजमागम्य, [तमेव वज्रधरं] भगवन्तं सर्वधर्मेश्वरमवलोकितेश्वरमनेन नामाष्टशतेनाध्येषितवन्तः।

पद्मसत्व महापद्म लोकेश्वर महेश्वर।
अवलोकितेश धीराग्र्य वज्रधर्म नमोऽस्तु ते॥१॥
धर्मराज महाशुद्ध सत्वराज महामते।
पद्मात्मक महापद्म पद्मनाथ नमोऽस्तु ते॥२॥
पद्मो[द्भव] सुपद्माभ पद्मशुद्ध सुशोधक।
वज्रपद्म सुपद्माङ्ग पद्मपद्म नमोऽस्तु ते॥३॥
महाविश्व महालोक महाकार्य महोपम।
महाधीर महावीर महाशौरे नमोऽस्तु ते॥४॥
सत्वाशय महायान महायोग पितामह।
शम्भु शङ्कर शुद्धार्थ बुद्धपद्म नमोऽस्तु ते॥५॥
धर्मतत्वार्थ सद्धर्म शुद्धधर्म सुधर्मकृत्।
महाधर्म सुधर्माग्र्य धर्मचक्र नमोऽस्तु ते॥६॥
बुद्धसत्व सुसत्वाग्र्य धर्मसत्व सुसत्वधृक्।
सत्वोत्तम सुसत्वज्ञ सत्वसत्व नमोऽस्तु ते॥७॥
अवलोकितेश नाथाग्र्य महानाथ विलोकित।
आलोकलोक लोकार्थ लोकनाथ नमोऽस्तु ते॥८॥
लोकाक्षराक्षरमहा अक्षराग्र्याक्षरोपम।
अक्षराक्षर सर्वाक्ष चक्राक्षर नमोऽस्तु ते॥९॥
पद्महस्त महाहस्त समाश्वासक दायक।
बुद्धधर्म महाबुद्ध बुद्धात्मक नमोऽस्तु ते॥१०॥
बुद्धरूप महारूप वज्ररूप सुरूपवित्।
धर्मालोक सुतेजाग्र्य लोकालोक नमोऽस्तु ते॥११॥
पद्मश्रीनाथ नाथाग्र धर्मश्रीनाथ नाथवान्।
ब्रह्मनाथ महाब्रह्म ब्रह्मपुत्र नमोऽस्तु ते॥१२॥
दीप दीपाग्र्य दी[पोग्र दीपा]लोक सुदीपक।
दीपनाथ महादीप बुद्धदीप नमोऽस्तु ते॥१३॥
बुद्धाभिषिक्त बुद्धाग्र्य बुद्धपुत्र महाबुध।
बुद्धाभिषेक मूर्धाग्र्य बुद्धबुद्ध [नमोऽस्तु] ते॥१४॥
बुद्धचक्षोर्महाचक्षोर्धर्मचक्षोर्महेक्षण।
समाधिज्ञान सर्वस्व वज्रनेत्र नमोऽस्तु ते॥१५॥
यैवं सर्वात्मना गौणं नाम्नामष्टशतं तव।
भावयेत्स्तुनुयाद् वापि लोकैश्वर्यमवाप्नुयात्॥१६॥
अध्येषयाम त्वां वीर प्रकाशय महामुने।
स्वकं तु कुलमुत्पाद्य धर्ममण्डलमुत्तमम्॥१७॥ इति॥

अथार्यावलोकितेश्वरो बोधिसत्वो महासत्वः सर्वतथागताध्येषणवचनमुपश्रुत्य, येन भगवांच्छाक्यमुनिस्तथागतः तेनाभिमुखं स्थित्वा, तद्वज्रपद्मं स्वहृदि प्रतिष्ठाप्येदमुदानमुदानयामास।

अहो हि परमं शुद्धं वज्रपद्ममिदं मम।
पिताहमस्य च सुतोऽधितिष्ठ कुलं त्विदम्॥ इति॥

Emanation of the deities from samadhi
अथ भगवान् वैरोचनस्तथागतः सर्वतथागतवज्रधर्मसमयसंभवाधिष्ठानपद्मन्नाम समाधिं समापद्येदं सर्वतथागतधर्मसमयं नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार ह्रीः॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः पद्माकारा अनेकवर्णरूपलिङ्गेर्यपथा रश्मयो विनिःसृत्य, सर्वलोकधातुषु रागादीनि विशुद्धधर्मताज्ञानानि संशोध्य, पुनरप्यागत्यार्यावलोकितेश्वरस्य हृदये प्रविष्टा इति॥

अथ भगवान् सर्वतथागतधर्मसमयन्नाम स्वविद्योत्तममभाषत् ओं वज्रपद्मोत्तम ह्रीः॥
अथ वज्रपाणिर्महाबोधिसत्व इदं स्वविद्योत्तममभाषत् ओं वज्र हुं फट्॥
अथ वज्रगर्भो बोधिसत्व इदं स्वविद्योत्तममभाषत् ओं वज्ररत्नोत्तम त्रः॥
अथ वज्रनेत्रो बोधिसत्व इदं स्वविद्योत्तममभाषत् ओं वज्रविद्योत्तम ह्रीः॥
अथ वज्रविश्वो बोधिसत्व इदं स्वविद्योत्तममभाषत् ओं वज्रविश्वोत्तम अः॥

अथ खल्ववलोकितेश्वरो बोधिसत्वो महासत्वः सर्वरूपसंदर्शनं नाम समाधिं समापद्येदं सर्वजगद्विनयसमयन्नाम स्वहृदयमभाषत् ओं हुं ह्रीः होः॥

अथास्मिन् भाषितमात्रे आर्यावलोकितेश्वरहृदयात् स एव भगवां वज्रधरः आर्यावलोकितेश्वररूपधारिणः पद्मप्रतिष्ठाः पद्ममुद्राचिन्हधारिविचित्रवर्णरूपवेषालङ्काराः तथागतादिसर्वसत्वमूर्तिधारा महाबोधिसत्वविग्रहा भूत्वा विनिःसृत्य, सर्वलोकधातुषु सर्वसत्वानां यथा वैनेयतया स्वरूपाणि सन्दर्श्याशेषानवशेषसत्वधातुविनयं कृत्वा, पुनरप्यागत्य, वज्रधातुमहामण्डलयोगेन भगवतः शाक्यमुनेस्तथागतस्य सर्वतश्चन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयिंसुः।

