Digital Sanskrit Buddhist Canon

७ सेकतान्वयसंग्रहः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

7 sekatānvayasaṁgrahaḥ


 



७। सेकतान्वयसंग्रहः।



 



नमो बुद्धायः।



 



कल्याणमित्रवाराङ्कोऽपि समाधिमाजपत्यनवग्राह्यः।



करतलगतमिव तत्त्वं षट्पञ्चमविषमं धत्ते॥



 



वज्राचार्य्यात्तु संज्ञानसेकतात्पर्य्यसंग्रहम्।



विदित्वा कुर्महेऽनेकसेकग्रन्थान् यथागमम्॥



 



प्रथमं कलसाभिषेको द्वितीयं गुह्यमुत्तमम्।



प्रज्ञाज्ञानं तृतीयं वै चतुर्थं तत् पुनस्तथा॥



 



अस्यार्थः - प्रथमं कलसाभिषेक इति,उदकमुकुटवज्रघण्टानामाचार्य्यलक्षणाः षट् कलसाभिषेकाः। बाह्य वारिणैव बाह्यमलस्य अविद्यामलक्षालनाय सिञ्चते ऽनेनेति सेकः। एषां सर्व्वेषां कलसव्यापारात् कलसाभिषेकसंज्ञा। अवैवर्त्तिकाभिषेकाश्चैते षट्तथागतस्वभावत्वात्। तथाहि उदकाभिषेक आदर्शज्ञानात्मकोऽक्षोभ्यस्वभावः,मुकुटाभिषेकः समताज्ञानात्मको रत्नसम्भवस्वभावः,वज्राभिषेकः प्रत्यवेक्षणाज्ञानात्मकः अमिताभस्वभावः,अधिपत्याभिषेकः कृत्यानुष्ठानरूपो अमोघसिद्धिस्वभावः,नामाभिषेको अविद्यानिरोधात् विद्यानुगतविशुद्धधर्म्मधातुज्ञानात्मको वैरोचनस्वरूपः,आचार्य्याभिषेकस्तु वज्रज्ञानस्वभावः। अत्र च पञ्चाभिषेकः पञ्चसु लोचनादिविद्यायाः व्यापारात्। अत्र च अविद्यामलक्षालनाय अक्षोभ्यरूपेण वज्राचार्य्येण वैरोचनरूपावलम्बिनि शिष्ये सलिलाभिषेको देयः। एवं सर्व्वत्राहङ्कारः,आगामिबुद्धभावो अचित्तोष्णीषबीजभुतो मुकुटाभिषेकः।



 



द्वादशाङ्गुलिपरिमाणेन द्वादशाङ्गप्रतीत्यसमुत्पादविशुद्धा वज्रम्। यत्र मध्यवृत्तेर्निरुत्तरधर्म्मतासूचको हूँकारः। तस्यार्थः,ह इति हेतुवियुक्तः [ऊ]इति ऊहापगतः,अँ इति अप्रतिष्ठितसर्व्वधर्म्म इति। यत्र भवसरोद्भ[व]मुखात् स्फुरन्ति पञ्चाररूपिणो मुनयः पञ्चस्कन्धविशुद्ध्या निष्क्रान्ता भवशरीरेण। इह च मध्याराभिमुखत उपर्यधरेण सर्व्वे रूपादयो विज्ञानात्मका इति सूच्यन्ते। एते च सर्व्वे सर्व्वात्मका इति निवे[द]यितुं सर्व्वत्रैव चतुरश्री। अथ ते धर्म्मस्य बुद्धा हूँनादनिवेदितात्मरूपस्य पञ्चासिविमुक्तकायाः पर्य्यन्ते चान्यत्र विस्फुरिता शून्यतानिमित्ताः प्रणिहि(हि)ततावबोधनार्थं सर्व्वत्र हुल्लिकात्रयम्। एते च आदर्शसमताप्रत्यवेक्षणाकृत्वा नुष्ठानसुविशुद्धधर्म्मधातुलक्षणपञ्चज्ञानात्मका गुरूपदेशतो ज्ञेयाः। अभेद्यज्ञानसूचकं च समुदायार्थः -



 



दृढं सारं असौशीर्य्यं अच्छेद्याभेद्यलक्षणम्।



अदाहि अविनाशि च शून्यता वज्रमुच्यते॥



 



अभेद्यं वज्रमिति हेवज्रे। अस्य च वज्राभिषेकस्य् अविधानं उत्पश्यमाना भेद्यज्ञानबीजाधानमिव विधातुं एवं वज्रघण्टाऽपि पूर्व्वाभिसन्धानेन द्वादशाङ्गुलिपरिमाणा अधोमुखाम्भोजवज्रसमापत्तिनिः स्वभावेन सर्व्वधर्म्मस्वभावं प्रतिपादयितुं अभेद्यज्ञाननिगदतां धर्म्मोदयस्य बोधयितुं मूर्द्धाधोभागे च वज्रावलीयुगलमालिनी। त्रिधातुकस्वभावकूटागारतामस्य स्थापयितुं हारार्धहारप्रकार अत एव पञ्चतथागताङ्कितः शून्यताकरुणाभिन्नज्ञानकारणतां आवेदयितुमपरि[णत]प्रज्ञामुखाख्यानम्।



