Digital Sanskrit Buddhist Canon

५ सेकनिर्णयः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

5 sekanirṇayaḥ


 



५ सेकनिर्णयः।



 



नमो बुद्धाय।



 



एवंकारं नमस्कुर्मो यः सत्त्वक्षणकारणम्।



आनन्दा यत्र जायन्ते भेदतो बोधिसिद्धये॥



चित्रं ततो विपाकः स्यात् तृतीये तु विलक्षणम्।



विमर्द्दश्च ततो ज्ञेयो हठयोगनिराकृतेः॥



आलोचनं विमर्द्दश्चेत् तृतीये कथमिष्यते।



यत् तत्रालोचनं नैव भवेद् वित्तिरलक्षणा॥



विलक्षणमतो युक्तं हन्तुं रोद्धुं तृतीयके।



स्वसम्बित्तेर्भवेत् सिद्धिरागमार्थोऽपि सङ्गतः॥



चुम्बनालिङ्गने चित्रं घृष्टौ विपाकनामकम्।



मणौ विलक्षणं येषां ते च दुःसेकसम्बिदः॥



रत्नगर्भे च या वित्तिः सैव तत्त्वं भवेद् यदि।



सैव वेदं भवेत् तत्त्वं न ह्येतत् बौद्धसम्मतम्॥



 



तथा च देवि परिपृच्छसि सैव निर्नादतन्त्रे-



रत्नपुरमिदं देवि किञ्जल्के ज्वलतां व्रजेत्।



रुद्रो युग्मः शिवः श्रेष्ठः शक्तिः सैव परात्पराः॥



लक्ष्यलक्षणनिर्मुक्तं वागुदाहारवर्ज्जितम्।



शिवशक्तिः समायोगात् जायते चाद्भुतं सुखम्॥



न सन्ति तत्त्वतो भावाः शक्तिरूपेण भाविताः।



शक्तिस्तु शून्यतादृष्टिः सर्व्वारोपविनाशनी॥



 



उच्छुष्मतन्त्रेऽपि -



शिवशक्तिसमायोगात् सत्सुखं परमाद्वयम्।



न शिवो नापि शक्तिश्च रत्नान्तर्गतसंस्थितम्॥



योगाध्यायेऽपि -



ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः।



नैवास्ति किञ्चित् कर्त्तव्यमस्ति चेत् न स तत्त्ववित्॥



वेदान्तवादिनोऽपि -



अतीन्द्रियमवित्तिश्च ज्ञानं भास्करसम्मतम्।



वित्तिरानन्दमात्रं च भगवद्वादिसाधनम्॥



शक्तिसङ्गमसंक्षोभात् शक्त्यावेशावसानिकम्।



यत्सुखं ब्रह्मतत्त्वस्य तत्सुखं ब्राह्ममुच्यते॥



दुःखानामागमो नास्ति सुखं तत्र निरन्तरम्।



आनन्दो ब्रह्मणो रूपं तच्च मोक्षेति भण्यते॥



यद् यद् वै दृश्यते किञ्चित् [तत्]तद्ब्रह्मेति कल्पयेत्।



ततोऽन्यगतचित्तं[तु]ब्रह्मणैवावतिष्ठते॥



प्रियादर्शनमेवैकं किमन्यद्दर्शनान्तरैः।



प्राप्यते येन निर्व्वाणं स्वरागेणापि चेतसा॥



त्यज धर्मम्मधर्म्मं च उभे सत्यानृते त्यज।



उभे सत्यानृते त्यक्त्वा येन त्यजसि तत् त्यज॥



 