अहो हि सर्वबुद्धानामुपायः करुणात्मनां।
यत्र ह्यु पायविनयाद् देवा अपि भवन्ति हि॥

Delineation of the mandala
अथ भगवानवलोकितेश्वरो बोधिसत्वो महासत्वः स्वकुलमुत्पाद्य, सर्वतथागतेभ्य सर्वसत्वाभयार्थप्राप्त्युत्तमसिद्धिवज्रधर्मताज्ञानाभिज्ञावाप्तिफलहेतोर्निर्या[त्य, सर्वजग]द्विनयं नाम महामण्डलमभाषत्।

अथातः संप्रवक्ष्यामि महामण्डलमुत्तमम्।
वज्रधातुप्रतीकाशं जगद्विनयं संज्ञितं॥१॥
चतु[रश्रं] चतुर्द्वारं चतुस्तोरणशोभितं।
चतुःसूत्रसमायुक्तं पट्टस्रग्दामभूषितं॥२॥
सर्वमण्डलकोणेषु द्वारनिर्यूहसन्धिषु।
खचितं वज्ररत्नैस्तु सूत्रयेद्बाह्यमण्डलं॥३॥
तस्याभ्यन्तरतः सूत्रं चतुरश्रं परिक्षिपेत्।
द्वितीयं द्वारकोणं तु पद्माकारं प्रकल्पयेत्॥४॥
अष्टस्तम्भप्रयोगेण पद्ममष्टदलं लिखेत्।
तस्य केसरमध्ये तु बुद्धबिम्बन्निवेशयेत्॥५॥

तत्रेदं बुद्धप्रवेशहृदयं भवति बुद्ध हूं॥
बुद्धस्य सर्वतो लेख्याः पद्ममध्ये प्रतिष्ठा।
वज्रं रत्नं तथा पद्मं विश्वपद्मं तथैव च॥

तत्रैषां हृदयानि भवन्ति।
ओं॥
हुः॥
धीः॥
कृः॥

वज्रवेगेन निष्क्रम्य जगद्विनयमण्डलं।
तत्र लोकेश्वरः कार्यः सर्वरूपान्समुत्सृजन्॥१॥
तस्य पार्श्वेषु सर्वेषु वज्रगर्वादियोगतः।
बुद्धादयो महासत्वां पद्मचिन्हधरां लिखेत्॥२॥

तत्रैषां हृदयानि भवन्ति।
आः॥
ओं तथागतधर्म हूं।
ओं वज्रपद्माङ्कुश कोशधर वज्रसत्व हूं फट्॥
ओं मारय मारय पद्मकुसुमायुधधरामोघशर होः॥
ओं पद्मसंभव पद्महस्त साधु हूं।

वज्रवेगेन चाक्रम्य द्वितीयं मण्डलन्तथा।
तत्र मध्ये समालेख्यं जटामध्ये तथागतं॥१॥
तस्य पार्श्वेषु सर्वेषु भृकुट्यादिप्रयोगतः।
पद्मचिन्हधरा लेख्य यथावदनुपूर्वशः॥२॥

तत्रैषां हृदयानि भवन्ति।
हूं॥
ओं पद्मभृकुटि त्रः॥
ओं पद्मसूर्य ज्वल हूं॥
ओं पद्ममणि केतुधर चन्द्र प्रल्हादयावलोकितेश्वर देहि मे सर्वार्थान् शीघ्रं समय हूं॥
ओं पद्माट्टहासैकदशमुख हः हः हः हः हूं॥

वज्रवेगेन चाक्रम्य तृतीयं मण्डलन्तथा।
समापन्नं महासत्वं लिखेत् पद्मप्रतिष्ठितम्॥१॥
तस्य पार्श्वेषु सर्वेषु यथावदनुपूर्वशः।
पद्मालोकादियोगेन महासत्वान् निर्वेशयेत्॥२॥

तत्रैषां हृदयानि भवन्ति।
ध॥
ओं तारा पद्मवलोकय मां समयसत्व हूं॥
ओं पद्मकुमार पद्मशक्तिधर खङ्गेन च्छिन्द च्छिन्द हूं फट्॥
ओं पद्म नीलकण्ठ शंखचक्रगदापद्मपाणि व्याघ्रचर्मनिवसन् कृष्णसर्पकृतयज्ञोपवीताजिनचर्मवामस्कन्धोत्तरीय नारायण[रूपध]र त्रिनेत्र मुंचाट्टहासं प्रवेशय समयान् देहि मे सिद्धिमवलोकितेश्वर हूं॥

ओं ब्रह्म पद्मसंभव जप जप पद्मभाष हूं॥
वज्रवेगेन चाक्रम्य चतुर्थमण्डलं तथा।
तत्र पद्मं चतुर्वक्त्रं पद्मशूलधरं लिखेत्॥१॥
तस्य पार्श्वेषु सर्वेषु वज्रनृत्यादियोगतः।
पद्मचिन्हधरा लेख्या महासत्वा यथाविधि॥२॥

तत्रैषां हृदयानि भवन्ति।
त्रीः॥
ओं पद्मनट्टेश्वर नट्ट नट्ट पूजय सर्वतथागतान् वज्रकर्मसमयाकर्षय प्रवेशय बन्धयावेशय सर्वकर्मसिद्धिं मे प्रयच्छावलोकितेश्वर हूं॥
ओं अभयंददावलोकितेश्वर रक्ष बन्ध पद्मकवचं समय हं॥
ओं महाप्रचण्ड विश्वरूप विकटपद्मदंष्ट्राकराल भीषणवक्त्र त्रासय सर्वान् पद्मयक्ष खाद खाद धिक् धिक् धिक् धिक्॥
ओं पद्ममुष्टि समय[स्त्व] बन्ध हूं फट्॥

