Digital Sanskrit Buddhist Canon

षष्ठमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Ṣaṣṭhamaḥ

CHAPTER 6

TRILOKAVIJAYA-MAHA-MANDALA-VIDHI-VISTARA

Hymn of 108 names of Mahacakravartin

अथ भगवन्तः सर्वतथागताः पुनः समाजमागम्य, भगवन्तं सर्वतथागतमहाचक्रवर्तिनमनेन नामाष्टशतेनाध्येषितवन्तः।

वज्रसत्व महावज्र वज्रनाथ सुसाधक।
वज्राभिषेक वज्राभ वज्रकेतु नमो [ऽस्तुते]॥१॥
हासवज्र महाधर्म वज्रकोश महावर।
सर्वमण्डलराजाग्र्य निःप्रपञ्च नमोऽस्तु ते॥२॥
वज्रकर्म महारक्ष चण्डयक्ष महाग्रह।
वज्रमुष्टि महामुद्र सर्वमुद्र नमोऽस्तु ते॥३॥
बोधिचित्त महाबोधे बुद्ध सर्वतथागत्।
वज्रयान् महाज्ञान महायान नमोऽस्तु ते॥५॥
सर्वार्थ सर्वतत्वार्थ महासत्वार्थ सर्ववित्।
सर्वज्ञ सर्वकृत्सर्व सर्वदर्शि नमोऽस्तु ते॥५॥
वज्रात्मक सुवज्राग्र्य वज्रवीर्य सुवज्रधृक्।
महासमय तत्वार्थ महासत्य नमोऽस्तु ते॥६॥
वज्राङ्कुश महाकाम सुरते सुमहाप्रभ।
वज्रप्रभ प्रभोद्योत बुद्धप्रभ नमोऽस्तु ते॥७॥
वज्रराजाग्र्य वज्राग्र्य विद्याग्र्याग्र्य नरोत्तम।
वज्रोत्तम महाग्र्याग्र्य विद्योत्तम नमोऽस्तु ते॥८॥
वज्रधातो महागुह्य वज्रगुह्य सुगुह्यधृक्।
वज्रसूक्ष्म महाध्यान वज्रकार्य नमोऽस्तु ते॥९॥
बुद्धाग्र्य बुद्धवज्राग्र्य बुद्धबोधे महाबुध।
बुद्धज्ञान महाबुद्ध बुद्धबुद्ध नमोऽस्तु ते॥१०॥
बुद्धपूजा महापूजा सत्वपूजा सुपूजक।
महोपाय महासिद्धे वज्रसिद्धि नमोऽस्तु ते॥११॥
तथागतमहाकाय तथागतसरस्वते।
तथागतमहाचित्त वज्रचित्त नमोऽस्तु ते॥१२॥
बुद्धाधिप जिनाज्ञाकृद्बुद्धमित्रे जिनाग्रज।
महावैरोचन विभो[शास्ता]शान्तरौद्र नमोऽस्तु ते॥१३॥
तथागतमहातत्व भूतकोटे महानय।
सर्वपारमिताज्ञान परमार्थ नमोऽस्तु ते॥१४॥
समन्तभद्र चर्याग्र्य मार मारप्रमर्दक।
सर्वाग्र्य समाताज्ञान सर्वत्रग नमोऽस्तु ते॥१५॥
बुद्धहुंकर हुंकर वज्रहुंकर दामक।
विश्ववज्राङ्ग वज्रोग्र वज्रपाणे नमोऽस्तु ते॥१६॥
वन्द्यः पूज्यश्च मान्यश्च सत्कर्तव्यस्तथागतैः।
यस्माद्वज्रदृढं चित्तं वज्रसत्वस्त्वमुच्यसे॥१७॥
त्वदधीना हि संबोधि पिता त्वं सर्वदर्शिनां।
संभूताः संभविष्यन्ति त्वामासाद्य तथागताः॥१८॥
अनेन स्तोत्रराजेन स्तुयाद्वै सुभक्तितः।
यो गायंस्तु स्तुयात्सोऽपि भवेद्वज्रधरोपमः॥१९॥
अध्येषयामस्त्वान्नाथ सर्वबुद्धवशङ्करं।
सर्वसत्वार्थकार्यार्थमुत्पादय कुलं स्वकम्॥२०॥ इति॥

Subjugation of Mahesvara and his retinue
अथ वज्रपाणिः सर्वतथागताधिपतिः सर्वतथागताध्येषणवचनमुपश्रुत्य, तद्वज्रं स्वहृदि प्रतिष्ठाप्य, तान् सर्वतथागतान् आहूयैवमाह। “भागवन्तः सर्वतथागता न प्रतिपद्यामि”॥ सर्वतथागता प्राहुः। “को हेतुः ?”॥ वज्रधरः प्राह। “सन्ति भगवन्तः सत्वाः महेश्वरा दिदुष्टस] त्वा, ये युष्माभिरपि सर्वतथागतैरविनेयाः, तेषां मया कथं प्रतिपत्तव्यम् !”॥

अथ भगवान् वैरोचनस्तथागतः [सर्वतथाग]ताधिष्ठानेन सर्वतथागतमहोपायज्ञानवज्रन्नाम समाधिं समापन्नः। समनन्तरसमापन्ने चाथ तावदेव स[र्वतथाग]ताः सकलाकाशधातुपरमाणुरजः समवसरण[स्फरण] ताय सुमेरुगिरिमूर्ध्नि वज्रमणिरत्नकूटागारे[पुनः] समाजमागम्य, सर्वतथागतसमतामध्यालम्भ्य, भगवतो वैरोचनस्य श्रीवत्सहृदये प्रविष्टाः।

अथ भगवान् वैरोचनस्तथागतः सर्वतथागतहृदयमात्मानमधिष्ठाय सर्ववज्रसमतया अशेषानवशेषसत्वधातुपरित्राणसर्वहितसुखोत्तमसिद्धिहेतोः सर्वदुष्टविनयाय च, सर्वतथागतमहाकरुणोपायसमाधिज्ञानमध्यालम्भ्य, सर्वतथागतमहाकरूणोपायक्रोधसमय वज्रं नाम समाधिं समापन्नः। समनन्तरसमापन्ने चात्रैतस्मिन्नेव क्षणे सर्वतथागतहृदयेभ्यः सर्वतथागतसमयन्नाम सर्वतथागतहृदयं निश्चचार हुं॥

अथास्मिन् विनिःसृतमात्रे वज्रपाणिहृदयवज्रात्स एव भगवान् वज्रधरः समन्तज्वालागर्भाः सभ्रुकुटिभ्रूभङ्गोत्कुञ्चितललाटविकटदंष्ट्राकरालमुखाः वज्राङ्कुशकोषपाशादिवज्रज्वालान्निप्रदीप्तप्रहरणव्यग्रकराः अनेकविधवर्णालङ्कारविचित्रवेषधराः वज्रपाणिविग्रहा विनिश्चरित्वा, सर्वलोकधातुषु सर्वदुष्टविनयङ्कृत्वा, भगवतो वैरोचनस्य सर्वतो वज्रधातुमहामण्डलयोगेन चन्द्रमण्डलाश्रिता भुत्वेदमुदानमुदानयिंसुः॥

अहो ह्युपायविनयं महोपायवतामहं।
यत्सत्वोपायविनयात्क्रोधत्वं यान्ति निर्मला॥ इति॥

अथ भगवान् वैरोचनस्तथागतः सर्वतथागताप्रपञ्चधर्मतामध्यालम्भ्य, सर्वतथागतमहाक्रोधवज्रसमयवज्राधिष्ठानन्नाम समाधिं समापद्येमं सर्वतथागतवज्र-हुङ्-करन्नाम सर्वतथागतहृदयं विद्योत्तममभाषत्।
ओं सुंभ निसुंभ हुं।
गृह्ण गृह्ण हुं।
गृह् णापय हुं।
आनय हों भगवन्।
वज्र हुं फट्॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यो भगवान्वज्रपाणिर्विनिःसृत्य, सर्वलोकधातुप्रसरमेघसमुद्रेभ्यो यावन्तः सर्वतथागताः सबोधिसत्वपर्षद्मण्डलाः समाधिष्ठायाकृष्य, वज्रसमयमहामण्डले प्रवेश्य, समयैर्बध्वा, पुनरप्येकघनो महावज्रक्रोधकायो भूत्वा, भगवतो [वैरो]चनस्य हृदये स्थित्वेममुदानमुदानयामास।

अहो हि बोधिचैत्तस्य सर्वतो भद्रतानघा।
यत्सत्वविनयाद्याति क्रोधोऽपि रमणीय [ताम्॥ इति]॥

अथ स महावज्रक्रोधकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां पुरतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गया[मास]॥

अथ भगवान् सर्वतथागतसमयाकर्षणवज्रन्नाम समाधिं समापद्येदं सर्वतथागतसमयाङ्कुशन्नाम सर्वतथागतहृदयं स्वहृ[दय]न् निश्चचार हुं टक्कि ज्जः॥

