Digital Sanskrit Buddhist Canon

प्रथमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Prathamaḥ

सर्व तथागत तत्त्व संग्रह

CHAPTER 1

VAJRADHATU-MAHA-MANDALA-VIDHI-VISTARA

MANDALA I.1
[एवं मया श्रु] तमेकस्मिन् समये भगवान् सर्वतथागत-वज्राधिष्ठानसमयज्ञानविविधविशेषसमन्वागतः, सर्वतथागतरत्नमुकुटत्रैधातुकधर्मराज्याभिषेकप्राप्तः, सर्वतथागतसर्वज्ञानमहायोगीश्वरः, सर्वतथागतसर्वमुद्रासमताधिगतविश्वकार्यकरणताशेषानवशेषसत्त्वधातुसर्वाशापरिपूरकः, महाकृपो वैरोचनः शाश्वतस्त्र्यध्वसमयव्यवस्थितः सर्वकायवाक्‌चित्तवज्रस्तथागतः, सर्वतथागताध्युषितप्रशस्तस्तविते महामणिरत्नप्रत्युप्ते विचित्रवर्णघण्टावसक्तमारुतोद्धतपट्टस्रक्‌चामरहारार्धहारचन्द्रोपशोभिते अकनिष्ठदेवराजस्य भवने विजहार। नवनवतिभिर्बोधिसत्त्वकोटिभिः सार्धं, तद्यथा वज्रपाणिना च बोधिसत्त्वेन, अवलोकितेश्वरेण च बोधिसत्त्वेन, आकाशगर्भेण च, वज्रमुष्टिना च, मञ्जुश्रिया च, सहचित्तोत्पादधर्मचक्रप्रवर्तिना च, गगनगञ्जेन च सर्वमारबलप्रमर्दिना च, एवंप्रमुखैर्नवनवतिभिर्बोधिसत्त्वकोटिभिः; गङ्गानदीवालुकासमाख्यातैश्च तथागतैः, तद्यथापि नाम तिलबिम्बमिव परिपूर्णं जम्बूद्वीपे संदृश्यते। तैश्चाप्रमेयैस्तथागतैरेकैकस्माच्च तथागतकायादप्रमेयासंख्येयानि बुद्धक्षेत्राणि संदृश्यन्ते, तेषु च बुद्धक्षेत्रेषु इममेव धर्मनयं देशयन्ति स्म।

अथ भगवान् महावैरोचनः सर्वाकाशधातुसदावस्थितकायवाक्चित्तवज्रः सर्वतथागतसमवसरणतया सर्ववज्रधात्ववबोधनज्ञानसत्त्वः सर्वाकाशधातुपरमाणुरजो वज्राधिष्ठानसम्भवज्ञानगर्भः सर्वतथागतानन्ततया महवज्रज्ञानाभिषेकरत्नः सर्वाकाशस्फरणतथताज्ञानाभिसम्बोध्यभिसम्बोधिभूतः सर्वतथागतात्मभावशुद्धितयास्वभावशुद्धसर्वधर्मः सर्वाकाशचर्याग्र्यः सर्वतथागतामोघाज्ञाकारितया सर्वासमानुत्तरविश्वकर्मा। सर्वतथागतमहाबोधिदृढसत्त्वः सर्वतथागतकर्षणसमयः सर्वतथागतानुरागणज्ञानेश्वरः सर्वतथागतसाधुकारः सर्वतथागतमहाभिषेकरत्नः सर्वतथागतसूर्यप्रभामण्डलः सर्वतथागतचिन्ताराजमणिरत्नकेतुः सर्वतथागतमहाहासः सर्वतथागतमहाशुद्धधर्मः सर्वतथागतप्रज्ञाज्ञानः सर्वतथागतचक्रः सर्वतथागतमहावीर्यसुदृढकवचः सर्वतथागतरक्षपरिपालनवज्रयक्षः सर्वतथागतकायवाक्चित्तवज्रबन्धमुद्राज्ञानः।

Eulogy of Samantabhadra the mahabodhistattva
समन्तभद्रः स्वमोघः मारः प्रामोद्यनायकः।
खगर्भः सु[महाते]जा रत्नकेतुर्महास्मितः॥१॥
अवलोकितमहेशश् च मञ्जुश्रीः सर्वमण्डलः।
अवाचो विश्वकर्मा च वीर्यश्चण्डो [दृढग्रहः]॥२॥
वज्रोऽङ् कुशः शरस्तुष्टिः रत्नः सूर्यो ध्वजः स्मितः।
पद्मः कोशः सुचक्रो वाक् कर्म वर्म रवयो ग्रहः॥३॥
अनादिनिध[नः शान्तो रुद्रः क्रोधो महा]क्षमः।
यक्षः सुराक्षसो धीरः सौरिः सौरिर्महाविभुः॥४॥
उमापतिः प्रजानाथो विष्णुर्जिष्णुर्महामुनिः।
लोकपालो नभो भूमि[स्त्रिलोक]स्तु त्रिधातुकः॥५॥
महाभूतः सुसत्त्वार्थः सर्वः शर्वः पितामहः।
संसारो निर्वृतिः शश्वत् सम्यग्वृत्तिर्महामहः॥६॥
बुद्धः शुद्धो महायानस्त्रिभवः शाश्वतो हिसः।
त्रिलोकविजयी शम्भुः शम्भुनाथः प्रदामकः॥७॥
वज्रनाथः सुभूम्यग्र्यो ज्ञानः पारमितानयः।
विमोक्षो बोधिसत्त्वश्च चर्यः सर्वतथागतः॥८॥
बुद्धार्थो बुद्धहृदयः सर्वबोधिरनुत्तरः।
वैरोचनो जिनो नाथः स्वयंभूर्धारणी स्मृतिः॥९॥
महासत्त्वो महामुद्रः समाधिर्बुद्धकर्मकृत्।
सर्वबुद्धात्मको भूतः सत्त्वो नित्यार्थबोधकः॥१०॥
महास्थाणुर्महाकालो महारागो महासुखः।
महापापो महाग्र्याग्र्यः सर्वाग्र्यो भुवनेश्वरः॥११॥

भगवान् महाबोधिचित्तः समन्तभद्रो महाबोधिसत्त्वः सर्वतथागतहृदयेषु विजहार। अथ सर्वतथागतैरिदं बुद्धक्षेत्रं तद्यथा तिलबिम्बमिव परिपूर्णम॥

अथ खलु सर्वतथागता महासमाजमापद्य, येन सर्वार्थसिद्धिर्बोधिसत्त्वो महासत्त्वः बोधिमण्डनिषण्णस्तेनोपजग्मुः। उपेत्य बोधिसत्त्वस्य सांभोगिकैः कायैर्दर्शनन्दत्वैवमाहुः-“कथं कुलपुत्रानुत्तरां सम्यक्सम्बोधिम् अभिसंभोत्स्यसे, यस्त्वं सर्वतथागततत्त्वानभिज्ञतया सर्वदुःकराण्युत्सहसी-?” ति।

अथ सर्वार्थसिद्धिर्बोधिसत्त्वो महासत्वस्सर्वतथागतचोदितःसमानस्तत आस्फानसमाधितो व्युत्थाय, सर्वतथागतान् प्रणिपत्याहू यैवमाह-“भगवन्तस्तथागता आज्ञापयत कथं प्रतिपद्यामि कीदृशं तत् तत्त्वम्” इति। एवमुक्ते सर्वतथागतास्तं बोधिसत्त्वमेककण्ठेनैवमाहुः-“प्रतिपद्यस्व कुलपुत्र स्वचित्तप्रत्यवेक्षणसमाधानेन प्रकृतिसिद्धेन रुचिजप्तेन मन्त्रेण” इति ओं चित्तप्रतिवेधं करोमि।

अथ बोधिसत्त्वः सर्वतथागतानेवमाह-“आज्ञातं मे भगवन्तस्तथागताः स्वहृदि चन्द्रमण्डलाकारं पश्यामि।” सर्वतथागताः प्रोचुः-“प्रकृतिप्रभास्वरमिदं कुलपुत्र चित्तं, तद्यथा परिकर्ष्यते तत् तथैव भवति। तद्यथापि नाम श्वेतवस्त्रे रागरञ्जनम्” इति।

अथ सर्वतथागताः प्रकृतिप्रभास्वरचित्तज्ञानस्य स्फीतीकरणहेतोः पुनरपि तस्मै बोधिसत्त्वाय ओं बोधिचित्तमुत्पादयामि इत्यनेन प्रकृतिसिद्धेन मन्त्रेण बोधिचित्तमुत्पादितवन्तः।

अथ बोधिसत्त्वः पुनरपि सर्वतथागताज्ञया बोधिचित्तमुत्पाद्यैवमाह-“यत् तच्चन्द्रमण्डलाकारं तच्चन्द्रमण्डलमेव पश्यामि”। सर्वतथागता आहुः-“सर्वतथागतहृदयन्ते समन्तभद्रश्चित्तोत्पादः सामीचीभूतः, तत्साधु प्रतिपद्यताम्, सर्वतथागतसमन्तभद्रचित्तोत्पादस्य दृढीकरणहेतोः स्वहृदि चन्द्रमण्डले वज्रबिम्बं चिन्तयानेन मन्त्रेण ओं तिष्ठ वज्र।

बोधिसत्त्व आह-“पश्यामि भगवन्तस्तथागताश्चन्द्रमण्डले वज्रम्”। सर्वतथागता आहुः-“दृढीकुर्विदं सर्वतथागतसमन्तभद्रचित्तवज्रमनेन मन्त्रेण ओं वज्रात्मकोऽहम्॥

अथ यावन्तः सर्वाकाशधातुसमवसरणाः सर्वतथागतकायवाक्चित्तवज्रधातवः, ते सर्वे सर्वतथागताधिष्ठानेन तस्मिन् सत्त्ववज्रे प्रविष्टाः। ततः सर्वतथागतैः स भगवान् सर्वार्थसिद्धिर्महाबोधिसत्त्वो वज्रधातुर्वज्रधातुरिति वज्रनामाभिषेकेणाभिषिक्तः।

अथ वज्रधातुर्महाबोधिसत्त्वस्तान् सर्वतथागतानेवमाह “पश्यामि भगवन्तस्तथागताः सर्वतथागतकायमात्मानम्”। सर्वतथागताः प्राहुः-“तेन हि महासत्त्व सत्त्ववज्रं सर्वाकारवरोपेतं बुद्धबिम्बमात्मानं भावयानेन प्रकृतिसिद्धेन मन्त्रेण रुचितः परिजप्य ओं यथा सर्वतथागतास्तथाहम्”॥

अथैवमुक्ते वज्रधातुर्महाबोधिसत्त्वस्तथागतमात्मानमभिसम्बुध्य, तान् सर्वतथागतान् प्रणिपत्याहू यैवमाह “अधितिष्ठत मां भगवन्तस्तथागता इमामभिसंबोधिं दृढीकुरुत चेति”। अथैवमुक्ते सर्वतथागता वज्रधातोस्तथागतस्य तस्मिन् सत्त्ववज्रे प्रविष्टा इति॥

अथ भगवान् वज्रधातुस्तथागतस्तस्मिन् एव क्षणे सर्वतथागतसमताज्ञानाभिसंबुद्ध सर्वतथागतवज्रसमताज्ञानमुद्रागुह्यसमयप्रविष्टः सर्वतथागतधर्मसमताज्ञानाधिगमस्वभावशुद्धः सर्वतथागतसर्वसमताप्रकृतिप्रभास्वरज्ञानाकरभूतस्तथागतोऽर्हान् सम्यक्संबुद्धः संवृत्त इति॥

अथ सर्वतथागताः पुनरपि ततः सर्वतथागतसत्त्ववज्रान् निःसृत्याकाशगर्भमहामणिरत्नाभिषेकेणाभिषिच्यावलोकितेश्वरधर्मज्ञानमुत्पाद्य सर्वतथागतविश्वकर्मतायां प्रतिष्ठाप्य येन सुमेरुगिरिमूर्धा येन च वज्रमणिरत्नशिखरकूटागारस्तेनोपसंक्रान्ताः, उपसंक्रम्य वज्रधातुन्तथागतं सर्वतथागतत्वेऽधिष्ठ्य, सर्वतथागतसिंहासने सर्वतोमुखं प्रतिष्ठापयामासुरिति॥

Emanation of the 37 deities from samadhi
अथ खलु अक्षोभ्यस्तथागतो रत्नसंभवश्च तथागतो लोकेश्वरराजश्च तथागतो अमोघसिद्धिश्च तथागतः सर्वतथागतत्वं स्वयमात्मन्यधिष्ठाय, भगवतः शाक्यमुनेस्तथागतस्य सर्वसमतासुप्रतिवेधत्वात् सर्वदिक्समतामभ्यालम्ब्य, चतसृषु दिक्षु निषण्णाः॥

I.1.6 Vajrasattva
अथ भगवान् वैरोचनस्तथागतः अचिराभिसंबुद्धः सर्वतथागतसमन्तभद्रहृदयसर्वतथागताकाशसंभवमहामणिरत्नाभिषेकाभिषिक्तः सर्वतथागतावलोकितेश्वरधर्मज्ञानपरमपारमिताप्राप्तः सर्वतथागतविश्वकर्मतामोघाप्रतिहतशासनः परिपूर्णकार्यः परिपूर्णमनोरथः सर्वतथागतत्वं स्वयमात्मन्यधिष्ठाय, सर्वतथागतसमन्तभद्रमहाबोधिसत्त्वसमयसम्भवसत्त्वाधिष्ठानवज्रं नाम समाधिं समापद्येदं सर्वतथागतमहायानाभिसमयं नाम सर्वतथागतहृदयं स्वहृदयान निश्चचार वज्रसत्त्व॥

अथास्मिन् विनिःसृतमात्रे सर्वथागतहृदयेभ्यः स एव भगवां समन्तभद्रश्चन्द्रमण्डलानि भूत्वा विनिःसृत्य, सर्वसत्त्वानां महाबोधिचित्तानि संशोध्य, सर्वतथागतानां सर्वपार्श्वेष्ववस्थिताः। अथ तेभ्यश्चन्द्रमण्डलेभ्यः सर्वतथागतज्ञानवज्राणि विनिःसृत्य, भगवतो वैरोचनस्य तथागतस्य हृदये प्रविष्टानि। समन्तभद्रत्वाच्च सुदृढत्वाच्च वज्रसत्त्वसमाधेः सर्वतथागताधिष्ठानेन चैकधनः सकलाकाशधातुसमवसरणप्रमाणो रश्मिमालो पञ्चमूर्धा सर्वतथागतकायवाक्चित्तवज्रमयोवज्रविग्रहः प्रादुर्भूय, सर्वथागतहृदयान् निष्क्रम्य पाणौ प्रतिष्ठितः। अथ ततो वज्राद् वज्राकारा रश्मयो विचित्रवर्णरूपाः सर्वलोकधात्वाभासनस्फरणा विनिश्चरिताः। तेभ्यश्च वज्ररश्मिमुखेभ्यः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, सकलधर्मधातुसमवसरणेषु सर्वाकाशधातुपर्यवसानेषु सर्वलोकधातुप्रसरमेघसमुद्रेषु सर्वतथागतसमताज्ञानाभिज्ञास्वभिसंबोधात्, सर्वतथागतमहाबोधिचित्तोत्पादनसमन्तभद्रविविधचर्यानिष्पादनसर्वतथागतकुलारागणमहाबोधिमण्डोपसंक्रमण-सर्वमारधर्षणसर्वतथागतसमतामहाबोध्यभिसंबुध्यनधर्मचक्रप्रवर्तनं यावद् अशेषानवशेषसत्त्वधातुपरित्राणसर्वहितसुखसर्वतथागतज्ञानाभिज्ञोत्तमसिद्धिनिष्पादनादीनि सर्वतथागतविकुर्वितानि सन्दर्श्य, समन्तभद्रत्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः समन्तभद्रमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास।