वज्रवेगेन चाक्रम्य सर्वकोणेषु संलिखेत्।
वज्रलास्यादियोगेन पद्मलास्यादिदेवताः॥

तत्रैता मुद्रा भवन्ति।
ओं पद्मलास्ये रागय महादेवि रागपूजासमये हूं॥
ओं पद्ममालेऽभिषिञ्चाभिषेकपूजासमये हूं॥
ओं पद्मगीते गाद गीतपूजासमये हूं॥
ओं पद्मनृत्ये नृत्य सर्वपूजाप्रवर्तनसमये हूं॥

वज्रवेगेन निःक्रम्य बाह्यमण्डलसन्निधौ।
चतस्रः पद्मधूपाद्याः पूजादेव्यः समालिखेत्॥

तत्रैताः पूजामुद्रा भवन्ति।
ओं पद्मधूपपूजासमये प्रल्हादय पद्मकूलदयिते महागणि पद्मरति हूं॥
ओं पद्मपुष्पपूजासमये पद्मवासिनि महाश्रिये पद्मकुलप्रतीहारि सर्वार्थान् साधय हूं॥
ओं पद्मदीपूजासमये पद्मकुलसुन्दरि महादूत्यालोक संजनय पद्मसरस्वति हूं॥
ओं पद्मगन्धपूजासमये महापद्मकुलचेटि कुरु सर्वकर्माणि मे पद्मसिद्धि हूं॥

ततो गणादयः सर्वे पद्मद्वारचतुष्टये।
समालेख्या यथावत्तु तेषां च हृदयार्थत॥ इति॥

तत्रेषां हृदयानि भवन्ति।
ओं हयग्रीव महापद्माङ्कुशाकर्षय शीघ्रं सर्वपद्मकुलसमयान् पद्माङ्कुशधर हूं ज्जः॥
ओं अमोघपद्मपाश क्रोधाकर्षय प्रवेशय महापशुपतियमवरूणकुबेरब्रह्मवेषधर पद्मकुल समयान् हूं हूं॥
ओं पद्मस्फोट बन्ध सर्वपद्मकुलसमयान् शीघ्रं हूं वं॥
ओं षड्मुख सनत्कुमारवेषधर पद्मघण्टयावेशय सर्वपद्मकुलसमयान् सर्वमुद्रां बन्धय सर्वसिद्धयो मे प्रयच्छ पद्मावेश अः अः अः अः अः॥

Initiation into the mandala
अथात्र सर्वजगद्विनयपद्ममण्डलविधिविस्तरो भवति।
तत्रादित एव पद्माचार्यो वज्रपद्मसमयमुद्रां बध्वा यथावत्प्रविश्य, वज्रधातुमहामण्डलयोगेन कर्म कुर्यादिमैर्हृदयैः ओं पद्मस्फोटाधितिष्ठ अः॥

ततस्तथैवाज्ञामाज्य, तथैव समयमुद्रया स्वयमभिषिच्य, पद्मविग्रहं गृह्य, स्वपद्मनामोच्चार्य, पद्माङ्कुशादिभिश्च कर्म कृत्वा, ततस्ताभिरेव धर्ममुद्राभिर्महासत्वां साधयेत्। ततस्तथैव सिद्धिरिति॥

ततः पद्मशिष्यान् प्रवेशयेत्। तत्रादितः पद्मशिष्याय शपथहृदयं दद्यात्। “पद्मसत्वः स्वयन्तेऽद्य इति कर्तव्यम्”।

ततो[आज्ञाप]यात्। “न कस्यचित्त्वयेदं गुह्यविधिविस्तरमाख्येयं; मा ते नरकपतनं भवेत्, विषमापरिहारेण च कालक्रिये” ति॥

ततः समय[मुद्रां बन्धये]द् अनेन हृदयेन ओं वज्रपद्मसमयस्त्वं॥
ततः श्वेतवस्त्रोत्तरीयः श्वेतरक्तकेन मुखं वध्वा प्रवेशयेदनेन हृदयेन ओं पद्मसमय हूं॥
ततो यथावत्कर्म कृत्वा, पद्मविग्रहं पाणौ दातव्यं ओं पद्महस्त वज्रधर्मतां पालय॥ तेन वक्तव्यं “कीदृशीमा वज्रधर्मते-”ति। ततो वक्तव्यं।

यथा रक्तमिदं पद्मं गोत्रदोषैर्न लिप्यते।
भावयेत् सर्वशुद्धिं तु तथा पापैर्न लिप्यते॥

इयमत्र धर्मता॥

Mudra
ततः पद्मकुलमुद्राज्ञानं शिक्षयेत्।
पद्मं तु हृदये लिख्ये पद्मभावनया हृदि।
पद्मश्रियं वशीकुर्यात् किं पुनः स्त्रीजनोऽवरः॥१॥
बुद्धबिम्बं ललाटे तु लिख्याभीक्ष्णं तु भावयेत्।
तया भावनया शीघ्रमभिषेकमवाप्नुते॥२॥
बुद्धबिम्बं मुखे विध्वाजिव्हायां तु प्रभावयेत्।
स्वयं सरस्वती देवी मुखे तिष्ठत्यभीक्ष्णशः॥३॥
पद्ममुष्णीषमध्ये तु स्थापयित्वा समाहितः।
भावयन् पद्ममुष्णीषे खेगामी स वशन्नयेद्॥ इति॥४॥

तत्रैतानि हृदयानि भवन्ति।
पद्मश्रियं वशमानय होः॥
पद्माभिषेकं प्रयच्छ वम्॥
पद्मसरस्वती शोधय हूं॥
पद्मोर्ध्वगान् वशीकुरु ज्जः॥

इमानि पद्मकुलमुद्राज्ञानानि॥
कुड्ये वाप्यथ वाकाशे भावयन् पद्ममुत्तमं।
अनया सर्वसत्वानां वशिकरणमुत्तमम्॥१॥
आकाशे वान्यदेशे वा भावयन् पद्ममुत्तमं।
यदा पश्येत् तदा गृह्णेद् रुच्यानदृश्यतां व्रजेत्॥२॥
कुड्ये वाप्यथ वाकाशे विश्वपद्मं समाधयेत्।
पश्यं गृण्हेद्यथा तं तु विश्वरूपी तदा भवेत्॥३॥
आकाशे वान्यदेशे वा वज्रपद्मं तु भावयेत्।
तं तु गृह्णं क्षणाच्चैव पद्मविद्याधरो भवेत्॥४॥

