Digital Sanskrit Buddhist Canon

१ कुदृष्टिनिर्घातनम्

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

1 kudṛṣṭinirghātanam


 



अद्वयवज्रसंग्रहः।



 



१। कुदृष्टिनिर्घातनम्।



नमो बुद्धाय।



वक्ष्ये कुदृष्टिनिर्घातमादिकर्म्मविधानतः।



अनेनैव विहारेण यत्नेन लभते पदम्॥



 



इह हि द्विधा सत्त्वाः,शैक्षा अशैक्षाश्च। तत्र आशय अधिमुक्तिप्रयोगः भूमिप्रपन्नप्रयोगश्च (ञ्च)वसिताप्तिपर्य्यन्तः हेत्ववस्थास्थितानां शैक्षाणां सुविशुद्धादिकर्म्माविधानेन सम्भारद्वयसम्भृतसम्यक्सम्बोधिसम्पल्लाभः। अशैक्षाणामपि निरस्तप्रतिपक्षतत्त्वफलविकल्पानां शाक्यमुनेरिव प्रणिधानवेगसामर्थ्यात् युगनद्धानाभोगयोगतः सत्त्वार्थक्रियालक्षणमविच्छिन्नमादिकर्म्म प्रवर्त्तत एव इति स्थितम्। तथा च -



 



न तेऽस्ति मन्यना नाथ च विकल्पो न वेञ्जना।



अनाभोगेन ते लोके बुद्धकृत्यं प्रवर्त्तते॥



परार्थसम्पद्बुद्धानाम् फलं मुख्यतमं मतम्।



बुद्धत्वादि यदन्यत्तु तादर्थ्यात् फलमिष्यते॥



चिन्तामणिरिवाकम्प्यः सर्व्वसङ्कल्पवायुभिः।



तथापि सर्व्वसत्त्वानामशेषाशाप्रपूरकः॥



 



फलं तत्त्वविपक्षाणां विध्यपोहविवर्ज्जनात्।



सम्बो(म्ब)धिर्बुध्यते धन्यो तत्पश्चात्त्वादिकर्म्मणि॥



 



ननु शैक्षाणामादिकर्म्मविधानं युज्यत एव। कथम् ?अशैक्षाणामपि निःस्वभावभाविनामादिकर्म्मारम्भः। अयमपि सुवर्णनिगडबन्धन एव। सत्यम्। प्रज्ञापारमिताधिगमविरहात्। प्रज्ञापारमिता हि पञ्चपारमितानां स्वभावः। अत एव -



 



सर्वाकारवरोपेता शून्यतेति निगद्यते।



 



उक्तं च भगवता। प्रज्ञापारमिताविरहिताः पञ्चपारमिताः पारमितानामधेयं न लभन्ते।



 



आर्य्यविमलकीर्त्तिनिर्द्देशे चोक्तम्। प्रज्ञारहित उपायो बन्धः,उपायरहिता प्रज्ञा बन्धः,प्रज्ञासहित उपायो मोक्ष[:],उपायसहिता प्रज्ञा मोक्षः। तादात्म्यं चानयोः सद्गुरूपदेशतः प्रदीपालोकयोरिव सहजसिद्धमेवाधिगम्यते। अत एव -



 



आदिकर्म्म यथोद्दिष्टं कर्त्तव्यं सर्व्वयोगिभिः।



शून्यताकरुणाभिन्नं यद्बोधौ ज्ञानमिष्यते॥



 



आदिकर्म्म च -



पञ्चपारमिताः प्रोक्ता आदिकर्म्मेतिसंज्ञया।



प्रज्ञापारमिता चासां स्वभावो नाभिरिष्यते॥



 



तथा चात्र-



दानं शीलं क्षमां वीर्य्यं ध्यानं प्रज्ञां च सादरम्।



सततं सेवयन् धीमान् सुखी स्वस्थोऽपि जायते॥



सम्भोगनिर्म्मिते हेतुर्दानशीलक्षमात्रयम्।



ध्यानप्रज्ञेति धर्म्मस्य वीर्य्यन्तुभ[य]योर्मतम्॥



 



तस्माद्बोधिसत्त्वेन सुविशुद्धादिकर्म्मविहारिणा भवितव्यम्,विपर्य्यये च नास्तिकवादप्रसङ्गः। तदुक्तम् -