अहो समन्तभद्रोऽहं दृढसत्त्वः स्वयंभुवां।
यद् दृढत्वादकायोऽपि सत्त्वकायत्वमागतः॥

अथ समन्तभद्रमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां पुरतश्चन्द्रमण्डलाश्रितो भूत्वाज्ञां मार्गयामास॥

अथ भगवान् सर्वतथागतज्ञानसमयवज्रं नाम समाधिं समापद्य, सर्वतथागतशीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनधर्मचक्रप्रवर्तनसत्त्वार्थमहोपायबलवीर्यमहाज्ञान-समयमशेषानवशेषसत्त्वधातुपरित्राणसर्वाधिपत्यसर्वसुखसौमनस्यानुभवनार्थ यावत् सर्वतथागतसमताज्ञानाभिज्ञानुत्तरमहायानाभिसमयोत्तमसिद्ध्यवाप्तिफलहेतोस्तत्सर्वतथागतसिद्धिवज्रं तस्मै समन्तभद्राय महाबोधिसत्त्वाय सर्वतथागतचक्रवर्तित्वे सर्वबुद्धकायरत्नमुकुटपट्टाभिषेकेणाभिषिच्य पाणिभ्यामनुप्रादात्। ततः सर्वतथागतैर्वज्रपाणिर्वज्रपाणिरिति वज्रनामाभिषेकेणाभिषिक्तः।

अथ वज्रपाणिर्बोधिसत्त्वो महासत्त्वो वामवज्रगर्वोल्लालनतया तदवज्रं स्वहृद्युत्कर्षणयोगेन धारयन्निदमुदानमुदानयामास।

इदं तत्सर्वबुद्धानां सिद्धिवज्रमनुत्तरं।
अहं मम करे दत्तं वज्रं वज्रे प्रतिष्ठितम्॥ इति॥

I.1.7 Vajraraja
अथ भगवान् पुनरप्यमोघराजमहाबोधिसत्त्वसमयसंभवसत्त्वाधिष्ठानवज्रं नाम समाधिं समापद्यदं सर्वतथागताकर्षणसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रराज॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रपाणि सर्वतथागतमहाङ्कुशानि भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो वज्राङ्कु शमहाविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः। अथ ततो वज्राङ्कु शमहाविग्रहात् सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, सर्वतथागतकर्षणादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, स्वमोघराजत्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः अमोघराजमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास।

अहो ह्यमोघराजाहं वज्रसंभवमङ्कु शः।
यत्सर्वव्यापिनो बुद्धाः समाकृष्यन्ति सिद्धयः॥ इति॥

अथ सोऽमोघराजमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां दक्षिणचन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास॥

अथ भगवान् सर्वतथागताकर्षणसमयवज्रन्नाम समाधिं समापद्य, सर्वतथागताकर्षणसमयमशेषानवशेषसत्त्वधातुसर्वाकर्षणसर्वसुखसौमनस्यानुभवनार्थं यावत् सर्वतथागतसमाजाधिष्ठानोत्तमसिद्ध्यर्थं तद्वज्राङ्कुशं तस्मै अमोघराजाय महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात्। ततः सर्वतथागतैर्वज्राकर्षो वज्राकर्ष इति वज्रनामाभिषेकेणाभिषिक्तः॥

अथ वज्राकर्षो बोधिसत्त्वस्तेन वज्राङ्कुशेन सर्वतथागतानाकर्षयन्निदमुदानमुदानयामास।

इदं तत्सर्वबुद्धानां वज्रज्ञानमनुत्तरं।
यत्सर्वबुद्धार्थसिद्ध्यर्थ समाकर्षणमुत्तमम॥ इति॥

I.1.8 Vajraraga
अथ भगवान् पुनरपि मारमहाबोधिसत्त्वसमयसंभवसत्त्वाधिष्ठानवज्रं नाम समाधिं समापद्येदं सर्वतथागतानुरागणसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रराग॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वतथागतकुसुमायुधानि भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो महावज्रवाणविग्रहः प्रादुर्भूय, पाणौ प्रतिष्ठितः। अथ ततो वज्रवाणविग्रहात्सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, सर्वतथागतानुरागणादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, सुमारणत्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनो मारमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास।

अहो स्वभावशुद्धोऽहमनुरागः स्वयंभुवां।
यच्छुद्ध्यर्थं विरक्तानां रागेण विनयन्ति हि॥

अथ स मारमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य सर्वतथागतानां वामचन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास॥

अथ भगवान् सर्वतथागतानुरागणाधिष्ठानवज्रन्नाम समाधिं समापद्य, सर्वतथागतमारणवज्रसमयमशेषानवशेषत्वधात्वनुरागणर्सासुखसौमनस्यानुभवनार्थं यावत् सर्वतथागतमारकर्मोत्तमसिद्ध्यवाप्तिफलहेतोस्तद्वज्रवाणं तस्मै माराय महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात्। ततः सर्वतथागतैर्वज्रधनुर्वज्रधनुरिति वज्रनामाभिषेकेणाभिषिक्तः॥

अथ वज्रधनुर्बोधिसत्त्वो महासत्त्वस्तेन वज्रवाणेन सर्वतथागतान् मारयन्निदमुदानमुदानयामास।

इदन्तत्सर्वबुद्धानां रागज्ञानमनाविलं।
हत्वा विरागं रागेण सर्वसौख्यं ददन्ति हि॥

I.1.9 Vajrasadhu
अथ भगवान् पुनरपि प्रामोद्यराजमहाबोधिसत्त्वसमयसंभवसत्त्वाधिष्ठानवज्रन्नाम समाधिं समापद्येदं सर्वतथागतप्रमोदसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रसाधु॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः साधुकाराणि भूत्वा, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो भूत्वा, वज्रतुष्टिविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः। अथ ततो वज्रतुष्टिविग्रहात् सर्वलोकधातुपरमाणुरजःसमाः तथागतविग्रहा विनिःसृत्य, सर्वतथागतसाधुकारादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, सुप्रामोद्यत्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच् चैकघनः प्रामोद्यराजमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य तथागतस्य हृदये स्थित्वेदमुदानमुदानयामास।

अहो हि साधुकारोऽहं सर्वः सर्वविदां वरः।
यद् विकल्पप्रहीणानां तुष्टिं जनयति ध्रुवं॥

अथ स प्रामोद्यराजमहाबोधिसत्त्वकायो भगवतो वैरोचनस्य हृदयादवतीर्य, सर्वतथागतानां पृष्ठतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास॥

अथ भगवान् सर्वतथागतसंतोषणवज्रन्नाम समाधिं संपाद्य, सर्वतथागतानुत्तरप्रामोद्यज्ञानसमयशेषानवशेषसत्त्वधातुसर्वसत्त्वसन्तोषणमहासुखसौमनस्यानुभवनार्थ यावत् सर्वतथागतानुत्तरहर्षरसोत्तमसिद्धिप्राप्तिफलहेतोस्तद्वज्रतुष्टिं तस्मै प्रामोद्यराजाय महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात्। ततः सर्वतथागतैर्वज्रहर्षो वज्रहर्ष इति वज्रनामाभिषेकेणाभिषिक्तः॥

अथ वज्रहर्षो बोधिसत्त्वस्तेन वज्रतुष्टिना सर्वतथागतान् साधुकारैः प्रहर्षयन्निदमुदानमुदानयामास।

इदं तत्सर्वबुद्धानां साधुकारप्रवर्तकं।
सर्वतुष्टिकरं वज्रं दिव्यं प्रामोद्यवर्धनम्॥ इति॥

महाबोधिचित्तं, सर्वतथागतकर्षणसमयः, सर्वतथागतानुरागणज्ञानं, महातुष्टिरिति सर्वतथागतमहासमयसत्त्वाः॥

I.1.10 Vajraratna
अथ भगवान् पुनरप्याकाशगर्भमहाबोधिसत्त्वसमयसंभवरत्नाधिष्ठानवज्रन्नाम समाधिं समापद्येदं सर्वतथागताभिषेकसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्ररत्नः॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः सर्वाकाशसमताज्ञानसुप्रतिवेधत्वाद्, वज्रसत्त्वसमाधेः स एव भगवान् वज्रधरः सर्वाकाशरसमयो भूत्वा विनिःसृतास्, तैः सर्वैः सर्वाकाशरश्मिभिः सर्वलोकधातवोऽवभासिताः, सर्वाकाशधातुसमाः संवृता अभूवन्। अथ सर्वतथागताधिष्ठानेन सर्वोऽसाकाशधातुर्भगवतो वैरोचनस्य हृदये प्रविष्टाः। सुपरिभावितत्वाच्च वज्रसत्त्वसमाधेः सर्वाकाशधातुगर्भमयः सर्वलोकधातुसमवसरणप्रमाणो महावज्ररत्नविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः। अथ तस्माद् वज्ररत्नविग्रहात् सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहाः प्रादुर्भूय, सर्वतथागताभिषेकादीनि सर्वतथागतर्द्धिविकुर्वितानि सर्वलोकधातुषु कृत्वा, सर्वाकाशधातुगर्भसुसंभवत्वाद्वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः आकाशगर्भमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास।

अहो हि स्वभिषेकोऽहं वज्ररत्नमनुत्तरं।
यन्निःसंगा अपि जिनास्त्रिधातुपतयः स्मृताः॥

अथ स आकाशगर्भमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां पुरतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास॥

अथ भगवान् सर्वतथागतमणिरत्नवज्रन्नाम समाधिं समापद्य, सर्वतथागताभिप्रायपरिपूर्णसमयमशेषानवशेषसत्त्वधातुसर्वार्थपरिप्राप्तिसर्वसुखसौमनस्यानुभवनार्थं यावत् सर्वतथागतार्थसंपदुत्तमसिद्धिप्राप्त्यै तं वज्रमणिं तस्मै आकाशगर्भाय महाबोधिसत्त्वाय वज्ररत्नचक्रवर्तित्वे वज्ररत्नाङ्कुराभिषेकेणाभिषिच्य पाणिभ्यामनुप्रादात्। ततः सर्वतथागतैर्वज्रगर्भो वज्रगर्भ इति वज्रनामाभिषेकेणाभिषिक्तः।

अथ वज्रगर्भो महाबोधिसत्त्वस्तं वज्रमणिं स्वाभिषेकस्थाने स्थापयन्निदमुदानमुदानयामास।

इदं तत् सर्वबुद्धानां सत्त्वधात्वभिषेचनं।
अहम्मम करे दत्तं रत्ने रत्नन्नियोजितं॥

I.1.11 Vajrateja
अथ भगवान् पुनरपि महातेजमहाबोधिसत्त्वसमयसंभवरत्नाधिष्ठानवज्रन्नाम समाधिं समापद्यदं सर्वतथागतरश्मिसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रतेज॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रपाणिः महासूर्यमण्डलानि भूत्वा, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो वज्रसूर्यविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः। अथ ततो वज्रसूर्यमण्डलात्सर्वलोकधातुपरमाणुरजःसमाः तथागतविग्रहा विनिःसृत्य, सर्वतथागतरश्मिप्रमुञ्चनादीनि सर्वतथागतर्द्धिविकुर्वितानि कृत्वा, सुमहातेजस्त्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनो महातेजमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास।

अहो ह्यनुपमं तेजः सत्त्वधात्ववभासनं।
यच्छोधयति शुद्धानां बुद्धानामपि तायिनां।

अथ स विमलतेजमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां दक्षिणचन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास॥

अथ भगवान् सर्वतथागतप्रभामण्डलाधिष्ठानवज्रन्नाम समाधिं समापद्य, सर्वतथागतरश्मिसमयमशेषानवशेषसत्त्वधात्वनुपमतेजःसर्वसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतस्वयंप्रभावाप्त्युत्तमसिद्धये तद्वज्रसूर्यं तस्मै महातेजसे महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात्। ततः सर्वतथागतैर्वज्रप्रभो वज्रप्रभ इति वज्रनामाभिषेकेणाभिषिक्तः॥

अथ वज्रप्रभो महाबोधिसत्त्वस्तेन वज्रसूर्येण सर्वतथागतानवभासयन्निदमुदानमुदानयामास।

इदं तत्सर्वबुद्धानामज्ञानध्वान्तनाशनं।
परमाणुरजःसंख्यसूर्याधिकतरप्रभम्॥ इति॥

I.1.12 Vajraketu
अथ भगवान् पुनरपि रत्नकेतुमहाबोधिसत्त्वसमयसंभवरत्नाधिष्ठानवज्रन्नाम समाधिं समापद्येदं सर्वतथागताशापरिपूरणसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रकेतु॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरो विचित्रवर्णरूपालङ्कारसंस्थानाः पताका भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो वज्रध्वजविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः। अथ ततो वज्रध्वजविग्रहात् सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिश्चरित्वा, सर्वतथागतरत्नध्वजोच्छ्रेपणादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, महारत्नकेतुत्वाद् वज्रसत्त्वसमाधेः सदृढत्वाच्चैकघनो रत्नकेतुमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य तथागतस्य हृदये स्थित्वेदमुदानमुदानयामास।

अहो ह्यसदृशः केतुरहं सर्वार्थसिद्धीनां।
यत्सर्वाशापरिपूर्णानां सर्वार्थप्रतिपूरणं॥ इति॥

अथ स रत्नकेतुर्महाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां वामचन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास॥

अथ भगवान् सर्वतथागतोच्छ्रयाधिष्ठानवज्रन्नाम समाधिं समापद्य, सर्वतथागतचिन्ताराजमणिध्वजोच्छ्रेपणसमयमशेषानवशेषसत्त्वधातुसर्वाशापरिपूरिसर्वसुखसौमनस्यानुभवनार्थं यावत् सर्वतथागतमहार्थोत्तमसिद्धिप्राप्तिफलहेतोः तद्वज्रध्वजं तस्मै रत्नकेतवे महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात्। ततः सर्वतथागतैर्वज्रयष्टिर्वज्रयष्टिरिति वज्रनामभिषेकेणाभिषिक्तः।

अथ वज्रयष्टिर्बोधिसत्त्वो महासत्त्वस्तेन वज्रध्वजेन सर्वतथागतान् दानपारमितायान्नियोजयन्निदमुदानमुदानयामास।

इदं तत्सर्वबुद्धानां सर्वाशापपरिपूरणं।
चिन्तामणिध्वजन्नाम दानपारमितानयम्॥ इति॥

I.1.13 Vajrahasa
अथ भगवान् पुनरपि नित्यप्रीतिप्रमुदितेन्द्रियमहाबोधिसत्त्वसमयसंभवरत्नाधिष्ठानवज्रन्नाम समाधिं समापद्येदं सर्वतथागतप्रीतिसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रहास॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वतथागतस्मितानि भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्‌वैकघनो वज्रस्मितविग्रहः प्रादुर्भूय, प्राणौ प्रतिष्ठितः। अथ ततो वज्रस्मितविग्रहात् सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहाः सर्वतथागताद्भूतादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, नित्यप्रीतिप्रमुदितेन्द्रियत्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनो नित्यप्रीतिप्रमुदितेन्द्रियमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास।

