Digital Sanskrit Buddhist Canon

पञ्चमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Pañcamaḥ
CHAPTER 5

EPILOGUE OF THE SARVA-TATHAGATA-MAHAYANABHISAMAYA
NAMA MAHA-KALPA-RAJA

1.5 Emanation of deities
अथ भगवान् वैरोचनस्तथागतः सर्वतथागताधिष्ठानेन सर्वतथागतकुलमुत्पाद्य, अस्य सर्वतथागतकुलमहाकल्पविधिविस्तरस्य सर्वसिद्धिसंग्रहार्थमिदं सर्वतथागतमुद्राहृदयमभाषत् ओं सर्वतथागतमुष्टि वं॥

अथ खल्वक्षोभयस्तथागतः सर्वतथागताधिष्ठानेन सर्वतथागतकुलमुत्पाद्यास्य सर्वतथागतकुलमहाकल्पविधिविस्तरस्य सर्वसिद्धिसंग्रहार्थमिमां सर्वतथागतमुद्रामभाषत् ओं वज्रसत्वमुष्टि अः॥

अथ रत्नसंभवस्तथागतः सर्वतथागताधिष्ठानेन सर्वतथागतकुलमुत्पाद्यास्य सर्वतथागतकुलमहाकल्पविधिविस्तरस्य सर्वसिद्धिसंग्रहार्थमिमां सर्वतथागतमुद्रामभाषत् ओं वज्ररत्नमुष्टि त्रं॥

अथामितायुस्तथागतः सर्वतथागताधिष्ठानेन सर्वतथागतकुलमुत्पाद्यास्य सर्वतथागतकुलमहाकल्पविधिविस्तरस्य सर्वसिद्धिसंग्रहार्थमिमां सर्वतथागतमुद्रामभाषत् ओं वज्रधर्ममुष्टि खं॥

अथामोघसिद्धिस्तथागतः सर्वतथागताधिष्ठानेन सर्वतथागतकुलमुत्पाद्यास्य सर्वतथागतकुलमहाकल्पविधिविस्तरस्य सर्वसिद्धिसंग्रहार्थमिमां सर्वतथागतमुद्रामभाषत् ओं वज्रकर्ममुष्टि हां॥

Delineation of the mandala
अथ वज्रपाणिर्महाबोधिसत्वः स्वाधिष्ठानेन भगवतो वैरोचनस्य तथागतस्य सर्वतथागतकुलमुत्पाद्यास्य सर्वतथागतकुलमहाकल्पविधिविस्तरस्य सर्वसिद्धिसंग्रहायेदं वज्रसिद्धिन्नाम चतुर्मुद्रामण्डलमभाषत्।
अथातः संप्रवक्ष्यामि मुद्रामण्डलमुत्तमं।
वज्रधातुप्रतीकाशं वज्रसिद्धिरिति स्मृतं॥१॥
महामण्डलयोगेन सूत्रयेत विचक्षणः।
बुद्धबिम्बन्निवेश्यादौ लिखेन्मुद्राचतुष्टयं॥२॥
चन्द्रमण्डलमध्येषु वज्रमुद्रादयो लिखेद्॥ इति॥३॥

Initiation into the mandala
अथात्र वज्रसिद्धिमुद्रामण्डल आकर्षणादिविधिविस्तरङ्कृत्वा तथैव प्रवेश्यैवं ब्रुयात्। “न त्वया कस्यचिदिमं रहस्यपटलमुद्घाटयितव्यं। तत्कस्य हेतोः ? सन्ति सत्वा दुर्दृष्टयः पापकर्माणो हीनवीर्या वैकल्यरहिताः चित्रकर्मण्यनभिज्ञाः; ते वज्रधात्वादिषु सर्वतथागतकुलमण्डलेषु महत्स्विति कृत्वा हीनवीर्यतया न प्रविशन्ते। तेषामर्थायेदं वज्रसिद्धिमुद्रामण्डलं सर्वतथागतकुलमण्डलसमयभूतमशेषानवशेषसत्वधातुपरित्राणसर्वहितसुखसौमनस्यानुभवनार्थ यावत् सर्वतथागतवज्रोत्तम-सिद्धिनिमित्तमधिष्ठितमिति। न त्वयैषां सर्वतथागतकुलसमयमुद्रारहस्यानां न प्रत्यभिश्रद्धानीयं। मा ते नरकतिर्यक्प्रेतोपपत्तिः स्यात्, विषमापरिहारेण वाकालमरणं स्याद्” इत्युक्त्वा, मुखबन्धं मुक्त्वा मण्डलं दर्शयेत्।

