Digital Sanskrit Buddhist Canon

चतुर्थः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Caturthaḥ
CHAPTER 4

VAJRA-KARYA-KARMA-MANDALA-VIDHI-VISTARA

I.4 Emanation of deities from samadhi
अथ भगवान् पुनरपि सर्वतथागतानुत्तरपूजाविधिविस्तरस्फरणकर्मसमयवज्राधिष्ठानन् नाम समाधिं समापद्येमं स्वविद्योत्तममभाषत् ओं सर्वतथागत वज्रधात्वनुत्तरपूजास्फरण समये हूं॥

अथ खल्वक्षोभयस्तथागताः सर्वतथागतवज्रसत्वानुत्तरपूजाविधिविस्तरस्फरणकर्मसमयवज्राधिष्ठानं नाम समाधिं समापद्येमं स्वविद्योत्तममभाषत् ओं सर्वतथागतवज्रसत्वानुत्तरपूजास्फरणसमये हूं॥

अथ खलु रत्नसंभवस्तथागतः सर्वतथागतवज्ररत्नानुत्तरपूजाविधिविस्तरस्फरणकर्मसमयवज्राधिष्ठानं नाम समाधिं समापद्येमं स्वविद्योत्तममभाषत् ओं सर्वतथागतवज्ररत्नानुत्तरपूजास्फरणसमये हूं॥

अथ खल्वमितायुस्तथागतः सर्वतथागतवज्रधर्मानुत्तरपूजाविधिविस्तरस्फरणकर्मसमयवज्राधिष्ठाननाम समाधिं समापद्येमं स्वविद्योत्तममभाषत् ओं सर्वतथागतवज्रधर्मानुत्तरपूजास्फरणसमये हूं॥

अथ खल्वमोघसिद्धिस्तथागतः सर्वतथागतवज्रकर्मानुत्तरपूजाविधिविस्तरस्फरणकर्मसमयवज्राधिष्ठानं नाम समाधिं समापद्येमं स्वविद्योत्तममभाषत् ओं सर्वतथागतवज्रकर्मानुत्तरपूजास्फरणसमय हूं॥

अथ भगवान् वैरोचनः पुनरपि सर्वतथागतपूजाविधिविस्तरसकलधर्मधातुस्फरणकर्मसमयवज्रन्नाम समाधिं समापन्नः; समनन्तरसमापन्ने चाथ तावदेव सर्वतथागतहृदयेभ्यः स एव भगवां वज्रधरः सकलधर्मधातुस्फरणाः सर्वाकाशधातुसमवसरणाः सर्वविचि [त्र]पूजाव्यूहविधिविस्तरमेघसमुद्रदेवता भूत्वा विनिःसृत्य, सर्वलोकधातुप्रसरमेघसमुद्रसर्वतथागतपर्षन्मडलेषु सर्वतथागतानुत्तरमहाबोधिचित्तोत्पादनसर्वतथागतकुलारागणसमन्तभद्रचर्यानिष्पादनमहो बोधिमण्डपसंक्रममणसर्वमारधर्षणसर्वतथागत[समता]भिसंभुध्यनसर्वतथागतमहामण्डलोत्पादनसकलत्रिलोकविजयसद्धर्मचक्रप्रवर्तनाशेषानवशेषसत्वधात्वर्थकरणादिनि सर्वबुद्धर्द्धिविकुर्वितानि सन्दर्शयन्तोऽवस्थिताः॥

ताश्च पूजामेघसमुद्रदेवताः स्वमुद्राव्यग्रकरयुगलाः सर्वतथागतान् विधिवत्संपूज्य, वज्रधातुमहामण्डलयोगेन चन्द्रमण्डलाश्रितो भूत्वेदमुदानमुदानयामासुः।

अहो हि बुद्धपूजाहं सर्वपूजाप्रवर्तिका।
यद्बुद्धत्वमहत्वं तु सर्वबुद्धददन्ति हि॥

अथ वज्रपाणिः पुनरपि सर्वतथागतपूजादिकर्मविधिविस्तरं वज्रकार्यन्नाम कर्ममण्डलमभाषत्।
ओं सर्वतथागतसर्वात्मनिर्यातनपूजास्फरण कर्मवज्रि अः।
ओं सर्वतथागतसर्वात्मनिर्यातनाकर्षणपूजास्फरण कर्माग्रि ज्जः॥
ओं सर्वतथागतसर्वात्मानिर्यातनानुरागणपूजास्फरण कर्मवाणे हूं होः॥
ओं सर्वतथागतसर्वात्मनिर्यातनसाधुकारपूजास्फरण कर्मतुष्टि अः॥

सर्वतथागतसुखसुखा, सर्वतथागताकर्षणी, सर्वतथागतानुरागिणी, सर्वतथागतसंतोषणी चेति सर्वतथागतमहापूजाः॥

