Digital Sanskrit Buddhist Canon

६ चतुर्मुद्रा

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

6 caturmudrā


 



६ [चतुर्मुद्रा]।



 



एवम् - वज्रसत्त्वं प्रणम्यादौ विशुद्धज्ञानतन्मयम्।



मुद्रान्वयः समासेन क्रियते आत्मबुद्धये।



 



इह हि मुद्रान्वयविभ्रान्त्या मूढमनसो भ्रमन्ति भवार्णवे दुःखिताः। तेषां सुखेन चतुर्मुद्रार्थप्रतिपत्तये तन्रानुसारेण महासुखसाधनं प्रसाध्यते। चतुर्मुद्रेति -कर्म्ममुद्रा,धर्म्ममुद्रा,महामुद्रा,समयमुद्रा। तत्र कर्म्ममुद्रायाः स्वरूपं निरूप्यते। कर्म्म या कायवाक् चित्तचिन्ता तत्प्रधाना मुद्रा कल्पनास्वरूपा,तस्यां कर्म्ममुद्रायां आनन्दा जायन्ते क्षणभेदेन भेदिताः -



 



क्षणज्ञानात् सुखज्ञानं एवंकारे प्रतिष्ठितम्।



आनन्दाश्चत्वारः - आनन्दः,परमानन्दः,सहजानन्दः,विरमानन्दः। अन्यथा-



 



परमविरमयोर्मध्ये लक्ष्यं वीक्ष्य दृढीकुरु।



इति यदुक्तं तत् सङ्गतं न भवति। चत्वारः क्षणाः -



विचित्र,विपाक,विलक्षण,विमर्द्द। मध्ये विलक्षणं दत्त्वा सेके बोद्धव्यम्। हठयोगे पुनः सहजविलक्षणयोरन्ते स्थितिर्बोद्धव्या। सेकहठयोगे चेदं निर्दिष्टं भगवता। सहजं सत्सर्व्वं सहजच्छायानुकारित्वात् सहजमित्यभिधीयते। सहजच्छाया सहजसदृशं ज्ञानं प्रतिपादयति इति। सहजं प्रज्ञाज्ञानम्। अत एव प्रज्ञाज्ञाने सहजस्योत्पत्तिर्नास्ति। यस्याः सहजं नाम स्वरूपं सर्व्वधर्म्मानामकृत्रिमलक्षणं इति यावत्। तस्मात् कर्म्ममुद्रां प्राप्य निस्पन्दफलमुत्पद्यते। सदृशस्पन्दो निष्पन्दः। सादृश्यं यथा दर्पणार्पितं मुखस्य प्रतिबिम्बं मुखं न भवति। न पूर्व्वसिद्धं नाप्यधुनासिद्धं तदेव मुखप्रतिबिम्बं सादृश्यमात्रमापादयति तथापि लोकाः स्वमुखं दृष्टमिति कृत्वा भ्रान्त्या सन्तुष्टा भवन्ति। तथैवाचार्य्याः कुमतदाः प्रज्ञाज्ञानमासाद्य सहजमनुभूतं इति कृत्वा सन्तोषं उत्पादयन्ति,सन्तुष्टाश्च सन्तो धर्म्ममुद्राया वार्त्तामपि न जानन्ति। धर्म्ममुद्रामजानाना केवलया कर्म्ममुद्रया कृत्रिमया कथमकृत्रिमभूतं सहजाख्यं उत्पद्यते। सजातीयात् कारणात् सजातीयस्य एव कार्य्यस्य उत्पत्तिर्भवति न तु विजातीयात् यथा शालीबीजात् शाल्यङ्कुरोत्पत्तिर्भवति नतु कोद्रव्यस्य। तथा धर्म्ममुद्राया अकृत्रिमायाः सकाशात् अकृत्रिमं सहजं उत्पद्यते। तस्मात् धर्म्ममुद्रैव कारणम्। अभेदे भेदोपचारेण महामुद्रायाः। कस्मात्?तर्हि भगवतोक्तम् -



 



एकाराकृति यद्दिव्यं मध्ये वंकारभूषितम्।



आलयं सर्व्वसौख्यानां बुद्धं रत्नकरण्डकम्॥



 



इति। बुद्धच्छायानुकारित्वात् करण्डकं स्थानं आधारः,तस्मात् कर्म्माङ्गनाया आनन्दसन्दोहरत्नाकरं  सरोरुहम्। तत् स्वच्छमास्थानं वोलकक्कोलरससंयोगेन अवधृत्या सम्वृतिबोधिचित्तमण्यन्तर्गतं यदा भवेत् तदा क्षणिकनामा परसहजाख्यं ज्ञानमुत्पद्यते। न तत् सहजनिस्पन्दः। तत्स्वरूपेण प्रज्ञाज्ञानानन्दत्रयः क्षणचतुष्टयान्वितं मेकं हठयोगे च कर्म्ममुद्राया निष्पन्दफलमुक्तम्।



 