तत्रैषां हृदयानि भवन्ति।
ओं सर्वजगद्वशिता ज्ञानपद्माविश अः॥
ओं ज्ञानपद्म तिष्ठादृश्यं कुरु वं॥
ओं समाधि विश्वपद्म तिष्ठ वैश्वरूप्यं दर्शय भगवन् ढः।
ओं समाधि वज्रपद्म तिष्ठोत्तिष्ठ शीघ्रं ह्रीः॥

लोकेश्वरं समालिख्य मण्डलादिषु सर्वतः।
पुरस्तस्य समाकर्षेत् हयग्रीवाग्र्यमुद्रया॥१॥
लोकेश्वरं समालिख्य मण्डलादिषु तस्य वै।
अमोघपाशमुद्रया वशीकुर्याज्जगत्स तु॥२॥
लोकेश्वरं समालिख्य मण्डलादिषु सर्वतः।
पुरस्तस्य बन्धनीयात् पद्मस्फोटाग्रमुद्रया॥३॥
लोकेश्वरं समालिख्य मण्डलादिषु तस्य वै।
पुरतः पद्मघण्टया सर्वावेशनमुत्तमम्॥ इति॥४॥

तत्रैषां हृदयानि भवन्ति।
ओं पदमाङ्कुशाकर्षय सर्वमहासत्वान् हूं जः॥
ओं अमोघपाश क्रोध हूं होः॥
ओं पद्मस्फोट वं॥
ओं पद्मघण्टावेशय सर्वं अः॥

चतुःपद्ममुखं सत्वं भावयेत्स्वयमात्मना।
स्वमात्मानन्ततः सिद्धो बहुरूपी भवेत्क्षणात्॥१॥
भावयन् पद्मपद्मन्तु स्वमात्मानन्तथात्मना।
वज्रधर्मसमाधिस्थः प्राप्नोति पद्ममक्षरं॥२॥
लोकेश्वरजटामध्ये भावयन् स्वयमात्मना।
बुद्धबिम्बं स्वमात्मानममितायुसमो भवेत्॥३॥
भावयन् स्वयम्[आत्मना विश्व]रूपसमाधिना।
विश्वरूपसमाधिस्थो लोकेश्वरसमो भवेत्॥ इति॥४॥

तत्रैषां हृदयानि भवन्ति।
पद्मविश्व॥
धर्मकायपद्म॥
बुद्धाभिषे[क॥
लोकेश्व]र॥

ततो महामण्डलसर्वमुद्राज्ञानं शिक्षयेत्।
तत्र प्रवेशं तावन् महामुद्राज्ञानं भवति।

चन्द्रमण्डलमध्यस्थां यथा लेख्यानुसारतः।
पद्म[प्रति]ष्ठां सत्वान्स्वं भावयेत्स्वयमात्मने॥ति॥

अथासां कर्म भवति॥
बध्वा बुद्धमहामुद्राममितायुसमो भवेत्।
वज्रपद्मं समाधाय लोकेश्वर[समो] भवेत्॥१॥
बुद्धाभिषेकां बध्वा वै सुगतैः सोऽभिषिच्यते।
पद्मपद्मा समाधिं तु दद्याद् विश्वा सुविश्वतां॥२॥
वैश्वरूप्यं वैनेयांस्तु बुद्ध रत्नाभिषेकदा।
पद्मसत्वि समाधिन्तु पद्मक्रोधेश्वरीं श्रियं॥३॥
वज्रलोकेश्वरी सिद्धिमुत्तमां पद्मरागिणी।
बुद्धेश्वरी तु बुद्धत्वं वज्रपद्मा सुसिद्धिदा॥४॥
कामेश्वरी सुरागित्वं दद्यात्तुष्टिन्तु साधुता।
भृकुटिः क्रोधशमनी पद्मसूर्या सुतेजदा॥५॥
पद्मचन्द्रा महाकान्तिं दद्याद् हासा सुहासतां।
तारया चोत्तरा सिद्धिः सौभोग्यं पद्मखङ्गया॥६॥
नीलकण्ठा महाकर्षा सिद्धिं पण्डरवासिनी।
पद्मनर्तेश्वरी सिद्धिमभया अभयन्ददा॥७॥
प्रचण्डा दुष्टदमनी पद्ममुष्टिः सुसाधिका।
लास्या रतिं धनं माला सर्वं गीता सुखं नृत्या॥८॥
धूपा ल्हादं शुभं पुष्पादीपा दृष्टिं गन्ध सुगन्धतां॥९॥
हयग्रीवा समा[कर्षणा]मोघा तु वशङ्करी।
पद्मस्फोटा महाबन्धा सर्वावेशा तु घण्टिके-॥१०॥ति॥

