Digital Sanskrit Buddhist Canon

८ पञ्चाकारः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Parallel version 8 pañcākāraḥ


 



८। पञ्चाकारः।



 



नमो बुद्धाय।



 



वज्रसत्त्वं नमस्कृत्य निष्प्रपञ्चमनुत्तरम्।



पञ्चाकारमहं वक्ष्ये समाक्षिप्य [च]बोधये॥



 



ॐ आः हूँ इत्यनेन स्थानात्मयोगरक्षां कृत्वा सुगन्धादिलिप्तभूभागे चतुरस्त्रादिमण्डलमध्ये पञ्चतथागताः पञ्चयोगिन्यः पूजनीयाः। तत्र मध्ये विश्ववर्णपँकारपरिणतविश्वाष्टदलविकसितकमलवरटकोपरि रक्तरेफपरिणत सूर्य्यमण्डलस्थनीलहूँकारनिष्पन्नो द्विभुज एकमुखो भू स्पर्शमुद्राधरो वज्रपर्य्यङ्की द्वात्रिंशल्लक्षणाशीत्यनुव्यञ्जनालङ्कृतशरीरो दशबलवैशारद्यादिगुणगणैकनिलयः सौशीर्य्यमांसास्थिरहितः प्रतिभासमात्रदर्पणप्रतिबिम्बसमो न सत्यं न मृषा अतिमैत्र्यात्म्यकत्वात् कृष्णवर्णः कृष्णवज्रचिह्नः सुविशुद्धधर्म्मधातुविज्ञानस्कन्धस्वभावः शिरतुण्डमुण्डितकाषायावगुण्ठितविग्रहः वज्रसत्त्वाङ्कितशिराः वज्रसत्त्वस्वभावः शिरतुन्डमुण्डितकः,अत एव हेतुफलात्मकः,सर्व्वाकारवरोपेतशून्यतालक्षणः,असंस्कृततथागतात्मकत्वात् धर्म्मकायः,प्रतिभासमात्रत्वात् सम्भोगकायः,कल्पितनिर्म्माणकायं निर्म्माणकायः,कायत्रितयैकरसत्त्वात् स्वाभाविककायः। तदुक्तम् --



 



असंस्कृतमनोधर्म्मः चोपःसम्भोगलक्षणः।



तदेव निर्म्मितं चित्रं बीजः सर्व्वस्वभावतः।



 



इति विकल्पादेरस्पृश्यत्वात् वज्रकुली- वज्रकुलश्च लोकैः न स्पृश्यते - द्वेषवज्रश्च शिशिरमध्याह्नकटुश्रुति आकाशशब्दचवर्गो अक्षोभ्यविशुद्धो अमी बाह्याध्यात्मिकव्यवस्थेयमिति कायचतुष्टयव्यवस्था चात्रापि पूर्व्ववत्। आः वज्रधृक् हूँ अस्य जापमन्त्रः।



 



वज्रसत्त्वस्तु हूँकारजन्मा शुक्लो द्विभूज एकवक्तो वज्रवज्रघण्टाधरो मनःस्वभावः काषायरसशरीरः शरदृतुविशुद्धो यरलवाद्यात्मकः अर्द्धरात्रतः प्रभातकालपर्य्यन्तो धर्म्मधातुपरनामा।



 



अतः पूर्व्वदले चन्द्रमण्डलोपरि ॐकारजः शुक्लवर्णवैरोचनः शुक्लचक्र(वज्र)चिह्नः बोध्यङ्गीमुद्राधरः रूपस्कन्धस्वभावः मोहस्वरूपो विटविशुद्धः तथागतकुली आदर्शत्वेन प्रतिष्ठितः हेमन्तऋतुविशुद्धः मधुररसशरीरः कवर्गव्यापीप्रभातसन्ध्यात्मकायस्वभावः। ॐ आः जिनजिक हूँ [इ]त्यस्य जापमन्त्रः।



 



दक्षिणदले सूर्य्यमण्डलोपरि त्राँकारजः पीतवर्णो रत्नसम्भवो रत्नचिह्नवरदमुद्राधरो वेदनास्वभावपिशुनशरीरः रक्तात्मको रत्नकुली समताज्ञानवान् वसन्तऋतुरूपलवणशरीरः टवर्गव्यापी तृतीयचतुर्थप्रहरात्मकः। ॐ आः रत्नधृक् हूँ अस्य जापमन्त्रः।



 



ततः पश्चिमदले रविमण्डलोपरि रक्तह्रीःकाँरसम्भूतो रक्तवर्णोऽमिताभः पद्मचिह्नः समाधिमुद्राधरः संज्ञास्कन्धस्वभावो रागशरीरः शुक्रात्मकः पद्मकुली प्रत्यवेक्षणाज्ञान लक्षणो ग्रीष्मऋतुरूप आम्लरस[श]रीरः तवर्गात्मा प्रदोषवान्। जापमन्त्रश्चायं ॐ आः आरोलिक हूँ।