अथास्मिन् विनिःसृतमात्रे सर्वलोकधातुप्रसरमेघसमुद्रेषु यावन्तस्त्रैलोक्याधिपतयो महेश्वरादयस्ते स[र्वे स]र्वलोकसन्निवेशगणपरिवृताः अशेषानवशेषाः सर्वतथागतसमयवज्राङ्कु शेनाकृष्टाः समाना येन सुमेरुगिरिमूर्धा [येन] च वज्रमणिरत्नशिखरकूटागारस्तेनोपसंक्रम्य, भगवतो वज्रमणिरत्नशिखरकूटागारस्य सर्वतः परिवार्यावस्थिता अभूवन्॥

अथ वज्रपाणिस्तद्वज्रं स्वहृदयाद्गृह्योल्लालयन् सर्वावन्तं सकलत्रैधातुकत्रिलोकचक्रमवलोक्यैवमाह। “प्रतिपद्यत [मार्षा] स्सर्वतथागतशासने, मम चाज्ञां पालयत !”। अथ त एवमाहुः।” कथम् प्रतिपद्यामः ?”। भगवान् वज्रपाणिराह।” बुद्ध धर्मं च सङ्घं च शरणगमनं प्रतिपत्तितः, सर्वज्ञज्ञानलाभाय प्रतिपद्यध्वं मार्षा !” इति॥

अथ योऽस्मिन् लोकधातौ सकलत्रैलोक्याधिपतिर्महादेवः सर्वत्रैलोक्याधिपत्यगर्वितो महाक्रोधतान्दर्शयन्नेवमाह। “अहं भो यक्ष त्रैलोक्याधिपतिरीश्वरः कर्ता विकर्ता सर्वभूतेश्वरो देवातिदेवो महादेवः; तत्कथमहं ते यक्षज्ञाङ्करिष्यामी- ?” ति॥

अथ वज्रपाणिः पुनरपि वज्रमुल्लालयन्नाज्ञाप्यति। “भो दुष्टसत्त्व शीघ्रं प्रविश मण्डलं, मम च समये तिष्ठ !”।

अथ महादेवो देवो भगवन्तमिदमवोचत्।” कोऽयं भगवन्नीदृशः सत्वो योऽयमीश्वरस्यैवमाज्ञान्ददाति ?”।

अथ भगवान् सर्वावन्तं महेश्वरादित्रैलोक्यगणमाहूयैवमाह।” प्रतिपद्यत मार्षास्त्रिशरणगमनसमयसंवरे; मायं वज्रपाणिर्यक्षः क्रूरः क्रोधनश्चण्डो महाबोधिसत्वश्च वो दीप्तेन वज्रेण सकलमेव त्रैधातुकं नाशयेद्” इति।

अथ महेश्वरः सकलत्रैलोक्याधिपत्यतया स्वज्ञानवशितया च भगवतो वज्रपाणेर्भयसन्दर्शनार्थं महाचण्डक्रोधतां महाभैरवरूपतां महाज्वालोत्सृजनतां महा[रौ] द्राहासतां सहगणैः सन्दर्शयन्नेवमाह। “अहं भोः सकलत्रैलोक्याधिपस्त्वं ममाज्ञान्ददासी-” ति॥

अथ वज्रपाणिस्तद्वज्रं [सगर्वम्] उल्लालयन् विहसन्नेवमाह।” प्रतिपद्य भो कटपूतनमानुषमान्साहार चितिभस्मभक्ष्यभोज्य शय्यासनप्रावरण ममाज्ञा [म्पालय] !”। अथ महेश्वरो महादेवः सकलं त्रैलोक्यं महाक्रोधाविष्टमधिष्ठाय, एवमाह। “त्वमपि ममाज्ञां पालय, समये च प्रति [पद्य !” इ] ति॥

अथ वज्रापाणिर्महाक्रोधराजो भगवन्तमेतदवोचद्। “अयम्भगवन्महादेवो देवः स्वज्ञानबलगर्वात् महेश्वर्या [धिप] त्यात् च सर्वतथागतशासने न प्रणमति। तत्कथमस्य क्रियत ?” इति॥

अथ भगवान् सर्वतथागतहृदयसंभूतं महावज्रस [मयं] स्मारयति ओं निसुम्भ वज्र हुं फट्॥

अथ वज्रपाणिर्महाबोधिसत्वः स्ववज्रहृदयमुदाजहार हुं॥ अथास्मिन् भाषितमात्र सकलत्रैधातुकसन्निपतिता महादेवादयः सर्वत्रैलोक्याधिपतयः अधोमुखाः प्रपतिताः आर्तस्वरं मन्वन्तो भगवतो वज्रपाणेश्च शरणं गताः। स च महादेवो देवो भूम्यां प्रपतितो निश्चेष्टीभूतो मृतः॥

अथ भगवान् जानन्नेव वज्रपाणिमेवमाह। “प्रतिपद्यस्व वज्रपाणे अस्य सकलत्रिलोकचक्रस्याभयाय, मा पञ्चत्वमापादय”। अथ वज्रपाणिर्महाक्रोधराजो भगवतो वचनमुपश्रुत्य तां सर्वदेवादीनाहूयैवमाह।” बुद्धं धर्म सङ्घं च शरणं प्रतिपद्यत, ममाज्ञाकारितायां च, यदीष्टं वः स्वजीवितम्” इति। अथ त एवमाहुः। “सबुद्धधर्मसङ्घसमुद्रांच्छरणं गच्छामः, त्वच्छासनाज्ञां न जानीम” इति॥

अथ भगवान् वैरोचनस्तथागतस्तानाहूयैवमाह। “अयं भो देवोऽस्माकं सर्वतथागताधिपतिः सर्वतथागतपिता सर्वतथागताज्ञाकरः सर्वतथागतज्येष्ठपुत्रो भगवां समन्तभद्रो बोधिसत्वो महासत्वः सर्वसत्वविनयेन कार्यकरणतया महाक्रोधराज्यतायामभिषिक्तः। तत्कस्माद्धेतोः ?। सन्ति युष्मद्मध्ये महादेवादयो दुष्टगणास् ते सर्वतथागतैरपि न शक्याः शान्तया पापेभ्यो निवारयितुं। तेषां पापसत्वानां निग्रहाय अधितिष्ठितस्तद्युस्माभिरस्य समये स्थातव्यमित्याज्ञा” इति। त एवमाहुर्। “अस्माकं भगवन्नस्माज्जीवितविप्रलायात्परित्रायस्व। यामाज्ञान्दास्यति तत्करिष्यमह” इति। भगवानाह। “हं भो मार्षा एतमेव शरणं गच्छतायमेव वः परित्रास्यति, नान्य” इति॥

अथ ते त्रिलोकसकलत्रैधातुकसन्निपतिताः त्रिभुव [नपत] यो येन भगवान् वज्रधरस्तेनाभिमुखा एककण्ठेन महार्तान् स्वरान्प्रमुञ्चत एवमाहुः। “परित्रायस्व भो भगवन् परित्रायस्व अतो मरणदुःखाद्” इति॥

अथ वज्रपाणिर्महाबोधिसत्वस्तां देवादीनाहूयैवमाह। “हं भो दुष्टाः प्रतिपद्यत मम शासने। मा वो [दीप्तेना] नेन वज्रेण एकज्वालीकृत्य, सर्वानेव भस्मीकुर्याम्” इति। त एवमाहुः। “समन्तभद्रस्त्वं भगवन्सर्वतथागतचित्तोत्पाद [ःशान्तविनीतः] सर्वसत्वहितैषी सर्वसत्वाभयप्रदः। तत्कथं भगवन्नस्माकन्निर्दहिष्यती-?” ति। अथ वज्रपाणिर्महाक्रोधरजस्तानेवमाह। “[अहं भो] मार्षाः समन्तभद्रो येन सर्वतथागताज्ञाकारित्वाद्युष्मद्विधानां दुष्टसत्वजातीयानां पापचित्तानां संशोधनार्थाय, विनाशयामि यदि मत्समये न तिष्ठत” इति। ते प्राहुर् “एवमस्त्वि” ति॥

अथ वज्रपाणिर्महाक्रोधराजो महेश्वरं मुक्त्वान्यान्देवानाश्वास्योत्थापनार्थमिदम् वज्रोत्तिष्ठन्नाम सर्वतथागतहृदयमभाषत् वज्रोत्तिष्ठ॥ अथास्मिन् भाषितमात्रे महेश्वरं मुक्त्वा सर्वे ते त्रिधातुकसन्निपतितास्त्रिभुवनपतयः सपरिवाराः संमूर्च्छिताः समानाः समाश्वस्तहृदया अभूवन् दिव्यानि सुखान्यनुभवन्तो विगतभयच्छभितरोमहर्षा भगवन्तं वज्रपाणिनमवलोकयन्तः समुत्थिता इति॥

