Digital Sanskrit Buddhist Canon

चतुर्दशमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Caturdaśamaḥ
CHAPTER 14

SARVA-VAJRA-KULA-KARMA-MANDALA-VIDHI-VISTARA

अथ भगवान् पुनरपि सर्वतथागतकर्मसमयोद्भववज्राधिष्ठानन्नाम समाधिं समापद्येमां स्ववि[द्योत्तमामभाषत्। ओं वज्र] कर्मप्रवर्तनि समये हूं॥

अथ वज्रपाणिः पुनरपि स्वकर्मोत्तममभाषत् [ओं वज्रविलासे पूजय हूं॥]
अथ वजगर्भः स्वकर्मोत्तममभाषत् ओं वज्राभिषेकेऽभिषिञ्चे हूं॥
अथ वज्रनेत्रः स्वकर्मोत्तममभाष[त् ओं वज्रगीते गाहि हूं॥]
अथ वज्रविश्वो बोधिसत्वः स्वकर्मविद्योत्तममभाषत् ओं वज्रनृत्ये नृत्य हूं॥
अथ वज्रविद्योत्तम [इमां स्वकर्मसमयामभाषत्] ओं वज्रविद्योत्तम नृत्य नृत्य विकुर्व विकुर्व हुं फट्॥
अथ वज्रक्रोधवज्राग्नि महादेवीमां स्वकर्मसम[यामभाषत् ओं वज्रक्रोध] वज्राग्ने ज्वालय त्रिशूलं भिन्द हृदयं वज्रेण हूं फट्॥

अथ वज्रहेमा महादेवीमां स्वकर्मसंमयामभाषत्[ओं वज्रहेमे च्छिन्द चक्रेण] वज्रिणि हूं फट्॥
अथ वज्रकौमारीमां स्वकर्मसमयामभाषत् ओं वज्रकौमारी शीघ्रमावेशय घण्[टाशब्देन] वज्रपाणिप्रिये वज्रसमयमनुस्मर रण रण हूं फट्॥

अथ वज्रशान्तिर्महादेवीमां स्वकर्मसमयामभाषत् ओं वज्रशा[न्त जप ज]पाक्षमालया सर्वान् मारय शान्त दृष्ट्या हूं फट्।

अथ वज्रमुष्टिर्महादेवीमां स्वकर्मसमयामभाषत् ओं वज्रमुष्टि [हन हन] वज्रेण भिन्द भिन्द पीडय पीडय सर्वदुष्टहृदयानि ओं सुंभ निसुंभ हूं फट्॥
विद्याराजनिकाः॥

अथ [वज्रामृतक्रोधा इमां स्वकर्मसमयामभाषत् ओं वज्रामृते सर्वदुष्टान् गृह्ण बन्ध हन पच विध्वंसय विनाशय भिन्द च्छिन्द भस्मीकुरु मूर्धन्तानुय [वज्रेण ये केतु-मममुकस्य] विध्नविनायकास्तान् दामय दीप्तक्रोधवज्रिणि हूं फट्॥

अथ वज्रकान्तिः स्वकर्मसमयामभाषत् ओं वज्रकान्ति मा[रय सौम्य-रूपे प्र]दीप्तरागेण शीघ्रं स्फोटय हृदयं वज्रधरसत्येन महाज्योत्स्नाकराले शीतरश्मिवज्रिणि हूं फट्॥

अथ वज्रदण्डाग्रा स्वकर्मस[मयामभाषत्] ओं वज्रदण्डाग्रे घातय हुं फट्॥

अथ वज्रमेखला महाक्रोधा इमां स्वकर्मसमयामभाषत् ओं वज्रमेखले ख[न खन शब्देन वशीकु]रु दुष्ट्या मारय भीषणि हूं फट्॥

क्रोधविद्याः॥

अथवज्रविलया स्वकर्मसमयामभाषत् ओं वज्रवि[लये च्छिन्द सिन भिन्द व]ज्रिणी मादयोन्मादय पिव पिव हूं फट्॥

अथ वज्राशना स्वकर्मसमयामभाषत् ओं वज्राशने भ[क्षय सर्वदुष्टान् वज्रदशनि शक्तिधारि]णि मानुषमांसाहारे नररुचिराशुभप्रिये मज्जवसानुलेपनविलिप्तगात्रे आनय सर्वधनधान्यहिरण्यसुव[र्णादीनि संक्रामय बलदेवरक्षि]णि हूं फट्॥

अथ वज्रवसना स्वकर्मसमयमभाषत् ओं वज्रवसने आनय सर्ववस्त्रान्नपानाद्यु प[करणानि शीघ्रं वशीकुरु एनं] मे प्रयच्छाविशाविश सत्यं कथय वज्रकोशधारिणि हूं फट्।

अथ वज्रवशी स्वकर्मसमयामभाषत् ओं [वज्रवशी आनय वशीकुरु सर्वस्त्रिय] सर्वपुरुषान् दासीकुरु ऋद्धान् प्रसादय व्यवहारेभ्योऽप्युत्तारय विजयकरि वज्रपताकाधारिणि हुं [फट्॥

वज्रगणिकाः॥

अथ वज्र] दूतीमां स्वकर्मसमयामभाषत् ओं वज्रदूति आनय सर्वान् मण्डलं प्रवेशयावेशय बन्धय सर्वकर्मा[णि मे कुरु शीघ्रं शीघ्रं लघु लघु] त्रासय मारय रावेण वज्रखङ्गधारिणि हुं फट्॥

अथ वेगवज्रिणि स्वकर्मसमयामभाषत् ओं वेगवज्रिणी घु घु] घु घु शब्देन मारय विकिर विध्वंसय वज्रपटधारिणि हुं फट्॥

