Digital Sanskrit Buddhist Canon

अष्टमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Aṣṭamaḥ
CHAPTER 8

VAJRA-KULA-DHARMA-JNANA-SAMAYA-MANDALA-VIDHI-VISTARA

Emanation of deities from samadhi
अथ भगवान् पुनरपि सर्वतथागतवज्रकुलसमाधिज्ञानमुद्राधिष्ठानं नाम समाधिं समापद्येमं सविद्योत्तममभाषत् ओं सर्वतथागतसूक्ष्मवज्रक्रोध हूं फट्।

अथ वज्रपाणिर्महाक्रोधराजा त्रिलोकविजयसूक्ष्मवज्रविद्योत्तममभाषत् ओं सूक्ष्मवज्रक्रोधाक्रम हूं फट्॥
अथ वज्रगर्भो [बोधि] सत्व इमं त्रिलोकविजयसूक्ष्मवज्रविद्योत्तमभाषत् ओं सूक्ष्मवज्ररत्नाक्रम हूं फट्॥
अथ वज्रनेत्रो बोधिसत्व इमं त्रिलोकविजयसूक्ष्मवज्रविद्योत्तममभाषत् ओं सूक्ष्मवज्रपद्मक्रोधाक्रम हूं फट्॥
अथ वज्रविश्वो बोधिसत्व इमं त्रिलोकविजयसूक्ष्मवज्रविद्योत्तममभाषत् ओं सूक्ष्मवज्रकर्मक्रोधाक्रम हूं फट्॥

अथ वज्रपाणिर्महाबोधिसत्वः पुनरपि स्वकुलमुत्साद्य, वज्रधातुमहामण्डलयोगेन सन्निवेश्यैतानि स्वहृदयान्यभाषत्।
ओं वज्रसत्व सूक्ष्मज्ञान क्रोध हूं फट्॥१॥
ओं सूक्ष्मवज्राङ्कुशाकर्षय महा-क्रोध हूं फट्॥२॥
ओं वज्रसूक्ष्मरागक्रोधानुरागय तीव्रं हूं फट्॥३॥
ओं सूक्ष्मवज्रतुष्टिक्रोध हूं फट्॥४॥
ओं सूक्ष्मवज्रभृकुटिक्रोध हर हर हूं फट्॥५॥
ओं वज्रसूक्ष्मज्वालामण्डलक्रोध सूर्य ज्वालय हूं फट्॥६॥
ओं सूक्ष्मवज्रध्वजाग्रक्रोध सर्वार्थान् मे प्रयच्छ शीघ्रं हूं फट्॥७॥
ओं वज्रसूक्ष्महासक्रोध ह ह ह ह हूं फट्॥८॥
ओं सूक्ष्मवज्रधर्मक्रोध शोधय हूं फट्॥९॥
ओं सूक्ष्मवज्रच्छेदक्रोध छिन्द भिन्द हुं फट्॥१०॥
ओं सूक्ष्मवज्रक्रोध महाचक्र छिन्द पातय शिरः प्रविश्य हृदयं भिन्द हूं फट्॥११॥
ओं सूक्ष्मवज्रहूंकारक्रोध हन पातय वाङ्मात्रेण हूं फट्॥१२॥
ओं सूक्ष्मवज्रकर्मक्रोध सर्वकर्मकरो भव सर्वकार्याणि साधय हूं फट्॥१३॥
ओं वज्रसूक्ष्मकवचक्रोध रक्ष रक्ष हूं फट्॥१४॥
ओं सूक्ष्मवज्रयक्षक्रोध हन भक्षय सर्वदुष्टान् चिन्तितमात्रेण वज्रदंष्ट्र हूं फट्॥१५॥
ओं सूक्ष्मवज्रमुष्टिक्रोध बन्ध बन्ध हूं फट्॥१६॥