अथ भगवान् वज्रपाणिं बोधिसत्वमामन्त्रयामास। “अयं महासत्वो महादेवो देवाधिपतिर्नोत्थापितः, तत्किमस्य जीवितविप्रणाशेन कृतेन ?; जीवापयैनं, सत्पुरुषोऽयं भविष्यती-” ति। अथ वज्रपाणिर् “एवमस्त्व्” इति कृत्वेदं मृत संजीवनहृदयमुदाजहार वज्रायुः॥ अथास्मिन् भाषितमात्रे महादेवो देवो मृतः संजीव्योत्थातुमिच्छति, न शक्तो व्युत्थातुं। ततो भगवन्तमेतदवोचत्। “किमहं भगवता एवं शास्यामि ?”। भगवानाह। “न त्वं प्रतिपद्यस्वास्य महासत्पुरुषस्याज्ञाङ्कर्तु। अयमेव तेन शास्ति, नाहं”। महेश्वरः प्राह। “किन्न त्वं भगवंच्छक्तोऽस्माद्दृष्टसत्वान्परित्रातुम् ?” इति। भगवानाह। “नाहमस्मात्समर्थः परित्रातुं”। आह। “तत्कस्माद्धेतोर्”। आह। “सर्वतथागताधिपतित्वात्”। आह। “नाहं भगवं भगवतो भाषितस्यार्थमाजाने। किन्तु यत्र हि नाम तथागतानामपि सर्वत्रैधातुकाधिपतीनामन्योऽधिपतिस्तन्न जाने कोऽयम्” इति॥

अथ भगवान् वज्रपाणिर्महाबोधिसत्वः पुनरपि महादेवमाहूयैवमाह। “न प्रतिप[द्यसि किं] दुष्टसत्व ममाज्ञाङ्कर्तुम् ?” इति। अथ महादेवो वज्रसत्ववचनमुपश्रुत्य कुपितश्चण्डीभूतस्तथा पतित एव पुनरपि महारौद्ररूपतां दर्शय[न्ने]वमाह। “मरणमप्युत्सहामि; न च तवाज्ञाङ्करिष्यामि”॥

अथ वज्रपाणिर्महाबोधिसत्वो महाकोपतां सन्दर्शयन्स्वक्रमतालादिद [मनुच] रन् निश्चचार ओं पादाकर्षण वज्र हूं॥

अथ भगवतश्चरणतालात्समन्तज्वाला गर्भाकृतभ्रुकुटीदंष्ट्राकरालमहावक्त्रो वज्रा नुचरो भगवतो वज्रपा] णेः पुरतः स्थित्वाज्ञां मार्गयामास॥

अथ वज्रापाणिर्महेश्वरसंशोधननिमित्तमेवमाह ओं पादाकर्षाकर्षस्य सर्ववज्रधरानुचर [कण्ड कण्ड व] ज्र हूं जः॥

अथैवमुक्ते महादेव उमादेवीसहितः ऊर्ध्वपादो नग्नः सर्वजगद्भिरुपहस्यमानः पादाकर्षणवज्रानुचरेण भगव [तो वज्रपा]णेः पुरतः पादताले स्थापित इति।

अथ वज्रपाणिर्बोधिसत्वो भगवन्तमेतदवोचत्। “अयं भगवन् दुष्टसत्वः सपत्नीकः किं करोमि ?” [इति]। भगवानाह ओं वज्राक्रम होः॥ अथैवमुक्ते वज्रपाणिर्महाबोधिसत्वो महादेवं वामपादाक्रान्तं कृत्वा, दक्षिणेन चोमा [याः स्तनौ पीड]यन्निदं स्वहृदयमुदाजहार ओं वज्राविश हनय त्रं त्रट्॥

अथास्मिन् भाषितमात्रे महादेवः समाविष्ट्वा, स्वकरसहस्रेण मुख[सह]स्त्रमहनत्। अथ वज्रमणिरत्नशिखरकूटागारस्य बाह्यतः सर्वत्रिभुवनैर्महानादो मुक्तः। “अयं सोऽस्माकमधिपतिरनेन महात्मना [शास्यत” इति]॥

अथ भगवान् महादेवस्योपरि महाकरुणामुत्पाद्य, इदं सर्वबुद्धमैत्रीहृदयमभाषत् ओं बुद्ध मैत्री वज्र रक्ष हं॥

अथास्मिन् भाषितमात्रे महादेवस्य तदावेशदुःखमुपशान्तं। तच्च वज्रपाणिपादतलस्पर्शमनुत्तरसिद्ध्यभिषेकसमाधिविमोक्षधारणी ज्ञानाभिज्ञावाप्तये यावत् तथागतत्वाय संवृत्त इति। अथ महादेवो भगवत्पादतलस्पर्शात्सर्वतथागतसमाधिधारणीविमोक्षसुखान्यनुभवन्त महादेवकायं वज्रपाणिपादमूले निपातयित्वा, अधस्ताद् द्वात्रिंशद्गङ्गानदीवालुकोपमलोकधातुपरमाणुरजः समा लोकधातवोऽतिक्रम्य, भस्मच्छत्रा नाम लोकधातुस्तत्र भस्मेश्वरनिर्घोषो नाम तथागत उत्पन्नः। अथ तस्मान्महादेवकायादिदमुदानं निः सृतवान्।

अहो हि सर्वबुद्धानां बुद्धज्ञानमनुत्तरं।
पातयित्वाक्षरपदे निर्वृत्तौ स्थापयन्ति हि॥ इति॥

अथ वज्रपाणिर्महाबोधिसत्वस्तानन्यान् नारायणादान् सर्वत्रिलोकाधिपतीनेवमाह। “प्रविशध्वं मार्षा अस्मिन्सर्वतथागतवज्रसमयमहामण्डले; प्रविष्ट्वा सर्वतथागतसमयमनुपालयत !”। त एवमाहुः। Ïयथा ज्ञापयसि तथा कुर्म” इति॥

अथ वज्रपाणिर्महाबोधिसत्वस्तांस्त्रिभुवनसन्निवेशानाहूयैवमाह। “प्रतिगृण्हत मार्षाः पुनस्त्रिशरणगमनशिक्षासमयसंवरं, मम च समये तिष्ठत !”। त एवमाहुः “एवमस्त्विति। किन्तु वयं तव समयम् [अकोविदाः]”।

अथ वज्रपाणिः स्वसमयमनुप्रादात्। बोधिचित्तं समुत्पद्य यथा च क्रमतः पर [म्। बोध्यर्थाय यथाबलं यत]ध्वं सुसमाहिताः॥

अथ वज्रपाणिर्महाबोधिसत्वः तेषां देवादीनां, “प्रवेशमहासमयमुद्रां बन्धान” इति कृत्वा, बन्धयन्ति स्म, अनेन [महासमय-] मुद्राहृदयेनेति।

ओं वज्र समय गृह्ण बन्ध समयं,
वज्रसत्व समयमनुस्मर सर्वतथागतसमयस्त्वं।
दृढी मे भव, स्थिरो मे भव, [आहार्यो मे भव, अप्रतिहा]र्यो मे भव,
सर्वकर्मसु च मे चित्तश्रेयः कुरु।
ह ह ह ह हूं॥

अथास्मिन्नुच्चारितमात्रे सकलत्रैधातुकत्रिभुवनजनसनिवेशस्य [वज्रक्रोध-तेरिन्तिरि-मुद्रापाणिभ्यामाविश्य बन्धतो दृढीभूतेति॥

New names of Sarva deities
अथ वज्रपाणिर्यथावत्प्रवेशयित्वा, सर्वमहामण्डलं यथानुपूर्वेण देशयित्वा, वज्ररत्नाभिषेकैरभिषिच्य, वज्रचिन्हानि च करेभ्यो दत्वा, वज्रनामाभिषेकैरभिषिच्य, सर्वतथागतसत्वार्थतायां स्थापयामास। अथ सर्वत्रैलोक्याधिपतीनां कर्म भवति। तद्यथा, महेश्वराय क्रोधवज्रः, नारायणाय मायावज्रः, सनत्कुमाराय वज्रघण्टः, ब्रह्मणे मौनवज्रः, इन्द्राय वज्रायुधः, इति विद्याराज्यका इत्यभिषिक्ताः। ततोऽन्तरीक्षचराणां सर्वदेवाधिप[तीनामनुप्रादात्।] तद्यथा, अमृतकुण्डले वज्रकुण्डलिः, इन्दवे वज्रप्रभः, महादण्डाग्राय वज्रदण्डः, पिङ्गलाय वज्रपिङ्गलः, इत्येवमादाय वज्रक्रोधा इत्यभिषिक्ताः। तत आकाशचराणां सर्वदेवाधिपतीनामनुप्रादात्। तद्यथा, मधुमत्ताय वज्रशौण्डः, मधुकराय वज्रमाला, जयाय वज्रवशी, जयावहाय विजयवज्र, इत्येवमाद्या गणपतय इत्यभिषिक्ताः। ततो भौमानां सर्वदेवाधिपतीनामनुप्रादात्। तद्यथा, कोशपालाय वज्रमुसलः, वायवे वज्रानिलः, अग्नये वज्रानलः, कुबेराय वज्रभैरवः, इत्येवमादयो दूता इत्यभिषिक्ताः। ततः पातालाधिपतीनां सर्वदेवानामनुप्रादात्। तद्यथा, वराहाय वज्राङ्कुशः, यमाय वज्रकालः, पृथ्वीचूलिकाय वज्र-विनायकः, वरुणाय नागवज्रः, इत्येवमाद्याश्चेटका इत्यभिषिक्ताः॥