 



अस्य च धर्म्म धातुस्वरूपस्य ज्ञानस्य वैरोचनादिपञ्चतथागतात्मकतां च रूपादिपञ्चस्कन्धस्वभावतां च पृथिव्यादिपञ्चधातुरूपतां च कथयितुं ऊर्द्धं पञ्चारविरचना। अत्रापि मध्यस्थिताराभिमुखाद्यभिसन्धानं पूर्व्ववत्। अथाभिषेकमनया स्वनन्त्या वज्रघण्टया कुर्व्वीत। अनुत्तराशेषधर्म्मबोधाद् विकारकं इह प्राधान्यस्यापनाय हेतुकताप्रतिपादनाय च कारणभूतमपि वज्रघण्टाभिषेकमुल्लङ्घ्य प्रथमं वज्राभिषेकदानम्। सर्व्वधर्म्मा नासता इति प्रतिपादनार्थं भविष्यन्मुनीन्द्रपदोचितनामनिदानावदानार्थं च पूर्व्व नामव्यपनयेन स्वदेवताकुलगोत्रानुसारेण नामाभिषेकः। आचार्य्याभिषेकश्च वज्रसमय-घण्टासमय-मुद्रासमय-भव्यतानुज्ञा-व्रतव्याकरणाश्वासलक्षणः। इतः प्रभृति असंस्कृतो भेदयुगनद्धबाहिबो[धि]धर्म्मसमयस्त्वं इति बोधयितुं वज्रसमयः,चतुरशीतिधर्म्मस्कन्धसहस्रपरस्त्वमितिप्रतिपादनाय घण्टासमयः,स्वेष्टदेवतास्वभावस्त्वमिति स्थापयितुं मुद्रासमयः। मण्डलतत्त्वं मण्डलविशुद्धिलक्षणं देवतातत्त्वम् देवताविशुद्धिलक्षणं आचार्य्यपरिकर्म्म च मण्डलसाधनज्ञानं पञ्चप्रदीपं चामृतभक्षणं च भव्यतातत्त्वं च नैःस्वाभाव्यमेषामुत्पन्नक्रमपक्षतः धर्म्मचक्रप्रवर्त्तनार्थमनुज्ञा। बाह्यव्रतनिराकरणार्थं वज्रव्रतदानं पृथिव्यादिस्वभावतासूचनाय व्याकरणम्। तथा हि भुवो धरादेः स्वः स्वरूपं भूर्भूया इति हि भूर्भुवः स्वरित्यस्यार्थः। सर्वावरणविनिर्मुक्तः सर्व्वबुद्धबोधिसत्त्वसम[य]स्त्वं इतः प्रभृति बोधनार्थमाश्वासः।



 



प्रज्ञाश्रद्धाक्षेत्रीकरणार्थं समयरक्षणार्थं च समानकालोभयसम्पादितबोधिचित्तप्रदानं गुह्याभिषेकः। प्रज्ञोपायगुह्याभ्यां दीपयत इति व्युत्पत्तिः। प्रज्ञाज्ञानमित्यत्र व्युत्पत्तिद्वयम्;प्रज्ञया ज्ञानम्,प्रज्ञैव बाह्यज्ञानम्। तत्र ग्राह्यग्राहकाकारधारणी बुद्धिश्चतुर्धातुपञ्चस्कन्धस्वरूपषद्धिषयात्मकाङ्गनास्वभावा प्रज्ञा। तस्या निमित्तभूताया बोधिचित्तज्ञानमिति पूर्व्वा व्युत्पत्तिः। आकारद्वयशून्या सैव विज्ञानमित्यपरा व्युत्पत्तिः। प्रज्ञाज्ञानलक्षितसप्ताङ्गयुक्तसाध्यं चतुर्थार्थमित्येके। प्रज्ञाज्ञानमेव अभ्यस्यमानशरदमलगगनसङ्काशं चतुर्थार्थमित्यपरे। प्रज्ञाज्ञानमेव प्रकृतिरूपं विकाररूपं प्रकृतिसमुत्पादात्मकं युगनद्धाद्वयवाहिसुविशुद्धस्वभावं चतुर्थार्थमित्यपरे। पक्षान्तराणि च विस्तरभया न्नोच्यन्ते। अतिगुह्यसेकसंग्रहविधानमिलितेन पुण्ययुतश्लो[के]न निखिलजगतोऽस्तु विमलस्फुटसुगतसुभाषिते क्षान्तिः।



 



समाप्तश्चायं सेकतान्वयसंग्रह इति। कृतिरियं पण्डितावधूतश्री अद्वयवज्रपादानामिति॥


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project