अहो महाहासमहं सर्वाग्र्याणां महाद्भुतं।
यत्प्रयुञ्जन्ति बुद्धार्थे सदैव सुसमाहिताः॥

अथ स नित्यप्रीतिप्रमुदितेन्द्रियमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां पृष्ठतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास॥

अथ भगवान् सर्वतथागताद्भुताधिष्ठानवज्रन्नाम समाधिं समापद्य, सर्वतथागताद्भुतोत्पादसमयमशेषानवशेषसत्त्वधातुसर्वेन्द्रियानुत्तरसुखसौमनस्यानुभवनार्थं यावत् सर्वतथागतेन्द्रियपरिशोधनज्ञानाभिज्ञावाप्तिफलहेतोस्तद्वज्रस्मितं तस्मै नित्यप्रीतिप्रमुदितेन्द्रियाय महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात्। ततः सर्वतथागतैर्वज्रप्रीतिर्वज्रप्रीतिरिति वज्रनामाभिषेकेणाभिषिक्तः॥

अथ वज्रप्रीतिर्बोधिसत्त्वो महासत्त्वः तेन वज्रस्मितेन सर्वतथागतान् प्रहर्षयन्निदमुदानमुदानयामास।

इदन्तत्सर्वबुद्धानामद्भुतोत्पाददर्शकं।
महाहर्षकरं ज्ञानमज्ञातं परशासिभिर्॥ इति॥

महाभिषेकः, व्यामप्रभामण्डलं, महासत्त्वार्थो, महाहर्षश्चेति। सर्वतथागतमहाभिषेकसत्त्वाः॥

I.1.14 Vajradharma
अथ भगवान् पुनरप्यवलोकितेश्वरमहाबोधिसत्त्वसमयसंभवधर्माधिष्ठानवज्रन्नाम समाधिं समापद्येदं सर्वतथागधर्मसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रधर्म॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः स्वभावशुद्धधर्मसमताज्ञानसुप्रतिवेधत्वात् वज्रसत्त्वसमाधेः सद्धर्मरश्मयो भूत्वा विनिश्चरितः, तैः सद्धर्मरश्मिभिः सर्वलोकधातवोऽवभासिताः, धर्मधातुमयाः संवृता अभूवन्। स च सकलो धर्मधातुर्भगवतो वरोचनस्य हृदये प्रविष्ट्वैकघनः सर्वाकाशधातुसमवसरणप्रमाणो महापद्मविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः। अथ तस्माद् वज्रपद्मविग्रहात् सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, सर्वतथागतसमाधिज्ञानाभिज्ञादीनि सर्वबुद्धर्द्धिविकुर्वितानि सर्वलोकधातुषु कृत्वा, स्ववलोकनैस्वर्यत्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः अवलोकितेश्वरमहाबोधिसत्त्वकायःसंभूय, भगवतो वैरोचनस्य तथागतस्य हृदये स्थित्वेदमुदानमुदानयामास।

अहो हि परमार्थोऽहमादिशुद्धः स्वयंभुवान्।
यत्कोलोपमधर्माणां विशुद्धिरुपलभ्यते॥

अथ सोऽवलोकितेश्वरमहाबोधिसत्त्वकायो भगवतो वैरोचनस्य हृदयादवतीर्य, सर्वतथागतानां पुरतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास॥

अथ भगवान् सर्वतथागतसमाधिज्ञानसमयवज्रन्नाम समाधिं समापद्य, सर्वतथागतविशोधनसमयमशेषानवशेषसत्त्वात्मपरिशुद्धिसर्वसुखसौमनस्यानुभवनार्थं यावत् सर्वतथागतधर्मज्ञानाभिज्ञावाप्तिफलहेतोस्तद्वज्रपद्मं तस्म अवलोकितेश्वराय महाबोधिसत्त्वाय सद्धर्मचक्रवर्तित्वे सर्वतथागतधर्मकायाभिषेकेणाभिषिच्य, पाणिभ्यामनुप्रादात्। ततः सर्वतथागतर्वज्रनेत्रो वज्रनेत्र इति वज्रनामाभिषेकेणाभिषिक्तः॥

अथ वज्रनेत्रो बोधिसत्त्वो महासत्त्वः तद्वज्रपद्मं पत्रविकासनतया रागविशुद्धिनिर्लेपस्वभावावलोकनतथावलोकयन्निदमुदानमुदानयामास।

इदं तत्सर्वबुद्धानां रागतत्त्वावबोधनं।
अहं मम करे दत्तं धर्म धर्मे प्रतिष्ठितम्॥ इति॥

I.1.15 Vajratiksna
अथ भगवान् पुनरपि मञ्जुश्रीमहाबोधिसत्त्वसमयसंभवधर्माधिष्ठानवज्रं नाम समाधिं समापद्यदं सर्वतथागतमहाप्रज्ञाज्ञानसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रतीक्ष्ण॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः प्रज्ञाशस्त्राणि भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकधनो वज्रकोशविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः। अथ ततो वज्रकोशविग्रहात् सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिश्चरित्वा, सर्वतथागतप्रज्ञाज्ञानादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, सुमञ्जुश्रियत्वात् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनो मञ्जुश्रीमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास॥

अहो हि सर्वबुद्धानां मञ्जुघोषमहं स्मृतः।
यत्प्रज्ञाया अरूपिण्या घोषत्वमुपलभ्यते॥

अथ स मञ्जुश्रीमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां दक्षिणचन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास॥

अथ भगवान् सर्वतथागतप्रज्ञाज्ञानवज्रं नाम समाधिं समापद्य, सर्वतथागतक्लेशच्छेदनसमयमशेषानवशेषसत्त्वधातुसर्वदुःखच्छेदनसर्वसुखसौमनस्यानुभवनार्थं यावत् सर्वतथागतघोषानुगप्रज्ञापारिर्पूर्युत्तमसिद्ध्यर्थं तस्मै मञ्जुश्रिये महाबोधिसत्त्वाय तद्वज्रकोशं तथैव पाणिभ्यामनुप्रादात्। ततः सर्वतथागतैर्वज्रबुद्धिर्वज्रबुद्धिरिति वज्रनामाभिषेकेणाभिषिक्तः॥

अथ स वज्रबुद्धिर्बोधिसत्त्वो महासत्त्वः तेन वज्रकोशेन सर्वतथागतान् प्रहरन्निदमुदानमुदानयामास।

इदं तत्सर्वबुद्धानां प्रज्ञापारमितानयं।
छेत्तारं सर्वशत्रूणां सर्वपापहरं परम्॥ इति॥

I.1.16 Vajrahetu
अथ भगवान् पुनरपि सहचित्तोत्पादितधर्मचक्रप्रवर्तिमहाबोधिसत्त्वसमयसंभवधर्माधिष्ठानवज्रं नाम समाधिं समापद्येदं सर्वतथागतचक्रसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रहेतु॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरो वज्रधातुमहामण्डलादीनि सर्वतथागतमण्डलानि भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो वज्रचक्रविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः। अथ ततो वज्रचक्रविग्रहात् सर्वलोकधातुपरमाणुरजःसमाः तथागतविग्रहा विनिश्चरित्वा, सहचित्तोत्पादधर्मचक्रप्रवर्तनादीनि सर्वबुद्धर्द्धिविकुर्वितानि सर्वलोकधातुषु कृत्वा, सहचित्तोत्पादधर्मचक्रप्रवर्तनत्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः सहचित्तोत्पादितधर्मचक्रप्रवर्तिमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास।

अहो वज्रमयं चक्रमहं वज्राग्रधर्मिणाम्।
यच्चित्तोत्पादमात्रेण धर्मचक्रं प्रवर्तते॥

अथ स सहचित्तोत्पादितधर्मचक्रप्रवर्तिमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां वामचन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास॥

अथ भगवान् सर्वतथागतचक्रवज्रन्नाम समाधिं समापद्य, सर्वतथागतमहामण्डलसमयं शेषानवशेषसत्त्वधातुप्रवेशावैवर्तिकचक्रसर्वसुखसौमनस्यानुभवनार्थं यावत् सर्वतथागतसद्धर्मचक्रप्रवर्तनोत्तमसिद्धिनिमित्तं तद्वज्रचक्रं तस्मै सहचित्तोत्पादितधर्मचक्रप्रवर्तिने महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात्। ततः सर्वतथागतैर्वज्रमण्डो वज्रमण्ड इति वज्रनामाभिषेकेणाभिषिक्तः॥

अथ वज्रमण्डो बोधिसत्त्वो सहासत्त्वस्तेन वज्रचक्रेण सर्वतथागतानवैवर्तिकत्वे प्रतिष्ठापयन्निदमुदानमुदानयामास।

इदं तत् सर्वबुद्धानां सर्वधर्मविशोधकम्।
अवैवर्तिकचक्रन्तु बोधिमण्डमिति स्मृतम्॥ इति॥

I.1.17 Vajrabhasa
अथ भगवानवाचमहाबोधिसत्त्वसमयसंभवधर्माधिष्ठानवज्रन्नाम समाधिं समापद्येदं सर्वतथागतजापसमयं नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रभाष॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रपाणिः सर्वतथागतधर्माक्षराणि भूत्वा विनिः सृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकधनो वज्रजापविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः। अथ ततो वज्रजापविग्रहात्सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, सर्वतथागतधर्मतादिनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा स्ववाचत्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः अवाचमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानयामास।

अहो स्वयंभुवां गुह्यं सन्धाभाषमहं स्मृतः।
यद् देशयन्ति सद्धर्मं वाक्प्रपञ्चविवर्जितं॥

अथ स अवाचमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां पृष्ठतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास।

अथ भगवान् सर्वतथागतगुह्यवाग्वज्रं नाम समाधिं समापद्य, सर्वतथागतवाग्ज्ञानसमयं अशेषानवशेषसत्त्वधातुवाक्सिद्धिसर्वसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतवाग्गुह्यताप्राप्त्युत्तमसिद्धये तद्वज्रजापं तस्मै अवाचाय महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात्। ततः सर्वतथागतैर्वज्रवाचो वज्रवाच इति वज्रनामाभिषेकेणाभिषिक्तः॥

अथ वज्रवाचो बोधिसत्त्वो महासत्त्वस्तेन वज्रजापेन सर्वतथागतान् संल्लापयन्निदमुदानमुदानयामास।

इदं तत्सर्वबुद्धानां वज्रजापमुदाहृतं।
सर्वतथागतानां तु मन्त्राणामाशुसाधनम्॥ इति॥

वज्रधर्मताज्ञानं, सर्वतथागतप्रज्ञाज्ञानं, महाचक्रप्रवर्तनज्ञानं, सर्वतथागतवाक्प्रपञ्चविनिवर्तनज्ञानं चेति। सर्वतथागतमहाज्ञानसत्त्वाः॥

I.1.18 Vajrakarma
अथ भगवान् सर्वतथागतविश्वकर्ममहाबोधिसत्त्वसमयसंभवकर्माधिष्ठानवज्रं नाम समाधिं समापद्य, इदं सर्वतथागतकर्मसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रकर्म॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः सर्वकर्मसमताज्ञानसुप्रतिवेधत्वात् वज्रसत्त्वसमाधेः स एव भगवन् वज्रधरः सर्वतथागतकर्मसमयो भूत्वा विनिःसृतः, तैश्च सर्वतथागतकर्मरश्मिभिः सर्वलोकधातवो भासिताः, सर्वतथागतकर्मधातुमयाः संवृत्ताः, स सकलः सर्वतथागतकर्मधातुर्भगवतो वैरोचनस्य हृदये प्रविष्ट्‌वैकघनः सर्वाकाशधातुसमवसरणप्रमाणस्ततः सर्वतथागतकर्मधातुतः कर्मवज्रविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः। अथ ततः कर्मवज्रविग्रहात् सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, सर्वलोकधातुषु सर्वतथागतकर्मादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, सर्वतथागतानन्तकर्मत्वाद्वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः सर्वतथागतविश्वकर्ममहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास।

अहो ह्यमोघं बुद्धानां सर्वकर्ममहं बहु।
यदनाभोगबुद्धार्थं वज्रकर्म प्रवर्तते॥

अथ स सर्वतथागतविश्वकर्ममहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां पुरतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास॥

अथ भगवान् सर्वतथागतामोघवज्रं नाम समाधिं समापद्य, सर्वतथागतपूजाप्रवर्तनाद्यप्रमेयामोघसर्वकर्मविधिविस्तरसमयशेषानवशेषसत्त्वधातुसर्वकर्मसिद्धिसर्वसुखसौमनस्यानुभवनार्थं यावत् सर्वतथागतवज्रकर्मताज्ञानाभिज्ञोत्तमसिद्धिफलहेतोस्तत्कर्मवज्रं तस्मै सर्वतथागतविश्वकर्मणे महाबोधिसत्त्वाय सर्वकर्मचक्रवर्तित्वे सर्वतथागतवज्राभिषेकेणाभिषिच्य, पाणिभ्यामनुप्रादात्। ततः सर्वतथागतैर्वज्रविश्वो वज्रविश्व इति वज्रमहाभिषेकेणाभिषिक्तः।

अथ वज्रविश्वो बोधिसत्त्वो महासत्वस्तद्वज्रं स्वहृदि स्थाप्य, सर्वतथागतकर्मतायान्नियोजयन्निदमुदानमुदानयामास।

इदं तत्सर्वबुद्धानां विश्वकर्मकरं परं।
अहं मम करे दत्तं विश्वे विश्वं नियोजितम्॥ इति॥

I.1.19 Vajraraksa
अथ भगवान् दुर्योधनवीर्यमहाबोधिसत्त्वसमयसंभवकर्माधिष्ठानवज्रं नाम समाधिं समापद्येदं सर्वतथागतरक्षासमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्ररक्ष॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रपाणिर्दृढकवचानि भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो महावज्रकवचविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः। अथ ततो वज्रकवचविग्रहात्सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, सर्वतथागतरक्षाविधिविस्तरकर्मादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, दुर्योधनवीर्यत्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनो दुर्योधनवीर्यमहाबोधिसत्त्वविग्रहः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास।

अहो वीर्यमयो वर्मः सुदृढोऽहं दृढात्मनां।
यद् दृढत्वादकायानां वज्रकायकरं परं॥

अथ स दुर्योधनवीर्यमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां दक्षिणचन्द्रमण्डलाश्रितो भूत्त्वा, पुनरप्याज्ञां मार्गयामास॥

अथ भगवान् सर्वतथागतदृढवज्रन्नाम समाधिं समापद्य, सर्वतथागतवीर्यपारमितासमयमशेषानवशेषसत्त्वधातुपरित्राणसर्वसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतवज्रकायप्राप्त्युत्तमसिद्धिहेतोस्तद्वज्रवर्म तस्मै दुर्योधनवीर्याय महाबोधिसत्त्वाय पाणिभ्यामनुप्रादात्। ततः सर्वतथागतैर्वज्रमित्रो वज्रमित्र इति वज्रनामाभिषेकेणाभिषिक्तः॥

अथ वज्रमित्रो बोधिसत्त्वो महासत्त्वः तेन वज्रवर्मेण सर्वतथागतान् कवचयन्निदमुदानमुदानयामास।