 



शुभाशुभं यद्यपि निःस्वभावकं



तथापि कुर्य्यात् शुभमेव नाशुभम्।



जलेन्दुबिम्बोपमलोकसम्वृतौ



सुखं प्रियं दुःखमजस्रमप्रियम्॥



 



कथं तर्हि शैक्षेषून्मत्तव्रतस्थितानां निर्व्विकल्पताधिमुक्तिवतामादिकर्म्म प्रवर्त्तताम् ?उच्यते। शरीरदानं कृत्वा चर्य्यां कृतवान्।



 



शरीरदानं दत्त्वा [च]पश्चात् चर्य्यां समारभेत्।



 



इति वचनात्। दानं दत्तं च शरीरावधि,कायवाक् चेतसाम् सर्व्वसत्त्वार्थाय सम्बरणाच्छीलम्,क्षान्तिश्चक्रू(कु)रतप्तकरपत्रादिघातसहनतया,वीर्य्यं चाष्टलोकधर्म्माबाधोपसहनतया,ध्यानं च सर्व्वस्वभावानुगतानाभोगस्वरसवाहितया,प्रज्ञा च सर्व्वधर्म्मानुपलब्धिलक्षणाधिगमनतया।



 



अनाभोगरसाबेधौ यस्याजस्त्रं ...............।



...................  प्रवर्त्तन्ते सर्व्वाः पारमिताः पराः॥



 



तस्मादुन्मत्तव्रतस्थितानामप्यादिकर्म्म प्रवर्त्तन एव। चार्व्वाकपशोर्नष्टपरलोकस्य वचनं सर्व्वथैवायुक्तत्वात् नोदाहृतम्। भूतशैक्षं प्रति बोधिसत्त्वस्य प्रथमं दीयते पोषधम्। तदनु शिक्षोपदेश इति श्रीहेवज्रवचनात् प्रथमं तु पोषधदानम्। समन्वाहर भदन्ताचार्य्य अहमित्थंनामा अमुकनामा उपासको बुद्धं धर्म्मं सङ्घं शरणं गच्छामि यावदाबोधिमण्डतः। एवं द्विरपि त्रिरपि। एवं त्रिशरणगतं मां वदन्तो धारयन्त्विति। समन्वाहर आचार्य्य अहममुकनामोपासक इमां बेलां उपादय यावत् श्व[:]सूर्य्योदयमिहान्तरे सर्व्वप्राणिबधात् परस्वहरणात् अब्रह्मचर्य्यात् तथा वाग्भेदात् अनृतात्मत्वो (दो)पजननात् पानात् विकालाशना[त्]मालावर्णकनृत्यगीतलभितात् शयनासनादुच्छ्रितात् अद्याहं विरतः करोम्यहं तावत्,तद्गुणैरष्टभिः पोषधगाथा।



 



गृहपतिबोधिसत्त्वस्तु रत्नत्रयशरणपुरःसरं प्राणातिपातात् अदत्तादानात् काममिथ्याचारात् मृषावादात् प्रकृतिसावद्यात् मद्यपानात् च पञ्चभ्यो विरतः श्रुतिविवेकसम्पन्नो गृहपतिबोधिसत्त्वः परिहृतदशाकुशलः पुनरकरणसम्बरवान् कुशलकर्म्मचारी प्रातःप्रहरे समुत्थाय मुखशौचादिकं कृत्वा रत्नत्रयमनुस्मरन् ॐ आः हूँ इत्यनेन आत्मयोगरक्षां कृत्वा यथाधिगमध्यानजपसंस्तवादिकं कुर्य्यात्। नामसङ्गीतिं च त्रिष्कालमावर्त्तयेत्।



 