New names of Saiva goddesses
ततस्त्रैलोक्याधिपतिः सर्वदेवीनां वज्ररत्नाभिषेकेणाभिषिच्य, स्वचिन्हेभ्यो वज्राधिष्ठाप्य, [वज्र] नामाभिषेकेणाभिषिच्य, सर्वतथागतसत्वार्थतायां प्रतिष्ठापयामास। तद्यथा, उमायै क्रोधवज्राग्निः, रुक्मिण्यै [वज्रसौवर्णी], षष्ठ्यै वज्रकौमारी, ब्रह्माण्यै वज्रशान्तिः, इन्द्राण्यै वज्रमुष्टिरि, त्येवमाद्या वज्रराजनिका इत्यभिषिक्ताः। ततोऽन्तरीक्षचरीणां [सर्वमा] तृणामनुप्रादात्। तद्यथा, अमृतायै वज्रामृता, रोहिण्यै वज्रकान्तिः, दण्डहारिण्यै दण्डवज्राग्रा, जाताहारिण्यै वज्र[मेखला], इत्येवमाद्या वज्रक्रोधिन्य इत्यभिषिक्ताः। ततः खेचरीणां सर्वमातॄणामनुप्रादात्। तद्यथा, मारण्यै वज्रविलया, [अशना]यै वज्राशना, वसनायै वज्रवसना, रत्यै वज्रवशा, इत्येवमाद्या गणिका इत्यभिषिक्ताः। ततो भूचरीणां सर्वमातॄणामनुप्रादात्। तद्यथा, शिवायै वज्रदूती, वायव्यै वेगवज्रिणी, आग्नेध्र्यायै वज्रज्वाला, कुबेर्यै वज्रविकटा, इत्येवमाद्या वज्रदूत्य इत्यभिषिक्ताः। ततः पातालवासिनीनां सर्वमातॄणामनुप्रादात्। वाराह्यै वज्रमुखी, चामुण्डायै वज्रकाली, च्छिन्ननासायै वज्रपूतना, वारुण्यै वज्रमकरी, इत्येवमाद्या वज्रचेट्य इत्यभिषिक्ताः॥

अथ वज्रपाणिर्महाबोधिसत्वः तेषां सर्वप्रविष्टानाम्बुद्धज्ञानानि निष्पाद्य, सर्वमुद्राबन्धानि शिक्षयित्वा, वज्रसमयान्यनुप्रादात् अनेन शपथहृदयेन।
अयं वज्रो महावज्रस्सर्वबुद्धैरधिष्ठितः।
समयव्यतिक्रमात्क्षिप्रं भस्मीकुर्यत्कुलानि तु॥
ओं हन समय हुं फट्

Mudra
ततो हृदयग्रहणमुद्रमनुप्रादात्।
वज्रमुद्राद्विकं बध्वा तर्जन्यङ्कुशबन्धितं।
वलितोद्वलितं कुर्याद्यस्तु कार्यार्थचिन्तकः॥१॥
तस्य युष्माभिः पुरतः स्थातव्यं कार्यसिद्धये।
मा वो जीवितनाशाय भवेत्समयो ह्ययम्॥२॥
वज्रबन्धं दृढीकृत्य कुञ्चिताग्र्या सुयन्त्रितं।
सन्धायाङ्गुष्ठयुगलं पीडयेन्मध्यमाद्वयं॥३॥
अयं वः समयो हन्याद् यदिं कश्चिदतिक्रमेत्।
बन्धं समयमुद्राया वज्रविद्याधरस्य तु॥४॥
कनिष्ठाङ्ग लिबन्धन्तु वज्रमुद्राद्विकस्य तु।
पृष्ठतोऽग्राङ्गु लिग्रस्तं परिवर्त्य शिरे स्थितं॥५॥
वज्रविद्याधराबन्धः समयाऽयं महात्मनः।
यस्तु क्रोधो निरीक्षेत स्थेयन्तस्य पुरस्तथा॥६॥
वज्ररक्षां दृढां बध्वा वज्रबन्धं तु पीडयेत्।
भौमानां समयो ह्येष सर्वसत्वाभिरक्षकः॥७॥
यस्तु कश्चित्परित्रार्थे बन्धेत्क्रोधसमन्वितः।
रक्षायै[य]स्य सत्वस्य स्थातव्यं तस्य पृष्ठतः॥८॥
वज्रमुद्रद्विकं बध्वा वमवज्राग्रपीडिता।
वलितोद्वलितं कृत्वा स्फोटयेत्कन्यसाङ्गलि॥९॥
य[दि क्रोधं समाविशेत्] प्रयुञ्चेत् समयोह्य।
तस्य युष्माभिः पुरतः स्थेयं सर्वाग्रसिद्धय॥ इति॥१०॥
ग्रन्थितं वज्रबन्धेन दृढन्तर्जनी [योगेन]।
मध्यमाङ्गुष्ठमुखयोर्वज्रमुद्रां परिक्षिपेत्॥११॥
परिवर्त्य ललाटे तु स्थाप्य यस्तु समाव्हयेत्।
तस्य स्थेयं पुरः शश्वद् यदि जीवि[तं स्थापयेद्॥१२ इ]ति॥

अथासां सकलत्रिलोकहृदयग्रहणसमयमुद्राणां समयग्रहणहृदयानि भवन्ति।
ओं वलितोद्वलित वज्राकर्षय[हुं ज्जः॥] वज्रवलितमुद्राया देवाकर्षणहृदयं।
हुं वज्राग्र पीडय समय हुं॥ अन्तरीक्षचराणं॥
ओं वज्रमालाग्र वं॥ मालधारिणी [नां।]
ओं वज्रबन्ध हं॥ भूचराणां।
ओं वज्र पाताल भंज भंज हुं फट्॥ पातालनिवासिनां।
ओं हेरूक वज्र समय सर्व-दुष्ट समय मुद्रा प्रभंजक हुं फट्॥ सर्वमातॄणामिति॥

अथ भगवान् वज्रपाणिर्भगवन्तमेतदवोचत्। “अहं भगवं सर्वतथागतैर्दुष्टदमक इत्यभिषिक्तः, तत्साध्वाज्ञापयैषां सर्वदुष्टमण्डलबन्धानां कथं प्रतिपद्यामि”।

अथ भगवानिदमुपश्रुत्य एवमाह। ओं वज्र सुंभ निसुंभ हुं फट्॥
अथ वज्रपाणिर्महाबोधिसत्वः सर्वसत्वपरित्राणार्थमिदं सर्वमण्डलाकर्षणहृदयमभाषत्।
ओं वज्र समयाकर्षय सर्व-मण्डलान् वज्र-धर सत्यं मातिक्रम हुं फट्॥
वज्राङ्कुशद्वयं हृदये परिवर्तितं।
अर्गाङ्कुशीद्वया बाह्यमण्डलाकर्षणं परं॥

अथास्मिन् भाषितमात्रे सर्वमण्डलानि सर्वतः सुमेरुगिरिमूर्ध्नि बाध्यतः परिवार्यावस्थितानि।

अथ भगवान् वज्रपाणिस्तां सर्वमण्डलसन्निवेशानाहूयैवमाह। “प्रतिपद्यत मार्षाः प्राणातिपातवैरमण्यसमयसंग्रहणम् !” इति। अथ तैर्बाह्यमण्डलसमयसत्वैर्भगवां विज्ञप्तो, “वयं भगवन् मान्साहारा दृष्टसत्वतया ओजोहारेण जीविकां कल्पयामः; तदाज्ञापयतु भगवान् कथमस्माभिर्जीवितव्यम्” इति।

अथ वज्रपाणिर्महाबोधिसत्व इमं दुष्टवज्रक्रोधमभाषत्। ओं दुष्टवज्रक्रोध हन दह पच विध्वंसय विकिर सर्वदुष्टसमयमुद्रामण्डलान् भंज भंज मर्द मर्द खाद खाद परमन्त्रान् वज्र समय हुं फट्॥

वज्र क्रोधाङ्गुली सम्यग्‌नखसन्धानवेष्टिते।
सन्धयेन्मुखतो गाढां मुद्रेयं दुष्टनाशनी॥ति॥

अथास्मिन् भाषितमात्रे सर्वदुष्टमण्डलानि एकध्यीभूत्वानेकानि विध्वन्सितानि विकीर्णानि, समयमुद्राबन्धाः स्फोटिताः। ते च दुष्टसमयसत्वा दह्यमानाः पच्यमाना महान्तो महारौरवान्तान्तान् खान् मुञ्चन्तो, येन भगवान् महावज्रधरस्तेनाञ्जलयो बध्वैवमाहुः। “परित्रायस्व भगवन्, येन वयं प्राणान् न परित्यजामः !”।

अथ वज्रपाणिः पुनरपि भगवन्तमेतदवोचत्। “आज्ञापयस्व भगवन् कथमेषां दुष्टमण्डलानां प्रतिपद्यामि”।
अथ भगवानिदमुवाच ओं निसुंभ हन दह पच गृह्ण बन्ध हुं फट्॥

अथ वज्रपाणिर्महाबोधिसत्व इ[मं] वज्रक्रूरक्रोधमभाषत् ओं महावज्रक्रूरक्रोध पातय सर्वदुष्टमण्डलान्, विनाशय सर्वदुष्टसमयान्, विकिर विध्वं[सय स्फो]टय भंजय सर्वदुष्टसमयमुद्राबन्धान्, गृह् ण हन दह पच सर्वदुष्टसमयसत्वान्, वज्र समय हुं फट्॥

अथास्मिन् भाषितमात्रे सर्वदुष्टसमयमुद्रामण्डलानि पुनरप्येकध्यीभूत्वा महासागरे प्रपतितानीति॥