ततः पद्मकुलसमयमुद्राज्ञानं भवति।
वज्रबन्धं समाधाय समाङ्गुष्ठान्त्यसन्धानात्।
मुद्रेयं धर्मसमया बुद्धधर्मप्रदायिका॥१॥
वज्रबन्धं समाधाय समाग्र्यानाममध्यमा।
बुद्धविद्योत्तमस्येयं मुद्रा बुद्धत्वदायिका॥२॥
वज्रबन्धं समाधाय मध्यमा वज्रसंयुता।
वज्रविद्योत्तमस्येयं मुद्रा वज्रत्वदायिका॥३॥
सा एव मणिमध्या तु वज्ररत्नप्रदायिका।
मध्यकुड्मलयोगेन पद्मसिद्धिप्रदायिका॥४॥
वज्राञ्जलिन्तु सन्धाय वज्रकर्मकरी भवेत्।
धर्मवज्रां समाधाय समयः सिध्यते क्षणात्॥५॥
वज्रबन्धं समाग्रन्तु बुद्धसिद्धिप्रदायिका।
अतः परं प्रवक्ष्यामि सत्वमुद्रा विशेषतः॥६॥
वज्राञ्जलिं समाधाय सममध्योत्थिता तथा।
कनिष्ठाङ्गुष्ठविकचा विश्वपद्मेति कीर्तिता॥७॥
सा एवाङ्गुष्ठपर्यङ्का कुञ्चिताग्राग्र्यविग्रहा।
मध्यवज्रजटा मूर्ध्नि जटाबुद्धेति कीर्तिता॥८॥
वज्रबन्धं दृढीकृत्य समाङ्गुष्ठमधस्तनं।
तर्जनीद्वयसंकोचा समुद्गता समाधितः॥९॥
समाञ्जलिं समाधाय तर्जनी वज्रपीडिता।
विकसिताङ्गुष्ठमुखयोर्मुद्रामोघेश्वरस्य तु॥१०॥
वज्रबन्धं दृढीकृत्य समुत्तानं तु बन्धयेत्।
समाङ्गुष्ठकृता पद्मे पद्मबुद्धेति कीर्तिता॥११॥
अङ्गुष्ठवज्राग्राभ्यामङ्कुशं खड्गमेव च।
अन्त्यद्वयविकासा च मध्यानामाग्रकुड्मला॥१२॥
समाञ्जलिं समाधाय वलिताङ्गुष्ठकुञ्चिता।
तर्जन्या तर्जनीङ्गृह्याकर्षयेत् पद्मवाणया॥१३॥
समाञ्जलिन्तथोत्तानां बन्धयेत्साधुमुद्रया।
साधुकारां [प्रददाति] साधुपद्मेति कीर्तिता॥१४॥
समाञ्जलिं दृढीकृत्य कुञ्चिताग्र्या मुखस्थिता।
कनिष्ठाभ्यां तु विकचा पद्मभृकुटिरुच्यते॥१५॥
वज्रबन्धं दृढीकृत्य हृद[ये तु] प्रसारयेत्।
पद्मसूर्येति विख्याता सर्वाङ्गु लिसुमण्डला॥१६॥
समाञ्जलिं दृढीकृत्य तर्जनीभ्यां मणीकृता।
पद्मरत्नध्वजाग्री तु मूर्ध्नि बाहुप्रसारिता॥१७॥
वज्रबन्धं शिरोमूर्ध्नि प्रसार्याग्रमुखैः सह।
स्वमुखेनाट्टहासेन एकादशमुखी भवेत्॥१८॥
समाधिपद्मां सन्धाय समाङ्गुष्ठसमुत्थिता।
पद्मतारस्य मुद्रेमं सर्वसिद्धिप्रदायिका॥१९॥
पद्मतारस्य मुद्रा तु पद्म योगाग्र्यबन्धनात्।
पद्मखड्गस्य मुद्रेयं खड्गाकारनियोजनात्॥२०॥
कुड्मलान्त्यमहापद्मास्तच्चाङ्गुष्ठगदा तथा।
कुञ्चिताग्र्यमहाशङ्खा वज्रबन्धेन चक्रिता॥२१॥
वज्राञ्जलिं दृढीकृत्य दक्षिणौंकारवेष्टिता।
वामग्र्याङ्गुष्ठजापा तु सर्वाग्रविकचाम्बुजा॥२२॥
वज्राङ्गुलिं समाधाय वामदक्षिणतस्तथा।
नृत्यं सलीलवलिता मूर्ध्निस्था नृत्यपद्मिनी॥२३॥
वज्राञ्जलिं दृढीकृत्य सर्वाग्रकवचा तथा।
परिवर्त्य तु पद्मेन हृदि स्थाप्य दृढंकरी॥२४॥
वज्राञ्जलिं दृढीकृत्य गुह्ययक्षप्रयोगतः।
प्रसारिताञ्जलिपुटा मुखस्था पद्मयक्षिणी॥२५॥
वज्रमुष्टिं द्विधीकृत्य कुञ्चयित्वा तु मध्यमे।
स्वाङ्गुष्ठपृष्ठनिहिते पद्ममुष्टिरुदाहृता॥२६॥
वज्रधातुप्रयोगेण वज्राञ्जलिसमुत्थिता।
सर्वपूजाग्र्यदेवीनां समयाग्र्यस्तु बन्धयेत्॥२७॥
वज्रबन्धं दृढीकृत्य सन्धयेत्तर्जनीद्वयं।
संकोचात्पुरतः सन्धेत् हयग्रीवेति कीर्तिता॥२८॥
पद्माञ्जलिं समाधाय तर्जनीग्रन्थिबन्धना।
अमोघपाशमुद्रेयं तर्जन्यङ्गुष्ठशङ्कला॥२९॥
पद्माञ्जलिं समाधाय वज्रावेशप्रयोगतः।
अङ्गुष्ठाभ्यां तु संपीड्य कनिष्ठानामिकान्तराव्॥३०॥ इति॥

अथ पद्मकुलधर्ममुद्राज्ञानं भवति।
ह्री। ग्री। प्री। ही। श्री। सी। दी। हीः।
गी। धी। क्री। वी। वि। री। ष्ट्री। अः।
पद्ममुष्टिं द्विधीकृत्य कर्ममुद्राः समाधयेद्॥ इति॥

सर्वतथागतधर्मसमयान् महाकल्पराजात् सकलजगद्विनयमहामण्डलविधिविस्तरः समाप्तः॥
PADMA-GUHYA-MUDRA-MANDALA-VIDHI-VISTARA

Emanation of deities from samadhi
अथ भगवान् पुनरपि सर्वतथागतधर्मधारणीसमयसंभवमुद्राधिष्ठानपद्मन्नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं सर्वतथागतधर्मसमये हूं॥

अथ वज्रपाणिर्महाबोधिसत्वः इमां स्वकुलसंभवां विद्योत्तमामभाषत् ओं वज्रसमये हूं॥
अथ वज्रगर्भो बोधिसत्व महासत्व इमां स्वविद्योत्तमामभाषत् ओं मणिरत्नसमये हूं॥
अथ वज्रनेत्रो बोधिसत्व इमां स्वविद्योत्तमामभाषत् ओं पद्मसमये हूं॥
अथ वज्रविश्वो बोधिसत्व इमां स्वविद्योत्तमामभाषत् ओं कर्मसमये हूं॥
अथ भगवानार्यावलोकितेश्वरो बोधिसत्व इदं स्वकुलसमयमुद्रामण्डलमभाषत्॥

