Digital Sanskrit Buddhist Canon

द्वादशमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Dvādaśamaḥ
CHAPTER 12

SARVA-VAJRA-KULA-VAJRA-MANDALA-VIDHI-VISTARA

Emanation of deities from samadhi
अथ भगवान् पुनरपि सर्वतथागतवज्रधारणीसमयसंभवाधिष्ठानन्नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं वज्रसावित्रे स्वाहा॥

अथ वज्रापाणिर्महाबोधिसत्वः पुनरपीमं स्वविद्योत्तमामभाषत् ओं वज्रधारि हूं॥ वज्रविक्रमे हूं फट्॥
अथ वज्रगर्भो बोधिसत्त्वो महासत्व इमां स्वविद्योत्तमामभाषत् ओं वज्ररत्नगोत्रे स्वाहा॥
अथ वज्रनेत्रो बोधिसत्वो महासत्व इमां स्वविद्योत्तमामभाषत् ओं वज्रपद्मनेत्रे हूं फट्॥
अथ वज्रविश्वो बोधिसत्वो महासत्व इमां स्वविद्योत्तमामभाषत् ओं वज्रकर्मकरि हूं॥
अथ वज्रविद्योत्तमो बोधिसत्त्व इमां स्वविद्योत्तमामभाषत् ओं वज्रशूलाग्रे स्वाहा॥
अथ वज्रमायो विद्याराज इमां स्वमुद्रामभाषत् ओं वज्रचक्रे हूं॥
वज्रघण्टोवाच ओं वज्रघण्टिके हूं॥
मौनवज्रोवाच ओं वज्रदण्डकाष्ठे हूं॥
वज्रायुधोवाच ओं वज्रे हूं॥
विद्याराजसमयमुद्राः॥

अथ वज्रकुण्डलिर्वज्रक्रोध इमां समयमुद्रामभाषत् ओं ज्वालावज्रे हूं॥
अथ वज्रप्रभ उवाच ओं वज्रसौम्ये हूं॥
वज्रदण्डोवाच ओं वज्रदण्डे हूं॥
वज्रपिङ्गलोवाच ओं वज्रभीषणे हूं॥
वज्रक्रोधसमयमुद्राः॥

अथ वज्रशौण्डः स्वसमयमुद्रामभाषत् ओं वज्रमेद हूं॥
वज्रमालोवाच ओं वज्रमाले हूं॥
वज्रवश्युवाच ओं वज्रवशे हूं॥
विजयवज्रोवाच ओं वज्रापराजिते हूं॥
वज्रगणपतिसमयमुद्राः॥

अथ वज्रमुसलः स्वसमयमुद्रामुदाजहार ओं वज्रमुसल-ग्रहे हूं॥
वज्रानिलोवाच ओं वज्रपटे हूं॥
वज्रानलोवाच ओं वज्रज्वाले हूं॥
वज्रभैरवोवाच ओं वज्रग्रहे हूं॥
वज्रदूतसमयमुद्राः॥

अथ वज्राङ्कुशोवाच ओं वज्रदंष्ट्रे हूं॥
वज्राकालोवाच ओं वज्रमारणि हूं॥
वज्रविनायकोवाच ओं वज्रविघ्ने हूं॥
नागवज्रोवाच ओं वज्रहारिणि हूं॥
वज्रचेटसमयमुद्राः॥

Delineation of the mandala
अथ वज्रपाणिः पुनरपीदं सर्ववज्रकुलवज्रमण्डलमभाषत्।
अथातः संप्रवक्ष्यामि वज्रमण्डलमुत्तमं।
चतुरश्रमुत्तरद्वारं सूत्रयेद् बाह्यमण्डलं॥१॥
तस्याभ्यन्तरतस्तत्र पूर्वद्वारन्तथैव च।
तस्य मध्ये यथायोगं बुद्धबिम्बन्निवेशयेत्॥२॥
त्रिलोकविजयाद्यास्तु चतस्रस्तस्य सर्वतः।
मण्डलस्य तथा श्रेष्ठ वज्रमुद्राः समालिखेत्॥३॥
तासां सर्वेषु पार्श्वेषु कुलमुद्राः समालिखेत्।
वज्रशौण्डादयश्चैव चत्वारो द्वाररक्षकाः॥४॥
भीमां श्रियं सरस्वतीं दुर्गां कोणेषु वामतः।
बाह्यकोणेषु मुद्रा वै आसामेव तु संलिखेत्॥५॥
बाह्यमण्डलेषु पुनर्यथावद्देवीः संलिखेत्।
अतः परं प्रवक्ष्यामि यथावद्विधिविस्तरम्॥ इति॥६॥