अथ वज्रपाणिर्महाबोधिसत्वः पुनरपि भगवन्तमेतदवोचत्। “अहं भगवता सर्वदुष्टदमनायाध्येषितः। तदेषां डाकिनीग्रहादीनां सर्वग्रहाणां कथं प्रतिपद्यामि ?।”

अथ भगवानिदमवोचत् ओं हन हन वज्र हुं फट्॥

अथ वज्रपाणिर्महाबोधिसत्वः पुनरपि सर्वडाकिन्यादिदुष्टग्रहाकर्षणहृदयमभाषत् ओं वज्राकर्षय शीघ्रं सर्वदुष्टग्रहान् वज्रधरसत्येन हुं जः॥

अथास्मिन् भाषितमात्रे डाकिन्यादयः सर्वदुष्टग्रहाः सुमेरुगिरिमूर्ध्नि बाह्यतो मण्डलीभूत्वावस्थिता इति॥

अथ वज्रपाणिर्महाबोधिसत्वः तां डाकिन्यादीन् सर्वदुष्टग्रहानाहूयैवमाह। “प्रतिपद्यत मार्षाः प्राणातिपातवैरमण्यशिक्षासमयसंवरे; मा वो वज्रेणादीप्तेन प्रदीप्तेनैकज्वालीभूतेन कुलानि निर्दहेयम्”।

अथ ते डाकिन्यादयः सर्वदुष्टग्रहा येन भगवान् तेनाञ्जलिम् बध्वा भगवन्तं विज्ञापयामासुः।” वयं भगवन् मान्साशिनस्, तदाज्ञापयस्व कथं प्रतिपत्तव्यम्” इति।

अथ भगवान् वज्रपाणिमेवमाह “प्रतिपद्यस्व वज्रपाणे एषां सर्वानां महाकरुणामुत्पाद्योपायन्दातुम्” इति।

अथ वज्रपाणिर्महाकारुणिक इदं सर्वसत्वमरणनिमित्तज्ञानमुद्राहृदयमभाषत् ओं वज्र प्रतिगृहण हृदयमाकर्षय, यद्ययं सत्वो मांसादत्वेन म्रियते, तदस्य हृदयन्निष्क्रमतु, समय हुं ज्जः॥

अथास्य मुद्राबन्धो भवति।
वज्रबन्धं समाधाय बाहुभ्यां सुहृदं हृदि।
वज्राङ्गुलिमुखाभ्यान्तु स्वकक्षौ तु समुत्कर्षेद्॥ इति॥

अनया मुद्रया भवद्भिः सर्वसत्वहृदयान्यपकृष्य भोक्तव्यानी-”ति।
अथ ते डाकिन्यादयः सर्वदुष्टग्रहा हुलुहुलुप्रक्ष्वेडितानि कृत्वा स्वभवनं गता इति॥

अथ भगवान् वज्रपाणिः पुनरपि भगवन्तमेतदवोचत्। “अहं भगवद्भिः सर्वतथागतैः सर्वदुष्टदमक इति कृत्वाध्यिष्टः। तदाज्ञापयतु मे भगवान् ज्वरादीनां व्याधीनां किङ्करोमि।”।

अथ भगवानाह ओं हुं फट्॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वज्वराद्याकर्षणहृदयमुदाजहार ओं वज्र समयानय सर्व-[दुष्ट]-ज्वरादीन्नाशयं हुं फट्॥

अथास्मिन् भाषितमात्रे ज्वरादयः सर्वे सुमेरुगिरिमूर्ध्नि बाह्यतः परिवार्यवस्थिता अभूवन्।

अथ वज्रपाणिस्तान् ज्वरादीनाहूयैवमाह। “प्रतिपद्यत मार्षाः सत्वोपघातवैरमण्यशिक्षाग्रहणसंवरे !”। अथ त एवमाहु। “वयं भगवन् सत्वौ [जोऽप]हृत्य जीविकां कल्पयामः। तत्साधु भगवानाज्ञापयतु कथं प्रतिपद्यामह” इति।

अथ वज्रपाणिर्महाबोधिसत्व इदं स्वकर्मविशुद्धिज्ञानमुद्राहृदयमुदाजहार ओं वज्रकर्म विशोधय सर्वावरणानि बुद्धसत्येन समय हूं॥

अथास्य मुद्राबन्धो भवति।

वज्राञ्जलिं दृढीकृत्य तर्जनीद्वयकुञ्चितां।
सुबन्धितसमाङ्गुष्ठ्ययन्त्रिता पापहारिणी॥ इति॥

इयं मुद्रा यस्य ज्वरादिसर्वव्याधिस्पृष्टस्य कर्मतो दर्शयेत्, तद्युष्माभिरपसर्तव्यं; मा वो जीवितनाशो भवेद्” इति। अथ त “एवमस्त्व्” इति कृत्वा प्रक्रान्ता इति॥

अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतानेवमाह। “अहं भगवद्भिः सर्वावरणनीवरणकर्मावरणविशुद्धिहेतोः स्वहृदयेभ्यो विनिःसृष्टः। तदाज्ञापयतु मे भगवन्तः एषान्नरकादीनां सर्वापायानां कथं प्रतिपत्तव्यम्” इति।

भगवानाह ओं क्षपय वज्र स्वाहा॥

अथ वज्रपाणिर्महाबोधिसत्वः रौरवादिसर्वापायगतिचक्राकर्षणहृदमभाषत् ओं सर्वापायकर्षण विशोधन वज्रसमय हुं फट्॥

अथास्मिन् भाषितमात्रे रौरवमहारौरवादयः सर्वापायसन्निवेशाः सुमेरुगिरिमुर्ध्नि बाह्यतः परिवार्यावस्थिताः।

अथ वज्रपाणिर्महाबोधिसत्वः तानपायभूमिपतितान् सर्वसत्वानाहूयैवमाह।” गृह्णत मार्षास्त्रिशरणगमनसङ्कटात् !। एष वयं बुद्धं धर्म संघं त्वं च शरणं गच्छाम” इति।

अथ वज्रपाणिः सर्वापायस्फोटनहृदयमुदाजहार ओं वज्रपाणि विस्फोटय सर्वापायबन्धनानि प्रमोक्षय सर्वापायगतिभ्य सर्वसत्वान् सर्वतथागतवज्र समय त्रट्॥

अथास्य मुद्राबन्धो भवति।
वज्रबन्धं दृढीकृत्य मध्यमाद्वयसन्धिता।
चतुरन्त्यमुखासक्ता पापस्फोटेति कीर्तिता॥

अथ ते त्र्यपायगतिचक्रान्तरस्थिताः सर्वसत्वा वज्रपाणिसकाशादिमां मुद्रां दृष्ट्वा, सर्वदुर्गतिभ्यश्च्युत्वा, भगवतो वैरोचनस्य पादमूले उपपन्नाः। ते चापाया महासमुद्रे पतिता इति।

अथ वज्रपाणिर्महाबोधिसत्त्वः पुनरपि भगवन्तमेतदवोचत्। “अहं भगवन्नशेषानवशेषत्वधातुपरित्राणसर्वहितसुखानुभवनार्थ यावत्सर्वतथागतत्वोत्तमसिद्धिफलावाप्तिहेतोः सर्वतथागतसिद्धिवज्रं दत्वा, सर्वतथागतैरध्यिष्टः। तत्साधु आज्ञापयन्तु मे भग[वन्तः] सर्वतथागता अथैषां मनुष्याणां किङ्करोमी-” ति।

अथ सर्वतथागताः पुनः समाजमागम्येदमवोचन् ओं वज्रपाणि महा[मण्डले] प्रवेशय, सर्वान् दुष्टरौद्रान् निवारय, पापेभ्यः प्रमोक्षय, दुर्दृष्टिपर्यापन्नान् विशोधय नाशय विनाशय ह ह ह ह हूं॥

अथ वज्रपाणिः सर्वतथागताज्ञावचनमुपश्रुत्य, अशेषानवशेषसत्वधातुपरित्राणसर्वहितसुखोत्तमसिद्धिनिमित्तं यावत् सर्वतथागतज्ञानाभिज्ञावाप्तिफलहेतोरिदं सर्वतथागतमहावज्रसमयभूतं त्रिलोकविजयन्नाम महामण्डलमभाषत्।

अथातः संप्रवक्ष्यामि महामण्डलमुत्तमं।
वज्रधातुप्रतीकाशं सर्वसिद्धिकरं परं॥१॥
त्रिलोकविजयन्नाम समयं वज्रसंभवं।
बुद्धबोधिप्रवर्तारं सर्वदुष्टविनाशनं॥२॥

तत्रानेन मन्त्रण सूत्रयेत् ओं वज्रसमय सूत्रं मातिक्रम॥
चतुरस्त्रं चतुर्द्वारं चतुस्तोरणशोभितं।
चतुःसूत्रसमायुक्तं पट्टमालासुशोभितं॥१॥
सर्वमण्डलकोणेषु द्वारनिर्यूहसन्धिषु।
स्वचित्तं वज्ररत्नैस्तु सूत्रयेद्बाह्यमण्डलं॥२॥
तस्याभ्यन्तरतः प्राज्ञो वज्ररत्नविभूषितं।
चतुरस्त्रं चतुर्द्वारमष्टस्तम्भसतोरणं॥३॥
वज्रस्तम्भाग्रसंस्थेषु पञ्चमण्डलमण्डितं।
सूत्रयेन्मण्डलस्तत्र सूत्रं रङ्गैः प्रपूरयेत्॥४॥