अथातः संप्रवक्ष्यामि मुद्रामण्ड[लानुत्तरं।]
वज्रधातुप्रतीकाशं पद्मगुह्यमिति स्मृतं॥१॥
महामण्डलयोगेन सूत्रयेत्सर्वमण्डलं।
तस्य मध्ये सुपद्मे वै वज्रधात्वीश्वरीं लिखेत्॥२॥
[तस्य] सर्वपार्श्वेषु समयाग्र्यो यथोपरि।
धर्मवज्र्यादयो लेख्याः स्वविद्याभिः समन्धिताः॥३॥

तत्रासां मुद्रा भवन्ति।
ओं सर्व-तथागत धर्मेश्वरि हूं॥
ओं धर्म समये वज्र-पद्मिनि हूं।
ओं बुद्धाभिषेक रत्न समये हूं॥
ओं तारा समये हूं॥
ओं विश्वमुखे हूं॥

वज्रवेगेन निष्क्रम्य विश्वरूपाग्र्यमण्डलं।
तत्र मध्ये लिखेत्पद्मं पद्मैस्तु परिवारितं॥१॥
तस्य पार्श्वेषु सर्वेषु पद्ममुद्रा प्रतिष्ठिताः।
पद्मचिन्हः समालेख्याः स्वमुद्राः सुगतात्मनां॥२॥

तत्रासां मुद्रा भवन्ति।
ह्रीः॥
ओं पद्मतथागते॥
ओं समन्तभद्र पद्मवज्राङ्कुशकोशधारिणि हूं॥
ओं पद्मरति।
ओं पद्मतुष्टि॥

वज्रवेगेन चाक्रम्य द्वितीये मण्डले तथा।
बुद्धाभिषेका समालेख्या जटामध्ये महाम्बुजं॥१॥
तस्य पार्श्वेषु सर्वेषु यथावदनुपूर्वशः।
पद्मचिन्हसमोपेताः समयाग्र्यो निवेशयेत्॥२॥

तत्रासां हृदयानि भवन्ति।
श्रीः॥
ओं भृकुटि तटि वेतटि पद्मे हूं॥
ओं पद्मज्वाले हूं॥
ओं सोमिनि पद्मे हूं॥
ओं पद्महासिनि एकादशवक्त्रे दिरि दिरि ईट्टे वट्टे चले प्रचले कुसुमधरे इलि प्रविश सिद्धिं मे प्रयच्छ हूं॥

वज्रवेगेन चाक्रम्य तृतीयं मण्डलं तथा।
तत्र मध्ये सुपद्मे तु पद्ममुद्रां निवेशयेत्॥१॥
तथैव सर्वपार्श्वेषु यथावदनुपूर्वशः।
पद्मचिन्हसमोपेताः पद्मसंस्थास्तु संलिखेत्॥२॥

तत्रासां मुद्रा भवन्ति।
धीः॥
ओं तारे तुत्तारे हूं॥
ओं धी हूं॥
ओं पद्मचक्रगदाधारिणि नीलकण्ठे सिध्य सिध्य हुं॥]
ओं पण्डरवासिनिं पद्मसंभवे वद वद हूं॥

वज्रवेगेन चाक्रम्य चतुष्ठे मण्डलोत्तमे।
पद्ममध्ये लिखेत्पद्मं ज्वालमालाकुलप्रभं॥१॥
तस्य पार्श्वेषु सर्वेषु यथावदनुपूर्वशः।
पद्मचिन्हाः समालेख्याः पद्ममध्यप्रतिष्ठिताः॥२॥

तत्रासां मुद्रा भवन्ति।
स्त्रीः॥
ओं पद्मनर्तेश्वरि पूजय सर्वतथागतान् नट्ट नट्ट हूं।
ओं अभये पद्मकवचबन्धे रक्ष मां हूं हं॥
ओं महाप्रचण्डि पद्मयक्षिणि विश्वरूपधारिणि भीषापय सर्वदुष्टान् खाद खाद् हुं फट्॥
ओं पद्ममुष्टि अः मुः॥

वज्रवेगेन चाक्रम्य बुद्धपूजाः समालिखेत्।
पद्माङ्कुश्यादयो मुद्राः पद्मचिन्हः समासतः॥ इति॥

अथासां मुद्रा भवन्ति।
ओं पद्मरतिपूजे होः॥
ओं पद्माभिषेकपूजे रट्॥
ओं पद्मगीतपूजे गीः॥
ओं पद्मनृत्यपूजे कृट्॥
ओं धूपपद्मिनि हुं॥
ओं पद्मपुष्पि हूं॥
ओं पद्मकुलसुन्दरि धर्मालोके पूजय हूं॥
ओं पद्मगन्धे हूं॥

पूजादेव्यः।
ओं पद्माङ्कुश्याकर्षय महापद्मकुलान् हयग्रीवसमये हुं जः॥
ओं अमोघपाशक्रोधसमये प्रविश प्रवेशय सर्वसमयान् हूं॥
ओं पद्मशङ्कले वं॥
ओं पद्मघण्टाधारि शीघ्रमावेशय समयान् षण्मुखि अः॥

अथात्र मुद्रामण्डले आकर्षणादिविधिविस्तरं कृत्वा, पद्मशिष्यान् यथावत् [प्रवेश्य,] एवंवदेन् “न त्वया कस्यचिद् वक्तव्यं यदत्र गुह्यं, मा ते नरकपतनं भवेत्, दुःखानि चात्रजन्मनि-” ति।

ततः समावेश्यैवं वदेत्। “[ते चक्षुःपथे] कीदृशोऽवभासः ? तद्यथा वदति तथा सिद्धिर्” इति। “तद्यदि श्वेतालोकं पश्येत् तस्योत्तमसिद्धिज्ञानं शिक्षयेत्। अथ पीतं पश्येत् तस्यार्थोत्पत्तिज्ञानं शिक्षयेत्। अथ रक्तं पश्येत् ततोऽनुरागणज्ञानं शिक्षयेत्। अथ कृष्णं पश्येत् ततोऽभिचारकज्ञानं शिक्षयेत्। अथ विचित्रं पश्येत् ततः सर्वसिद्धिज्ञानं शिक्षयेद्” इति ज्ञात्वा, यथावन्मुखबन्धं मुक्त्वा, यथाभाजनतया ज्ञानान्युत्पादयेत्। मुद्राज्ञानं च शिक्षयेत्।