भगवद्गीतायामपि -



नासतो विद्यते भावो नाभावो विद्यते सतः।



उभयोरपि दृष्टो[ऽन्तः]ह्यनयोस्तत्त्वदर्शिभिः॥



किञ्च ग्राह्यादिशून्यं चेत् चित्तमक्षोभ्यमुच्यते।



वाधास्वागमतो वज्रसत्त्वमुद्रावियोगतः॥



किमर्थं नियमेनैतत् देशकैरथ देशयते।



इदं तथागताश्वासधिया पूर्व्वं प्रकाश्यते॥



बोलगर्भे च साकारं निराकारं तदग्रतः।



मध्यमा वर्णयन्त्येके नेति नो गुरुदर्शनम्॥



वज्रगर्भे तदग्रे वा पतितं वा कपालके।



न चेष्टमन्तरालेऽपि तत्त्वं वित्तौ गुरोर्मुखात्॥



विचित्रं विविधं ख्यातं इत्यादि सुत्थितं कथम्।



मण्यन्तर्गतमित्यादि सद्गुरोः सुष्ठु सङ्गतम्॥



हसित्यादिविशुद्ध्या यत् आचार्य्यादिसमीहितम्।



उत्पत्त्या तद् व्यवस्थेयं न चोत्पन्नस्वभावतः॥



चित्रत्वात् चित्रमाघृष्टेः सुखात् पाको मणेः पुरः।



गुरोः तत्त्वं विजानीयात् विमर्द्दात् विरतौ रमः॥



कर्म्ममुद्रां समासाद्य धर्म्ममुद्रां विभावयेत्।



तस्या उर्द्धं महामुद्रा यस्यां समयसम्भवः॥



आनन्दाः प्रतिमुद्रास्याः महामुद्रां विना पुनः।



आगमाच्च स्वसम्बित्तेः सद्गुरोरुपदेशतः॥



विचित्रं कर्म्ममुद्रातो विपाको जगदात्मता।



स्थैर्य्यं विलक्षणं तत्र विमर्द्दो जगदीक्षणम्॥



सर्व्वस्मि[न्न]प्रतिष्ठानं महामुद्रेति कीर्त्त्यते।



विमलत्वात् स्वसम्बित्तेः विचित्रादेर्न सम्भवः॥



अनाभोगं हि यद् ज्ञानं तच्चाचिन्त्य प्रचक्षते।



सञ्चिन्त्य यद् अचिन्त्यं वै तदचिन्त्यं भवेन्न हि॥



तथता ये तु पश्यन्ति मध्यमार्थानुसारतः।



ते वै तत्त्वविदो धन्याः प्रत्यक्षं यदि संविदा॥



यो वित् सर्व्वसमारोपः स सर्व्वः सर्व्वथा न हि।



मध्यमार्थो निरारोपः तत्रारोपविधौ कुतः॥



ज्ञानज्ञेयासमारोपे मन्यना तत्र नान्यथा।



सर्व्वस्तथा यथा पूर्व्वं यथा बुद्धिस्तथा न हि॥



येनाजातं जगद्बुद्धं बुद्धिः शुद्धैव बोधतः।



निजं तस्य जगत् सत्यमनाभोगेन धीमतः॥



अविभावितसम्बन्धो विकल्पोऽसौ प्रतीत्यजः।



तदेष एव निर्व्वाणे नो कृथाः चित्तविभ्रमम्॥



प्रतिपक्षे स्थितो नैव तत्त्वाशक्तोऽपि नैव यः।



गार्द्धं नैव फले यस्य महामुद्रां स विन्दति॥



यथैव कर्म्ममुद्रायां आनन्दादिव्यवस्थितिः।



तथा समयमुद्राया वज्राचार्य्यप्रसादतः॥



विचित्रं कर्म्ममुद्रैव धर्म्ममुद्राविपाकजा।



विलक्षणं महामुद्रा विमर्द्दः समयो भवेत्॥



महामुद्रामजानानाः कर्म्ममुद्रैव साधना।



आम्रायतत्त्वतो भ्रष्टा रौरवं यान्ति योगिनः॥



मुद्रा तावत् न बुद्ध्यन्ते चतस्रश्च चतुःक्षणाः।



यावन्न शवरेशस्य स्पृशन्ति पादपोत्सवः॥



सम्यक् सेकं विधायैतत् हठदुःसेकवर्ज्जितम्।



यत् साधितं मया पुण्यं तेनास्तु जगतः सुखम्॥



 



॥सेकनिर्णयः (निर्द्देशः)समाप्तः। 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project