तदनु ॐ जम्भलजलेन्द्राय स्वाहा इत्यनेन परिजप्त्वा ऽष्टोत्तरशतपानीयचुलिकानि जम्भलाय दद्यात्। ततो नमः समन्तबुद्धानां सर्व्वतथागतावलोकिनि ॐ सम्भर सम्भर हूँ फट् स्वाहा इति मन्त्रं सप्तवारान् आवर्त्त्य प्रसारितदक्षिणकराङ्गुलपञ्चकविनिर्गतामृतपञ्चधाराभि[:]पूरितद्वारमूलनिवेशितसजलबलिभक्तशिक्यकानि मागधेन द्रोणेन प्रवर्त्ति(क)तानि पश्येत्। सकलप्रेतपिशाचान्तर्यघनच्छटात्रयं दत्त्वा बोधिसत्त्वबलिं दद्यात्। इदानीं सर्व्वसत्त्वेष्वेकपुत्रप्रेमाकारा मैत्रीम्,दुःखादुःखहेतोः संसारसागरात् समुद्धरणवाञ्छास्वभावां करुणाम् ,रत्नत्रयशरणगमनात् समुल्ल[स]न्मनः प्रभावां मुदिताम्,अध्यासङ्गपरिलक्षणामुपेक्षां च विभाव्य सर्व्वसत्त्वार्थोद्युक्तचेता परिशुद्धेन गोमयेन विशुद्धेन च वारिणा ॐ आः वज्जरेखे हूँ इति मण्डलाधिष्ठितभूभागे चतुरस्रादि चतुर्णामन्यतममभिमतमण्डलकं कृत्वा तन्मध्ये विश्ववर्णाष्टदलकमलवरटके सूर्य्यमण्डलोपरि नीलहूँकारपरिनिष्पन्नं भूस्पर्शमुद्राधरं कृष्णवर्णं अक्षोभ्यम् ,तदनु पूर्व्वदले शुक्ल ॐ कारनिष्पन्नं शुक्लवर्णं बोध्यङ्गौ (ग्री)मुद्राधरं वैरोचनम्,ततो दक्षिणदले पीतत्राँकारजं पीतवर्णं वरदमुद्राधरं रत्नसम्भवम्,ततः पश्चिमदले रक्तह्रीँ ः कारसम्भूतं रक्तवर्णं समाधिमुद्राधरं अमिताभम्,तत उत्तरदले श्यामखँकारजं श्यामवर्णमभयमुद्राधरममोघसिद्धिं च भावयित्वा,ॐ आः वज्रपुष्पे हूँ इत्यनेन अभिमन्त्य सर्व्वमिष्टतरं ढौकयेत्। एते पञ्चतथागताः काषायवस्त्रप्रावृताः सोष्णीषाः शिरतुण्डमुण्डिताः सूर्य्यमण्डलावस्थाः। वैरोचनः परशशिमण्डली,ततश्चत्वारोऽक्षोभ्याभिमुखाः,अक्षोभ्यस्तु साधकाभिमुखः। एषामग्रतः त्रिशरणगाथामिमां यथाधिगम[मा]मुखीकुर्व्वन् तत्रेयं त्रिशरणगाथा -



 



नमो बुद्धाय गुरवे नमो धर्म्माय तायिने।



नमः सङ्घाय महते त्रिभ्योऽपि सततं नमः॥



 



रत्नत्रयं मे शरणं सर्व्वं प्रतिदिशाम्यघम्।



अनुमोदे जगत्पुण्यं बुद्धबोधौ दधे मनः॥



 



आबोधेः शरणं यामि बुद्धं धर्म्मं गणोत्तमम्।



बोधौ चित्तं करोम्येप स्वपरार्थप्रसिद्धये॥



 



उत्पादयामि वरबोधिचित्तं



निमन्त्रयाम्यहं सर्व्वसत्त्वान्।



इष्टां चरिष्ये वरबोधिचारिकां



बुद्धो भवेयं जगतो हिताय॥



 



देशना सर्व्वपापानां पुण्यानां चानुमोदना।



कृतोपवासं चरिष्यामि आर्य्याष्टङ्गिकपोषधम्॥



 



ततः -



शीलचन्दनलिप्ताङ्गा ध्यानप्रावरणावृताः।



बोध्यङ्गकुसुमाकीर्णा विहरद्धं यथासुखम्॥



 



इति पठित्वा ॐ वज्रमण्डल मुः इत्यनेन विसर्जयेत्। एवं मञ्जुश्रीप्रभृतीनपि यथोपदेशं पूजयेत्।



॥मण्डलपूजाविधिः॥



 



दानं गोमयमम्बुना च सहितं शीलं च सम्मार्जनं



क्षान्तिः क्षुद्रपिपीलिकापनयनं वीर्य्यं क्रियास्थापनम्।



ध्यानं तत्क्षणमेकचित्तकरणं प्रज्ञा सुरेखोज्ज्वला(:)