अथ वज्रज्वाला स्वकर्मसमयामभाषत् ओं वज्रज्वालय स]र्वं वज्र ज्वालय दह दह भस्मीकुरु हुं फट्॥

अथ वज्रविकटा स्वकर्मसमयामभाषत् ओं वज्रविकटे प्रविकट[दंष्ट्राकरालभीषण]वक्ते शीघ्रं गृह्णावेशय भक्षय रुधिरं पिव महायक्षिणि वज्रपाशधारिणि हुं फट्॥
वज्रदूत्य॥

अथ वज्रमु[खी वज्रचेटी स्व]कर्मसमयामभाषात् ओं वज्रमुखि आनय वज्रदंष्ट्रि भयानिके पातालनिवासिनि खन खन खाहि खाहि सर्व मुखे [प्रवेशय स्फोट]य मर्माणि सर्वदुष्टानां वज्रनिशितासिधारिणि हुं फट्॥

अथ वज्रकाली स्वकर्मसमयामभाषत् ओं वज्रकालि [महाप्रेत]रूपिणि मानुषमांसरुधिरप्रिये एह्येहि गृह्ण गृह्ण भक्षय वज्रडाकिनि वज्रशङ्कले सर्वदेवगणमातृभूते हर हर [प्राणानमुकस्य] कपालमालालंङ्कृतसर्वकाये किं चिरायसि वज्रखट्वाङ्गधारिणि प्रेतमानुषशरीरे शीघ्रमावेशय प्रवेशय बन्ध[य वशीकुरु मारय वज्रराक्षसि हूं हूं हूं हूं फट्॥]

अथ वज्रपूतना स्वकर्मसमयामभाषत् अथ वज्रपूतने मानुषमांसवसारुधिरमूत्रपुरीषश्लेष्मसिंघाणकरे[तो गर्भकरिण्य याहि] शीघ्रमिदमस्य कुरु वज्रशोधनिकाधारिणि सर्वकर्माणि मे कुरु हुं फट्॥

अथ वज्रमकरीमां स्वकर्मसमयामभाषत् [ओं वज्रमकरि ग्र]स ग्रस शीघ्रं शीघ्रं प्रवेशय पातालं भक्षय वज्रमकरधारिणि हुं फट्॥
वज्रचेट्यः॥

Delineation of the mandala
अथ वज्रपाणिः पुनरपीदं सर्ववज्रकुलकर्ममण्डल[मभाषत्॥
अ]थातः संप्रवक्ष्यामि कर्ममण्डलमुत्तमम्।
वज्रमण्डलयोगेन सूत्रयेत् सर्वमण्डलम्॥१॥
मण्डलाग्राणि सर्वाणि बुद्धमध्यस्थितानि [वै।
अनुपूर्वेण प]ङ्क् त्या वै महासत्वान्निवेशयेत्॥२॥
तस्य मध्ये सपत्नीकं वज्रविद्योत्तमं स्वयम्।
वज्रलास्यदिभिर्गुह्यनृत्यपूजाभिरर्चयेत्॥३॥
[तत्र देवी यथाक्रमं] चक्रमण्डलयोगतः।
स्वमुद्राप्रतिमुद्राभिर्नृत्यमानास्तु संलिखेत्॥४॥
पूजार्थ बुद्धवज्रिभ्यां वज्रनृत्यप्रयोगतः।
[चतुरश्रद्वारेषु वै यथाक्रमं धू]पादिकम्॥ इति॥५॥

Mudra
अथात्र कर्ममण्डले समाकर्षणादिकर्म कृत्वा, यथावद् वज्रधारिकर्मसमयमुद्रां बध्वैवं वदेत् [“न त्वया कस्यचिददृष्टदेवकुलस्या]ज्ञातकर्मस्येदं गुह्यकर्म वक्तव्यं, मा ते समयो व्यथेद् !” इति उक्त्वा, वज्राचार्यः स्वकर्मवज्रधारिसमयमुद्रां बन्धयेत्; क्रोधदृष्ट्या निरीक्षन्निदमुत्तारयेत् ओं वज्रधार्यावेशय प्रवेशय नृत्यापय सर्वकर्मसिद्धिं प्रयच्छ हुं अ हूं अ ल ल ल ल वज्रि॥

ततः स्वयमाविश्य प्रविशेति, मुद्राप्रतिमुद्राभिर्नृत्योपहारपूजां करोति। ततः प्रभृति सर्वकर्माणि कायवाग्दृष्टिमनोवज्रमुद्राभिरीप्सितेन करोति।

ततो मुखबन्धं मुक्त्वा, नृत्योपहारमुद्राज्ञानं शिक्षयेत्।
बुद्धवज्रधरादीनां स्मयाग्र्यो द्विधीकृताः।
वज्रलास्यादिपूजां तु वज्रविद्योत्तमस्य वै॥१॥
सर्वासां चैव विद्यानां यथावदनुपूर्वशः।
नृत्योपहारपूजाभिः पूजयेत्कर्ममण्डलं॥२॥
वज्रनृत्यप्रयोगेण महामुद्रास्तु संक्षिपेत्।
समयाग्र्य द्विधीकृत्य प्रतिमुद्राभिमोक्षयेत्॥३॥
आभिर्नृत्योपहारेण पूजयं सर्वनायकान्।
महावज्रधरादिश्च कर्मसिद्धि भवेद् ध्रुवम्॥४॥ इति॥

सर्वतथागतवज्रसमयान्महाकल्पराजात् सर्ववज्रकुलकर्ममण्डलविधिविस्तरः परिसमाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project