इदं तत्सर्वबुद्धानां मैत्रीकवचमुत्तमं।
दृढवीर्यमहारक्षं महामित्रमुदाहृतम॥ इति॥

I.1.20 Vajrayaksa
अथ भगवान् पुनरपि सर्वमारप्रमार्देमहाबोधिसत्त्वसमयसंभवकर्माधिष्ठानवज्रन्नाम समाधिं समापद्येदं सर्वतथागतोपायसमयं नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रयक्ष॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरो महादंष्ट्रायुधानि भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो वज्रदंष्ट्राविग्रहः प्रादुर्भूय, पाणौ प्रतिष्ठितः। अथ ततो वज्रदंष्ट्राविग्रहात् सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिश्चरित्वा, सर्वतथागतरौद्रविनयादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, सर्वमारसुप्रमर्दित्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः सर्वमारप्रमर्दिमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास॥

अहो महोपायमहं बुद्धानां करुणात्मनां।
यत्सत्त्वार्थतया शान्ता रौद्रत्वमपि कुरुवते॥

अथ स सर्वमारप्रमर्दिमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां वामचन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास॥

अथ भगवान् सर्वतथागतप्रचण्डवज्रन्नाम समाधिं समापद्य, सर्वतथागतदुष्टविनयसमयमशेषानवशेषत्वधात्वभयसर्वसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतमहोपायज्ञानाभिज्ञावाप्त्युत्तमसिद्धिफलहेतोस्तद्वज्रदंष्ट्रायुधं तस्मै सर्वमारप्रमर्दिने महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात्। ततः सर्वतथागतैर्वज्रचण्डो वज्रचण्ड इति वज्रनामाभिषेकेणाभिषिक्तः॥

अथ वज्रचण्डो बोधिसत्त्वो महासत्त्वस्तद्वज्रदंष्ट्रायुधं स्वमुखे प्रतिष्ठाप्य, सर्वतथागतान् भीषयन्निदमुदानमुदानयामास।

इदं तत् सर्वबुद्धानां सर्वदुष्टाग्रदामकं।
वज्रदंष्ट्रायुधं तीक्ष्णमुपायः करूणात्मनाम्॥ इति॥

I.1.21 Vajrasandhi
अथ भगवान् पुनरपि सर्वतथागतमुष्टिमहाबोधिसत्त्वसमयसंभवकर्माधिष्ठानवज्रं नाम समाधिं समापद्यदं सर्वतथागतकायवाक्चित्तवज्रबन्धसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रसन्धि॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वतथागतसर्वमुद्राबन्धा भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो वज्रबन्धविग्रहः प्रादुर्भूय, पाणौ प्रतिष्ठितः। अथ ततो वज्रबन्धविग्रहात् सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिश्चरित्वा, सर्वलोकधातुषु सर्वतथागतमुद्राज्ञानादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, सर्वतथागतमहामुष्टिसुबन्धत्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः सर्वतथागतमुष्टिमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास।

अहो हि सुदृढो बन्धः समयोऽहं दृढात्मनां।
यत्सर्वाशाप्रसिद्ध्यर्थं मुक्तानामपि बन्धनं॥

अथ सर्वतथागतमुष्टिमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां पृष्ठतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास॥

अथ भगवान् सर्वतथागतसमयवज्रन्नाम समाधिं समापद्य, सर्वतथागतमुद्राबन्धसमयमशेषानवशेषसत्त्वधातुसर्वतथागतदेवतासान्निध्यकल्पनात् सर्वसिद्धिसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतसर्वज्ञानमुद्राधिपत्योत्तमसिद्धिफलहेतोस्तद्वज्रबन्धं तस्मै सर्वतथागतमुष्टये महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात्। ततः सर्वतथागतैर्वज्रमुष्टिर्वज्रमुष्टिरिति वज्रनामाभिषेकेणाभिषिक्तः॥

अथ स वज्रमुष्टिर्बोधिसत्त्वो महासत्त्वः तेन वज्रबन्धेन सर्वतथागतान् बन्धयन्निदमुदानमुदानयामास।

इदं तत्सर्वबुद्धानां मुद्राबन्धं महादृढं।
यत्सर्वबुद्धाशुसिद्ध्यर्थं समयो दुरतिक्रमः॥ इति॥

सर्वतथागतपूजाविधिविस्तरकर्म, महावीर्यदृढकवचः, सर्वतथागतमहोपायः, सर्वमुद्राज्ञानं चेति। सर्वतथागतमहाकर्मसत्त्वाः॥

I.1.22 Sattvavajri
अथ खल्वक्षोभ्यस्तथागतो भगवतो वैरोचनस्य तथागतस्य सर्वतथागतज्ञानानि निष्पाद्य, सर्वतथागतज्ञानमुद्रणार्थं वज्रापारमितासमयोभ्दववज्राधिष्ठानं नाम समाधिं समापद्येमां सर्वतथागतवज्रसमयां नाम सर्वतथागतमुद्रां स्वहृदयान्निश्चचार सत्त्ववज्रि॥

अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यो वज्ररश्मयो विनिश्चरिताः। तेभ्यश्च वज्ररश्मिभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, सर्वतथागतवज्रपारमिताज्ञानान्यामुद्र्य, पुनरप्येकघनः सर्वलोकधातुसमवसरणप्रमाणो महावज्रविग्रहः प्रादुर्भूय, भगवतोवैरोचनस्य पुरतश्चन्द्रमण्डलाश्रितो भूत्वा, इदमुदानमुदानयामास।

अहो हि सर्वबुद्धानां सत्त्ववज्रमहं दृढः।
यद् दृढत्वादकायोऽपि वज्रकायत्वमागतः॥ इति॥

I.1.23 Ratnavajri
अथ भगवान् रत्नसंभवस्तथागतः भगवतो वैरोचनस्य तथागतस्य सर्वतथागतज्ञानमुद्रणार्थं रत्नपारमितासमयसंभववज्राधिष्ठानं नाम समाधिं समापद्येमां वज्ररत्नसमयां नाम स्वमुद्रां स्वहृदयान्निश्चचार रत्नवज्रि॥

अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यो रत्नरश्मयो विनिश्चरिताः। तेभ्यो रत्नरश्मिभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, सर्वतथागतज्ञानान्यामुद्र्य, पुनरप्येकघनः सर्वलोकधातुसमवसरणप्रमाणो महावज्ररत्नविग्रहः प्रादुर्भूय, भगवतो वैरोचनस्य दक्षिणपार्श्वे चन्द्रमण्डलाश्रितो भूत्वा, इदमुदानमुदानयामास।

अहो हि सर्वबुद्धानां रत्नवज्रमहं स्मृतं।
यन्मुद्राणां हि सर्वासामभिषेकनयं दृढम्॥ इति॥

I.1.24 Dharamavajri
अथ भगवान् लोकेश्वरराजस्तथागतो भगवतो वैरोचनस्य तथागतस्य सर्वतथागतज्ञानमुद्रणार्थं धर्मपारमितासमयोद्भववज्राधिष्ठानं नाम समाधिं समापद्येमां धर्मसमयां नाम स्वमुद्रां स्वहृदयान्निश्चचार धर्म वज्रि॥

अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यः पद्मरश्मयो विनिश्चरिताः। तेभ्यः पद्मरश्मिभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, सर्वतथागतज्ञानान्यामुद्र्य, पुनरप्येकघनः सर्वलोकधातुसमवसरणप्रमाणो महावज्रपद्मविग्रहः प्रादुर्भूय, भगवतो वैरोचनस्य पृष्ठतश्चन्द्रमण्डलाश्रितो भूत्वेदमुदानमुदानयामास।

अहो हि सर्वबुद्धानां धर्मवज्रं अहं शुचि।
यत्स्वभावविशुद्ध्या वै रागोऽपि हि सुनिर्मलः॥ इति॥

I.1.25 Karmavajiri
अथ भगवानमोघसिद्धिस्तथागतो भगवतो वैरोचनस्य तथागतस्य सर्वतथागतज्ञानमुद्रणार्थं कर्मपारमितासंभववज्राधिष्ठानं नाम समाधिं समापद्येमां सर्वतथागतकर्मसमयां नाम स्वमुद्रां स्वहृदयान्निश्चचार कर्मवज्रि॥

अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यः सर्वकर्मश्मयो विनिश्चरिताः। तेभ्यश्च सर्वतथागतकर्मरश्मिमभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, सर्वतथागतज्ञानान्यमुद्र्य, पुनरप्येकघनः सर्वलोकधातुसमवसरणप्रमाणः सर्वतोमुखो महाकर्मवज्रविग्रहः प्रादुर्भूय, भगवतो वैरोचनस्य वामपार्श्वे चन्द्रमण्डलाश्रितो भूत्वा, इदमुदानमुदानयामास॥

अहो हि सर्वबुद्धानां कर्मवज्रमहं बहु।
यदेकः सन्नशेषस्य सत्त्वधातोः सुकर्मकृद्॥ इति॥

सर्वतथागतज्ञानसमया, महाभिषेका, वज्रधर्मता, सर्वपूजा चेति। सर्वतथागतपारमिताः॥

I.1.26 Vajralasya
अथ भगवान् वैरोचनः पुनरपि सर्वतथागतरतिपूजासमयसंभववज्रन्नाम समाधिं समापद्येमां सर्वतथागतकुलमहादेवीं स्वहृदयान्निश्चचार वज्रलास्ये॥

अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यो वज्रमुद्रा विनिःसृताः। तेभ्यो वज्रमुद्रामुखभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, पुनरप्येकघना महादेवी वज्रसत्त्वसदृशात्मभावा विचित्रवर्णरूपलिङ्गेर्यापथा सर्वालङ्कारविभूषिता सर्वतथागतकुलसंग्रहभूता वज्रसत्त्वदयिता संभूय, भगवतोऽक्षोभ्यमण्डलवामपार्श्वे चन्द्रमण्डलाश्रिता भूत्वा, इदमुदानमुदानयामास।

अहो न सदृशी मेऽस्ति पूजा ह्यन्या स्वयंभुवां।
यत्कामरतिपूजाभिः सर्वपूजा प्रवर्तते॥ इति॥

I.1.27 Vajramala
अथ भगवान् पुनरपि सर्वतथागतरत्नमालाभिषेकसमयोद्भववज्रन्नाम समाधिं समापद्य मां सर्वतथागतकुलमहादेवीं स्वहृदयान्निश्चचार वज्रमाले।

अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यो महारत्नमुद्रा विनिःसृताः। ताभ्यो महारत्नमुद्राभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, एकघनां वज्रमालां महादेवीं तथैव संभूय, भगवतो रत्नसंभवमण्डलवामपार्श्वे पूर्णचन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयामास।

अहो ह्यसदृशाहं वै रत्नपूजेति कीर्तिता।
यत्त्रैधातुकराज्याग्र्यं शासयन्ति प्रपूजिता॥ इति॥

I.1.28 Vajragita
अथ भगवान् पुनरपि सर्वतथागतसंगीतिसमयसंभववज्रन्नाम समाधिं समापद्येमां सर्वतथागतकुलमहादेवीं स्वहृदयान्निश्चचार वज्रगीते॥

अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेऽभ्यः सर्वतथागतधर्ममुद्रा विनिश्चरिताः। ताभ्यश्च सर्वतथागतधर्ममुद्राभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, पुनरप्येकघनां वज्रगीतां महादेवीं संभूय, भगवतो लोकेश्वरराजमण्डलवामपार्श्वे चन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयामास।

अहो हि संगीतिमयी पूजाहं सर्वदर्शिनां।
यत् तोषयन्ति पूजाभिः प्रतिश्रुत्कोपमेष्वपि॥ इति॥

I.1.29 Vajranrtya
अथ भगवान् पुनरपि सर्वतथागतनृत्यपूजासमयोद्भववज्रं नाम समाधिं समापद्येमां सर्वतथागतकुलमहादेवीं स्वहृदयान्निश्चचार वज्रनृत्ये।

अथास्मिन विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यः सर्वतथागतनृत्यपूजाविधिविस्तरा भूत्वा विनिःसृताः। तेभ्यश्च सर्वतथागतसर्वनृत्तपूजाविधिविस्तरेभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, पुनरप्येकघनां वज्रनृत्तमहादेवीं संभूय, भगवतो अमोघसिद्धेस्तथागतस्य मण्डलवामपार्श्वे पूर्णचन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयामास।

अहो ह्युदारपूजाहं सर्वपूजार्थकरिणां।
यद्वज्रनृत्तविधिना बुद्धपूजा प्रकल्प्यते॥ इति॥

सर्वतथागतानुत्तरसुखसौमनस्यसमया, सर्वतथागतमाला, सर्वतथागतगाथा, सर्वतथागतानुत्तरपूजाकर्मकरी चेति। सर्वतथागतगुह्यपूजाः॥

I.1.30 Vajradhupa
अथ पुनरपि भगवान् अक्षोभ्यस्तथागतो भगवतो वैरोचनस्य तथागतस्य पूजाप्रतिपूजार्थ सर्वतथागतप्रल्हादनसमयोद्भववज्रन्नाम समाधिं समापद्येमां सर्वतथागतगणिकां स्वहृदयान्निश्चचार वज्रधूपे॥

अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः अनेकविधा धूपपूजामेघव्यूहाः सर्ववज्रधातुस्फरणा भूत्वा विनिश्चरिताः। तेभ्यश्च धूपपूजामेघसमुद्रेभ्यः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, पुनरप्येकघनो वज्रधूपदेवताकायः संभूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य कोणे वामपार्श्वे चन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयति स्म।

अहो ह्यं महापूजा प्रल्हादनवती शुभा।
यत्सत्त्वावेशयोगाद्धि क्षिप्रं बोधिरवाप्यते॥ इति॥

I.1.31 Vajrapuspa
अथ भगवान् रत्नसंभवस्तथागतो भगवतो वैरोचनस्य तथागतस्य पूजाप्रतिपूजार्थ रत्नाभरणपूजासमयसंभववज्रं नाम समाधिं समापद्येमां सर्वतथागतप्रतीहारीं स्वहृदयान्निश्चचार वज्रपुष्पे॥

अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वपुष्पपूजाव्यूहाः सर्वाकाशधातुस्फरणा भूत्वा विनिःसृतास्तेभ्यश्च सर्वपुष्पपूजाव्यूहेभ्यः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, पुनरप्येकघनो वज्रपुष्पदेवताकायः संभूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य वामकोणे चन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयामास।

अहो हि पुष्पपूजाहं सर्वालङ्कारकारिका।
यत्तथागतरत्नत्वं पूज्य क्षिप्रमवाप्यते॥ इति॥

I.1.32 Vajraloka
अथ भगवान् लोकेश्वरराजस्तथागतो भगवतो वैरोचनस्य तथागतस्य पूजाप्रतिपूजार्थ सर्वतथागतालोकपूजासमयोद्भववज्रं नाम समाधिं समापद्येमां सर्वतथागतदूतीं स्वहृदयान्निश्चचार वज्रालोके।

अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वालोकपूजाव्यूहाः सकलधर्मधातुस्फरणा भूत्वा विनिश्चरिताः। तेभ्यश्च सर्वालोकपूजाव्यूहेभ्यः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, पुनरप्येकघनो वज्रालोकदेवताकायः संभूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य वामकोणे चन्द्रमण्डलाश्रिता भूत्वा, इदमुदानमुदानयामास।

