Digital Sanskrit Buddhist Canon

पञ्चदशमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Pañcadaśamaḥ
CHAPTER 15

EPILOGUE OF THE SARVA-TATHAGATA-VAJRA-SAMAYA
NAMA MAHA-KALPA-RAJA

अथ वज्रपाणिः सर्ववज्रकुलान् सर्वसत्त्वार्थं [स्थित्वा] यावन् सन्नियोज्यावैवर्तिकभूमौ प्रतिष्ठाप्य, जानन्नेव भगवन्तमेतदभाषत्। “अहं भगवद्भिः सर्वतथागतैस्तव गुह्यधारित्वेऽभिषिक्तः। [यदा]ज्ञापयस्व किन्तत् तथागतगुह्यम्!” इति॥

अथ भगवान् सर्वतथागतगुह्यवज्रं नाम समाधिं समापद्येदं [सर्वतथागतगुह्यमभाषत्।
यथा यथा हि विनयाः सर्वसत्वाः] स्वभावतः।
तथा तथा हि सत्वार्थं कुर्याद्रागादिभिः शुचिः॥

अथ वज्रपाणिरिदं स्वगुह्यतामभाषत्।
[सर्वसत्वहितार्थाय बुद्धशासनहेतुतः।]
मारयेत्सर्वसत्वास्तु न स पापेन लिप्यते॥

अथ वज्रगर्भो बोधिसत्व इदं स्वमणिगुह्यमभाषत्।
सर्वसत्वहिता[र्थाय बुद्धकायप्र]योगतः॥
हरस्तु सर्वचिन्तानि न स पापेन लिप्यते॥

अथ वज्रनेत्रो बोधिसत्व इदं स्वधर्मगुह्यमभाषत्।
रागशुद्धः सुखा[समः जिनगोचरदानतः।]
सहाय परदारा निषेवे स पुण्यमाप्नुते॥

अथ वज्रविश्वो बोधिसत्व इदं स्वकर्मगुह्यमभाषत्।
सर्वसत्वहितार्थाय बुद्धशासनहेतुतः।
सर्वकर्माणि कुर्वन् वं स बहुपुण्यमाप्नुते॥ इति॥

अथ भगवान् वैरोचनस्तथागतो भगवते गुह्यधारि[णे वज्र]धराय साधुकारैरभिष्टवेत्॥
साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते।
वज्रधर्माय ते साधु साधु ते वज्रकर्मणे॥
सुभाषितमिदं सूत्रं वज्रयानमनुत्तरम्।
सर्वतथागतं गुह्यं महायानाभिसंग्रहम्॥ इति॥

सर्वतथागतत्वसंग्रहात् सर्वतथागतवज्रसमयो नाम महाकल्पराजः परिसमाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project