ओं नमः सर्वतथागतकायाभिषेकरत्नेभ्यो वज्रमणिं ओं॥
ओं नमः सर्वतथागतसूर्येभ्यो वज्रतेजिनि ज्वाल ह्रीः॥
ओं नमः सर्वतथागताशापरिपूरणचिन्तामणिध्वज्राग्रेभ्यो वज्रध्वजाग्रे त्रं॥
ओं नमः सर्वतथागतमहाप्रीतिप्रामोद्यकरेभ्यो वज्रहासे हः॥

महाधिपतिनी, महोद्योता, महारत्नवर्षा, महाप्रीतिहर्षा चेति सर्वतथागताभिषेकपूजाः॥

ओं सर्वतथागतवज्रधर्मतासमाधिभिः स्तुनोमि महाधर्माग्रिह्रीः॥
ओं सर्वतथागतप्रज्ञापारमितानिर्हारैः स्तुनोमि महाघोषानुगे धं॥
ओं सर्वतथागतचक्राक्षरपरिवर्तादिसर्वसूत्रान्तनयैः स्तुनोमि सर्वमण्डले हूं॥
ओं सर्वतथागसन्धाभाषबुद्धसंगीतिभिर्गायन् स्तुनोमि वज्रावाचे वं॥

महाज्ञानगीता, महाघोषानुगा, सर्वमण्डलप्रवेशा, मन्त्रचर्या चेति। सर्वतथागतधर्मपूजाः॥

ओं सर्वतथागतधूपमेघस्फरणपूजाकर्मे कर कर॥
ओं सर्वतथागतपुष्पप्रसरस्फरणपूजाकर्मे किरि किरि॥
ओं सर्वतथागतालोकज्वालस्फरणपूजाकर्मे भर भर॥
ओं सर्वतथागतगन्धसमुद्रस्फरणपूजाकर्मे कुरु कुरु॥

सत्ववती, महाबोध्यङ्गवती, चक्षुष्मती, गन्धवती चेति। सर्वतथागतकर्मपूजाः॥

Delineation of the mandala
अथात्र वज्रकार्यकर्ममण्डलं भवत्यशेषानवशेषतथागतपूजाप्रवर्तकमिति॥
अथातः संप्रवक्ष्यामि कर्मण्डलमुत्तमं।
वज्रधातुप्रतीकाशं वज्रकार्यमिति स्मृतं॥
महामण्डलयोगेन बुद्धबिम्बान्निवेशयेत्।
वज्रसत्वादियोगेन समुद्रा देवता लिखेद्॥ इति॥

Initiation into the mandala
अथात्र वज्रकार्यकर्ममण्डलप्रवेशादिविधिविस्तरो भवति॥

तत्रादित एव प्रवेशयेत् वज्रधातुप्रवेशयोगेन। प्रवेश्यैवं वदेत्। “सर्वतथागतपूजासमयोऽयं। तत्त्वया दिनेदिने एताः षोडशपूजा यथाशक्तितः कार्या” इति॥

ततो मुखबन्धं मुक्त्वा, कर्ममण्डलं दर्शयित्वा, विश्वचिन्हं पाणिभ्यां दद्यात्॥
ततः सर्वतथागतैरपि स पूज्यते, कः पुनर्वादोऽन्यैरिति॥

Mudra
ततो महबोधिचित्तनिष्पत्तिपूजामुद्राज्ञानं शिक्षयेत्।
बोधिचित्तदृढोत्पादाद्बुद्धोऽहमिति चिन्तयन्।
रत्ना तु पुजयन्नात्मा लभेद् बुद्धसुखान्यपि॥१॥
बोधिचित्तदृढोत्पादाद् बुद्धोऽहमिति चिन्तयन्।
मलादिभिः प्रपूजाभिः संपूज्यात्माभिषिच्यते॥२॥
बोधिचित्तदृढोत्पादाद्बुद्धोऽहमिति चिन्तयन्।
गीतिसौख्यप्रपूजाभिः संपूज्यात्मा स रागयेत्॥३॥
बोधिचित्तदृढोत्पादाद्बुद्धोऽहमिति चिन्तयन्।
नृत्यतः पूजयन्नात्मा बुद्धैरपि स पूज्यते॥४॥ इति॥

तत्रेमानि हृदयानि भवन्ति।
बुद्धात्माहं॥
बुद्धमभिषिञ्चामि॥
बुद्धस्तुतिङ्करोमि॥
बुद्धपूजाङ्करोमि॥