अहो ह्यहं महोदारा पूजा दीपमयी शुभा।
यदालोकवती क्षिप्रं सर्वबुद्धदृशो लभेद्॥ इति॥

I.1.33 Vajragandha
अथ भगवानमोघसिद्धिस्तथागतो भगवतो वैरोचनस्य तथागतस्य पूजाप्रतिपूजार्थं सर्वतथागतगन्धपजासमयसंभववज्रन्नाम समाधिं समापद्येमां सर्वतथागतचेटीं स्वहृदयान्निश्चचार वज्रगन्धे॥

अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वगन्धपूजाव्यूहाः सर्वलोकधातुस्फरणा भूत्वा विनिःसृताः। तेभ्यश्च गन्धपूजाव्यूहेभ्यः सर्वलोकधातुपरमाणुरजः समास्तथागतविग्रहा विनिःसृत्य पुनरप्येकघनो वज्रगन्धदेवताकायः संभूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य वामकोणे चन्द्रमण्डलाश्रिता भत्वेदमुदानमुदानयामास।

अहो गन्धमयी पूजा दिव्याहं मनोरमा।
यत्तथागतगन्धो वै सर्वकाये ददाति हि॥ इति॥

सर्वतथागतज्ञानावेशा, महाबोध्यङ्गसंचया, सर्वतथागतधर्मालोका, शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनगन्धा चेति। सर्वतथागताज्ञाकार्यः॥

I.1.34 Vajrankusa
अथ भगवान् वैरोचनस्तथागतः पुनरपि सर्वतथागतसमयां कुशमहासत्त्वसमयसंभवसत्त्ववज्रन्नाम समाधिं समापद्येयं सर्वतथागतसर्वमुद्रागणपतिं स्वहृदयान्निश्चचार वज्रांकुश॥

अथास्मिन् विनिःसृतमात्र सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वतथागतसर्वमुद्रागणा भूत्वा विनिःसृतः। तेभ्यश्च सर्वतथागतमुद्रागणेभ्यः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, पुनरप्येकघनो वज्राङ्कुशमहाबोधिसत्त्वकायः संभूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य वज्रद्वारमध्ये चन्द्रमण्डलाश्रितो भत्वा, सर्वतथागतसमयानाकर्षयन्न, इदमुदानमुदानयामास।

अहो हि सर्वबुद्धानां समाकर्षमहं दृढः।
यन्मया हि समाकृष्टा भजन्ते सर्वमण्डलम्॥ इति॥

I.1.35 Vajrapasa
अथ भगवान् पुनरपि सर्वतथागतसमयप्रवेशमहासत्त्वसमयसंभवसत्त्ववज्रन्नाम समाधिं समापद्य मं सर्वतथागतमुद्राप्रवेशप्रतीहारं स्वहृदयान्निश्चचार वज्रपाश॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वतथागतसमयप्रवेशमुद्रागणा भूत्वा विनिश्चरितः। तेभ्यश्च सर्वतथागतसमयप्रवेशमुद्रागणेभ्यः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, पुनरप्येकघनो वज्रपाशमहाबोधिसत्त्वकायः संभूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य रत्नद्वारमध्ये चन्द्रमण्डलाश्रितो भूत्वा सर्वतथागतां प्रवेशयन्न्, इदमुदानमुदानयामास।

अहो हि सर्वबुद्धानां वज्रपाशमहं दृढः।
यत्सर्वाणुप्रविष्टापि प्रवेश्यन्ते मया पुनः॥ इति॥

I.1.36 Vajrasphota
अथ भगवान् पुनरपि सर्वतथागतसमयस्फोटमहासत्त्वसमयोद्भवसत्त्ववज्रन्नामसमाधिं समापद्येमं सर्वतथागतसमयबन्धन्नाम सर्वतथागतदूतं स्वहृदयान्निश्चचार वज्रस्फोट॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वतथागतसमयबन्धमुद्रागणा भूत्वा विनिःसृतस्तेभ्यश्च सर्वतथागतसमयबन्धसर्वमुद्रागणेभ्यः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, एकघनो वज्रस्फोटमहाबोधिसत्त्वकायः संभूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य धर्मद्वारमध्ये चन्द्रमण्डलाश्रितो भत्वा, सर्वतथागतान बन्धयन्न, इदमुदानमुदानयामास।

अहो हि सर्वबुद्धानां वज्रस्फोटमहं दृढः।
यत्सर्वबन्धमुक्तानां सत्त्वार्थाद् बन्ध इष्यते॥ इति॥

I.1.37 Vajravesa
अथ भगवान् पुनरपि सर्वतथागतावेशमहासत्त्वसमयसंभवसत्त्ववज्रन्नाम समाधिं समापद्येमं सर्वतथागतसर्वमुद्राचेटं स्वहृदयान्निश्चचार वज्रावेशः॥

अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वतथागतसर्वमुद्रागणा भूत्वा विनिश्चरितः। तेभ्यश्च सर्वतथागतसर्वमुद्रागणेभ्यः सर्वलोकधातुपरमाणुरजः समास्तथागतविग्रहा विनिःसृत्य, एकघनो वज्रावेशमहाबोधिसत्त्वविग्रहः प्रादुर्भूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य कर्मद्वारमध्ये चन्द्रमण्डलाश्रितो भूत्वा, सर्वतथागतानावेशयन्न, इदमुदानमुदानयामास।

अहो हि सर्वबुद्धानां वज्रावेशमहं दृढः।
यत्सर्वपतयो भूत्वा चेटा अपि भवन्ति हि॥ इति॥

सवतथागतसमाकर्षणं, प्रवेशो, बन्धः, वशीकरणं चेति। सर्वतथागताज्ञाकराः॥

अथ भगवान् सर्वतथागतासमाजाधिष्ठानाय वज्राच्छटिकासंज्ञामकार्षीत्। इदं सर्वतथागतसमाजाधिष्ठानहृदयमभाषत वज्रसमाज॥

अथ तेन क्षपालवमुहूर्तेन सर्वतथागताच्छटिकासंज्ञासंचोदिताः सर्वलोकधातुप्रसरमेघसमुद्रेषु सर्वलोकधातुपरमाणुरजःसमास्तथागताः सबोधिसत्त्वपर्षन्मण्डलाः समाजमापद्य, येन भगवान् वज्रमणिरत्नशिखरकूटागारो येन च भगवान् वैरोचनस्तेनोपजग्मुरुपेत्य ओं सर्वतथागतपादवन्दनाङ्करोमि॥ इत्येनेन प्रकृतिसिद्धेन मन्त्रेण रुचिजप्तेन सर्वतथागतपादवन्दनां कृत्वेदमुदानमुदानयामासुः॥

अहो समन्तभद्रस्य बोधिसत्त्वस्य सत्क्रिया।
यत्तथागतचक्रस्य मध्ये भाति तथागतः॥

अथेदमुक्त्वा ते दशदिक्सर्वलोकधातुसन्निपतिताः सर्वतथागताः सर्वतथागताधिष्ठानेन भगवतो वैरोचनस्य हृदये सबोधिसत्त्वपर्षन्मण्डलाः प्रविष्टाः। तेभ्यश्च सर्वतथागतहृदयेभ्यः स्वानि स्वानि बोधिसत्त्वपर्षन्मण्डलानि विनिःसृत्य भगवतो वज्रमणिरत्नशिखरकूटागारस्य सर्वपार्श्वेषु मण्डलीभूत्वा समापद्यावस्थिता इदमुदानमुदानयामासुः।

अहो हि सर्वबुद्धानां महोदार्यमनादिजम्।
यत्सर्वाणुप्रसंख्या वै बुद्धा ह्येकत्वमागता॥ इति॥

Hymn of 108 Names of Mahavajradhara
अथ भगवन्तः सर्वतथागताः पुनरपि समाजमागम्यास्य वज्रधातुमहामण्डलस्याधिष्ठानायाशेषानवशेषस्य च सत्त्वधातोः परित्राणसर्वहितसुखावाप्त्यै यावत्सर्वतथागतसमताज्ञानाभिज्ञाभिसंबोध्युत्तमसिद्धये भगवन्तं सर्वतथागताधिपतिं स्ववज्रसत्त्वमनादिनिधनं महावज्रधरमनेन नामाष्टशतेनाध्येषितवन्तः॥

वज्रसत्त्वमहासत्त्व वज्रसर्वतथागत।
समन्तभद्र वज्राद्य वज्रपाणे नमोऽस्तु ते॥१॥
वज्रराज सुबुद्धाग्र्य वज्राङ्कुशतथागत।
अमोघराज वज्राग्र्य वज्राकर्ष नमोस्तु ते॥२॥
वज्रराग महासौख्य वज्रवाण वशङ्कर।
भारकाम महावज्र वज्रचापो नमोऽस्तु ते॥३॥
वज्रसाधो सुसत्त्वाग्र्य वज्रतुष्टि महारते।
प्रामोद्यराज वज्राग्रय वज्रहर्ष नमोऽस्तु ते॥४॥
वज्ररत्न सुवज्रार्थं वज्राकाश महामणे।
आकाशगर्भ वज्राढ्य वज्रगर्भ नमोस्तु ते॥५॥
वज्रतेज महाज्वाल वज्रसूर्य जिनप्रभ।
वज्ररश्मि महातेज वज्रप्रभ नमोऽस्तु ते॥६॥
वज्रकेतु सुसत्त्वार्थ वज्रध्वज सुतोषक।
रत्नकेतु महावज्र वज्रयष्टे नमोऽस्तु ते॥७॥
वज्रहास महाहास वज्रस्मित महाद्भुत।
प्रीतिप्रामोद्य वज्राग्र्य वज्रप्रीते नमोऽस्तु ते॥८॥
वज्रधर्म सुतत्वार्थ वज्रपद्म सुशोधक।
लोकेश्वर सुवज्राक्ष वज्रनेत्र नमोऽस्तु ते॥९॥
वज्रतीक्ष्ण महायान वज्रकोश महायुध।
मञ्जुश्री वज्रगांभीर्य वज्रबुद्धे नमोऽस्तु ते॥१०॥
वज्रहेतु महामण्ड वज्रचक्र महानय।
सुप्रवर्तन वज्रोत्थ वज्रमण्ड नमोऽस्तु ते॥११॥
वज्रभाष सुविद्याग्र्य वज्रजाप सुसिद्धिद।
अवाच वज्रसिद्ध्यग्र वज्रवाच नमोऽस्तु ते॥१२॥
वज्रकर्म सुवज्राज्ञा कर्मवज्र सुसर्वग।
वज्रामोघ महोदार्य वज्रविश्व नमोऽस्तु ते॥१३॥
वज्ररक्ष महाधैर्य वज्रवर्म महादृढ।
दुयोधन सुवीर्यग्र्य वज्रवीर्य नमोऽस्तु ते॥१४॥
वज्रयक्ष महोपाय वज्रदंष्ट्र महाभय।
भारप्रमर्दिन् वज्रोग्र वज्रचण्ड नमोऽस्तु ते॥१५॥
वज्रसन्धि सुसान्निध्य वज्रबन्ध प्रमोचक।
वज्रमुष्ट्यग्रसमय वज्रमुष्टे नमोऽस्तु ते॥१६॥
यः कश्चिद् धारयेन्नाम्नामिदन्तेऽष्टदशतं शिवम्।
वज्रनामाभिषेकाद्यैः सर्वाग्रैः सोऽभिषिच्यते॥१७॥
यस्तु गौणमिदन्नाम्नां महावज्रधरस्य तु।
शश्वद्गेयं स्तुयात् सोऽपि भवेद्वज्रधरोपमः॥१८॥
अनेनाभिष्टुतोऽस्माभिर्नाम्नामष्टशतेन तु।
महायानाभिसमयं विस्फारय महानयम्॥१९॥
अध्येषयामस्त्वां नाथ भाषस्व परमं विधिम्।
सर्वबुद्धमहाचक्रं महामण्डलमुत्तमम्॥२०॥ इति।

Delineation of the mandala
अथ भगवान् वज्रधरः सर्वतथागताध्येषणवचनमुपश्रुत्य सर्वतथागतसमयसंभववज्राधिष्ठानन्नाम समाधिं समापद्ये वज्रधातुन्नाम महामण्डलमुदाजहार।

अथातः संप्रवक्ष्यामि महामण्डलमुत्तमम्।
वज्रधातुप्रतीकाशं वज्रधातुरिति स्मृतम्॥१॥
उपविश्य यथास्यायं मण्डलस्य तु मध्यतः।
महासत्वमहामुद्रां भावयं समधिष्ठ्य च॥२॥
तथैवोत्थाय मुद्रास्थः सर्वतो व्यवलोकयेत्।
परिक्रमेत गर्वेण वज्रसत्त्वमुदाहरन्॥३॥
नवेन सुनियुक्तेन सुप्रमाणेन चारुणा।
सूत्रेण सूत्रयेत् प्राज्ञैर्यथाशक्तेन मण्डलम्॥४॥
चतुरस्त्रं चतुर्द्वारं चतुस्तोरणशोभितम्।
चतुःसूत्रसमायुक्तं पट्टस्त्रग्दामभूषितम्॥५॥
कोणभागेषु सर्वेषु द्वारनिर्यूहसन्धिषु।
खचितं वज्ररत्नैस्तु सूत्रयेद्बाह्यमण्डलम्॥६॥
तस्य चक्रप्रतीकाशं प्रविश्याभ्यन्तरं पुरम्।
वज्रसूत्रपरिक्षिप्तमष्टस्तम्भोपशोभितम्॥७॥
वज्र [स्तंभाग्रस्थश्चन्द्रपञ्च] मण्डलमण्डितम्।
मध्यमण्डलमध्ये तु बुद्धबिम्बन्निवेशयेत्॥८॥
बुद्धस्य सर्वपार्श्वेषु मण्डलानान्तु मध्यतः।
समयाग्र् यश्चतस्रो हि संलिखेदनुपूर्वशः॥९॥
वज्रवेगेन चाक्रम्य मण्डलानां चतुष्टये।
अक्षोभ्याद्याँस्तु चतुरः सर्वबुद्धान्निवेशयेत्॥१०॥
अक्षोभ्यमण्डलं कुर्यात्समं वज्रधरादिभिः।
वज्रगर्भादिभिः पूर्णं रत्नसंभवमण्डलम्॥११॥
वज्रनेत्रादिभिः शुद्धं मण्डलममितायुषः।
अमोघसिद्धेः संलेख्यं वज्रविश्वादिमण्डलम्॥ इति॥१२॥
चक्रस्य कोणसंस्थेषु वज्रदेव्यः समालिखेत्।
बाह्यमण्डलकोणेषु बुद्धपूजाः समालिखेत्॥१३॥
द्वारमध्येषु सर्वेषु द्वारपालचतुष्टयम्।
बाह्यमण्डलसंस्थेषु महसत्वान्निवेशयेत्॥१४॥
ततो वै सम्यगाग्रीन्तु मुद्रां बध्वा यथाविधि।
वज्राचार्यः प्रविष्ट्वा तु स्फोट्य मुद्रां समाविशेत॥१५॥

