Digital Sanskrit Buddhist Canon

एकादशमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version ekādaśamaḥ
CHAPTER 11

TRILOKACAKRA-MAHA-MANDALA-VIDHI-VISTARA

अथ भगवन्तः सर्वतथागताः पुनरपि समाजमापद्य जानन्नेव वज्रपाणिं महाबोधिसत्वमेवमाहुः। “प्रतिपद्यस्व वत्स सर्वतथागताज्ञाकारितयै इमं महेश्वरकायमतः स्वपादतालात् मोक्षुम् !” इति। अथ भगवां वज्रपाणिस्तांस्तथागतानेवमाह। “अहं भगवद्भिः सर्वदुष्टदमकः क्रोध इत्यभिषिक्तः। तन्मयायं व्यापादितः, तत्कथमस्य मोक्षामी ?” ति।

अथ सर्वतथागता महेश्वरस्य सर्वत्रिलोकाधिपतेः शरीरस्य जीवितसंजननहेतोरिदं मृतविज्ञानाकर्षणहृदयं स्वहृदये [भ्यो निश्चरन्ति।] ओं वज्रसत्व हूं ज्जः॥

अथास्य मुद्राबन्धो भवति।
गुह्याङ्कुशी दृढीकृत्य समान्त्यासु प्रसारिता।
मृतस्य मूर्ध्नि सन्धाय [पुनर्जीवितं प्राप्स्यत॥ इति॥]

अथास्मिन् विनिःसृतमात्रे स भगवान् [भस्मेश्वरनिर्घोषस्] तथागतो भस्मच्छत्राया लोकधातोर् [आगम्य, तस्य] महेश्वर[स्य काये प्रविष्ट्वा, इदमुदानमुदानयामास।]

अहो हि सर्वबुद्धानां बुद्धाज्ञानमनुत्तरं।
यन्मृतोऽपि हि कायोऽयं जीवधातुत्वमागत॥ इति॥

[अथ वज्रपाणिर्] महाबोधिसत्व इदं पादोच्चारन्नाम हृदयमुदाजहार ओं वज्र मुः॥
अथास्य मुद्राबन्धो भवति।

वज्रक्रोधाङ्गुली[मुत्थापयित्वाग्रासङ्गं स्थिते।]
परिवर्त्य[द्वयोर्वज्रयोरधस्तात्समुद्धरेद्॥ इति॥]

अथास्मिन् भाषितमात्रे महावज्रधरपादमूलान् महादेवो [मुक्तयित्वा पुनः संजीवीकृतः।] अथ महेश्वर[कायं तेन तथागतेन सं]जीवमधिष्ठाय, स्वयौवराज्यतायामत्रैव लोकधातौ सर्वसत्व[हितार्थञ्च दुष्ट]विनयार्थं च प्रतिष्ठापितवानिति॥

अथ ततो वज्रपाणि चरणतलादिमां चन्द्रपादान्नाम सर्वतथागतबोधिचित्तमुद्रां [विनिःसृतः।] ओं चन्द्रोत्तरे समन्तभद्रकिरणी महावज्रिणि हूं॥

अथास्य मुद्राबन्धो भवति।
वज्रबन्धं दृढीकृत्य कनिष्ठाङ्गुष्ठ [समोत्था।
समोत्थित्वा सुसारिता चन्द्रप्रभेति] कीर्तिता॥

अथास्यां विनिःसृतमात्रायां तत एव पादतलाच् चन्द्रोत्तर एव तथागतो [निश्चचार, तस्य महेश्वरस्य शिरे वज्रपाणि पादावक्रान्ते तदर्धचन्द्रमूर्धनभिषिक्तो, वज्रपाणेर्वामपार्श्वे स्थितः। ततः] सर्वतथागतै [र्वज्रपाणेर्मित्रस्य पाणौ] वज्रशूलं दत्वा, वज्रविद्योत्तमो वज्रविद्योत्तम इति वज्रनामाभिषेकेणाभिषिक्तः॥

अथ वज्रविद्योत्तमो बोधिसत्त्वो [महासत्त्वश्च] तेन वज्रशूलेन चक्रपरिवर्तनगत्या नृत्योपहारपूजां कुर्वन्निदमुदानमुदानयामास।

अहो हि सर्वबुद्धानां बोधिचित्तमनुत्तरं।
यत्पादाग्रस्पर्शेनापि बुद्धत्वं प्राप्यते मया॥ इति॥