Mudra
ततः सर्वतथागतमुद्रासमयं ब्रूयात्।
यां यां मुद्रां तु बध्नीयाद्य[स्य य]स्य महात्मनः।
जपंस्तु हृदयार्थेन भावयेत्तं स्वमात्मना॥१॥
अनेन ज्ञानयोगेन सिद्धिं यान्ति महात्मनां।
सर्वमुद्रास्तु सर्वेषां वज्रपा [णेर्व] चो यथा॥२॥

ततः सर्वमुद्रारहस्यं ब्रुयात्।
विदार्य स्वेन्द्रियं गृण्हेद्वज्रमुष्टिग्रहेण तु।
तेन मुद्रां स्पृशेद्यां तु सा वशं याति तत्क्षणात्॥

ततः सर्वमुद्राधर्मतां ब्रुयात्।
सूक्ष्मवज्रविधिं योज्य ज्ञानमुद्रां तु बन्धयेत्।
अनेन विधियोगेन ज्ञानमुद्रां वशन्नयेत्॥

ततः सर्वमुद्राकर्म ब्रुयात्।
गीतनृत्यरसाहारविहारादिसुखानि तु।
निर्यातयंस्तु बुद्धेभ्यः कर्ममुद्रावशन्नयेद्॥ इति॥

ततः सर्वमण्डलसाधिकारहस्यमुद्राज्ञानं शिक्षयेत्।
स्तब्धलिङ्गः स्वयंभूत्वा निपद्येत्पटके सिते।
लिङ्गं चैत्यमधिष्ठाय वज्रधातुरहं स्वयं॥१॥
वज्रबन्धं दृढीकृत्य मध्यमोत्थसमाङ्कुरा।
कन्यसाग्र्या मुखोत्थानान्समयः समयाग्रीणां॥२॥
सूक्ष्मवज्रप्रयोगेण भावयेत्स समाहितः।
मण्डलं सूक्ष्मवज्रां तु समाधिवशितां नयन्॥३॥
वज्रमुद्राद्विकं बध्वा गृण्हेद् वज्रन्तयोर्दृढम्।
कनिष्ठाग्रा निबन्धेन वज्रकार्याग्रमण्डल॥४॥ इति॥

“ततो यथावद् वज्रसत्वादिमहामुद्राबन्धचतुष्टयं शिक्षयित्वा, यथावद् वज्रधातुमहामण्डलविधिविस्तर इति, यथावज्रसिद्धिचतुर्मुद्रामण्डलमेवमक्षोभयादीनि सर्वमण्डलानि चतुर्मुद्रामण्डलयोगेन लिखेत्। स्वाभिः स्वाभिर्मुद्राभिः सर्वसिद्धयो ददन्तीति। एवम्पटाकुड्याकाशसर्वस्थानाभिलिखितानि सर्वसिद्धयो ददन्तीति॥

मण्डलकल्पनात्प्रभृति केषांचित्तस्मिन्नेव मण्डलप्रवेशे सिद्धिर्यथाभिरुचिता, केषांचित्तत आरभ्य दिवसेन, केषांचिद् दिवसचतुष्टयेत्, केषांचिच्छोडशाहात्, केषांचित्पञ्चानन्तर्यकारिणामपि यथाकामं सुखतः सर्वकार्याणि कुर्वतां सर्वानुरागसर्वरसाहारविहारसुखान्यनुभवतां वर्षेणोत्तमा सिद्धिरिति भगवता निदिष्टेति॥