Initiation into the mandala
अथत्र वज्रमण्डले यथाकामकरणीयतया वज्राङ्कु शादिभिः समयकर्म कृत्वा, वज्रधारिमुद्रां यथावद् बध्वा, ब्रूयान् “न कस्यचित्त्वया अदृष्टसमयस्तैताः समयमुद्राः पुरतो वक्तव्याः, न च रहस्यभेदः कर्तव्यः॥”॥

ततस्तत्कर्मवज्रं वज्रधारिमुद्रायामुपरि स्थाप्य, यथावत्प्रवेशयेत्। प्रवेश्य तद्वज्रं तथैव क्षिपेत्। यत्र पतति सास्य समयमुद्रा वश्य भवति आ॥ तया सर्वकर्माणि करोति॥

ततो मुखबन्धं मुक्त्वा, मण्डलं यथावद् दर्शयित्वा, समयमुद्रारहस्यं ब्रूयात्।
एताः समयमुद्रास्ते सर्वकर्मकराः शुभाः।
मातरश्च भगिन्यश्च भार्या दुहितरोऽनुगा॥ इति॥

तत्रास्या हृदयं भवति ओं सर्ववज्रगामिनि सर्वभक्षे साधय गुह्यवज्रिणि हूं फट्॥
“अनया सकृज्जप्तया सर्वस्त्रियो वशीकृत्योपभोक्तव्याः, अधर्मो न भवति। यथाभिरुचित्तश्च सर्वभुज्त्व साध्याः। ततः सर्वशुद्धिचित्ततामवेत्य, सर्वमुद्रामनसोत्तमान्यपि सर्वकर्माणि कुर्वन्ती” त्याह भगवान् वज्रधरः॥

Mudra
अतः समयमुद्राः शिक्षयितव्याः॥
समयक्रोधाङ्गुली मूर्ध्नि हृदये वज्रदृढीकृता।
मुखोर्णा च मुखोद्धान्ता मूर्ध्नि स्थाप्य द्विधिकृते॥ति॥१॥
वामवज्राग्रबन्धेन त्रिशूलाङ्गन्तु पीडयेत्।
अनया बन्धया सम्यक् सिध्येद् विद्योत्तमः स्वयम्॥२॥
सर्ववज्रकुलानां तु वामवज्राग्रसंग्रहम्।
मुद्राबन्धं प्रवक्ष्यामि समयानां यथाविधि॥३॥
चक्रा सर्वाङ्गसंपीडा घण्टा मुद्रा तथैव च।
तथैवोङ्कारमुद्रा तु सिंहकर्णपरिग्रहा॥४॥
मुद्राराजनिकाः॥

ज्वाला परिग्रहा चैव प्रभा संग्रहमेव च।
दण्डमुष्टिग्रहा चैव मुखतः परिवर्तिता॥
क्रोधसमयाः॥

पानमुद्रा च माला च वज्रा च ष्टंभनामिता।
मूर्धस्था चैव गणिका मण्डलद्वारपालिकाः॥
गणिकासमयाः॥

बाहुंसंकोचचक्रा तु पृष्ठतः परिवर्तिता।
ज्वाला स्फुलिङ्गमोक्षा च विदारितमुखस्थिता॥
दूतीसमयाः॥

द्व्यन्तप्रवेशितमुखी पीड्य चैव प्रपातनी।
बाहुवेष्टनवेष्टा च सहसा हारिणी तथे॥ति॥
चेटीसमया॥

सर्वतथागतवज्रसमयान् महाकल्पराजात् सर्ववज्रकुलवज्रमण्डलविधिविस्तरः परिसमाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project