Digital Sanskrit Buddhist Canon

४ पञ्चतथागतमुद्राविवरणम्

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:


 



४ पञ्चतथागतमुद्राविवरणम्।



 



नमः सर्व्वविदे।



प्रतीत्यजाताः परिकल्पशून्याः



शून्याः स्वभावेन न वस्तुसन्तः।



नोच्छेदिनाश्चित्रचिदेकरूपा



रूपादयः पञ्चजिना जयन्ति॥



 



पञ्चस्कन्धाः पञ्चतथागताः। तत्र चत्वारो किं ज्ञानमात्रताप्रतिपादनाय अक्षोभ्येन मुद्र्यन्ते?एतेन बाह्या कारभावे ग्राहकशून्यतया ग्राह्यग्राहकरहितं परमार्थसत्सम्बिन्मात्रं विज्ञानमेव तिष्ठते। इदमेव शरदमलमध्याह्न(न)गगनायमानं निराकारवादिनां मौलं ज्ञानं साध्यम्। तथा चोक्तम् -



शून्यं कल्पितरूपेण निराभासमनाकृति।



सत्सम्बित्सातमात्रं वै पृष्ठाकारचयाकुलम्॥



तदुक्तम्,- रूपकायौ तु पश्चिमौ इति। तथा च -



निष्प्रपञ्चो निराभासो धर्म्मकायो महामुनेः।



रूपकायौ तदुद्भूतौ पृष्ठे मायैव तिष्ठते॥



 



इति नन्वक्षोभ्यमुद्रयैव सिद्धत्वात् किमर्थं तर्हि अक्षोभ्यो वज्रसत्त्वेन मुद्र्यते इत्यागमः?यावत्कल्पिताकारशून्यताप्रतिपादनाय इति चेत् तन्न। पूर्व्वमुद्रयैव सिद्धत्वात्। तस्मात् यथाऽक्षोभ्यमुद्रयैव ज्ञानं मौलं पृष्ठमन्यत् तथा वज्रसत्त्वमुद्रया विज्ञानमपि पृष्ठं मौलं वज्रमिति स्यात्। उक्तं च वज्रशेखरे -



 



दृढं सारमसौशीर्यमच्छेद्याभेद्यलक्षणम्।



अदाहि अविनाशि च शून्यता वज्रमुच्यते॥



 



इति। पृष्ठे रूपादिकं चेत्,[मौ]लज्ञानादक्षोभ्यमुद्रयातद्वज्र(या)सत्त्वं पृष्ठेऽहं तन्न --- न्न किम्। सत्त्वमिति पृष्ठ इति चेत् तर्हि करुणाभावात् उच्छेदवादप्रसङ्गः। इष्यते च -



 



वज्रेण शून्यता प्रोक्ता सत्त्वेन ज्ञानमात्रता।



तादात्म्यमनयोः सिद्धं वज्रसत्त्वस्वभावतः॥



शून्यताकृपयोर्भेदः प्रदीपालोकयोरिव।



शून्यताकृपयोरैक्यं प्रदीपालोकयोरिव॥



भावेभ्यः शून्यता नान्या न च भावोऽस्ति तां विना।



अविनाभावमियत् कृतकानित्ययोरिव॥



कथ्यमाने यथात [त्त्वे]उच्छेदो नैव सम्वृतेः।



सम्वृतिव्यतिरेकेन [क]न तत्त्वमुपलभ्यते॥



इत्यादि विस्तरः। एवमक्षोभ्यवज्रसत्त्वयोरैकयमिति चेत् तर्हि विज्ञानरूपाद्यपरित्यागे चित्राद्वैतवादो ज्यायान्।



तदुक्तम् -



सच्चित् चिन्मात्रमशेषकल्प-



शून्यं हि साकारमतं मतं मे।



गच्छत्तृणस्पर्शसमानमन्ये



तन्मध्यमार्थं प्रवदन्ति सन्तः॥



 



चित्राद्वैतवादिनां तु परमार्थसदिति ज्ञानमपेशलम्। ग्राह्यग्राहकशून्यचित्राद्वैताक्षोभ्यरूपज्ञानस्य वज्रसत्त्वमुद्रया वस्तुसत्तानिरस्तत्वात्। तदुक्तम् -



रूपादिकल्पशून्यं चेत् ज्ञानमक्षोभ्यमुद्रया।



तद्वज्रसत्त्वमुद्रातो वस्तुसत्ता निरस्यते॥



न च विज्ञप्तिमात्रस्य कल्पिताकारशून्यता।



क्रियते वज्रसत्त्वेन पूर्वं तस्यानवस्थितेः॥



 