Initiation
तत्रे दं सर्वावेशहृदयं भवति अः॥
आज्ञां मार्ग्य यथावत्तु स्वाधिष्ठानादिकन्तथा।
कृत्वोच्चार्य स्वकन्नाम ततो वज्रेण साधयेत॥१॥
सत्त्ववज्राङ्कुशीं बध्वा वज्राचार्यस्ततः पुनः।
कुर्वन्नच्छटसंघातं सर्वबुद्धां समाजयेत्॥२॥
तत्क्षणं सर्वबुद्धास्तु वज्रसत्त्वसमन्विताः।
सर्वमण्डलसंपूर्णाः समाजं यान्ति मण्डले॥३॥
ततः शीघ्रं महामुद्रां [बध्वा] वज्रधरस्य तु।
उच्चारयेत्सकृद्वारन्नामाष्टशतमुत्तमम॥४॥
ततस्तुष्टाः समाजेन दृढं यान्ति तथागताः।
वज्रसत्त्वः स्वयंसिद्धो मित्रत्वेनोपतिष्ठति॥५॥
ततो द्वारेषु सर्वेषु कर्म कृत्वाङ्कु शादिभिः।
महाकर्माग्र् यमुद्राभिः समयांस्तु निवेशयेत्॥६॥
मुद्राभिः समयाग्र्याभिः सत्त्ववज्रादिभिस्तथा।
साधयेत महासत्त्वो जः हूम् वं होः प्रवर्तयन्॥७॥
ततो बुद्धादयः सर्वमहासत्त्वाः समग्रतः।
आकृष्टा सुप्रविष्टाश्च बध्वा याम्यन्ति तद्वशम्॥८॥
ततस्तु गुह्यपूजाभिः सन्तोष्य स महात्मना।
विज्ञयेत्सर्वसत्वार्थं कुरुध्वं सर्वसिद्धये॥९॥ इति॥
एवं सर्वमण्डलेष वज्राचार्यकर्मेति॥

Initiation of the disciple
अथात्र वज्रधातुमहामण्डले वज्रशिष्यप्रवेशादिविधिविस्तरो भवति॥

तत्र प्रथमं तावत् प्रवेशो भवत्यशेषानवशेषसत्त्वधातुपरित्राणसर्वहितसुखोत्तमसिद्धिकार्यकरणतया। अत्र महामण्डलप्रवेशे पात्रापात्रपरीक्षा न कार्या। तत्कस्माद्धेतोः।

सन्ति भगवन्तस्तथागताः केचित् सत्त्वा महापापकारिणस्ते इदं वज्रधातुमहामण्डलं दृष्ट्वा प्रविष्टा च सर्वापायविगता भविष्यन्ति।

सन्ति च भगवन्तः सत्त्वाः सर्वार्थभोजनपानकामगुणगृद्धाः समयद्विष्टाः पुरश्चरणादिष्वशक्ताः। तेषामप्यत्रयथाकामकरणीयतया प्रविष्टानां सर्वाशापरिपूरिर्भविष्यति।

सन्ति भगवन्तः सत्त्वा नृत्यगीतहास्यलास्याहारविहारप्रियतया सर्वतथागतमहायानाभिसमयधर्मतानवबोधत्वादन्यदेवकुलमण्डलानि प्रविशन्ति, सर्वाशापरिपूरिसंपदभूतेषु निरुत्तररतिप्रीतिहर्षसंभवकरेषु सर्वतथागतकुलमण्डलेषु शिक्षापदभयभीता न प्रविशन्ति। तेषामपायमण्डलप्रवेश [पथाभिमुखविहाराणामप्येव] वज्रधातुमहामण्डलप्रवेशो युज्यत सर्वरतिप्रीत्युत्तमसिद्धिसुखसौमनस्यानुभवनार्थं सर्वापायगतिप्रवेशाभिमुखपथविनिवर्तनाय च।

सन्ति च पुनर्भगवन्तो धार्मिकाः सत्त्वाः सर्वतथागतशीलसमाधिप्रज्ञोत्तमसिद्ध्युपायैर्बुद्धबोधिं प्रार्थयन्तो ध्यानविमोक्षादिभिर्भूमिभिर्यन्तः क्लिश्यन्ते। तेषामत्रैव वज्रधातुमहामण्डलप्रवेशमात्रेणैव सर्वतथागतत्वमपि न दुर्लभम्, किमङ्गा पुनरन्या सिद्धिरिति॥

तत्रादित एव तावत् सर्वतथागतप्रणामचतुष्टयं कारयेत्। तद्यथा।

सर्वशरीरेण वज्राञ्जलिप्रसारितेन प्रणमेदनेन मन्त्रेण। ओं सर्वतथागतपूजोपस्थानायात्मानन्निर्यातयामि सर्वतथागतवज्रसत्त्वाधितिष्ठस्व मां॥

तथव स्थितो वज्राञ्जलिं हृदि कृत्वा ललाटेन प्रणमेदनेन मन्त्रेण ओं सर्वतथागतपूजाभिषेकायात्मानन्निर्यातयामि सवतथागतवज्ररत्नाभिषिञ्च माम्॥

ततस्तथैवोत्थाय वज्रांजलिबन्धेन शिरसा मुखेन प्रणमेदनेन मन्त्रेण ओं सर्वतथागतपूजाप्रवर्तनायात्मानं निर्यातयामि सर्वतथागतवज्रधर्म प्रवर्तय माम्॥

ततस्तथैव स्थितो वज्रांजलिं शिरसोऽवतार्य हृदि कृत्वा मुर्ध्ना प्रणमेदनेन मन्त्रेण ओं सर्वतथागतपूजाकर्मणे आत्मानन्निर्यातयामि सर्वतथातवज्रकर्म कुरु माम्॥

ततो रक्तवस्त्रोत्तरीयो रक्तपट्टकावच्छादितमुखः सत्त्ववज्रिमुद्रां बन्धयेदनेन हृदयेन समयस्त्वम्॥

ततो मध्याङ्गुलिद्वयेन मालां ग्रन्थ्या प्रवेशयेदनेन हृदयेन समय हूं॥

ततः प्रवेश्यैवं वदेत्। “अद्य त्वं सर्वतथागतकुले प्रविष्टः। तदहं ते वज्रज्ञानमुत्पादयिष्यामि, येन ज्ञानेन त्व सर्वतथागतसिद्धिरपि प्राप्स्यसि, किमुतान्याः सिद्धीः। न च त्वयादृष्टमहामण्डलस्य वक्तव्यं, मा ते समयो व्यथेद्” इति। ततः स्वयं वज्राचार्यः सत्त्ववज्रमुद्रामेव मूर्ध्वामुखीं बध्वा वज्रशिष्यस्य मूर्ध्नि स्थास्यैवं वदेत्। “अयं ते समयवज्रो मूर्धानं स्फलयेद्, यदि त्वं कस्यचिद् ब्रूयात्।”

ततस्तयैव समयमुद्रया उदकं शपथहृदयेन सकृत् परिज्ञाप्य, तस्य शिष्याय पाययेदिति॥

तत्रेदं शपथहृदयं भवति।

वज्रसत्त्वः स्वयन्तेऽद्य हृदये समवस्थितः।
निर्भिद्य तत्क्षणं यायाद् यदि ब्रूयादिमं नयम्॥
वज्रोदक ठः॥

ततः शिष्याय ब्रूयात्। “अद्य प्रभृत्यहन्ते वज्रपाणिर्यत्तेऽहं ब्रूयामिदं कुरु तत्कर्तव्यं, न च त्वयाहमवमन्तव्यो, मा ते विषमापरिहारेण कालक्रियां कृत्वा नरपतनं स्याद्” इति उक्त्वा, वक्तव्यं ब्रूहि, “सर्वतथागता अधितिष्ठन्तो वज्रसत्त्वो मे आविशतु”।

ततस्त्वरमाणेन वज्राचार्येण सत्त्ववज्रिमुद्रां बध्वा इदमुच्चारयितव्यम्।

अयं तत्समयो वज्रं वज्रसत्त्वमिति स्मृतम्।
आवेशयतु तेऽद्यैव वज्रज्ञानमनुत्तरम्।
वज्रावेश अः।

ततः क्रोधमुष्टिं बध्वा सत्त्ववज्रिमुद्रां स्फोटयेत्, महायानाभिसमयं च वज्रवाचा रुचितोच्चारयेदिति।

ततः समाविशत्याविष्टमात्रस्य दिव्यं ज्ञानमुत्पद्यते। तेन ज्ञानेन परचित्ताभ्यवबुध्यति। सर्वकार्याणि चातीतानागतवर्तमानानि जानाति। हृदयं चास्य दृढीभवति सर्वतथागतशासने। सर्वदुःखानि च [संप्र]णश्यन्ति। सर्वभयविगतश्च भवति। अवध्यः सर्वसत्त्वेषु। सर्वतथागताश्चाधितिष्ठन्ति। सर्वसिद्धयश्चास्याभिमुखीभवन्ति। अपूर्वाणि चास्याकारणहर्षरतिप्रीतिकराणि सुखान्युत्पद्यन्ते। तैः सुखैः केषाञ्चित्समाधयो निष्पद्यन्ते, केषाञ्चिद धारण्यः, केषाञ्चित सर्वाशापरिपूरयो, यावत्, केषाञ्चित्सर्वतथागतत्वमपि निष्पद्यत इति।

ततस्तां मुद्रां बध्वा स्वहृदि मोक्षयेदनेन हृदयेन

तिष्ठ वज्र दृढो मे भव, शाश्वतो मे भव, हृदयं मेऽधितिष्ठ, सर्वसिद्धिञ्च मे प्रयच्छ, हूं ह ह ह ह होः॥

ततस्तां मालां महामण्डले क्षेपयेदनेन हृदयेन प्रतीच्छ वज्र होः॥ ततो यत्र पतति सोऽस्य सिध्यति। ततस्तां मालां गृह्य तस्यैध शिरसि बन्धयेदनेन हदयेन ओं प्रतिगृण्हत्वमिमं सत्वं महाबलः॥ तया बन्धया तेन महासत्त्वेन प्रतीच्छितो भवति, शीघ्रं चास्य सिध्यति।

ततस्तथाविष्टस्यैव मुखबन्धं मुंचेदनेन हृदयेन ओं वज्रसत्त्वः स्वयन्तेऽद्य चक्षूद्धाटनतत्परः उद्धाटयति सर्वाक्षो वज्रचक्षु रनुत्तरम्॥ हे वज्र पश्य॥

ततो महामण्डलं यथानुपूर्वतो दर्शयेत्। महामण्डले च दृष्टमात्रे सर्वतथागतैरधिष्ठ्यते, वज्रसत्त्वश्चास्य हृदये तिष्ठति। नानाद्यतीवरश्मिमण्डलदर्शनादीनि प्रातीहार्यविकुर्वितानि पश्यति। सर्वतथागताधिष्ठितत्वात्। कदाचित् भगवान् महावज्रधरः स्वरूपेण दर्शनं ददाति, तथागतो वति। ततः प्रभृति सर्वार्थाः सर्वमनोऽभिरुचितकार्याणि सर्वसिद्धिर, यावद्, वज्रधरत्वमपि तथागतत्वं वेति।

ततो महामण्डलं दर्शयित्वा वज्राधिष्ठितकलशाद् गन्धोदकेनाभिषिंचेदनेन हृदयेन वज्राभिषिञ्च॥

ततस्त्वेकतमां मुद्रां मालां वध्वा स्वचिन्हं पाणौ प्रतिष्ठाप्यैवं वदेत्।

अद्याभिषिक्तस्त्वमसि बुद्धैर्वज्राभिषेकतः।
इदन्ते सर्वबुद्धत्वं गृह्ण वज्रं सुसिद्धये॥

ओं वज्राधिपति त्वामभिषिंचामि तिष्ठ वज्र समयस्त्वम्॥

ततो वज्रनामाभिषेकेण अभिषिंचेदनेन हृदयेन। ओं वज्रसत्त्व त्वामभिषिंचामि वज्रनामाभिषेकतः हे वज्र नाम॥ यस्य यन्नाम कुर्यात्तस्य हे-शब्दः प्रयोक्तव्य इति॥

सर्वमण्डलप्रवेशविधिविस्तरः॥

ततो ब्रूयात्, “किन्तेऽभिरुचिरर्थोत्पत्तिसिद्धिज्ञानं वा, ऋद्धिसिद्धिनिष्पत्तिज्ञानं वा, विद्याधरसिद्धिनिष्पत्तिज्ञानं वा, यावत्, सर्वतथागतोत्तमसिद्धिनिष्पत्तिज्ञानं वे” ति। ततो यस्य यदभिरुचितं तत तस्योच्चेयम्॥

ततोऽर्थसिद्धिनिष्पत्तिमुद्राज्ञानं शिक्षयेत्।

वज्रबिम्बन्निधिस्थं तु हृदये परिभावयेत्॥
भावयन् भूमिसंस्थानि निधानानि स पश्यति॥१॥
वज्रबिम्बं समालिख्य गगने परिभावयेत्।
पतेद्यत्र तु पश्येत निधितत्र विनिर्दिशेत्॥२॥
वज्रबिम्बं तु जिव्हायां भावयेद् बुद्धिमान् नरः।
अत्रास्तीति स्वयं वाचा ब्रवीति परमार्थतः॥३॥
वज्रबिम्बमयं सर्वं भावयं कायमात्मनः।
समाविष्टः पतेद्यत्र निधिन्तत्र विनिर्दिशेद्॥ इति॥४॥
तत्रैतानि [हृदयानि भवन्ति]॥

वज्रनिधि॥
रन्त निधि॥
धर्म निधि॥
कर्मनिधि॥

ततो वज्रऋद्धिसिद्धिनिष्पत्तिमुद्राज्ञानं शिक्षयेत्।
वज्रावेशे समुत्पन्ने वज्रबिम्बमयं जलम्।
भावय[ञ्छीघ्रंसि]द्धस्तु जलस्योपरि चंक्रमेत्॥१॥
तथैवावेशमुत्पद्य यद् रूपं स्वयमात्मनः।
भावयं भवते तत्तु बुद्धरूपमपि स्वयम्॥२॥
तथैवाविष्टमात्मानमाकाशोऽहमिति स्वयम्।
भावयन् यावदिच्छेत तावददृश्यतां ब्रजेत्॥३॥
वज्राविष्टः स्वयं भत्वा वज्रोऽहमिति भावयन्।
यावदारुहते स्थानन्तावदाकाशगो भवेद्॥ इति॥४॥

तत्रैतानि हृदयानि भवन्ति।
वज्रजल॥
वज्ररूप॥
वज्राकाश॥
वज्रमहम्॥

ततो वज्रविद्याधरसिद्धिनिष्पत्तिमुद्राज्ञानं शिक्षयेत्।
चन्द्रबिम्बं समालिख्य नमस्यूर्ध्व समारुहेत्।
पाणौ प्रभावयं वज्रं वज्रविद्याधरो भवेत्॥१॥
चन्द्रबिम्बं समारुह्य वज्ररत्नं प्रभावयेत्।
यावदिच्छति शुद्धात्मा तावदुत्पतति क्षणात्॥२॥
चन्द्रबिम्बाभिरूढस्तु वज्रपद्मं करे स्थितम्।
भावयन् वज्रनेत्रं तु दद्याद् विद्याधृतां पदम्॥३॥
चन्द्रमण्डलमध्यस्थः कर्मवज्रां तु भावयेत्।
वज्रविश्वधराच्छीघ्रं सर्वैविद्याधरो भवेद॥ इति॥४॥