Delineation of the mandala
अथ वज्रापाणिः पुनरपीदं वज्रकुलसूक्ष्मज्ञानसमयमण्डलमुदाजहार।
अथातः संप्रवक्ष्यामि धर्ममण्डलमुत्तमं।
वज्रधातुप्रतीकाशं क्रोधज्ञानमिति स्मृतं॥१॥
महामण्डलयोगेन सूत्रयेत्सर्वमण्डलं।
तस्य मध्ये लिखेद्बुद्धं ज्ञानवज्रस्य मध्यगं॥२॥
बुद्धस्य सर्वपार्श्वेषु मुद्रास्ता एव संलिखेत्।
वज्रवेगेन निष्क्रम्य मण्डलानां चतुष्टये॥३॥
त्रिलोकविजयाभ्यांस्तु यथावत् तु निवेशयेत्।
तेषां तु सर्वपार्श्वेभ्यो वज्रक्रोधान् यथाविधिर्॥४॥ इति॥

Initiation into the mandala
अथात्र वज्रकुलसूक्ष्मज्ञानमण्डले यथावद् विधिविस्तरो भवति।
तत्रादित एव तावत्प्रवेश्य ब्रूयाद् “अद्य त्वं सर्वतथागतवज्रक्रोधतायां वज्रपाणिना भगवताभिषि[क्तं] तत्साधु; प्रतिपद्यस्वाशेषानवशेषसत्वधातुपरित्राण यावत् सर्वतथागतहितसुखोत्तमसिद्ध्यवाप्तिफलहेतोर्वज्रक्रोधे[ण सर्व]सत्वानपि संशोधननिमित्तं मारयितुं; कः पुनर्वादः सर्वदुष्टान्” इति। इदमुक्त्वा मुखबन्धं मुञ्चेत्। ततः सर्वमण्डलं दर्शयित्वा, [वज्रं] यथावत्पाणौ दत्वा, ततो वज्रक्रोधसूक्ष्मज्ञानानि शिक्षयेत्।

सूक्ष्मवज्रं दृढीकृत्य वज्रहुंकारयोगतः।
हुंकारं योजयेद्यस्य तस्य नश्यति जीवितं॥१॥
सूक्ष्मवज्रं दृढीकृत्य स्फरयेत यथाविधि।
यावत्तः स्फरते तं तु तावन्नश्यत्यसौ रिपुः॥२॥
सूक्ष्मवज्रविधिं योज्य वज्रहुंकारयोगतः।
स्फरयेत् क्रोधवान् यावत् तावत् सत्वान् विनाशयेत्॥३॥
तथैव संहरेत् तत्तु यावदिच्छेत योगवान्।
सर्वं वापि हि निःशेष पुनरदयात् तु जीवितम्॥४॥ इति॥

तत्रैषां हृदयानि भवन्ति।
हुं॥
हुंनाशय वज्र॥
हुं विनाशय सर्वान् वज्र॥
ओं सूक्ष्मवज्र प्रत्यानय शीघ्रं हुं॥

वज्रं तु यस्य सत्वस्य सहभूत्वा महादृढं।
मैत्रीस्फरणतायोगात्स्फरन् वैरेण नाशयेत्॥१॥
वैरस्फरणतायोगात् कारुण्यं यस्य कस्यचित्।
तेन कारुण्ययोगेन सर्वदुष्टान् स नाशयेत्॥२॥
अधर्मा यदि वा धर्माः प्रकृत्या तु प्रभास्वराः।
एवं तु भावयं सत्वां हुंकारेण तु नाशयेत्॥३॥
दुर्दुरूटा हि ये सत्वा बुद्धबोधावभाजनाः।
तेषां तु संशोधनार्थाय हुंकारेण तु नाशयेत्॥४॥

तत्रैषां हृदयानि भवन्ति।
वैर वज्रक्रोध हुं फट्॥
करुणा वज्रक्रोध हुं फट्॥
हुं विशुद्ध वज्रक्रोध हूं फट्॥
हुं विशोधन वज्रक्रोध हूं फट्॥

वज्रबिम्बं समालिख्य मनसा यस्य कस्यचित्।
पातयेद् गृहमध्ये तु तस्य तन्नश्यते कुलं॥१॥
तथैव सूक्ष्मविधानेन हृद्वज्रं परिभावयेत्।
बोधिसत्वमहाबिम्बं पातयेन्नाशयेत्कुलं॥२॥
वज्रपाणिमहाबिम्बं भावयन् यत्र पातयेत्।
तद् राज्यं विविधैर्दोषै राज्ञैव सह नश्यति॥३॥
सर्वाकारवरोपेतं बुद्धबिम्बं तु भावयन्।
पातयेद्यत्र राज्ये तु तद् राज्यन्नश्यते ध्रुवम्॥४॥ इति॥