तदेवं परमार्थसदितिशल्यापगमे सर्व्वत्राप्रतिष्ठानरूपानाभोगयुगनद्धाद्वयवादिसम्बेदनसिद्धमध्यमकसिद्धान्तः प्रेयान्। अयं च सद्गुरुपादप्रसादादवगम्यते। नन्वत्र सम्बेदनसिद्धौ मायोपमाद्वयवादप्रसङ्गेन सर्व्वत्राप्रतिष्ठानमिति चेत् -



 



यत् प्रतीत्यसमुत्पन्नां [नोत्पन्नं]तत् स्वभावतः।



स्वभावेन यन्नोत्पन्नं उत्पन्नं नाम तत् कथम्॥



 



इति। सम्बेदनं च प्रतीत्यसमुत्पन्नं तस्मात् सम्बेदनमेवाप्रतिष्ठितमजातपदम्।



 



तथा च -



सम्बेदनमजातं वै वस्तुसत्ताऽपि तादृशी।



वज्रसत्त्वस्वरूपं तु जगदेव जगौ (सौ)मुनिः॥



 



किञ्च मञ्जुश्रीस्तथागतेन पृष्टः कतमोऽसावचिन्त्यधातुः?मञ्जुश्रीराह,यो धातुर्निश्चितो,न चित्तगमनीयो,न चित्तप्रमेयो,न चित्तचेतनया प्रतिवेदितव्यः,अमावुच्यतेऽचिन्त्यधातुः। अथ च पुनर्भगवन् चित्तमेवाचिन्त्यधातुः। तत् कस्य हेतोः?न ह्यचित्ते चित्ते चित्तं संविद्यते। निश्चित्तो हि चित्तं चित्तस्य यथार्थावबोधात्। अथ च सर्व्वाकारो भगवतोऽचिन्त्यधातुः। अन्यत्राप्युक्तम् -



अविकल्पितसङ्कल्प अप्रतिष्ठितमानस।



अस्मृत्यमनसिकार निरालम्ब नमोऽस्तु ते॥



चतुःप्रदीपे -



यः प्रत्ययैर्जायति स ह्यजातो



न तस्य उत्पाद स्वभावतोऽस्ति।



यः प्रत्ययाधीन स शून्य उक्तः



यः शून्यतां जानति सोऽप्रमत्तः॥



 



आर्य्यलङ्कावतारे -



भ्रान्ति विधूय सर्व्वा हि निमित्तं जायते यहि।



सैव तस्य भवेद् भ्रान्तिरशुद्धतिमिरं यथा॥



तथा च -



मा भूत् सम्बृतिप्रतिष्ठानमत एव मुनिर्भयात्।



भिनत्ति देशनाधर्म्ममुक्ता ह्यशून्यतात्मना॥



उक्तं च हेवज्रे-



स्वभावश्चैवाद्यनुत्पन्नं [न]सत्यं न मृषेति च।



किञ्च -



सर्व्वः समानः प्रतिभज्यमानः



शू[न्यो]क्तिकांक्षामधिया कृतान्तः।



बौद्धस्य बाह्यस्य विभागकर्त्री



न स्या[दा]दिका यदि शून्यतोक्तिः॥



आह च,उच्छेदशून्यतां अपनयन् -



तथतां ये तु पश्यन्ति मध्यमार्थानुसारतः।



ते वै तत्त्वविदो धन्याः प्रत्यक्षं यदि संविदा॥



तदुक्तं डाकिनीवज्रपञ्जरे-



शून्यताकरुणाभिन्नं यत्र चित्तं प्रभाव्यते।



सो हि बुद्धस्य धर्म्मस्य सङ्घस्यापि हि देशना॥



 



तस्मात् पञ्चाकाराणां प्रतीत्य समुत्पन्नानां पञ्च तथागतः स्वभावत्वात्,स्वभावस्य च शून्यताकरुणाभिन्नत्वात्,शून्यताकरुनाभिन्नं जगदिति स्थितम्। एतदेव सद्गुरोरुपदेशतो ध्यानमविच्छिन्नम् -



 



नदीस्रोतप्रवाहेन दीपज्योतिःप्रबन्धवत्। -



मन्त्रतत्त्वानुसारतः। तथा चाहुर्नागार्ज्जुनपादाः -



कूटागारमिदं न यत् त्रिभुवनं न प्राणिनोऽमी जनाः चक्रेशोऽस्मिन्[न]मानुषो न विषया नाक्षाणि न ह्यादयः।



रूपाद्या न च धर्म्मतात्मकतया ते माण्डलेया इमे



विश्वं मण्डलचक्रमाकलयतश्चेतः किमु भ्राम्यसि॥



प्रतीत्यसम्मवादेव गन्धर्व्वपुरवत् स्फुटम्।



न स्वभावस्थितं विश्वं नाकाशाम्भोजसन्निभम्॥



उक्तं च हेवज्रे-



अमी धर्म्मास्तु निर्व्वाणं मोहात् संसाररूपिणः। इति।



 



॥पञ्चतथागतमुद्राविवरणं समाप्तं इति॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project