 



तत उत्तरदले सूर्य्यमण्डलोपरि श्यामखँकारजः [श्याम वर्णोऽमोघसिद्धिः विश्ववज्रचिह्नाभयमुद्राधरः संस्कारस्कन्धस्वभावो वर्षाऋतुरूपः]पिशितापः तिक्तरसात्मकः पवर्गविशुद्धः अर्द्धरात्रस्वभावः। अस्य च मन्त्रः ॐ आः प्रज्ञाधृक् हूँ इति।



 



एते वज्रपर्य्यङ्किनः द्विभुजै[क]वक्ताः सोष्णीषशिरतुण्डमुण्डित कापा[या]वगुण्ठित -द्वात्रिंशल्लक्षणाशीत्यनुव्यञ्जनालङ्कृत-दशवलवैशारद्यादिगुणगणैकनिलयाः सौशीर्य्यमांसास्थिरहिता दर्पणप्रतिबिम्बोपमा न सत्यासत्यादिसङ्कल्पनापगमविमलप्रतिभासमात्रकसम्भोगविग्रहाः कायत्रितयैकरसतास्वाभाविककायमुपादाय असंस्कृततथात्मकर्म्मकायकल्पितविज्ञानकायाव्यभिन्ना रूपवेदनासंज्ञासंस्कारस्कन्धात्मका वैरोचनरत्नसम्भवामिताभामोघसिद्धयो विज्ञानमात्रता इति प्रतिपादनाय अक्षोभ्येन मुद्यन्ते इति। अक्षोभ्याङ्कितशिरसि विज्ञानस्य नैः स्वाभाव्यस्य शून्यताकरुणयोस्तादात्मक[त्वं]च प्रतिपादयितुं अक्षोभ्योऽपि वज्रसत्त्वेन मुद्र्यते। एतेन हेतुफलात्मकं भवनिर्व्वाणैकरसतामात्रं जगदिति प्रतिपादितं भवति।



 



तथा च -



शून्यताकरुणाभिन्नं यत्र चित्तं प्रभाव्यते।



सा हि बुद्धस्य धर्म्मस्य सङ्घस्यापि हि देशना॥



गुडे मधुरता चाग्नेरुष्णत्वं प्र[कृ]तिर्यथा।



शून्यता सर्व्वधर्म्माणां तथा प्रकृतिरिष्यते॥



 



तथा च -



 



भवस्यैव परिज्ञानं निर्व्वाणं इति कथ्यते।



आग्नेयकोणदले चन्द्रमण्डलोपरि शुक्ललोँकारजा शुक्लवर्णा लोचना चक्रचिह्ना पृथ्विधातुस्वरूपा तथागतकुलोद्भवा मोहरक्ता। अस्या बीजं ॐ आः लोँ हूँ स्वाहा इति।



 



नैरृत्यां चन्द्रमण्डलोपरि कृष्णमाँकारबीजसम्भूता मामकी कृष्णवर्णा कृष्णवज्रचिह्ना अब्धातुस्वभावा वज्र्कुला द्वेषरक्ता। अस्या बीजं ॐ आः माँ हूँ स्वाहा इति।



 



वायव्यां चन्द्रमण्डलोपरि पाँकारबीजसंभूता पाण्डरवासिन रक्ता रक्तवर्णा पद्मचिह्नतेजोधातुस्वरूपा पद्मकुला रागरक्ता। अस्या बीजं ॐ आः पाँ हूँ स्वाहेति।



 



ऐशान्यां चन्द्रमण्डलोपरि कनकश्यामताँकारपरिणता तारिणी श्यामवर्णा श्यामनीलोत्पलचिह्ना वायुधातुस्वरूपा कर्म्मकुला ईर्षारक्ता। अस्या बीजं ॐ आः ताँ हूँ स्वाहा।



 



एताः चतस्रः षोडशाब्दिका असाधारणरूपयौवनशालिन्यो  यथाशोभसंस्थिता पूर्व्ववत् कायचतुष्टयात्मिका मनोह्लादिन्यः सकलजिनगुणाधारभूताः पञ्चतथागतस्वरूपाः। आसां(अस्यां)मध्ये आलिस्वभावा वज्रसत्त्वस्वरूपिणी वज्रधात्वीश्वरी नायिका। इयमेव भगवती तथता शून्यता प्रज्ञापारमिता भूतकोटिनैरात्म्येति व्यपदिश्यते।



 



न ग्रन्थः कृतिकौशल्यमापादयितुमेष मे।



प्रयत्नः किं च संक्षिप्य बोधयेयं शिशून् इति॥



 



इति विधिवदुदीर्य्यसत्त्वहेतोः



सकलजिनागमयुक्तिसङ्गतं हि।



अखिलमिहशुभं समाप्तं



भवतु ततो जिन एष वज्रसत्त्वः॥



 



॥पञ्चाकारः समाप्तः॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project