अथ वज्रपाणिर्महाबोधिसत्वः, ततो वज्रक्रोधसमाधेर्व्युत्थाय, भगवन्तमे[तां वाचमुवाच]। “अहं भगवं सर्वतथागतैर्वज्रं पाणिभ्यां दत्वा वज्रपाणित्वेनाभिषिक्तः॥ तदेषां देवादीनां बाह्यवज्रकुलानामस्मिं त्रिलोकविजयमहामण्डले स्थानविनियोगङ्करिष्यामि। येन ते सत्वा अवैवर्तिका भविष्यन्ति अनुत्तरायां सम्यक्संबोधाव्” इति॥

अथ भग[वान् वैरोचनस्] तथागतोऽर्हन् सम्यक्संबुद्ध इदं सर्वतथागतोष्णीषमुदाजहार ओं वज्रसत्वोष्णीष हुं फट्॥

अथास्मिन् भाषितमात्रे सर्वतथागतोष्णी[षेम्यो विनिःसृतो भगवद्वज्रपाणिविग्रहः, नाना]वर्णरश्मयो भूत्वा, सर्वलोकधातवोऽवभास्य, पुनरपि भगवतो वज्रपाणेर्मूधम् [अनुपरिवेष्टिताः, सर्वतथागतोष्णीषतेजोराशिं भूत्वा] स्थितः। अथ ततस्तेजोराशित इदं सर्वतथागतोष्णीषं निश्चचार। ओं नमस्सर्वतथाग[तोष्णीष] तेजोराशि अनवलोकितमूर्ध हूं ज्वाल धक विधक दर विदर हुं फट्॥

अथ वज्रपाणिर्बोधिसत्वो महासत्व इदं स्वविद्योत्तममुदा[जहार]ओं निसुंभ वज्र हुं फट्॥
ततः पुनरपि वज्रपाणिः स्वहृदयादिदं हृदयमुदाजहार ओं ट्टक्कि ज्जः॥
अथ वज्रगर्भो बोधिसत्वो महासत्व इदं स्वविद्योत्तममभाषत् ओं वज्र रत्नोत्तम ज्वालय हुं फट्॥
अथ वज्रनेत्रो बोधिसत्वो महासत्व इदं स्वविद्योत्तममभाषत् ओं स्वभावशुद्ध वज्रपद्म शोधय सर्वान् विद्योत्तम हुं फट्॥

अथ वज्रविश्वो बोधिसत्त्वो महासत्व इमं स्वविद्योत्तममभाषत् ओं वज्रकर्मोत्तम वज्रधर समयमनुस्मर सुंभनिसुंभाकर्षय प्रवेशयावेशय बन्धय समयं ग्रहय सर्वकर्माणि मे कुरु महासत्व हुं फट्॥

अथ वज्रविद्योत्तमो बोधिसत्वो महासत्व इदं स्वहृदयं भगवतो वज्रपाणेः पादवन्दनीयं निर्यातयामास ओं सुंभ निसुंभ वज्रविद्योत्तम हुं फट्॥

अथ क्रोधवज्रो विद्याराजो भगवतश्चरणयोर्निपत्येद स्वहृदयमदात् हुं वज्रशूल॥
अथ मायावज्रो विद्याराजेदं स्वहृदयमभाषत् ओं वज्रमाय विदर्शय सर्व हुं फट्॥
अथ वज्रघण्टो विद्याराजः स्वहृदयमदात् ओं वज्रघण्ट रण रण हुं फट्॥
अथ मौनवज्रः स्वहृदयमदात् ओं वज्रमौन महाव्रत हुं फट्॥
अथ वज्रायुधः स्वहृदयमदात् ओं वज्रायुध दामक हुं फट्॥
विद्याराजनकाः॥

अथ वज्रकुण्डलिर्वज्रक्रोधो भगवते वज्रपाणये इदं स्वहृदयं पादवन्दनीयं निर्यातयामास। ओं वज्रकुण्डलि महावज्रक्रोध गुह्ण हन दह पच विध्वंसय। वज्रेण मूर्धानं स्फालय भिन्द हृदयं वज्रक्रोध हुं फट्॥
अथ वज्रप्रभो वज्रक्रोध इदं स्वहृदयमदात्। ओं वज्रप्रभ मारय सौम्यक्रोध हुं फट्॥
अथ वज्रदण्डो वज्रक्रोधः स्वहृदयमदात्। ओं वज्रदण्ड तनुय सर्वदुष्टान् महाक्रोध हुं फट्॥
अथ वज्रपिङ्गलो वज्रक्रोध इदं स्वहृदयमदात्। ओं वज्रपिङ्गल भीषय सर्वदुष्टान् भीमक्रोध हुं फट्॥
वज्रक्रोधाः॥

