Digital Sanskrit Buddhist Canon

नवमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Navamaḥ
CHAPTER 9

VAJRA-KULA-KARMA-MANDALA-VIDHI-VISTARA

Emanation of deities from samadhi
अथ भगवान् सर्वतथागतवज्रकर्मसमयसंभवाधिष्ठानन्नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं सर्वतथागत कर्मेश्वरि हूं॥

अथवज्रपाणिर्महाबोधिसत्वः पुनरपीमां स्वविद्योत्तमामभाषत् ओं सर्वतथागतधर्मधातुस्फरणमहापूजाकर्मविधिविस्तरसमये त्रिलोकविजयंकरि सर्वदुष्टान् दामय वज्रिणि हूं॥

अथ वज्रगर्भो बोधिसत्वः पुनरपीमां स्वविद्योत्तमामभाषत् ओं सर्वतथागताकाशधातुसमवसरणमहापूजाकर्मविधिविस्तरसमये हूं॥

अथ वज्रनेत्रो बोधिसत्वः पुनरपीमां स्वविद्योत्तमामभाषत् ओं सर्वतथागतधर्मधातुस्फरणमहापूजाकर्मविधिविस्तरसमये हूं॥

अथ वज्रविश्वो बोधिसत्वः पुनरपीमां स्वविद्योत्तमामभाषत् ओं सर्वतथागतसर्वलोकधातुविविधमहापूजाकर्मविधिविस्तरसमये हूं॥

अथ वज्रपाणिर्महाबोधिसत्वः पुनरपि स्वकुलपूजाविधिविस्तरदेवताः स्वहृदयादुत्पाद्य, सर्वलोकधातुषु सर्वतथागताकर्षणवशीकरणानुरागणसर्वकर्मसिद्धिकार्यकरणतासन्नियोजनादीनि सर्वतथागतर्द्धिविकुर्वितानि कृत्वा, पुनरपि भगवतो वैरोचनस्य वज्रधातुमहामण्डलयोगेन चण्द्रमण्डलान्याश्रित्यावस्थिता इति।

Delineation of the mandala
अथ वज्रपाणिर्महाबोधिसत्व इदं वज्रकर्मसमयविधिविस्तरकर्ममण्डलमभाषत्।
अथातः संप्रवक्ष्यामि कर्ममण्डलमुत्तमं।
वज्रधातुप्रतीकाशं कर्मवज्रमिति स्मृतं॥१॥
महामण्डलयोगेन सूत्रयेत्सर्वमण्डलं।
मध्यमण्डलसंस्थेषु बुद्धबिम्बन् निवेशयेत्॥२॥
बुद्धस्य सर्वपार्श्वेषु समयाग्र्यो निवेशयेत्।
वज्रवेगैः समाक्रम्य मण्डलानां चतुष्टये॥३॥
चत्वारो वज्रनाथाद्या यथावत्तु निवेशयेत्।
तेषां सर्वेषु पार्श्वेषु महासत्व्यो निवेशयेद्॥४॥ इति॥

अथात्र कर्ममण्डले वज्रकर्ममुद्रा भवन्ति।
ओं वज्रसत्वसिद्धिज्ञानसमये हुं ज्जः॥१॥
ओं वज्राकर्षणकर्मज्ञानसमये हुं ज्जः॥२॥
ओं वज्ररतिरागकर्मज्ञानसमये हुं ज्जः॥३॥
ओं वज्रसाधुकर्मज्ञानसमये हुं ज्जः॥४॥
ओं वज्रभृकुटी वशीकुरु हुं॥५॥
ओं वज्रसूर्यमण्डले वशीकुरु हुं॥६॥
ओं वज्रध्वजाग्रकेयूरे वशीकुरु हुं॥७॥
ओं वज्राट्टहासे वशीकुरु हुं॥८॥
ओं वज्रपद्मरागे रागय हुं॥९॥
ओं वज्रतीक्ष्णरागे रागय हुं॥१०॥
ओं वज्रमण्डलरागे रागय हुं॥११॥
ओं वज्रवाग्‌रागे रागय हुं॥१२॥
ओं वज्रकर्मसमये पूजय हुं॥१३॥
ओं वज्रकवचबन्धे रक्षय हुं॥१४॥
ओं वज्रयक्षिणि मारय वज्रदंष्ट्राया भिन्द हृदयममुकस्य हुं फट्॥१५॥
ओं वज्रकर्ममुष्टि सिद्ध्य सिद्ध्य हुं फट्॥१६॥

Ritual
अथात्र कर्ममण्डले यथावद् विधिविस्तरं कृत्वा, वज्रकुलकर्मज्ञानान्युत्पादयेत्।
तत्रादित एव शान्तिकर्मादिज्ञानं शिक्षयेत्।
समिद्भिर्मधुरैरग्निं प्रज्वाल्य सुसमाहितः।
वज्रक्रोधसमापत्त्या तिलां हुत्वा अघान्दहेत्॥१॥
तैरेव तु समिद्भिस्तु प्रज्वाल्य तु हुताशनं।
तण्डुलांस्तु जुह्वन् नित्यं गृहपुष्टिर्भवेद् ध्रुवं॥२॥
समिद्भिर्मधुरैश्चापि अग्निं प्रज्वाल्य पण्डितः।
दूर्वाप्रवालां सघृतान् जुह्वन्नायुः प्रवर्धते॥३॥
तैरेव तु समिद्भिस्तु प्रज्वाल्य तु हुताशनं।
कुशप्रवालांस्तैलेन जुह्वन् रक्षा तु शाश्वतम्॥ इति॥४॥