तत्रायं रङ्गजापः ओं वज्रचित्र समय हूं॥
ततो मध्यस्थितो भूत्वा वज्राचार्यः समाहितः।
मनसोद्घाटयेच्चैव वज्रद्वारचतुष्टयं॥

तत्रायं द्वारोद्घाटनमन्त्रः ओं वज्रोद्घाटय समय प्रवेशय हूं॥
सौवर्णे राजते वापि मृण्मये वा सुचित्रिते।
इष्टके चतुरस्त्रे तु बुद्धबिम्बन्निवेशयेत्॥

तत्रेदं सर्वतथागताकर्षणहृदयं भवति। ओं वज्र ज्वालाग्निप्रदीप्ताकर्षय सर्वतथागतान् महावज्र समय हूं जः॥

बुद्धस्य पुरतो वज्रं ज्वालामध्ये निवेशयेत्।
ज्वालामध्ये लिखेद् रत्नं पद्मं विश्वायुधन्तथा॥

अथासां वज्रसमयमुद्राणां निवेशहृदयानि भवन्ति।
हूं सत्ववज्र ज्वालामाल हूं फट्॥
ओं रत्नवज्र ज्वालामाल हूं त्रः॥
ओं धर्मवज्र ज्वालामाल हूं ह्रीः॥
हूं कर्मवज्र ज्वालामाल हूं हः॥
वज्रवेगेन निःक्रम्य बुद्धस्य पुरतस्तथा।
संलिखेद्विधिवत्प्राज्ञो वज्रहुंकारमण्डलम्॥

तत्रेदं वज्रवेगहृदयं भवति ओं वज्रवेगाक्रम हूं॥
एवं वज्रधात्वादिषु सर्वमण्डलेषु सूत्रमाक्रम्य, सर्वतो गच्छेदिति॥

अथास्य मुद्रा भवति।
मनोत्क्षिप्य रेखात्तु वज्रसूत्रमथापि वा।
प्रविशन्ति क्रमत्वापि भ्रम्यते समयान्न सः॥१॥
तत्र मध्ये महासत्वं व [ज्रपा]णिं समालिखेत्।
महानीलोत्पलरुचं वज्र-हूं-कारसंग्रहं॥२॥
ईषद् दंष्ट्राकरालास्यं सरोषहसिताननं।
प्रत्यालीढस[माक्रान्तं ज्वा]लामालाकुलप्रभं॥३॥
वामपादसमाक्रान्तस्तेन कार्य महेश्वरः।
दक्षिणं तु लिखेत्पादमुमास्तनभरस्थितं॥४॥

तत्रास्य हृद[यं भवति हूं॥]
तस्य पार्श्वेषु सर्वेषु वज्रक्रोधान्निवेशयेत्।
क्रुद्धदंष्ट्राकरालांस्तु ज्वालामालाकुलप्रभान्॥

अथैषां हृदयानि भवन्ति।
[हूं॥
ओं वज्रसत्व-] क्रोध हूं फट्॥
ओं वज्रक्रोधाकर्षय हूं फट्॥
ओं वज्रकाम क्रोध रागाय हूं फट्॥
ओं वज्रतुष्टिक्रोध साधु साधु हूं फट्॥

वज्रवेगे[न चा] क्रम्य द्वितीयं मण्डलोत्तमं।
तत्रा वज्राभिषेकं तु लिखेत्क्रोधैः परिवृतं॥

अथैषां हृदयानि भवन्ति। त्रः॥
ओं वज्रभृकुटि क्रोध हर हर हुं फट्॥
ओं वज्रसूर्य महाज्वालामाल क्रोध ज्वालय सर्व हुं फट्॥
ओं वज्र क्रोध केतु देहि हुं फट्॥
ओं वज्राट्टहास क्रोध हः हः हः हः हुं फट्॥

वज्रवेगेन चाक्रम्य तृतीयं मण्डलात्तमं।
वज्रसेनं समालेख्यं वृतं क्रोधैर्महात्मभिः॥

अथैषां हृदयानि भवन्ति।
ह्रीः॥
ओं वज्रधर्म क्रोध विनाशय विशोधय हुं फट्॥
ओं वज्रतीक्ष्ण क्रोध च्छिन्द च्छिन्द हुं फट्॥
ओं वज्रहेतु क्रोध प्रविश प्रवेशय मण्डलं सर्वा हुं फट्॥
ओं वज्रक्रोध भाष वद वद हुं फट्॥

वज्रवेगेन चाक्रम्य चतुरथं मण्डलोत्तमं।
वज्रावेशं समालेख्यं वज्रक्रोधगणैर्वृतं॥

तत्रैषां हृदयानि भवन्ति।
अः॥
ओं वज्रकर्म॥
ओं वज्रकवच क्रोध रक्ष रक्ष हुं फट्॥
ओं वज्रयक्ष क्रोध खाद खाद हुं फट्॥
हुं वज्रक्रोध मुष्टि साधय समय हुं फट्॥

मण्डलस्य तु कोणेषु यथावदनुपूर्वता।
वज्रधातुप्रयोगेण गुह्यपूजां समालिखेत्॥

अथासां हृदयमुद्रा भवन्ति।
ओं वज्रलास्ये रागय हूं फट्॥
ओं वज्रमालेऽभिषिञ्च हुं फट्॥
ओं वज्रगीते गाद गाद हूं फट्॥
ओं वज्रनृत्ये वशीकुरु हुं फट्॥

वज्रवेगेन निःक्रम्य बाह्यमण्डलमुत्तमं।
तत्र कोणेषु कर्तव्यं पूजादेवीचतुष्टयं॥

अथासां हृदयमुद्रा भवन्ति।
ओं वज्रधूपपूजास्फरणसमये हुं फट्॥
ओं वज्रपुष्पपूजास्फरणसमये हुं फट्॥
ओं वज्रालोकपूजास्फरणसमये हुं फट्॥
ओं वज्रगन्धपूजास्फरणसमये हुं फट्॥

अङ्कुशाद्यास्तु कर्तव्या द्वारमध्यचतुष्टये।
बाह्यमण्डलसंस्थेषु बाह्यवज्रकुलानि तु॥

अथासां हृदयमुद्रा भवन्ति।
ओं वज्राङ्कुश महाक्रोधाकर्षय सर्वसमयान् हूं ज्जः॥
ओं वज्रपाश महाक्रोध प्रवेशय सर्वसमयान् हुं हूं॥
ओं वज्रस्फोट महाक्रोध बन्ध बन्ध सर्वसमयान् हुं वं॥
ओं वज्रावेश महाक्रोधावेशय सर्वसमयान् हुं अः॥

Initiation into the mandala
अथात्र त्रिलोकविजयमहामण्डले प्रवेशविधिविस्तरो भवति।

तत्रादित एव तावत्स्वयं वज्रा [चार्यो व]ज्रकोधतेरिन्तिरिमुद्रां बध्वा प्रविशेत्। प्रविष्ट्वा सर्वतथागतां विज्ञापयेत्। “अहं भगवन्तस्तथागताः क्रोधवशं यास्यामि [निग्रहीतव्यां] निग्रहीष्यामि संग्रहीतव्यां संग्रहीष्यामि। तन्मे भगवन्त आज्ञापयन्तु, कथं प्रतिपद्यामी” ति कृत्वा, वज्रक्रोधतेरिन्तिरिमुद्रां स्व [हृदये य]थावत्स्थाप्य, वज्राङ्कुशादिभिः कर्माणि कृत्वा, पुनः सर्वसमयमुद्रां बन्धयेत्; ततः सर्वे सान्निध्यङ्कल्पयन्ति। ततो गुह्यपूजाचतुष्टयं कृत्वा तथा धूपादिभिश्च॥

ततो वज्रशिष्यां प्रवेशयेदनेन विधिना स्वयं वज्राचार्यो वज्रकोधतिरिन्तिरिमुद्रां बध्वा, शिष्याय बन्धयेदनेन हृदयेन ओं गृण्ह वज्र समय हुं वं॥

ततो नीलवस्त्रान्तरीयनीलोष्णीषावबन्धशिराः, नीलरक्तकेन मुखं बध्वा, प्रवेशयेदनेन मन्त्रेण ओं वज्र समयं प्रविशामि॥ ततः प्रवेश्य वज्रावेशसमयमुद्रयास्यावेशमुत्पादयेदनेन हृदयेन वज्रावेश अः॥

ततः समाविशति। तेनावेशेन सर्वतथागतैरधिष्ठ्यते। सर्वं चातीतानागतप्रत्युत्पन्नन्निमिषादेव जानाति। अवध्यश्च भवति सर्वसत्वेभ्यः, अधृष्यः। हुंकारेण च सर्वसत्वनिग्रहानुग्रहसमर्थीभवति। वज्रपाणिश्चास्य नित्यं सर्वकार्याणि साधयतीति॥