अथ वज्रशौण्डो गणपतिर्भगवते वज्रपाणये इदं हृदयन्निर्यातयति स्म। ओं वज्रशौण्ड महागणपति रक्ष सर्वदुष्टेभ्यो वज्रधराज्ञां पालय हुं फट्।

अथ वज्रमाल इदं स्वहृदयमदात्। ओं वज्रमाल गणपतये मालयाकर्षय प्रवेशयावेशय बन्धय वशीकुरु मारय हुं फट्॥

अथ वज्रवशी स्वहृदयमदात्। ओं वज्रवशी महागणपते वशीकुरु हुं फट्॥
अथ विजयवज्रो गणपतिः स्वहृदयमदात्। ओं वज्रविजय विजयं कुरु महागणपति हुं फट्॥
गणप[तयः॥]

अथ वज्रमुसलो वज्रदूत इदं स्वहृदयं वज्रपाणये निर्यातयामास। ओं वज्रमुसल कृट्ट कुट्ट सर्वदुष्टान् वज्रदूतहुं फट्॥
[अथ वज्रा]निलो दूतः स्वहृदयमदात्। ओं वज्रानिल महावेगानय सर्वदुष्टान् हुं फट्॥
अथ वज्रानलो दूतः स्वहृदयमदात्। ओं वज्रानल महादूत ज्वालय सर्व भस्मीकुरु सर्वदुष्टान् हुं फट्॥
अथ वज्रभैरवो दूतः स्वहृदयमदात्। ओं वज्रभैरव वज्रदूत भक्षय सर्वदुष्टान् महायक्ष हुं फट्॥
दूताः॥

अथ वज्राङ्कुशो वज्रचेट इदं स्वहृदयं भगवते वज्रपाणये निर्यातयामास। ओं वज्रङ्कुशाकर्षय सर्व महाचेट हुं फट्॥
अथ वज्रकालः स्वहृदयमदात्। ओं वज्रकाल महामृत्युमुत्पादय हुं फट्॥
अथ वज्रविनायकः स्वहृदयमदात्। ओं वज्रविनायकास्य विघ्नं कुरु हुं फट्॥
अथ नागवज्र इदं स्वहृदयं भगवते वज्रापाणये पादवन्दनीयं निर्यतयामास। ओं नागवज्रानय सर्वधनधान्यहिरण्यसुवर्णमणिमुक्तालङ्कारादीनि सर्वोपकरणानि वज्रधर समयमनुस्मरकड्ढ गृह्ण बन्ध हर हर प्राणान् महाचेट हुं फट्॥
चेटाः॥

अथ वज्रपाणिर्महाबोधिसत्व इदं सर्ववज्रकुलाकर्षणसमयमुदाजहार ओं वज्राङ्कुशाकर्षय हुं॥
ततः प्रवेशनसमयमुदाजहार हुं वज्रपाशाकड्ढ हुं॥
ततः समयबन्धमुदाजहार हुं वज्रस्फोट वं॥
ततः कर्महृदयमुदाजहार ओं वज्रकर्म साधय कृत्॥

Delineation of the mandala
अथ वज्रपाणिरिदं सर्ववज्रकुलमहामण्डलमभाषत्।
अथातः संप्रवक्ष्यामि महामण्डलमुत्तमं।
धर्मचक्रप्रतीकाशं सूत्रये सर्वमण्डलं॥
तत्रेदं सूत्रणहृदयं भवति ओं वज्रसूत्राकर्षय सर्वमण्डलान् हुं॥
मण्डलस्य तु मध्ये वै विध्वा खदिरकीलकं।
ततस्तु सूत्रं द्विगुणं कृत्वा तेन प्रसूत्रयेत्॥
तत्रेदं कीलकहृदयं। ओं वज्रकील कीलय सर्वविध्नान् बन्धय हूं फट्॥