॥कर्म्ममुद्रानिष्यन्दनिर्द्देशः प्रथमः॥१॥



 



ॐ-धर्म्ममुद्रा धर्म्मधातुस्वरूपा निष्प्रपञ्चा निर्व्विकल्पा अकृत्रिमा उत्पादरहिता करुणास्वभावा परमा नन्दैकसुन्दरोपायभूता। प्रवाहनित्यत्वेन सहजस्वभावा या प्रज्ञायाः सहजोदयत्वेन अभिन्ना या सा धर्म मुद्रेत्यभिधीयते। अन्यत् लक्षणं तस्याः सङ्कुलाज्ञानान्धकारे तरणिकिरणसदृशं गुरूपदेशतः तृणतु[ष]समा तत्रापि भ्रान्तिशल्यवर्ज्जितं बोध्यव्यम्। सकलक्षितिजलपवनहुताशनैर्महाशवलितं त्रैलोक्यैकस्वभावं निस्तरङ्गशून्यताकरुणाभिन्नं च बोध्यव्यम्। उक्तं च भगवता -



 



ललना प्रज्ञास्वभावेन रसनोपायसंस्थिता।



अवधुती मध्यदेशे तु ग्राह्यग्राहकवर्ज्जिता॥



 



एतन्निपुनेनापि तथताकारेण सन्निकृष्टकारणत्वेन मार्गो ज्ञातव्यः। मार्गज्ञाने सादरनिरन्तरं मार्गाभ्यासात् निरोधस्य सहजस्वभावस्य साक्षात्कृतित्वं भवति। तथा चोक्तम् -



 



नापनेयं अतः किञ्चित् प्रक्षेप्तव्यं न किञ्चन।



द्रष्टव्यं भूततो भूतं [भूत]दर्शी विमुच्यते॥



 



ललना रसना तयोर्मध्यदेशे निवासिनी अवधूती सैवाधिगतसकलपदार्थसहजस्वभावैकचित्तवृत्तेः सद्गुरूपदेशतो धर्म्ममुद्रा महामुद्राया अभेदेन हेतुभूता।



 



धर्म्ममुद्राविपाकफलनिर्द्देशः द्वितीयः॥२॥



 



आः-महामुद्रेति। महति चासौ मुद्रा चेति महामुद्रा (चेति)। महामुद्रा निःस्वभावा ज्ञेयाद्यावरणविवर्ज्जिता शरदमलमध्याह्नगगनसङ्काशा सकलसम्पदाधारभूता भवनिर्व्वाणैकस्वरूपा अनालम्बनकरुणाशरीरा महासुखैकरूपा। तथा च,अमनसिकारा धर्म्मा कुशला मनसिकारा धर्म्मा अकुशला प्रवचने च।



 



अविकल्पितसङ्कल्प अप्रतिष्ठितमानस।



अस्मृत्यमनसिकार निरालम्ब नमोऽस्तु ते॥



 



इति या सा महामुद्रेत्यभिधीयते। तया महामुद्रया अचिन्त्यस्वरूपया समयमुद्राख्यफलं जायते।



 



महामुद्रावैमल्यनिर्द्देशस्तृतीयः॥३॥



 



हूँ-समयमुद्रेति सम्भोगनिर्म्माणकायाकारस्वभावेन स्वच्छाकारेण च सत्त्वार्थाय वज्रधरस्य हेरुकाकारेण विस्फुरणं यत् सा समयमुद्रेति चोपदिश्यते। तां च समयमुद्रां गृहीत्वा चक्राकारेण पञ्चविधं ज्ञानं पञ्चविधं परिकल्प्य आदर्श-समता-प्रत्यवेक्षणा-कृत्यानुष्ठान-सुविशुद्ध-धर्म्मधातुभिः आदियोग-मण्डलराजाश्रि-कर्म्मराजाश्रि-बिन्दुयोग-सूक्ष्मयोगैः समयमुद्राचक्रं भावयन्त्याचार्य्याः। तेन ते कृतपुण्या भवन्ति। ततश्च न धर्म्ममुद्राफललाभिनो भवन्ति,नियतार्थकारणात् नियतस्यैव कार्य्यस्योत्पत्तिरिति वचनात्। तस्मात् सहजसिद्धरसात् न बेधेन स्थिरचलादयो येन वा बालपरिकल्पिता ते संबोधिका[रण]तामुपयान्ति।



 



न मन्त्रजापो न तपो न होमो



न माण्डलेयं न च मण्डलं च।



स मन्त्रजापः स तपः स होमः



तन्माण्डलेयं तन्मण्डलं च॥



 



समासतः चित्तं समाजरूपीति। समासतः सर्व्वधर्म्माणामेकाकारतो यदुत् महासुखाकारतः चित्तमितिबोधिचित्तं समाजरूपीति। धर्म्ममुद्रामहामुद्राभिषेकरूपं वा ज्ञानं सत्समाज इत्यभिधीयते।



 



समयमुद्रापुरुषकारफलनिर्द्देशः चतुर्थः समाप्तः॥४॥


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project