अथ हृदयानि भवन्ति।
वज्रधर॥
रत्नधर॥
पद्मधर॥
कर्मधर॥

ततः सर्वतथागतोत्तमसिद्धिनिष्पत्तिमुद्राज्ञानं शिक्षयेत्।
सर्ववज्रसमाधिन्तु संविष्ट्याकाशधातुषु।
यावदिच्छति वज्रात्मा तावदुत्पतति क्षणात्॥१॥
सर्वशुद्धसमाधिन्तु भावयन्नुत्तमांस्तथा।
पंचाभिज्ञानवाप्नोति शीघ्रं ज्ञानप्रसाधक॥२॥
वज्रसत्त्वमयं सर्व आकाशमिति संस्फरन्।
दृढानुस्मृतिमाञ्छिघ्रं भवेद्वज्रधरः स्वयम्॥३॥
बुद्धबिम्बमयं सर्वमधिमुच्य खधातुषु।
सर्वबुद्धसमाधिषु बुद्धत्वाय भविष्यति॥ इति॥४॥

अथात्र हृदयानि भवन्ति।
वज्र वज्र॥
शुद्ध शुद्ध॥
सत्व सत्व॥
बुद्ध बुद्ध॥

सर्वसिद्धिज्ञाननिष्पत्तयः॥

अथ रहस्याधरणक्षमो भवति॥
तस्य प्रथमं तावच्छपथहृदयं भूयात्।

ओं वज्रसत्त्वः स्वयं तेऽद्य हृदयं समवस्थितः।
निर्भिद्य तत्-क्षणं यायाद्यदि भूयादिदन्नयम्॥

तत एवं वदेन् “न त्वयेदं शपथहृदयमतिक्रमितव्यम्; मा ते विषमापरिहारेणाकालमरणं स्याद्, अनेनैव कायेन नरकपतनम्”।

ततो रहस्यमुद्राज्ञानं शिक्षयेत्।
वज्रावेशं समुत्पाद्य तालं दद्यात् समाहितः।
वज्रांजलितलैः सूक्ष्मं पर्वतोऽपि वशं नयेत्॥१॥
वज्रतालमुद्रा॥
वज्रावेशविधिं योज्य वज्रबन्धतलैः हनेत्।
सूक्ष्मतालप्रयोगेण पर्वतेऽपि समाविशेत्॥२॥
तथैवावेशविधिना वज्रबन्धप्रसारिते।
अग्रांगुलिसमास्फोटाद्धनेत् कुलशतं क्षणात्॥३॥
सूक्ष्मावेशविधेर्योगात्सर्वागुलिसमाहितम्।
वज्रबन्धविनिर्मुक्तं सर्वदुःखहरं परम्॥ इति॥४॥

अथासां गुह्यसाधनं भवति।
भगेन प्रविशेत् कायं स्त्रियायाः पुरुषस्य वा।
प्रविष्ट्वा मनसा सर्वं तस्य कार्यं समं स्फरेद्॥ इति।

तत्रैतानि तालहृदयानि भवन्ति।
वज्र वश॥
वज्र विश॥
वज्र हन॥
वज्र हर॥

ततो हृदयं दत्त्वा स्वकुलदेवताचतुर्मुद्राज्ञानं शिक्षयेत्। अनेन विधिना वक्तव्यम्। “न कस्यचित् त्वयान्यस्यैषां मुद्राणामकोविदस्य एकतरापि मुद्रा दर्शयितव्या। तत्कस्य हे तोः। तथा हि ते सत्वा अदृष्टमहामण्डलाः सन्तो मुद्राबन्धं प्रयोजयन्ति तदा तेषान्न तथा सिद्धिर्भविष्यति। ततस्ते विचिकित्सा प्राप्ता विषमापरिहारेण शीघ्रमेव कालं कृत्वावीचीमहानरके पतन्तः। तव चापायगमनं स्याद्” इति॥

अथ सर्वतथागतसत्वसाधनमहामुद्राज्ञानं भवति।

चित्तज्ञानात्समारभ्य वज्रसूर्यं तु भावयेत्।
बुद्धबिम्बं स्वमात्मानं वज्रधातुं प्रवर्तयन्॥१॥
अन्या सिद्धिमात्रस्तु ज्ञानमायुर्बलं वर्षः।
प्राप्नोति सर्वगामित्वं बुद्धत्वमपि न दुर्लभम्॥२॥ इति॥
सर्वतथागताभिसंबोधिमुद्रा॥ ॥

अथ वज्रसत्त्वसाधनमहामुद्राबन्धो भवति।

सगर्वं वज्रमुल्लास्य वज्रगर्वां समुद्वहन्।
कायवाक्चित्तवज्रैस्तु वज्रसत्त्वः स्वयं भवेत॥१॥
अन्या सर्वगामी सर्वकामपतिः सुखी।
ऋद्ध्यायुर्बलरूपाग्र्यो वज्रसत्त्वसमो भवेद्॥ इति॥२॥
कायवाक्चित्तवज्रैस्तु यथा लेख्यानुसारतः।
चिन्हमुद्रान् समोपेतान्महासत्वांस्तु साधयेत्॥३॥
अथात्र सर्वकल्पानां साधनं सिद्धिरेव च।
सिद्धानां च महत्कर्म प्रवक्ष्याम्यनुपूर्वशः॥४॥
प्रत्यहं प्राग्यथाकालं स्वाधिष्ठानादिकन्तथा।
कृत्वा तु साधयेत्सर्वं ततः पश्चाद् यथासुखम्॥५॥ इति॥

तत्रायं महामुद्रासाधनविधिविस्तरो भवति।
वज्रावेशं समुत्पाद्य महामुद्रां यथाविधि।
बध्वा तु परतस्तं तु महासत्त्वं प्रभावयेत्॥१॥
तं दृष्ट्वा ज्ञानसत्त्वं तु स्वशरीरे प्रभावयेत्।
आकृष्य प्रवेश्य बध्वा वशीकृत्वा च साधयेत्॥

तत्रैषां हृदयानि भवन्ति। वज्र-सत्त्व अः॥ वज्रावेशहृदयम्॥
वज्र-सत्त्व दृश्य॥ महासत्वानुस्मृतिहृदयम्॥
जः हूं वं होः॥ महासत्वाकर्षणप्रवेशनबन्धनवशीकरणहृदयम॥
“समयस्त्वम्” इति प्रोक्ते पृष्ठतश्चन्द्रमाविशेत्।
तत्रात्मा भावयेत्सत्वं “समयस्त्वम्” अहं ब्रूवन्॥१॥
यस्य सत्त्वस्य या मुद्रा तामात्मानन्तु भावयेत्।
साधयेद्वज्रजापेन सर्वमुद्राप्रसाधनम्॥२॥
“जः हूं वं होः” ब्रुवन् काये सर्वबुद्धान् प्रवेशयेत्।
मनसा साधुयोगेन साधनं त्वपरम् महद्॥ इति॥३॥
अथासां कर्म प्रवक्ष्यामि वज्रकर्म निरुत्तरम्।
बुद्धानुस्मृतिसंसिद्धः शीघ्रं बुद्धत्वमाप्नुयात्॥४॥
सत्त्ववज्या तु संसिद्धः सर्वमुद्राधिपो भवेत्।
सत्त्ववज्र यान्तु मुद्रायां सर्वरत्नाधिपः स तु॥५॥
सिद्धस्तु धर्मवज्र या वै बुद्धधर्मधरो भवेत्।
कर्मवज्रिणि मुद्रायां वज्रकर्मकरो भवेत्॥६॥
सिद्ध्यते वज्रसत्त्वस्तु बन्धया सत्त्वमुद्रया।
आकर्षयेद्वज्रधरां वज्राकर्षप्रयोगतः॥७॥
वज्ररागमहामुद्रा सर्वबुद्धांस्तु रागयेत्।
तोषयेत्सर्वबुद्धानां वज्रसाधप्रयोगतः॥८॥
दद्याद् बुद्धाभिषेकाणि रत्नमुद्राविधिस्तथा।
वज्रतेजा भवेच्छीघ्रं वज्रतेजःप्रयोगतः॥९॥
वज्रकेतुधरं सेव्य भवेदाशाप्रपूरकः।
वज्रहासविधिं योज्य सर्वबुद्धैः समं हसेत्॥१०॥
वज्रधर्मधरो भूयाद् वज्रधर्मप्रयोगतः।
प्रज्ञाग्र्यः सर्वबुद्धानां वज्रतीक्ष्णप्रयोगतः॥११॥
वज्रचक्रधरं सेव्य धर्मचक्रं स वर्तयेत्।
बुद्धवाक्‌सिद्धिमाप्नोति वज्रभाषप्रयोगतः॥१२॥
वज्रकर्म [गतं] क्षिप्रं वज्रकर्माग्र्यसाधनात्।
निबध्य वज्रकवचं वज्रकायत्वमाप्नुयात्॥१३॥
वज्रयक्षं तु वै साध्य वज्रयक्षसमो भवेत्।
सर्वमुद्राप्रसिद्धस्तु वज्रमुष्टिनिबन्धनान्॥१४॥
वज्रलास्यां तु वै साध्य महावज्ररतिं लभेत्।
वज्रमाला निबन्धस्तु सर्वबुद्धाभिषेकदः॥१५॥
योजयेद्वज्रगीतां तु वज्रगीताप्रयोगतः।
वज्रनृत्यां तु संयोज्य सर्वबुद्धैः स पूज्यते॥१६॥
प्रल्हादयेज्जगत्सर्वं वज्रधूपाप्रयोगतः।
वज्रपुष्पां तु संयोज्य वशीकुर्याज्जगत् स तु॥१७॥
वज्रालोकमहामुद्रा चक्षुर्दद्यात्प्रपूजयन्।
सर्वदुःखहरो भूयाद्वज्रगन्धप्रयोगतः॥१८॥
वज्राङ्कुशसमाकर्षात् सर्वाकर्षकरः परः।
सर्वप्रवेशको भूयाद् वज्रपाशप्रयोगतः॥१९॥
वज्रस्फोटन्तु संयोज्य सर्वबन्धक्षयो भवेद्।
वज्रावेशविधिं योज्य सर्वावेशप्रसाधक॥२० इति॥ ॥

अथ सर्वतथागतवज्रसमयमुद्राज्ञानं भवति।
अञ्जलिं तु दृढं बध्वा सर्वाङगुलिनिबन्धितम्।
वज्राञ्जलिः समाख्यातो वज्रबन्धः सुबन्ध [नात्॥१॥
सर्व] समयमुद्रास्तु वज्रबन्धसमुद्भवाः।
तासां बन्धं प्रवक्ष्यामि वज्रबन्धमनुत्तरम्॥२॥
सत्त्ववज्रां दृढीकृत्य मध्यमोत्थासमाङकुराम्।
मध्यमान्तरसंकोचान् द्वितीया बुद्धवर्णिता॥३॥
मध्यमाङगुष्ठरत्ना तु पद्मसंकोचमध्यमा।
पञ्चमी बुद्धमुद्रा तु तथैवाग्रसुकुञ्चिता॥४॥
अथातः संप्रवक्ष्यामि तथागतकुलस्य हि।
समयग्राहिका मुद्रा बन्धं सिद्धिं च कर्म च॥५॥
पाणिद्वयमये चन्द्रे मध्यमाङ्गुलिवर्जिते।
अन्त्याङ्गुलिमुखासङ्गाद वज्रं वै सत्त्ववज्रया॥६॥
अग्राङ्कुशाग्रसंयोगाद् साधुकारप्रदायिका।
वज्रसत्वचतुष्कस्य सिद्धिमुद्रागणो ह्ययम्॥७॥
रत्नवज्रा समाङगुष्ठतर्जनीमुखसन्धनात्।
सा एव मध्यमानामकनिष्ठा सुप्रसारिता॥८॥
पताका तु समानामकनिष्ठाभ्यां समन्विता।
हासस्थानस्थिता चैव सा एव परिवर्तिता॥९॥
प्रसारितसमाङगुष्ठस्थिता कुञ्चिततर्जनी।
सा एव वर्जकोशा तु मध्यमा मुखसन्धिता॥१०॥
सा एव तु समानामकनिष्ठा चक्रसंज्ञिता।
निर्युक्ताङगुष्ठबन्धा तु प्रसारितमुखोत्थिता॥११॥
कनिष्ठाङगुष्ठमुखयोः समाजात् कर्मवर्जिता।
सा एव तु समाग्र्या वै हृदिस्था सुप्रसारिता॥१२॥
कुञ्चिताग्र् याग्रदंष्ट्रा तु कनिष्ठा सन्धिमोक्षिता।
कनिष्ठान्तरतोऽङगुष्ठौ पीडयेत्कुञ्चिताग्र्यया॥१३॥
हृदये तु समाङगुष्ठा सुप्रसारितमालिनी।
अङगुल्यग्रमखोद्धान्ता नृत्यतो मूर्ध्नि संयुता॥१४॥
वज्रबन्ध त्वधो दानात् स्वाञ्जलिश्चोर्ध्वदायिका।
समाङगुष्ठनिपीडा च सुप्रसारितलेपना॥१५॥
एकतर्जनीसंकोचा द्व्यङगुष्ठग्रन्थिबन्धिता।
अङगुष्ठाग्र यकटा बन्धा वज्रटमुष्ट्यग्रसन्धिता॥ इति॥१६॥
अथासां साधनं वक्ष्ये वज्रसाधनमुत्तमम्।
स्वमुद्रया हृदिस्थया सत्त्ववज्रसमाधिना॥१७॥
अथासां कर्म वक्ष्यामि वज्रकर्म निरुत्तरम्।
वज्रधात्वादिमुद्रासु समाजेन तथागताः॥१८॥
मण्डलाचार्यशिष्याणामधिष्ठास्यन्ति तत्क्षणात्।
सत्त्ववज्र् यान्तु बद्धायां भवेद्वज्रधरोपमः॥१९॥
वज्राङ्कुश्यां बद्धमात्रायां सर्वबुद्धां समाह् वयेत्।
रागवज्रप्रयोगेण स बुद्धानपि रागयेत्॥२०॥
[वज्रसाधुबन्धेन बुद्धदानतुष्टिं लभति।]
वज्रतुष्ट्या जिनैः सर्वैः साधुकारैः प्रशंस्यते॥२१॥
रत्नवज्र् यान्तु बद्धायां बुद्धैः सोऽप्यभिषिच्यते।
वज्रसूर्यां बध्वा वै भवेद् बुद्धप्रभोपमः॥२२॥
वज्रकेतुधरो भूत्वा सर्वाशाः स तु पूरयेत्।
वज्रहासप्रयोगेण सर्वबुद्धैः समं हसेत्॥२३॥
धर्मवज्रां समाधाय वज्रधर्मोपमो भवेत्।
वज्रकोशां तु संगृह्य सर्वक्लेशां च्छिनत्ति सः॥२४॥
वज्रचक्रां दृढीकृत्वा मण्डलाधिपतिर्भवेत्।
वज्रभाषप्रयोगेण वज्रवाक्सिद्धिरुत्तमा॥२५॥
कर्मवज्रां तु सन्धाय वज्रकर्मसमो भवेत्।
वज्रवर्मां दृढीकृत्वा कायो वज्रमयो भवेत्॥२६॥
वज्रदंष्ट्राग्रमुद्रया दुष्टमारां स भञ्जति।
वज्रमुष्टिं दृढां बध्वा सर्वमुद्रां वशन्नयेत्॥२७॥
लास्यया रतयो दिव्याः मालया भूषणानि च।
गीतया स्फुटवाचो नित्यं पूजां लभति नृत्यया॥२८॥
धूपया ल्हादयेद् लोक पुष्पया रूपशोभिताम्।
दीपया लोकशुद्धित्वं गन्धया दिव्यगन्धताम्॥२९॥
वज्राङकुशः समाकर्षेद् वज्रपाशा प्रवेशयेत्।
वज्रस्फोटा तु बन्धयाद् वज्रघण्टा समाविशेद्॥३०॥ इति॥