चतुःसूत्रसमायुक्तं सूत्रयेच्चक्रमण्डलं।
बाह्यतस्तस्य निःक्रम्य द्विगुणं तु तथैव च॥१॥
तस्यापि त्रिगुणङ्कुर्यात् बाह्यमण्डलसूत्रणं।
विदिशाश्चारयोगेन कोणरेखास्तु सूत्रयेद्॥ इति॥२॥

सूत्रणविधिः।
ततस्तु सूत्रणं तत्तु रङ्गैः शुद्धैस्तु पूरयेत्।
वामवज्रमहामुष्ट्या प्राग्रेखां तु यथासुखं॥

तत्रेदं रङ्गहृदयं। ओं वज्ररङ्ग समय हूं॥
ततो मध्यस्थितो भूत्वा वज्राचार्यः समाहितः।
मनसोद्घाटयेच्चैव वज्रद्वारचतुष्टयं॥
तत्रेदं द्वारोद्घाटनहृदयं। ओं वज्रोद्घाटनसमय प्रविश शीघ्रं स्मर वज्रसमय हुं फट्॥

सौर्वर्णराजते वापि मृण्मये वा सुचित्रिते।
इष्टके तु चतुरश्रे तु बुद्धबिम्बं निवेशयेत्॥
तत्रेदं सर्वबुद्धहृदयं[भ]वति। ओं सर्वविद्॥

बुद्धस्य सर्वतः कुर्यन्महासत्वचतुष्टयं।
त्रिलोकविजयं कुर्वन् वज्रापाणिं पुरःस्थितं॥

तत्रैतानि महासत्वचतुष्टयहृदयानि भवन्ति।
ओं सुंभ निसुंभ हुं गृण्ह गृण्ह हुं गृण्ह प्य हुं आनय हो भगवन् वज्र हुं फट्॥१॥
ओं वज्रभृकुटि क्रोधानय सर्वरत्नान् हीः फट्॥२॥
ओं वज्रदृष्टि क्रोधदृष्ट्या मारय हुं फट्॥३॥
ओं वज्रविश्व क्रोध कुरु सर्वं विश्वरूपतया साधय हूं फट्॥४॥

प्रवेशेन्निष्क्रमेद्वापि सुत्राधस्तान्मनोगतं।
वज्रवेग इति ख्यातस्तेन रेखां समाक्रमेद्॥ इति॥
तत्रेदं वज्रवेगहृदयं। वज्रवेग॥

वज्रवेगेन निःक्रम्य प्रथमं मण्डलं तथा।
यथावदनुपूर्वेण वज्रमायादयो लिखेत्॥
तत्रैषां समयहृदयानि भवन्ति।
ओं वज्रचक्र हूं॥१॥
ओं वज्रघण्ट हूं॥२॥
ओं वज्रदण्डकाष्ठ हूं॥३॥
ओं वज्रायुध हूं॥४॥

वज्रवेगेन चाक्रम्य द्वितीयं मण्डलं तथा।
वज्रकुण्डलिपूर्वांस्तु वज्रकोधान्निवेशयेत्॥

तत्रैषां हृदयानि भवन्ति।
ओं प्रज्वलित प्रदीप्तवज्र हूं॥१॥
ओं वज्रसौम्य हूं॥२॥
ओं वज्रदण्ड हूं॥३॥
ओं वज्रविकृत हुं॥४॥

ततस्तु वज्रवेगेन लिखेद् द्वारचतुष्टये।
वज्रशौण्डादयः सर्वे यथावदनुपूर्वशः॥

तत्रैषां समयहृदयानि भवन्ति।
ओं वज्रमद हुं॥
ओं वज्रमाले हूं॥
ओं वज्रार्थ हूं॥
ओं वज्राशि हूं॥
वज्रवेगेन चाक्रम्य तृतीये मण्डले लिखेत्।
यथावदनुपूर्वेण स वज्रमुसलादयः॥

तत्रैषां हृदयानि भवन्ति।
ओं वज्रमुसल हूं॥
ओं वज्रपट हूं॥
ओं वज्रज्वाल हूं॥
ओं वज्रग्रह हूं॥

वज्रवेगेन चाक्रम्य चतुर्थे मण्डले लिखेत्।
वज्राङ्कुशादयश्चेटा यथावदनुपूर्वशः॥

तत्रैषां हृदयानि भवन्ति॥
ओं वज्रदंष्ट्र हूं॥
ओं वज्रामारण हूं॥
ओं वज्रविध्न हूं॥
ओं वज्रहरण हुं॥