ततः शपथहृदयं दद्यात्। ततो यथावत् मुखबन्धं मुक्त्वा, महामण्डलं दर्शयेत्। मण्डले दृष्टमात्रे तु सर्वपापैर्विमुच्यते, सकलत्रिलोकविजयसमर्थो भवति। हुंकारेण च महादेवादिसर्वदेवाकर्षणप्रवेशनबन्धनवशीकरणपातनक्षमो भवति। सर्वतथागताधिष्ठानाच्च वज्रपाणिर्महाबोधिसत्वः सततानुद्धः स्वकीयाः सिद्धीर्ददाति॥

ततोऽस्य वज्राभिषेकेणाभिषिच्य, तीक्ष्णस्ववज्रचिन्हं यथावत् पाणिभ्यां दातव्यमनेन मन्त्रेण ओं वज्रपाणि वज्रकर्मकरो भव॥

ततो वज्रनामाभिषेकन्दद्यादनेन मन्त्रेण। ओं वज्रक्रोध त्वामभिषिंचामि वज्रनामाभिषेकतः हेवज्र नाम॥ ततो यस्य यन्नाम कुर्यात् तस्य हेशब्दः प्रयोक्तव्य इति॥

ततो ज्ञानान्युत्पादयेत्।
वज्रबिम्बं समालिख्य हृदि वालाकुलप्रभं।
वज्रक्रोधसमापत्त्या सर्व आवेशयेज्जगत्॥१॥
वज्ररत्नं ललाटे तु समालिख्य तथैव च।
वज्रक्रोधसमापत्त्या सर्वसत्वान् वशन्नयेत्॥२॥
वज्रपद्मं गले कृत्वा ज्वालामालाकुलप्रभं।
वज्रक्रोधसमापत्त्या सर्वसत्वां स नाशयेत्॥३॥
सत्ववज्रं प्रतिष्ठाप्य मूर्ध्नि ज्वालाकुल[प्रभं]।
वज्रक्रोधसमापत्त्या रक्षेत् सर्वमिदं जगत्॥४॥

अथासां ज्ञानमुद्राणां हृदयानि भवन्ति।
हुं सत्व वज्र क्रोधाविश अः॥
हो रत्न [वज्रक्रोध] त्रः॥
हुं धर्म वज्रक्रोध फट्॥
हं कर्म वज्रक्रोध रक्ष॥

Mudra
ततो देवाद्याकर्षणमुद्राज्ञानं शिक्षयेत्।
वज्राङ्कुशं समा[लिख्य ताले हूंक]रसंज्ञितं।
अङ्गुलीं चालयेत्क्रुद्धो देवाकर्षणमुत्तमं॥१॥
वज्राङ्कुशं समालिख्य स्वपादतलमध्यतः।
लिङ्गमाक्रम्य तेनैव दे[वा समाकर्षे]द् ध्रुवं॥२॥
वज्राङ्कुशं समालिख्य स्वमेढ्रे तु समुत्थिते।
चालयंस्तु समाकर्षेदुमाद्याः सर्वयोषितः॥३॥
वज्राङ्कुशं समालिख्ये गुदे [ ]कुदे तथा।
तेनाक्रमीत यं देवं तस्याकर्षणमुत्तमं॥४॥

तत्रैषां हृदयानि भवन्ति।
ओं वज्र क्रोधाग्राकर्षय हुं फट्॥
ओं वज्र क्रमाङ्कुशक्रोधाकर्षय हुं फट्॥
ओं वज्र क्रोधदण्डाग्राकर्षय हुं फट्॥
ओं वज्रक्रोधासनागच्छाकर्षयामि ते वज्र समयमनुस्मर हुं फट्॥

ततश्चतुर्विधमुद्राज्ञानं शिक्षयेत्।
प्रत्यालीढं समास्थाय वज्रावेशप्रयोगतः।
क्षणाद्धुंकारमात्रेण सर्वमावेशयेज्जगत्॥१॥
वज्रवाचा वदेत्सम्यग् चतुर्हुंकारसंयुतं।
हृदयं सर्वबुद्धानां सर्वमप्यानयेद्ध्रुवं॥२॥
वज्रक्रोधसमापत्त्या वज्रक्रोधाग्रदृष्टितः।
मारयेत जगत्सर्व वज्रहुंकारयोगतः॥३॥
मनसा वर्मयेत्कायमात्मनस्तु परस्य वा।
महाकवचयोगेन रक्षेत्सर्वमिदं जगद्॥ इति॥४॥

अथैषां हृदयानि भवन्ति।
ओं वज्र क्रोध कायावेशय हुं अः॥
ओं वज्र विद्योत्तम महाक्रोधानय हो भगवन् वज्र हुं फट्॥
ओं वज्र क्रोध दृष्टि हन दह पच विनाशय हुङ्कारेण पातय वज्र समय हुं फट्॥
ओं मनोदृढ वज्र कवच क्रोध रक्ष हुं फट्॥

ततः सर्वसत्वमुद्रणमुद्राज्ञानं शिक्षयेत्।
वज्रक्रोधसमापत्त्या यस्य यस्य परिष्वजेत्।
वज्रहुंकारजापेन मुद्रितो भवते स तु॥१॥
संलपन्महता वाचा ट्टक्कि हूं फट् सकृद्वदेत्।
यस्य क्रुद्धः स दीप्तेन वज्रेणाभिहतो भवेत्॥२॥
वज्रदृष्टया निरीक्षेद्वै वज्रक्रोधसमाधिना।
यस्य यस्य तु सत्वस्य सो सो मरणमाप्नुयात्॥३॥
मनसा मारयामीति वज्रं हृदि तु भावयेत्।
हुंकारेणैव सर्वेषां मुद्रयत्यभितः स्वयम्॥ इति॥४॥
यस्य सत्वस्य येनैव मनसा मुद्रयत्यसौ।
आभिर्मुद्राभिरभ्यर्थ सर्वकर्माणि साधयेद्॥ इति॥५॥

अथैषां हृदयानि भवन्ति।
टक्कि अः॥
टक्कि ज्जः॥
टक्कि हुं॥
टक्कि हं॥

एकैकया तु मुद्रया चतुर्षु कर्मसु चत्वारि मुद्राहृदयानि प्रयुञ्चेदिति॥
ततो रहस्यक्रोधमुद्राज्ञानं शिक्षयेत्।
सर्वाङ्गतः परिष्वज्य हुंकारमस्य योजयेत्।
द्वयेन्द्रियसमापत्त्या तस्य नश्येत जीवितं॥१॥
चुम्बंस्तु दशनैरोष्ठं गृह्य हुङ्कारयोगतः।
द्वयेन्द्रियसमापत्त्या यस्य तस्य मुखं पतेत्॥२॥
हुं-कारं यः प्रयुञ्जीत सुखं ह्यनुभवन्नसौ।
द्वयेन्द्रियसमापत्त्या यस्य सो दुःखमाप्नुयात्॥३॥
हुंकारं यः प्रयुञ्जीत सर्वाङ्गेन तु पीडयन्।
द्वये[न्द्रियस]मापत्त्या तस्य सर्वतनुः पतेद्॥ इति॥४॥

अथात्र हृदयानि भवन्ति।
हुं अः॥
हुं ज्जः॥
हुं होः॥
हुं हं॥

ततस्त्रिलोकविजयमहामण्डलसमयतत्वमुद्राज्ञानं शिक्षयेत्।
वज्रधातुप्रयोगेण बुद्धानुस्मृतिमान् भवेत्।
यस्तु सत्वहितार्थाय स तु बुद्धत्वमाप्नुयात्॥१॥
महेश्वरमुमांश्चैव भूमौ लिख्य तथाक्रमेत्।
यथालेख्यानुसारेण सत्वमुद्रां समाधयेत्॥२॥
अनया बद्धमात्रया त्रिलोकविजयी स तु।
सिद्धविद्यो भवेत्क्षिप्रं बज्रहुंकारसन्निभः॥३॥
ज्वालामण्डलमध्यस्था यथा लेख्यानुसारतः।
कायवाक्चित्तवज्रैस्तु सत्वमुद्रास्तु बन्धयेत्॥४॥
अथासां कर्म वक्ष्यामि वज्रकर्ममनुत्तरं।
बुद्धानुस्मृतिसंसिद्धः शीघ्रं बुद्धत्वमाप्नुयाद्॥ इति॥५॥
त्रिलोकविजयां बध्वा त्रिलोकविजयी भवेत्।
वज्रायुः सर्वगामी तु वज्रहुंकारसन्निभः॥६॥
वज्राभिषेका राज्यत्वं लोकैश्वर्यं सुधर्मिणी।
कर्मवज्रमहाक्रोधा वज्रकर्मकरी भवेत्॥७॥
सत्वक्रोधा महादाढ्‌र्यं क्रोधाङ्कुश्या समाव्हान।
रागयेत्क्रोधरागा तु साधुक्रोधा तु तुष्टिदा॥८॥
भृकुट्या नाशयेत्सर्वं क्रोधसूर्या सुतेजतां।
केतुक्रोधा हरेदर्थान् अट्टहासा तु मारयेत्॥९॥
धर्मक्रोधा हरेद् धर्मान् च्छिन्देद्वै क्रोधवज्रया।
हेतुक्रोधा हरेद् दुःखान् वाग्घरेत् क्रोधभाषया॥१०॥
कर्मक्रोधा सुकर्माणि कुर्याद् रक्षां तु रक्षया।
क्रोधयक्षा रिपुं खादेत् क्रोधमुष्टिस्तु सिद्धिदा॥ इति॥११॥