एवं वज्रधात्वादिष्वपि सर्वमण्डलेषु यथाभाजनतया मुद्राज्ञानानि शिक्षयेदिंयं परीक्षा॥

Four Jnana
अथोत्तमसिद्धिनिष्पत्तिज्ञानं भवति।
लोकेश्वरमहासत्वं विश्वरूपं स्वमात्मना।
भावयंस्तु महामुद्रामग्र्यां सिद्धिमवाप्नुयात्॥१॥
बुद्धाभिषेकसमयां दृढीकृत्वा समाहितः।
भावयंस्तु स्वमात्मानमग्र्यां सिद्धिमवाप्नुते॥२॥
पद्मपद्ममहासत्वं भावयेत् स्वयमात्मना।
आत्मानमुत्तमां सिद्धिं प्राप्नोति सुसमाहितः॥३॥
अमोघेश्वरमयीङ्कर्ममुद्रां स्वयम्भुवः।
साधयन् विधिवच्छीघ्रमग्र्यां सिद्धिमवाप्नुयाद्॥४॥ इति॥

अथैषां हृदयानि भवन्ति।
ओं पद्मसत्वोऽहं सिध्य होः॥
ओं बुद्धाभिषेकोऽहं सिध्य मां॥
ओं धर्मसमाधिरहं सिध्य होः॥
ओं अमोघेश्वरोऽहं सिध्य मां॥

ततोऽर्थनिष्पत्तिज्ञानं भवति।
हिरण्यं तु मुखे विध्वा भावयेत्स्वयमात्मना।
विश्वेश्वरमहामुद्रामेकं भूयात्सहस्रशः॥१॥
सुवर्णतोलकं गृह्य समयाग्र्या महादृढं।
भाव[यन् स्व]यमात्मानमेको भूयात्सहस्रशः॥२॥
मुक्ताफलं मुखे विध्वा भावयेत्स्वयमात्मना।
लोकेश्वरं स्वमात्मानमेको भूयात्सहस्रशः॥३॥
सर्वरत्नानि संगृह्य पाणिभ्यां कर्ममुद्रया।
भावयन् स्वयमात्मानमेको भूयात्सहस्रश॥ इति॥४॥

तत्रैषां हृदयानि भवन्ति।
ओं पद्महिरण्यप्रद हुं ज्जः॥
ओं पद्मसुवर्णप्रद हुं ज्जः॥
ओं पद्ममुक्ताप्रद हुं ज्जः॥
ओं पद्मसर्वरत्नप्रद हुं ज्जः॥

अथानुरागणज्ञानं भवति।
विश्वेश्वरमहामुद्रां भावयन् स्वयमात्मना।
पद्मं गृह्य पुरः स्थाति यस्य सोऽस्यानुरज्यति॥१॥
रक्तपद्मं दृढं गृह्य महासमयमुद्रया।
भावयन् स्वयमात्मानं रागयेत्सर्वयोषितः॥२॥
भावयेत्स्वयमात्मानं पद्मं गुह्य यथा तथा।
निरीक्षेद् वज्रदृष्ट्या वै सर्वलोकं स रागयेत्॥३॥
कर्ममुद्राप्रयोगेण पद्मं गृह्य यथाविधि।
कराभ्यां भ्रामयन् तन्तु रागयेत् सर्वयोषित॥ इति॥४॥

तत्रैषां हृदयानि भवन्ति।
ओं विश्वेश्वर महापद्म होः॥
ओं समयपद्म होः॥
ओं योगपद्म होः॥
ओं कर्मपद्म होः॥

अथाभिचारज्ञानं भवति।
विश्वेश्वरमहामुद्रां भावयन् आत्मना।
च्छिन्देद्यस्य पुरःपद्मं तस्य मृत्युः क्षणाद्भवेत्॥१॥
पद्मं गृह्य दृढं सम्यक् समयाग्र्या तयैव हि।
स्फोटयेत् तन्तु सुदृढं यस्य नाम्ना स नश्यति॥२॥
समाधिमुद्रां सन्धाय पद्मं गुह्य यथा तथा।
यस्य नाम्ना तु पद्मं वै च्छिन्देत्स तु विनश्यति॥३॥
कर्ममुद्राप्रयोगेण पद्मं गृह्य यथाविधि।
स्फोटयेद्यस्य संक्रुद्धः स्फुटेत्तस्य तु जीवितम्॥ इति॥४॥

तत्रैषां हृदयानि भवन्ति।
ओं महापद्म च्छेद मारय होः फट्॥
ओं समयपद्म स्फोट नाशय रट् फट्॥
ओं धर्मपद्म च्छेद विनाशय धृट् फट्॥
ओं कर्मपद्म स्फोट स्फोटय जीवितमस्य कृट् फट्॥

Mudra
ततो धर्मसमयरहस्यमुद्राज्ञानं भवति।
पद्मं तु योषितां चिन्त्य वज्रन्तस्योपरि स्वयं।
रामयन् वज्रपद्माग्र्या समापत्त्या तु सिध्यति॥१॥
पद्मं तु योषितां चिन्त्य बुद्धन्तस्योपरि स्वयं।
रामयन् बुद्धमुकुटां भावयन् सोऽस्य सिध्यति॥२॥
पद्मं तु योषितां चिन्त्य पद्मं तस्योपरि स्वयं।
रामयन् पद्मपद्माग्री शुद्धां सिद्धिमवाप्नुते॥३॥
पद्मं तु योषितां चिन्त्य विश्वन्तस्योपरि स्वयं।
रामयन् विश्वपद्याग्री विश्वां सिद्धिमवाप्नुयाद्॥ इति॥४॥

तत्रैषां हृदयानि भवन्ति।
ओं वज्रपद्म संयोग साधय ह्रीः॥
ओं बुद्धमुकुट संयोग साधय श्रीः॥
ओं पद्म-पद्म संयोग साधय धीः॥
ओं विश्वपद्म संयोग साधय स्त्रीः॥