1.6 Emanation of the deity from samadhi
अथ भगवान् वैरोचनः पुनरपि सर्वतथागतोत्तमसिद्धिसमयवज्रन्नाम समाधिं समापद्येमं सर्वतथागतमहायानाभिसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रसत्व॥

Delineation of the mandala
अथ भगवान् वज्रपाणिर्महाबोधिसत्वः अशेषानवशेषसत्वधातुपरित्राणसर्वहितसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतसर्वोत्तमसिद्धये इदं महायानाभिसमयमण्डलमभाषत्।
अथातः संप्रवक्ष्यामि सत्वमण्डलमुत्तमं।
वज्रधातुप्रतीकाश वज्रसत्वमिति [स्मृतं]॥१॥
महामण्डलयोगेन सुत्रयेद्बाह्यमण्डलं।
चन्द्रमण्डलमध्ये तु वज्रसत्वन्निवेशयेद्॥२॥ इति॥

Initiation into the mandala
ततो यथावदाकर्षण [प्रवेशादिं कृ]त्वा सर्वतथागतसिद्धिज्ञानान्युत्पादयेत्॥

तत्र प्रथमन्तावद्वक्तव्यं “न त्वया कस्यचिददृष्टसमयस्यैषां रहस्यानाम[कोवि]दस्य वक्तव्यं। मा ते सर्वापायोपपत्तये भवेयु, र्विषमापरिहारेणाकालमरणं वा स्याद्” इति॥

ततो वज्रसत्वोत्तमसिद्धिसाधनज्ञानं शिक्षयेत्।
पूर्णचन्द्रमण्डलारूढो महामुद्रापरिग्रहः।
वज्रसत्वं स्वमात्मानं भावयं सिध्यते लघु॥रिति॥

ततः सर्वमण्डलगुह्यसमयज्ञानं शिक्षयेत्।
विरागसदृशं पापमन्यन्नास्ति त्रिधातुके।
तस्मात्कामविरागित्वं न कार्यं भवता पुनः॥

महासमय हन् फट्॥

ततः शपथहृदयं दद्यादेवं। सर्वतथागतकुलमण्डलेषु विधिविस्तरेषु समयसंवरन्दातव्यं॥
ततो वज्रसत्वमहामुद्रादिबन्धचतुष्टयं शिक्षयेत्। तथैव सिद्धय इति। एवं पटादिषु सर्वप्रतिमासु च मनीषितविधानेन सर्वसिद्धयो ददन्ति। एवं यथा वज्रधातुमहामण्डलविधिविस्तर इति॥

Mudra
अथ सर्वतथागताः पुनरपि समाहजामागत्य, भगवते सर्वतथागताधिपतये महाबोधिचित्ताय वज्रसत्वाय महावज्रपाणये वज्रतुष्ट्यानेन हृदयेन साधुकारमददुः ओं॥
साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते।
वज्रधर्माय ते साधु साधु ते वज्रकर्मणे॥१॥
सुभाषितमिदं सूत्रं वज्रयानमनुत्तरं।
सर्वतथागतं गुह्यं महायानाभिसंग्रहं॥२॥
वज्रसत्वस्य नामापि सर्वसिद्धिकरं परं।
साध्यमानस्तु शुद्ध्या वै सुखैर्बुद्धत्वमाप्नुयात्॥३॥
वज्रधर्मप्रयोगेण सर्वकामसुखैः सुखं।
साधयेज्जन्मनीहैव सुखमक्षयमव्ययम्॥४॥इति।

सर्वतथागततत्वसंग्रहात्सर्वतथागतमहायानाभिसमयो नाम महाकल्पराजा समाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project