अथ धममुद्रा भवन्ति।
वज्रज्ञानं तु बुद्धानां वज्रधातु दृढंकरम्।
अतः परं प्रवक्ष्यामि धर्ममुद्रा यथाविधि॥१॥
“समयस्त्वम्” इति प्रोक्ते सर्वमुद्रापतिर्भवेत्।
“अन्यस्व” इति वै प्रोक्ते बुद्धानाकर्षयेद् ध्रुवम्॥२॥
“अहो सुख” इति प्रोक्ते बुद्धानपि स रागयेत्।
“साधु साध्व्” इति वै प्रोक्त्वा साधुकारैः स तोषयेत्॥३॥
“सुमह [त्त्वम्” इति] प्रोक्ते सर्वबुद्धाभिषेचनम्।
“रूपोद्योते” -ति वै प्रोक्ते धर्मतेजो भविष्यति॥४॥
“अर्थ-प्राप्तिर” इति प्रोक्ते सर्वाशाः पूरयेत् स तु।
“ह ह हूं हे-” [ति प्रोक्ते समबुद्धहासं प्राप्नु] यात्॥५॥
“सर्व-कारि” इति प्रोक्ते अकार्यमपि शोधयेत्।
“दुः खच्छेद” इति प्रोक्ते सर्वदुःखाञ्छिनत्ति सः॥६॥
[ “बुद्ध बोधि” इति] प्रोक्ते मण्डलाधिपतिर्भवेत्।
“प्रति-शब्द” इति प्रोक्ते बुद्धैः सहसमालपेत्॥७।
“शुभ-सिद्धम्” इति प्रोक्ते वशित्वं सर्वतो भवेत्।
[“निर्भयस्त्वम्” इति] प्रोक्ते निर्भयो भवेत्तत्क्षणात्॥८॥
“शत्रु भक्ष” इति प्रोक्ते सर्वशत्रुन् स भक्षयेत्।
“सर्वसिद्धिर्” इति प्रोक्ते सर्वसिद्धिर्भविष्यति॥९॥
[“महारति” रतिं] दिव्यां “रूपशोभा” तथैव च।
“श्रोत्रसौख्या” सुखं दद्यात् “सर्वपूजा” सुपूजताम्॥१०॥
“प्रल्हादिनि” मनःसौख्यं “फलागमी” फलागमा।
“सु [तेजाग्रि” महातेजः] “सुगन्धाङ्गि” सुगन्धताम्॥११॥
“अयाहि जः” समाकर्षा “अहि हूं हूं” प्रवेशिका।
“हेस्फोट वं” महाबन्धा “घण्टा अः अः” प्रचालिते-॥ ति॥१२॥
अथासां धर्ममुद्रा [साधनं प्र] वक्ष्यते शुभम्।
जिव्हायां भावयेद् वज्रां सर्वकर्माणि कुर्वते॥ ति॥१३॥

अथ कर्ममुद्राबन्धो भवति।
वज्रमुष्टिं दृढां बध्वा द्विधीकुर्यात्समाहितः।
वज्रमुद्राद्वयं भूयात् ततो बन्धः प्रवक्ष्यते॥१॥
वामवज्राङगुलिर्ग्राह्यं दक्षिणेन समुत्थिता।
बोधाग्री नाम मुद्रेयं बुद्धबोधिप्रदायिका॥२॥
अक्षोभ्यस्य भूमिस्पर्शा रत्ने तु वरदा तथा।
अमितायोः समाध्यग्रा अमोघस्याभयप्रदा॥३॥
अतः परं प्रवक्ष्यामि कर्ममुद्रा समासतः।
वज्रसत्त्वादिसत्त्वानां वज्रकर्मप्रवर्तिकाः॥४॥
सगर्वोत्कर्षणं द्वाभ्यामङ्कु शग्रहसंस्थिता।
वाणघन्तनयोगाच्च साधुकारा हृदि स्थिता॥५॥
अभिषेके द्विवज्रं तु हृदि सूर्यप्रदर्शनम्।
वामस्थबाहुदण्डा च तथास्ये परिवर्तिता॥६॥
सव्यापसव्यविकचा हृद् वामां खड्गमारण।
अलातचक्रभ्रमिता बज्रद्वयमुखोत्थिता॥७॥
वज्रनृत्यभ्रमोन्मुक्तं कपोलोष्णीषसंस्थिता।
कवचा कनिष्ठदंष्ट्राग्र्या मुष्टिद्वयनिपीडिता॥८॥
वज्रगर्वाप्रयोगेण नमेदाशयकंपितैः।
मालाबन्धा मुखोद्वान्ता वज्रनृत्यप्रनर्तिता॥९॥
वज्रमुष्टिप्रयोगेण दद्याद् धूपादयस्तथा।
सर्वबुद्धप्रपूजायाः पूजामुद्राः प्रकल्पिता॥१०॥
तर्जन्यङ्कुशबन्धेन कनिष्ठाया महाङ्कुशी।
बाहुग्रन्थिकटाग्र्याभ्यां पृष्ठयोश्च निपीडिता॥ इति॥११॥
अथासां साधनं वक्ष्ये वज्रकर्मकृता समम्।
सर्ववज्रमयं वज्रं हृदये परिभावयेद्॥ इति॥१२॥
अथासां कर्ममुद्राणां वज्रकर्माण्यनेकधा।
ज्ञानमुष्ट्यां तु बद्धायां बुद्धज्ञानं समाविशेत्॥१३॥
अक्षोभ्यायां तु बन्धायामक्षोभ्यं भवेत् मनः।
रत्नसंभवमुद्रायां परानुग्रहवान् भवेत्॥१४॥
सद्धर्मचक्रमुद्रायां धर्मचक्रं प्रवर्तयेत्।
अभयाग्र्या भवेत क्षिप्रं सर्वसत्त्वामयप्रदः॥१५॥
ज्रगर्वां दृढीकृत्य वज्रसत्वसुखं लभत्।
वज्राङ्कुश्या समाकर्षेत् क्षणात् सर्वतथागतान॥१६॥
रागयेद् वज्रवाणैस्तु वज्रभार्यामपि स्वयम्।
वज्रतुष्ट्या जिनाः सर्वे साधुकारान् ददन्ति हि॥१७॥
महावज्रमणिं बध्वा शास्तृभिः सोऽभिषिच्यते।
वज्रसूर्यां समाधाय वज्रसूर्यसमो भवेत्॥१८॥
वज्रध्वजां समुच्छ्राप्य रत्नवृष्टिं स वर्षयेत्।
वज्रस्मितां समाधाय हसेद् बुद्धैः समं लघु॥१९॥
वज्रफुल्लां समाधाय वज्रधर्मं स पश्यति।
वज्रकोशां दृढं बध्वा सर्वदुःखाञ्छिनत्ति सः॥२०॥
वज्रचक्रं समाधाय धर्मचक्रं प्रवर्तयेत्।
सर्वं वै बुद्धवचनं सिध्यते वज्रजापतः॥२१॥
[वज्रनृत्यपूजया बुद्धोऽपि वशिभूतं भवेत्।]
वज्रवर्म निबध्वा सो वज्रसारत्वं प्राप्नुयात्॥२२॥
वज्रदंष्ट्रं समाधाय [प्रध्वंसेद् वज्रत्वमपि]।
वज्रमुष्ट्याहरे [त् सर्वं मुद्रासिद्धिरालभ्यते]॥२३॥
वज्रलास्या रतिन् दद्याद् वज्रमाला सुरूपताम्।
वज्रगीता सुगीता [त्वं वज्रनृत्या च वशयेत्]॥२४॥
धूपया तु मनोल्हादं पुष्पयाभरणानि तु।
दीपपूजा महादीप्तिं वज्रगन्धा सुगन्धताम्॥२५॥
वज्राङ्कुश्या समाकर्षेद् वज्र आशा प्रवेशयेत्।
बन्धयेद् वज्रनिगडा वज्रघण्टा तु चालयेद्॥ इति॥२६॥

अथ सर्वमुद्राणां सामान्या बन्धविधिविस्तरो भवति। तत्रादित एव वज्रबन्धाङ्गुलीं तालं कृत्वा हृदये, इदं हृदयमुच्चारयेत् वज्रबन्ध त्रट्॥ ततः सर्वमुद्राबन्धाः स्वकायवाक्चित्तवज्रेषु वशीभवन्ति॥

ततो वज्रावेशसमयमुद्रां बध्वा, इदं हृदयमुच्चारयेत् अः॥ ततः समाविष्टा मित्रत्वेनोपतिष्ठन्ति॥

ततो मुद्रासमयमहासत्त्वाननुस्मृत्येदं हृदयमुदाहरेत् महासमयसत्त्वोऽहम्॥ अनेन सर्वमुद्राः सिद्ध्यन्तीति।
सर्वमुद्राविधिविस्तरः॥ ॥

अथ सामान्यः साधनविधिविस्तरो भवति। तत्रादित एव स्वमुद्रां बध्वा स्वमुद्रासत्वमात्मानं भावयेदनेन हृदयेन समयोऽहम्॥

ततः स्वमुद्रासत्त्वमात्मानं भाव्य तेनाधिष्ठायेदनेन मन्त्रेण समयसत्त्वाधितिष्ठस्व माम्। ततः साधयेदिति। साधनाविधिविस्तरः॥ ॥

अथ सिद्धिविधिविस्तरो भवति। तत्रादित एव अर्थसिद्धिमिच्छता तेन हृदयेन अर्थसिद्धि॥ अनेन सिद्धा मुद्रा महार्थोत्पत्तिन् करोति॥

अथ वज्रसिद्धिमिच्छेदनेन हृदयेन वज्रसिद्धि॥ अनेन यथाभिरुचितवज्रसिद्धो भवति॥

अथ विद्याधरसिद्धिमिच्छेदनेन हृदयेन वज्रविद्याधर॥ अनेन यथाभिरुचितविद्याधरसिद्धिः।

अथोत्तमसिद्धिमिच्छेत् स्वमुद्राहृदयेनेति। सिद्धिविधिविस्तरः॥ ॥

अथ सर्वमुद्राणां सामान्यः स्वकायवाक्चित्तवज्रेषु वज्रीकरणविधिविस्तरो भवति। यदा मुद्राधिष्ठानं शिथिलीभवति, स्वयं वा मुक्तुकामो भवति, ततोऽनेन हृदयेन दृढीकर्तव्या।

ओं वज्र सत्त्वसमयमनुपालय,
वज्रसत्त्वत्वेनोपतिष्ठ,
दृढो मे भव, सुतोष्यो मे भवानुरक्तो मे
भव, सुपोष्यो मे भव, सर्वसिद्धिञ्च मे प्रयच्छ,
सर्वकर्मसु च मे चित्तश्रेयः कुरु हूं
ह ह ह ह होः भगवन् सर्वतथागतवज्र मा मे मुंच,
वज्रीभव महासमयसत्व आः॥

“अनेनानन्तर्यकारिणोऽपि सर्वतथागतमोक्षा अपि सद्धर्मप्रतिक्षेपका अपि सर्वदुष्कृतकारिणोऽपि सर्वतथागतमुद्रासाधका वर्जसत्त्वदृढीभावादिहैव जन्मन्यासु यथाभिरुचितां सर्वसिद्धिमुत्तमसिद्धिं वज्रसिद्धिं वज्रसत्त्वसिद्धिं वा यावत् तथागतसिद्धिं वा प्राप्स्यन्ती-“त्याह भगवां सर्वतथागतवज्रसत्त्वः॥ ॥

अथ स्वमुद्राणां सामान्यो मोक्षविधिविस्तरो भवति। तत्रादित एव यतोयतः समुत्पन्ना मुद्रा तान् तत्रतत्रैव मुञ्चेदनेन हृदयेन वज्र मुः॥

ततो हृदयोत्थितया रत्नवज्रिमुद्रया स्वाभिषेकस्थानस्थितयाभिषिच्याग्राङ्गुलिभ्यां मालां वेष्टव्यं बध्वा तथैव कवचं बन्धयेदनेन हृदयेन ओं रत्नवज्राभिषिञ्च सर्वमुद्रा मे दृढीकुरु वरकवचेन वम्॥

ततः पुनः कवचान्तं मालाबन्धं कृत्वा, समतालया तोषयेदनेन हृदयेन वज्र तुष्य होः॥

अनेन विधिना मुद्रा मुक्ता बद्धाश्च तोषिता।
वज्रत्वमुपयास्यन्ति वज्रसत्त्वेन वा पुनः॥
वज्रसत्त्वः सकृज्जप्तो यथाकामं सुखात्मना।
सिध्यते जापमात्रेण वज्रपाणिवचो यथा॥

इत्याह भगवान् समन्तभद्रः॥
वज्रसत्त्वादिसत्त्वानां सर्वसाधनकर्मसु।
जापस्तु रुचितोऽप्यत्र सर्वकल्पेषु सिद्धिदः॥
हृन्मुद्रामन्त्रविद्यानां यथाभिरुचितैर्नयैः।
कल्पोक्तैः स्वकृतैर्वापि साधनं त्वत्र सर्वतः॥ इति॥

ततः पूजागुह्यमुद्रामुदाहरन्, गुह्यपूजाचतुष्टयं कार्यम्, अनेन वज्रस्तुतिगीतेन गायन्।
ओं वज्रसत्त्वसंग्रहाद् वज्ररत्नमनुत्तरम्।
वज्रधर्मगायनैश्च वज्रकर्मकरो भव॥

ततोऽभ्यन्तरमण्डलेऽप्यनेनैव वज्रस्तुतिगीतेन वज्रनृत्यकरपुटेन गृह्य धूपादिभिः पूजा कार्या। ततो बाह्यमण्डले वज्रधूपादिभिः पूजां कृत्वा, ताः पूजा स्वस्थानेषु स्थापयेत्। ततः “सर्वे यथाशक्त्या पूजयन्त्वि” ति सर्वतथागतान् विज्ञाप्य, यथेच्छया धूपादिभिः पूजां कारयित्वा, यथा प्रविष्टां यथा विभवतः सर्वरसाहारविहारादिभिः सर्वोपकरणर्महामण्डले निर्यातितैः सन्तुष्येदं सर्वतथागतसिद्धिवज्रव्रतं दद्यात्।

इदं तत्सर्वबुद्धत्वं वज्रसत्त्वकरे स्थितम्।
त्वयापि हि सदा धार्यं वज्रपाणिदृढव्रतम॥
ओं सर्वतथागतसिद्धि वज्रसमय तिष्ठ
एष त्वा धारयामि वज्रसत्व हि हि हि हि हूं॥

ततः ”सर्वेषां पुनरपि न कस्यचिद् वक्तव्यम्” इति शपथहृदयमाख्येयं।
ततो यथा प्रविष्टान् संप्रेष्य सर्वतथागतान् विज्ञापयेत्, सत्ववज्रिमुद्रां बध्वोर्ध्वतो मुञ्चेद्, इदं च हृदयमुच्चारयेत्।

ओं कृतो वः सर्वसत्वार्थः सिद्धिर्दत्ता यथानुगा। गच्छध्वं बुद्धविषयं पुनरागमनाय तु॥ वज्रसत्त्व मुः॥

एवं सर्वमण्डलेषु कर्तव्यं। समयाग्र्या मुद्रासु च मोक्त इति॥

सर्वतथागतमहायानाभिसमयान् महाकल्पराजाद् वज्रधातुमहामण्डलविधिविस्तरः समाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project