अथैषां हृदयमन्त्राणि भवन्ति।
ओं सर्वपापदहनवज्राय स्वाहा॥
ओं वज्रपुष्टये स्वाहा॥
ओं वजायुषे स्वाहा॥
ओं अप्रतिहतवज्राय स्वाहा॥

समिद्भिः कडकैः पूर्व वज्रक्रोधसमाधिना।
अग्निं [प्रज्वाल्य] कुञ्जैस्तु कण्टकैरभिकर्षितः॥१॥
तैरेव तु समिद्भिस्तु प्रज्वाल्याग्निं सुरोषवान्।
रक्तपुष्पफलान् चापि जुह्वन् रागयते जगत्॥२॥
समि[द्भिरपि]कुपितो ह्यग्निं प्रज्वाल्य योगवान्।
अयोरजांसि हि जुह्वन् वज्रबन्धो भविष्यति॥३॥
तैरेव तु समिद्भिस्तु प्रज्वाल्याग्निं समाहितः।
जुहेत् तिक्तफलं क्रोधान् मारिमुत्पादयेत्क्षणात्॥४॥

तत्रैषां हृदयानि भवन्ति।
हुं वज्राकर्षय स्वाहा॥
हुं वज्र रागय स्वाहा॥
हुं वज्र बन्धाय स्वाहा॥
हुं वज्र मारणाय स्वाहा॥

समिद्भिरमलैः प्रज्वाल्य ऋद्धो हुतभुजं बुधः।
होममाम्लफलैः पुष्पैर्वशीकरणमुत्तमं॥१॥
तैरेव तु समिद्भिस्तु प्रज्वाल्याग्निं समाहितः।
जुहुयात्कामफलां कुद्धः कामरूपित्वमाप्नुयात्॥२॥
समिद्भिस्तादृशैरेव प्रज्वाल्य तु हुताशनं।
काण्डान्यदृश्यपुष्पाणां जुह्वं रुच्या न दृश्यते॥३॥
तैरेव तु समिद्भिस्तु प्रज्वाल्याग्निं समाहितः।
आकाशवल्लीपुष्पाणि जुह्वन्नाकाशगो भवेद्॥ इति॥४॥

तत्रैषां हृदयानि भवन्ति।
ओं वज्रवशंकराय स्वाहा॥
ओं कामरूपवज्राय स्वाहा॥
ओं अदृश्यवज्राय स्वाहा॥
ओं वज्रखचारिणी स्वाहा॥

समिद्भिस्तिक्तवीर्यैस्तु प्रज्वाल्याग्निं समाहितः।
वज्रिपुष्पा जुहेत् क्रुद्धो वज्रमाज्ञाकरं भवेत्॥१॥
तैरेवं तु समिद्भिस्तु प्रज्वाल्याग्निं सुरोषवान्।
यस्य सौरे जुहेन्माल्यं सोऽप्याज्ञाकरतां वज्रेत्॥२॥
समिद्भिस्तैस्तु संक्रुद्धः प्रज्वाल्याग्निं समाहितः।
वज्रपाणेर्जुहेन्माल्यं सोऽप्याज्ञाकरतां व्रजेत्॥३॥
तैरेव तु समिद्भिस्तु प्रज्वाल्याग्निं सुरोषितः।
चीवराणि जुहेत् बुद्धो यात्याज्ञाकरतां क्षणात्॥४॥

तत्रैषां हृदयानि भवन्ति॥
हुं वज्रवशंकराय स्वाहा॥
हुं सौरिवशंकरवज्राय स्वाहा॥
हुं वज्रपाणिवशंकराय स्वाहा॥
हुं बुद्धवशंकरवज्राय स्वाहा॥

Mudra
ततो रहस्यकर्ममुद्राज्ञानं शिक्षयेत्।
प्रियया तु स्त्रिया सार्ध संवसंस्तु भगेऽञ्जनं।
प्रक्षिप्य घट्टयेत्तत्र तेनांज्याक्षी वशं नयेत्॥१॥
मनःशिलां भग विध्वा वज्रबन्धेन तां पिघेत्।
चतुर्विधैर्निमित्तैस्तु सिद्धिश्चापि चतुर्विधा॥२॥
रोचनां तु भगे स्थाप्य गुह्यमुष्ट्या निपीडयेत्।
[स्था]पितं ज्वालते तत्र भवेद्वज्रधरो समः॥३॥
कुङ्कुमं तु भगे विध्वा तद्भगं सत्ववज्रया।
च्छादितं ज्वालते तन्तु भवेद्वज्रधरो सम॥ इति॥४॥

तत्रैषां हृदयानि भवन्ति।
ओं वज्रगुह्य रतिवशंकर सिध्य हुं॥
ओं वज्रगुह्य सिध्य हुं॥
ओं गुह्यवज्र सिध्य हुं॥
ओं वज्रधरगुह्य सिध्य हुं॥

ततो वज्रकुलकर्ममहामुद्राज्ञानं शिक्षयेत्।
वज्रकार्यप्रयोगेण महामुद्राः समासतः।
वज्रक्रोधसमापत्त्या वज्रमुष्टिप्रयोगतः॥१॥
समयाग्र्यस्तथैवेहहुंकाराङ्गु लियोगतः।
धर्ममुद्रास्तथैवेह ओंकाराद्यै अ-अक्षरैः॥२॥
कर्ममुद्राः समासेन कर्ममुष्टिद्विधीकृता।
सर्वसिद्धिकरा शुद्धा वज्रकर्मप्रयोगतः॥३॥

सर्वतथागतवज्रसमयात् महाकल्पराजाद् वज्रकुलकर्ममण्डलविधिविस्तरः समाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project