वज्रवेगेन निःक्रम्य बाह्यमण्डले संस्थिता।
यथावदनुपूर्वेण संलिखेत्सर्वमातरः॥१॥
वज्रद्वारेषु सर्वेषु द्वारपालास्त एव तु।
अतः परं प्रवक्ष्यामि यथावद्विधिविस्तरम्॥२॥ इति॥

अथात्र त्रिलोकचक्रमहामण्डले आकर्षणादिकर्म कृत्वा, स्वयं वज्राचार्यो वज्रक्रोधतेरिन्तिरिमुद्रां बध्वा, एवं ब्रूयाद्, “अहन्ते वज्रसमयज्ञानमुत्पादयिष्यामि। तत्त्वया न कस्यचिद्वक्तव्यं। मा ते विषमा परिहारेण कालक्रियया नरकपतनं स्याद्,” इदमुक्त्वेदं शपथहृदयं दद्यात्। वज्रक्रोधतेरिन्तिरिमुद्रां बध्वा दर्शयेत् “अयं वज्रक्रोधसमयस्ते सन्दहेत् कुलन्, मुर्धादारभ्य कायं तु नाशयेत्, यद्यतिक्रमेत् समयं बन्धय”॥

ततो वज्रधारि कर्ममुद्रां बन्धयेदनेन हृदयेन ओं सर्वतथागत वज्रधर गृह्ण बन्ध समय हूं॥
अथास्या मुद्राया बन्धो भवति।
कनिष्ठाङ्गुष्ठबन्धो तु हस्तौ द्वावधरोत्तरौ।
मुद्रेयङ्कर्मसमय[वज्रबन्धेति] कीर्तिता॥

ततो वज्रदकेनाभिषिञ्चेदनेन हृदयेन ओं वज्राभिषेकाभिषिञ्च वज्रधरत्वे समय ग्र ग्र॥
ततो नक्तकेन मुखं बध्वा [प्रवेशयत्य] नेन हृदयेन ओं प्रविश वज्र प्रवेशय वज्र आविश वज्र आधितिष्ठ वज्र हूं॥
ततः प्रवेश्य पुष्पाणि क्षिपेत् अनेन हृदयेन ओं प्रतीच्छाधितिष्ठ वज्र होः॥ ततो यत्र पतति सोऽस्य सिध्यति।
ततो मुखबन्धं मुक्त्वा, मण्डलं यथानुपूर्वतो दर्शयेत्। न चास्य वक्तव्यं किं देव इति। तत्कस्माद्धेतोः ? सन्ति सत्वा मिथ्यादृष्टयो ये न श्रद्धास्यन्ति, किमेतदमोघं बुद्धानां भगवतां ज्ञानं, यथा तथागता वज्रकुले वज्रपाणिनाभिषिक्तास्तथागता एवेति समयः। अन्यत्र ये देवे भक्तास्तेषां शपथहृदयं दत्वा वाच्यमिति।
ततो वज्ररत्नचिन्हमालाभिषेकं दत्वा, कर्मवज्रं पाणिभ्यामभिप्रयच्छ्य, वज्रनाम कुर्यात्, यथा वज्रसमयमहामण्डल इति॥

Mudra
ततो महामुद्राबन्धं शिक्षयेत्।
वज्रबन्धं दृढीकृत्य प्रविष्टाङ्गु ष्ठसंचयं।
कुञ्चिताग्र्याषु गच्छन्नं सत्वोष्णीषेति संज्ञिता॥१॥
वज्रबन्धं समाधाय समाङ्गुष्ठात्म्यमध्यमा।
तेजोराशीति विख्याता तेजोराशेर्महात्मनः॥२॥
वज्रमुद्राद्विकं बध्वा कनिष्ठाङ्गुष्ठसन्धितं।
गाढमङ्कुशबन्धेन महाविद्योत्तमस्य तु॥३॥
महाविद्योत्तममयीं मुद्रां बध्वा सुयन्त्रितां।
हृद्यङ्गष्ठमुखानां तु बन्धनाद्धृदया स्मृता॥४॥
तामेवानाममध्याभिरङ्गुलीभिः सुयन्त्रितां।
वज्ररत्नप्रयोगेण परिवर्त्य मुखस्थिता॥५॥
तामेवोत्तानसंस्थां स्वहृदये परिवर्त्य वै।
चतुःपुष्पा तु नामेन पद्मविद्योत्तमस्य तु॥६॥
तामेव मूर्धादारभ्य भ्रमत्कायाग्रमण्डला।
वज्रविश्वस्य मुद्रेयं वज्रकर्मप्रसाधिके॥ति॥७॥
सत्ववज्रां दृढीकृत्य कनिष्ठा वज्रसन्धिता।
सर्वविद्धृदयस्यास्य मुद्रेयं सर्वसाधिका॥८॥
कनिष्ठाङ्गुष्ठबन्धे तु वाममध्याङ्गुलित्रिके।
त्रिशूले मध्यशूलं तु वज्रमुद्रापरिग्रहं॥९॥
वज्रविद्योत्तमस्येयं वज्रशूलेति कीर्तिता।
अतः परं प्रवक्ष्यामि मायावज्रादिसंज्ञिता॥१०॥