अथ वज्रसमयमुद्राबन्धी भवति।
वज्र[द्विकस]मुद्भूताः समयाग्र्यास्तु कीर्तिताः।
तासां बन्धं प्रवक्ष्यामि क्रोधबन्धमनुत्तरं॥१॥
बाहुवज्रं समाधाय कनिष्ठाङ्कुशं बन्धिता।
त्रिलोकविजया नाम तर्जनीद्वयतर्जनी॥२॥
तथैवाग्र्या मुखासंगान्मणिस्तु प्रविकुञ्चिता।
समोत्थमध्यपद्मा तु मध्याग्र्यद्वयवर्जिते॥ति॥३॥
तर्जनीद्वयवज्रा तु दक्षिणाङ्कुञ्चिताङ्कुशी।
तयैव ग्रस्तहुंकारा साधुकारा तथव हि॥४॥
द्व्यग्रा संस्था भृकुट्यान्तु हृदि सूर्याग्रमण्डला।
प्रसारितभुजा मूर्ध्नि तर्जनीमुखहासिनी॥५॥
तर्जनीनखसंसक्ता कोशमुष्टिस्तु दक्षिणा।
सममध्याग्र्योत्थचक्रा तु मुखतः प्रविनिः सृताः॥६॥
तर्जनीमध्यवज्रा च ग्रीवा वेष्टिततर्जनी।
अग्र्याधिकमहादंष्ट्रा ग्रस्ताग्रा वज्रा मुष्टिने-॥ति॥७॥
वज्रलास्यादिसन्धीनां मुद्रास्ता एव हुंकृताः।
धर्ममुद्रास्तु ता एव हुंकारैः सहिताः पुनः॥८॥

अथ वज्रसमयधर्ममुद्रा भवन्ति।
हुंकारो बुद्धवज्रिभ्यां त्रःकारो वज्रगर्भतः।
ह्रीःकारो वज्रसेनस्य अःकारो वज्रविश्वन॥ इति॥

[अतः परं धर्ममुद्राः समासत एवं भवन्ति।]
हुं हेः त्रां तं, हि हीः देः हः, धिक् खीः हूं ग्रं, कृ वं दृ अः।
धर्ममुद्रा सुसिद्धास्तु वज्रक्रोधगणस्य हि॥ इति॥
ततो वज्रसमयकर्ममुद्रा भवन्ति।
क्रोधमुष्टिं द्विधीकृत्य वज्रगर्वादियोगतः।
कर्ममुद्राः समासेन महवज्रकुले स्मृताः॥१॥
यस्या [य]स्यास्तु मुद्राया यद्यत्पार्श्वं च कर्मणः।
तत्र तत्र तु वै वेष्ट्य तां तां मुद्रां प्रयोजयेत्॥२॥

सर्वमुद्राविधिः॥
अथात्र त्रिलोकविजयम[हामण्डल]साधारणमुद्राबन्धो भवति।
त्रिलोकविजया मुद्रा वज्राग्रसमयस्य तु।
वज्रहुंकारमन्त्रस्य सर्वसिद्धिप्रदा क्षणात्॥१॥
कनिष्ठाग्र्याङ्कुशैर्बन्धेद्वज्रौ द्वावधरोत्तरौ।
समयाङ्कुशमुद्रेयं सर्वमाकर्षयेत्क्षणात्॥२॥
सर्वविद्योत्तमानां तु त्रिलोकविजया स्मृता।
[घातनी चैव] सर्वस्य सर्वकर्मकरी तथा॥३॥
द्विवज्राग्र्याङ्गुली सम्यक्सन्धाय सुसमाहितः।
उत्थापयेन्मृतं सर्व वज्रोत्तिष्ठेति संज्ञिता॥४॥
द्विवज्राग्र्याङ्गुली सम्यक् वज्रबन्धेन बन्धयेत्।
परिवर्त्य स्थापेन्मूर्ध्नि आयुरारोग्यवर्धनी॥५॥
वज्रबन्धं दृढीकृत्य समाङ्गुष्ठप्रवेशिता।
तर्जनी दृढं संकोचा वलिता पादकर्षणी॥६॥
त्रिलोकविजयां बध्वा यस्य बिम्बं समाक्रमेत्।
वामपादेन तं सत्वं मासादर्धेन सिद्ध्यति॥७॥
वज्रमुद्राद्विकं बध्वा ताडयेत परस्परं।
यस्य वै रात्वकायं तु समाविष्टस्तु ताडयेत्॥८॥
वज्रमुद्राद्विकं बध्वा कवचं स्वं परस्य वा।
ग्रन्थनन् तर्जनीभ्यां तु रक्षा भवती शाश्वती॥९॥
वज्रबन्धं तले कृत्वाच्छादयेत्क्रुद्धमानसः।
गाढमङ्गुष्ठ [वज्रेण] सिद्ध्येद्वज्रकुलं महत्॥१०॥
सत्ववज्रं दृढीकृत्य द्व्यङ्गुष्ठग्रस्तमध्यमे।
कनिष्ठा वज्रमुखतो तीक्ष्ण[आन्तु समय]ग्रहां॥११॥
वज्रमुद्राद्विकं बध्वा कुञ्चिताग्र्या निबन्धितं।
वलितोद्वलितं कुर्वन् देवाकर्षणमुत्तमं॥१२॥
वज्रबन्धं दृढीकृत्य कुञ्चिताग्र्या सुयन्त्रितं।
सन्धायाङ्गुष्ठयुगलं पीड्य मध्येऽन्तरीक्षिणां॥१३॥
कनिष्ठाङ्गुलिमध्यन्तु वज्रमुद्राद्विकस्य तु।
पृष्ठतोऽग्र्याङ्गुलिग्रस्तं परिवर्त्य खचारिणां॥१४॥
वज्ररक्षां दृढीकृत्य वज्रबन्धं तु पीडयेत्।
भौमानां समयो ह्येष सर्वकृद् दुरतिक्रमः॥१५॥
वज्रमुद्राद्विकं बध्वा वामवज्राग्र्यपीडिता।
अन्त्याङ्गुलिसमास्फोटा पाताताकर्षणी त्वियं॥१६॥
ग्रन्थितं वज्रबन्धेन दृढन्तर्जनिकाद्वयं।
मध्यमाङ्गुष्ठवज्रं तु दुष्टमुद्राप्रभञ्जकं॥१७॥
वज्रमुद्राद्वयं बध्वा हृदि स्थाप्य समाहितः।
पीडयेत्क्रोधमुष्टिं तु बाह्यमण्डलनाशनी॥१८॥
वामवज्राङ्गुलिं गृह्य दक्षिणाकुञ्चिताग्र्यया।
आस्फोटयं सुसंक्रुद्धः सुमेरुमपि पातयेत्॥१९॥
वामवज्राङ्गुलिं गृह्य दक्षिणाग्र्याङ्कु शेन तु।
आकर्षयत्सुसंक्रुद्धो ग्रहां सर्वान् वशन्नयेत्॥२०॥
वज्रबन्धं समाधाय बाहुभ्यां सुदृढं हृदि।
वज्राग्र्याभ्यां स्वकुक्षौ तु कुशंस्तु हृदयं हृदि॥२१॥
अ[ग्र्याङ्गु]लिमुखाभ्यां तु पीडयेत्क्रुद्धमानसः।
अङ्गुष्ठद्वयमूलन्तु ज्वराकर्षणमुत्तमं॥२२॥
वज्राञ्जलिं दृढीकृत्य तर्जनीद्वय [कुञ्चिता]।
सुसन्धितसमाङ्गुष्ठयन्त्रिता पापहारिणी॥२३॥
अग्र्याङ्गु लिद्वयं बध्वा वज्रमुद्राद्विकान्तरात्।
समुत्क्षिपेत् क्षणादूर्ध्वं पतितोत्क्षे[पकोत्तमं]॥२४॥
वज्रबन्धं दृढीकृत्य मध्यमामुखसन्धिता।
चतुरन्त्यमुखासङ्गात् पापं स्फोटयति क्षणात्॥२५॥

अथ सर्वतथागतमण्डल[साधन]मुद्राबन्धो भवति।
सूत्रयन्मण्डलं पूर्व वज्रमुद्राग्रहेण तु।
सूत्रं तु धारयेत्पश्चात् यथावत् सूत्रणं स्मृतं॥१॥
सुसन्धितसमाग्र्यन्तु वज्रमुद्राद्विकस्य तु।
कृत्वा तु सर्वरङ्गाणि दीप्तदृष्ट्या समाव्हयेत्॥२॥
द्विवज्राग्र्याङ्गुली सम्यक् सन्धायोत्तानतो दृढं।
विवारयेत संक्रुद्धो द्वारोद्धाटनमुत्तमम्॥ इति॥३॥

अथ सर्ववज्रकुलसर्वमुद्रासाधनं भवति।
प्रत्यालीढकृतिङ्कृत्वा क्रोधवाचा प्रवर्तयन्।
क्रोधदृष्ट्या तु संक्रुद्धः सर्वकर्माणि साधयेद्॥ इति॥

सर्वतथागतवज्रसमयान्महाकल्पराजात् त्रिलोकविजयमहामण्डलविधिविस्तरः समाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project