तत्रैतानि हृदयानि भवन्ति।
हुं वज्र प्रपात॥
हूं बोधिसत्त्व प्रपात॥
हूं वज्रधर प्रपात॥
हूं बुद्ध प्रपात॥

सूक्ष्मवज्रप्रयोगेण चन्द्रबिम्बं स्वमात्मना।
भावयं स्वयमात्मानं पतेद्यत्र पतेत्स तु॥१॥
चन्द्रे वज्रं स्वमात्मानं भावयं स्वयमात्मना।
पतेद्यत्र सुसंक्रुद्धस्तत्कुलं पतति क्षणात्॥२॥
वज्रपाणिं स्वमात्मानं भावयं स्वयमात्मना।
पतेद्यत्र हि तं देशमचिराद् विप्रणंक्ष्यते॥३॥
बुद्धबिम्बं स्वमात्मानं भावयं स्वयमात्मना।
पतेद्यत्र तु तद् राज्यमचिरेणैब नश्यति॥४॥ इति॥

तत्रैतानि हृदयानि भवन्ति।
बोध्यग्र प्रपातय हुं॥
सर्ववज्र प्रपातय हुं॥
वज्रसत्व प्रपातय हुं॥
बुद्ध प्रपातय हुं॥

Mudra
ततो वज्रकुलधर्मरहस्यमुद्राज्ञानं शिक्षयेत्।
वज्र[क्रोधसमाप]त्या स्वकायं परिवेष्टयेत्।
यस्य नाम्ना स म्रियते संवेष्टन् वज्रहुंकृतः॥१॥
सूक्ष्मवज्रं समापद्य सूक्ष्मनासिकया सकृतः।
श्वासहुंकारयोगेन त्रयोक्यमपि पातयेत्॥२॥
सूक्ष्मवज्रविधिं योज्य क्रुद्धः सन् वज्रदृष्टितः।
निरीक्षन्नन्धतां याति मरणं वातिगच्छति॥३॥
भगेन तु प्रविष्ट्या वै मनसा यस्य कस्यचित्।
हृदयाकर्षणाद्याति वशं स्वं वा यमस्य वे-॥इति ४॥

तत्रैषां हृदयानि भवन्ति।
हुं वज्र वलित क्रोध मारय हुं फट्॥
ओं वज्र सूक्ष्म श्वास विषं पातय हुं फट्॥
ओं वज्र दृष्टि विषं नाशय हुं फट्॥
हुं हृदयाकर्षण क्रोध प्रविश कायं हृदयं च्छिन्द भिन्द कड्ढाकड्ढ फट्॥

ततो वज्रकुलधर्ममुद्राज्ञानं शिक्षयेत्।
तत्र तावन्महामुद्राबन्धो भवति।
वज्रज्ञानप्रयोगेण ज्वालामालाकुलप्रभान्।
वज्रक्रोधान् स्वमात्मानं भावयं सिद्ध्यति क्षणाद्॥ इति॥

ततो वज्रकुलधर्मसमयमुद्राज्ञानं शिक्षयेत्।
समाधिज्ञानसमया द्वि-हुं-कारसमन्धिता।
यथा स्थानेषु संस्थेया सर्वसिद्धिप्रदावरम्॥ इति॥

ततो वज्रकुलधर्मसमयधर्ममुद्राज्ञानं शिक्षयेत्।
फट् सट् मट् सट् रट् तट् धृट् हट्
पट् त्रट् घट् भट् कृट् रिट् खट् वट्

इति च प्रोक्ता धर्ममुद्राः समासत इति॥
ततो वज्रकुलधर्मसमयकर्ममुद्राज्ञानं शिक्षयेत्।
धर्ममुष्टिं द्विधीकृत्य यथा स्थानप्रयोगतः
कर्ममुद्राः समासेन सिद्धिं यान्ति यथाविधिर्॥ इति॥

सर्वतथागतवज्रसमयान्महाकल्पराजाद् वज्रकुलधर्मज्ञानसमयमण्डलविधिविस्तरः समाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project