ततः सर्वबुद्धपूजामुद्राज्ञानं शिक्षयेत्।
कायवाक्चित्तवज्राग्र्यप्रयोगैः प्रणमन्तथा।
पूजयं सर्वबुद्धांस्तु वन्दनीयो भवेद् ध्रुवं॥१॥
सर्वबुद्धमहापुण्यकायावाक्चित्तवज्रजं।
अनुमोदनपूजात्मा बुद्धत्वं क्षिप्रमाप्नुयात्॥२॥
आत्मानियतिनाद् दिव्यकायवाक्चित्तवज्रतः।
सर्वपूजाभिः संबुद्धान् पूजयामीति पूज्यते॥३॥
सर्व कुशलसंभारङ्कायवाक्चित्तवज्रतः।
परिणामनपूजाभिः सर्वबुद्धसमो भवेद्॥ इति॥४॥

तत्रैतानि भवन्ति।
प्रणमामि॥
अनुमोदे॥
बुद्धपूज॥
परिणाम॥

ततो धर्मपूजामुद्राज्ञानं शिक्षयेत्।
प्रकृतिप्रभास्वरा धर्मा ह्यादिशुद्धाः स्वभावतः।
पूजितोऽनेन धर्मेण लभेद् रतिसुखानि तु॥१॥
अ-कारस्तु मुखं वाच्यं सर्वधर्मसमुच्चये।
अनया धर्ममुद्रया सर्वदुःखांश्छिनत्ति सः॥२॥
सर्वेषामेव धर्माणां हेतुरत्र तथागतः।
सद्धर्मचक्रपूजया पूज्य धर्मधरो भवेत्॥३॥
प्रतिश्रुत्कोपमानुक्त्वा सर्वधर्मा स्वभावतः।
अनया धर्मपूजया संपूज्य स्वरतां लभेत्॥४॥

तत्रैतानि हृदयानि भवन्ति।
सर्वशुद्ध॥
समन्तभद्र॥
धर्मचक्र॥
निःप्रपञ्च॥

ततः समाधिपूजामुद्राज्ञानं शिक्षयेत्।
कायवाक्चित्तवज्रेषु स्वकीयाः परमाणवः।
भावयन्वज्रविम्बानि वज्रात्मा भवे[त्क्षिप्रं]॥१॥
कायवाक्चित्तवज्रेषु स्वकीयाः परमाणवः।
भावयन् सर्वबुद्धांस्तु धर्मकायो भवेल्लघु॥२॥
कायवाक्चित्तवज्रेषु स्व(कीयाःपरमा)णवः।
भावयन्वज्रसत्वांस्तु वज्रसत्वसमो भवेत्॥३॥
कायवाक्चित्तवज्रेषु स्वकीयाः परमाणवः।
भावयन् बुद्धबिम्बानि संबुद्धत्वमवाप्नुयाद्॥ इति॥४॥

तत्रैतानि हृदयानि भवन्ति।
वज्रकाय॥
धर्मकाय॥
सत्वकाय॥
बुद्धकाय॥

ततो रहस्यपूजामुद्राज्ञानं शिक्षयेत्।
सर्वकायपरिष्वङ्गसुखपूजा स्वयंभुवा।
निर्यातयं भवेच्छीघ्रं वज्रसत्वसमो हि सः॥१॥
दृढानुरागसंयोगकचग्रहसुखानि तु।
निर्यातयंस्तु बुद्धानां वज्ररत्नसमो भवेत्॥२॥
दृढप्रतीतिसुखसक्तिचुम्बिताग्र्यसुखानि तु।
निर्यातयंस्तु बुद्धानां वज्रधर्मसमो भवेत्॥३॥
द्वयेन्द्रियसमापत्तियोगसौख्यानि सर्वतः।
निर्यातयंस्तु पूजायां वज्रकर्मसमो भवेद्॥ इति॥४॥

तत्रैतानि गुह्यमुद्राहृदयानि भवन्ति।
रतिवज्र॥
रागवज्र॥
प्रीतिवज्र॥
कामवज्र॥

ततः सर्वतथागतपूजाकर्ममहामुद्राज्ञानं शिक्षयेत्।
हृत्पार्श्वपृष्ठतो योगाल्ललाटादेस्तथैव च।
मुखकर्णशिरःपृष्ठमूर्धासासकटिस्थितेति॥

ततः सर्वतथागतपूजाकर्मसमयमुद्राज्ञानं शिक्षयेत्।
वज्रबन्धं दृढीकृत्य महामुद्राप्रयोगतः।
हृदयादिस्थानयोगेन स्थापयन्पूजयेज्जिनान्॥ इति॥

ततः सर्वतथागतपूजाधर्मज्ञानं शिक्षयेत्।
ओं ग्रयः य्यः सा। त्रि रं हं नः।
खं षं हूं हि। श ण सिः सं।

कर्ममुद्राः समासेन कर्ममुद्रा द्विधीकृता॥ इति॥
सर्वतथागतमहायानाभिसमयान्महाकल्पराजाद्वज्रकार्यकर्ममण्डलविधिविस्तरः परिसमाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project