ततो यथावत् पद्मकुलगुह्यमहामुद्राज्ञानं भवति।
कुड्मलाञ्जलिरग्रस्य वज्रक्रोधाङ्गुली द्विके।
द्वयग्रा मणिस्तथा पद्मं वज्रबन्धन्तथैव॥१॥
वज्रबन्धां समानीय सममध्याङ्कुरो स्थितो।
तर्जन्यानामसंकोचा मुद्रा शाक्यमुनेर्दृढा॥२॥
धर्मवज्रा हृदिस्था तु परिवर्त्य ललाटगा।
समाधियोगा चोत्सङ्गे परिवर्त्य तु मूर्धगा॥३॥
वज्रधात्वीश्वरीम्बध्वा चैत्यं पद्मप्रयोगतः।
संधयेन्मध्यमाभ्यां तु बुद्धपद्मेति कीर्तिता॥४॥
सा एवाङ्गुष्ठवज्रा तु द्व्यग्रखड्गाङ्कुशी तथा।
पद्वज्रधरस्यैता गुह्यमुद्राः प्रकीर्तिताः॥५॥
सा एवाङ्गुष्ठमुक्ता तु तर्जन्या तर्जनीग्रहा।
वलिता सुरतिः प्रोक्ता साधुकार्या तथैव च॥६॥
वज्रबन्धं दृढीकृत्य समाङ्गुष्ठप्रवेशिता।
कुञ्चिताग्र्यमुखस्था तु भृकुट्यां मध्यपद्मिनी॥७॥
सा एव हृदये चैव सूर्यमण्डलदर्शिका।
ध्वजबन्धेन सा एव शिरःपृष्ठे प्रसारिता॥८॥
वज्रबन्धं दृढीकृत्य कुञ्चिताग्र्याग्रविग्रहा।
तथैव पद्मखड्गा तु पद्मयोगाग्र्यसन्धनात्॥९॥
वज्रबन्धं दृढिकृत्य वामाङ्गुष्ठप्रवेशनात्।
शङ्खमङ्गुष्ठदण्डोत्थाङ्गुल्यग्रोत्थान्त्यपद्मिनी॥१०॥
सा एव सर्वसंकोचा कनिष्ठा पद्मसंयुता।
अक्षमालाग्रगणनी दक्षिणाङ्गुष्ठयोगतः॥११॥
वज्रबन्धं दृढीकृत्य कनिष्ठा पद्मसंयुता।
समाग्र्या पद्मनेत्रा तु प्रनर्तन् परिवर्तिता॥१२॥
वज्रबन्धं दृढीकृत्य कनिष्ठा पद्मसंयुता।
कुञ्चिता[ग्र्यं पीडयन्तु] द्वयङ्गुष्ठकवचीकृते-॥ति॥१३॥
सा एवाङ्गुष्ठदंष्ट्रा तु समाङ्गुष्ठप्रवेशिता।
अतः परं प्रवक्ष्यामि समयाग्र्यो निरुत्तराः॥१४॥
वज्रबन्धन्तले कृत्वा तर्जनीपद्मसन्धिता।
अङ्गुष्ठा बन्धपर्यङ्का गुह्यविश्वेश्वरी स्मृता॥१५॥
तथैव वज्रबन्धेन कनिष्ठा मध्यसन्धिता।
अङ्गुष्ठमुखयोर्वज्रन् पट्टमध्ये तथागतं॥१६॥
तथैव वज्रबन्धे तु पद्ममङ्गुष्ठसन्धितं।
कृत्वा तु मुखतोद्धान्तं स्थितोत्सङ्गे समाधिना॥१७॥
तथैव वज्रबन्धे तु मुखतः समसन्धिता।
सर्वाङ्गुल्या दृढीकृत्य तर्जनी वज्रसंयुता॥१८॥
तथैव वज्रबन्धे तु तर्जनी पद्मसन्धिता।
अङ्गुष्ठा बन्धपर्यङ्का मध्यसंकोचविग्रहा॥१९॥
तथैव वज्रबन्धे तु वज्रमङ्गुष्ठसन्धिता।
खड्गाङ्कुशी तथग्राभ्यां कनिष्ठा पद्मसंयुता॥२०॥
तथैव वलितां कृत्वा तर्जन्यङ्गुष्ठसंग्रहां।
उत्थितान् तर्जनीं वामां कर्षयेत् सुदृढन्तथा॥२१॥
सा एव तु समीकृत्वा तर्जन्यङ्गुष्ठयोगतः।
साधुकारप्रदात्री तु पद्मतुष्टेर्महात्मनः॥२२॥
तथैव वज्रबन्धं तु सर्वाग्रमुखसन्धितं।
द्वयङ्गुष्ठमुखपीडन्तु समाग्र्या सन्निवेशितं॥२३॥
सा एव हृदि सूर्या तु मूर्ध्नि पद्मध्वजीकृता।
परिवर्त्य च हासा तु स्थिता पद्माट्टहासिनी॥२४॥
वज्रवन्धन्तले कृत्वा धर्मवज्राग्रयोगतः।
कनिष्ठाङ्ग ष्ठसन्धी तु तारायाः समयो ह्ययं॥२५॥
तथैव वज्रबन्धे तु ज्येष्ठाभ्यां खड्गपद्मिनी।
तलचक्रा तथैवेह जापदात्री तथैव च॥२६॥
तथैव वज्रबन्धा तु खटकद्वयमोक्षिता।
पुनश्च हृदये बन्धे गुह्यरक्षेति कीर्तिता॥२७॥
तथैव वज्रबन्धे तु कनिष्ठा पद्मसंयुता।
तर्जनी दृढसंकोचा विकचाङ्गुष्ठदंष्ट्रिणी॥२८॥
सा एव मुष्टियोगेन द्वयङ्गुष्ठमुखपीडिता।
पद्मगुह्यमहामुष्टि समयाग्री प्रकीर्तिता॥२९॥
सर्वासामेव चान्यासां पद्मलास्यादिसंज्ञिनां।
वज्रबन्धं तले कृत्वाबन्धस्तादृश एव ही-॥३०॥ति॥

ततः पद्मकुलगुह्यधर्ममुद्रा भवन्ति।
ह्राः। ग्रा। प्रा। हा। स्र। सा। दः। हः।
गा। धा। क्रा। वा। व। रा। ष्ट्र। मः।

कर्ममुद्राः समासेन मुष्टिरेव द्विधीकृते-॥ति॥

सर्वतथागतधर्मसमयान् महाकल्पराजात् पद्मगुह्यमुद्रामण्डलविधिविस्तरः परिसमाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project