वज्रबन्धं दृढीकृत्य वामवज्रं तु बन्धयेत्।
वज्रमुष्टिरिति ख्याता सर्ववज्रकुलेष्वियं॥१॥
द्विधीकृत्य तु तद्वज्रं सर्वचिह्ननिवेशितं।
सर्ववज्रकुलानां तु मुद्रासु च निवेशयेत्॥२॥
प्रसारिताग्रा पृष्ठस्था ज्येष्ठाङ्गुष्ठग्रहाधगा।
ओंकार मूर्ध्नि संस्था तु वज्र चैव प्रतिष्ठिता॥३॥
विद्याराजमहामुद्रागणः॥

प्रसारिताश्रिता पाणौ हस्तपृष्ठे तथैव वा।
मुष्टिसंस्था भुजा वा च मुखतः परिवर्तिता॥
वज्रक्रोधमहामुद्रागणः॥

वामाङ्गुष्ठसुसंस्था तु मालबन्धप्रयोजिता।
दक्षिणेनार्थदायी च खङ्गमुद्राग्रमुष्टिमा॥
गणपतिमहामुद्रागणः॥

दक्षिणग्रस्तमुसला प्रसारितभुजा तथा।
दक्षिणज्वालसन्दर्शा वज्रमुष्टिप्रकम्पिता॥
दूतमहामुद्रागणः॥

सगर्वमुखदंष्ट्राग्रा दण्डाघातप्रपातिता।
बाहुसंकोचलम्बा च वामदक्षिणहारिणी॥ति॥
चेटमहामुद्रागणः॥

कल्पनं मण्डले सर्वे [वाम]वज्रग्रहेण तु।
अतः परं प्रवक्ष्यामि साधनं कर्म एव च॥१॥
यस्य सत्वस्य या मुद्रा भवेत्तस्य स्वमात्मना।
भावयन्तं स्वमात्मानं मुद्रासाधनमुत्तमं॥२॥
मनोष्णीषमहारक्षा तेजोराशी सुसिद्धदा।
सर्वकृद्वज्रहुंकारा सर्वाकर्षा तु हृद्गते॥ति॥३॥
बुद्धमुद्राः॥

सर्ववित्सर्वसिद्धिस्तु वज्रविद्योत्तमा।
वज्रशूला महामुद्रा महसिद्धिप्रदायिका॥१॥
मायावज्रसुसिद्धिस्तु समावेशा तु घण्टिका।
दण्डकाष्ठा तु नैर्वाणी वज्रवज्रा तु मारणी॥२॥
विद्याराजनिकाः॥

ज्वालाग्री दुष्टदमनी सौम्याग्री सर्वमारणी।
दण्डाग्रा घातनी चैव भीमाक्षी तु भयङ्करी॥
वज्रक्रोधाः॥

मदनी मदनी तीव्रं माला सर्वकरी स्मृता।
कामिनी प्रियकारी तु मारणी सर्वमारणी॥
गणमुद्राः॥

मुसला दुष्टनिर्घाता पटा सूत्रपटा तथा।
ज्वालाग्री दुष्टदमनी यक्षिणी ग्रहलायिका॥
दूतमुद्राः।

भक्षणी वज्रदंष्ट्रा तु मारणी सर्वमारणी।
सुविघ्ना विध्नकर्त्री तु हारिणी सर्वहारिणी॥
चेटमुद्राः॥

सर्वतथागतवज्रसमयान् महाकल्पराजात् त्रिलोकचक्रमहामण्डलविधिविस्तरः परिसमाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project