Digital Sanskrit Buddhist Canon

२१ अमनसिकाराधारः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

21 amanasikārādhāraḥ


 



२१। अमनसिकाराधारः।



 



नमो बुद्धाय।



अमनसिकार इतत्र बहवो विप्रतिपन्नाः। तत् कश्चिदाह अपशब्दोऽयमिति,समासे मनस्कार इति भवितुमर्हति। तत्रोच्यते,तत्पुरुषे कृति बहुलमिति। अत्र बहुलवचनात् सप्तम्याऽलुगिति अलुकसमासे कृते अमनसिकार अमनस्कारः,त्वचि सारः त्वक्सारः,युधिष्ठिरः,एतानि रूपाणि सम्पद्यन्ते,अतो नायमपशब्दः। अपर आह,हन्त लक्षणसाधितमेवेदं वचः किं च असिद्धम्। तन्न,नानासूत्रतन्त्रेषु दृष्टत्वात् आर्य्यसर्व्वविषयावतारज्ञानालोकालङ्कारमहायानसूत्रे। अमनसिकारा धर्म्माः कुशलाः। मनसिकारा धर्म्मा अकुशलाः। तत्रैव -



 



अविकल्पितसङ्कल्प अप्रतिष्ठितमानस।



अस्मृत्यमनसिकार निरालम्ब नमोऽस्तु ते॥



 



तथा अविकल्पप्रवेशाधारण्यां बोधिसत्त्वो महासत्त्वः सर्व्वविकल्पनिमित्तानि आकाशगतिकानि अमनसिकारतः परिवर्ज्जयति। अपरापराणि ग्रन्थविस्तरभयाद न



लिख्यन्ते।



सौत्रान्तिकमेवेदं वचः,नसान्तिकं सूत्रान्तेषु दृष्टत्वात्। तन्न। उक्तं हि हेवज्रे तत्त्वपटले। स्वरूपेण न चित्तं नापि चेतमम्। तथा -



 



भाव्यन्ते हि जगत् सर्व्वं मनसा य(स्मा)न्न भाव्यते। अर्थात् अमनसिकारेणेति गम्यते। अपर आह,तन्त्रेऽप्यस्ति,परप्रसज्यप्रतिषेधनञो विषयत्वात् अभावो वाच्यः। तन्न,प्रक्रान्तस्य प्रतिषेधः। 'यदि नाप्रसज्यं प्रतिसिद्धत इति प्रसज्यप्रतिषेधः। यथा असूर्य्यम्पश्या राजदाराः। अयमर्थः। एवन्नाम ता गुप्ता राजदारा यत् सूर्य्यमपि न पश्यन्तीति। अत्र न सूर्य्याभावः कृतः। किं नाम राजदाराणां यत् सूर्यदर्शनं प्रसज्यं तन्निषिद्धम्। अमनसिकारेऽपि नञो मनसिकरणं यद् ग्राह्यग्राहकादि प्रसक्तं तन्निषिद्धम्। न मनः,अतो न दोषः। यदा कश्चिदेवं वदति शाश्वतोच्छेदलक्षणो मन[सि]कारः सम्मतो भगवता। तदोच्यते,शाश्वतोच्छेदादिः मनसिकारो वाऽमनसिकारः। एतेन सर्व्वासङ्गहानिः क्रियते अमनसिकारशब्देनेति। तथाचोक्तं भगवता,अविकल्पप्रवेशाधारण्यां - केन कारणेन कुलपुत्र!



 



अविकल्पधातुरमनसिकार इत्युच्यते सर्व्वविकल्पनिमित्तसमति क्रान्ततामुपादायेति। एते सर्व्वविकल्पसमति क्रामता दर्शिता भवति अमनसिकारशब्देनेति। पर्य्युदासपक्षेऽपि न दोषः,अब्राह्मणमानयेत्युक्ते ब्राह्मणसदृशस्य क्षत्रियादेरानयनं भवति,न तु विजातीयस्य कटादेः। अत्रापि निःस्वभाववेदनस्य संस्थितिः कृताः। एतेन मायोपमा ..............................................................प्रसङ्ग इति। यदि चात्र नञो व्युत्पत्तिरत्र क्रियते अकारप्रधानोऽमनसिकारः शाकपार्थिववत् मध्यपदलोपीसमासः,एतेन यावान् मनसिकारः सर्व्वमनुत्पादात्मक इत्यर्थः। क्क निर्द्दिष्टं भगवता अनुत्पादकारको अकार इति ?तद् यथा उक्तं च हेवज्रे मन्त्रपटले,अकारोमुखं सर्व्वधर्म्माणामाद्यनुत्पन्नत्वात् इत्यादि। अस्यार्थः,सर्व्वधर्म्माणां आद्यनुपन्नत्वात् अकारो मुखं प्रधानं इत्यकारस्त्वनुत्पन्नलक्षणः योऽग्रः। तथा च नामसङ्गीतौः -



 



अकारः सर्व्ववर्णाग्रो महार्थः परमाक्षरः।



महाप्राणो ह्यनुत्पादो वागुदाहारवर्ज्जितः॥



 



इति। यदि वा अकारोऽत्र नैरात्म्यावीजं तथा च हेवज्रे आलेरादि नेरादि नैरात्म्येति। एतेन सर्व्वमनसिकारोऽनात्मकोऽस्वभाव इत्युक्तं च भवति।



 



यदि वा -



 



आदिस्वरस्वभावा साधीतिबुद्धैः प्रकल्पिता। सैव भगवती प्रज्ञा उत्पन्नक्रमयोगतः॥



 



यदि वा अ इति प्रभास्वरपदम्,मनसिकार इति स्वाधिष्ठानपदम्,अश्चासौ मनसिकारश्चेति अमनसिकारः। एतेन अमनसिकारादिपदैः अचिन्त्यप्रभास्वरस्वाधिष्ठानपदं शून्यताकरुणाभिन्नयुगनद्धाद्वयवाहिसम्बेदनमापादितं भवतीति।



 



॥अमनसिकारधारः समाप्तः॥



 



प्रकृत्याजातधर्म्मेषु विध्यपोहौ पर्शोवचः॥



अस्तीति वदतो ब्रूमो नास्ति सर्व्वं विचारतः।



नास्तीति वदतो ब्रूमः सर्व्व[म]स्त्यविचारतः॥



यथा यथा समारोपा जायन्ते तत्त्वयोगिनः।



तथा तथा समारोपा हन्यन्ते तत्त्वयोगिना॥



 



[सहजो]ऽकृत्रिमो यस्मात्[तस्मात्]सङ्गो न साहजः।



सुखं न सहजादन्यत् सुखं चासङ्गलक्षणम्॥



ज्ञात्वा निःसङ्गतां नाम्नि [नि]र्वेधागतसत्सुखम्।



विश्वं स्वसमयं कृत्वा मग्नः सहजसागरे॥



मन्त्रतत्त्वस्थितो योगौ निःसङ्गार्थप्रतिष्ठितः।



भावांश्चासौ गुरून् कृत्वा निःस[ङ्गविषयो]भवेत्॥



 



॥कृतिरियं पण्डितावधूतश्रीमदद्वयवज्रपादानाम्॥



 



॥समाप्तोऽयं ग्रन्थः।



 



ये धर्म्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत्।



तेषां च यो निरोध एवंवादी महाश्रमणः॥



 



॥श्रुभं भूयात्॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project