एताः पारमिताः षडेव लभते कृत्वा मुनेर्मण्डलम्॥



 



भवति कनकवर्णः सर्व्वरोगैर्विमुक्तः



सुरमनुजविशिष्टश्चन्द्र वद्दीप्तकान्तिः।



धनकनकसमृद्धो जायते राजवंशे



सुगतवरगृहेऽस्मिन् कायकर्म्माणि कृत्वा॥



 



॥मण्डलानुशंसा गाथा॥



 



प्रत्यहं मण्डलं कृत्वा पुष्पगोमयवारिभिः।



त्रिष्कालं गुरवे किञ्चित् दत्त्वा भक्त्या(क्तिं)च वन्दयेत्॥



 



परेषां मनसस्तुष्टिं वर्जयेदात्मचेतसः।



सुखीं प्रासादिको धन्यः सुखावत्यां स जायते॥



 



स्यात् षट्पारमितापूरी बुद्धादिभिरधिष्ठितः।



अनन्तगुणसम्पन्नो मण्डलं प्रकरोति यः॥



 



॥इत्यनुशंसा॥



 



प्रज्ञापारमितां सम्यक् मण्डलादिविधानतः।



पठित्वा पूजयेन्नित्यं तदर्थमवगाहनम्॥



एकगाथा चतुर्गाथां गाथाद्वितयधारणीम्।



षण्मुखीं भद्रचर्य्यां च त्रिष्कालं च त्रिकालतः॥



एकाक्षरीमुपादाय लक्ष यावत् समाहितः।



अखण्डितसमादानोः यथालाभं पठेत् सुधीः॥



 



बुद्धबोधिसत्त्वपटपुस्तकप्रतिमादींश्च पूजयेत्।



॥पटपुस्तकपूजाविधिः॥



 



इदानी महामण्डलव्यूहतन्त्रानुसारेण सर्व्वकताडनविधिरतिदिश्यते -



 



नमः समन्तबुद्धानां ॐ वज्रपुष्पे स्वाहा। मृत्तिकाग्रहणमन्त्रः।



 



ॐ वज्रोद्भवाय स्वाहा। बिम्बबलनमन्त्रः।



ॐ अरजे विरजे स्वाहा। तैलम्रक्षणमन्त्रः।



ॐ धर्म्मधातुगर्भे स्वाहा। मुद्राक्षेपनमन्त्रः।



ॐ वज्रमुद्गराकोटन स्वाहा। आकोटनमन्त्रः।



ॐ धर्म्मरते स्वाहा। आकर्षणमन्त्रः।



ॐ अप्रतिष्ठितवज्रे स्वाहा। स्थापनमन्त्रः।



ॐ सर्वतथागतमणिशतदीप्ते ज्वल ज्वल धर्म्मधातुगर्भे स्वाहा। प्रतिष्टामन्त्रः।



ॐ स्वभावशुद्धे आहर आहर आगच्छ आगच्छ धर्म्म धातुगर्भे स्वाहा। विसर्ज्जनमन्त्रः।



 



ॐ आकाशधातुगर्भे स्वाहा। क्षमापनमन्त्रः।



 



॥इति सर्वकताडनविधिः॥



 



ॐ नमो भगवते वैरोचनप्रभराजाय तथागतायार्हते सम्यक्सम्बुद्धाय,तद्यथा,ॐ सूक्ष्मे सूक्ष्मे समे समये शान्ते दान्ते समारोपे अनालम्बे तरम्बे यशोवति महातेजे निराकुलनिर्व्वाणे सर्व्वबुद्धाधिष्ठानाधिष्ठिते स्वाहा। अनया धारण्या मृत्पिण्डं बालुकापिण्डं वा एकविंशतिवारान् परिजप्य चैत्यं कुर्य्यात्। यावन्तस्तस्मिन् परमाणवस्तावन्त्यः कोट्यः चैत्यानि कृतानि भवन्ति,परमाणुसंख्यातानि पुण्यानि प्रतिलभते,दशभूमीश्वरो भवति,क्षिप्रं चानुत्तरां सम्यक्सम्बोधिमभिसम्भोत्स्यत इदमवोचद् भगवान् वैरोचनस्तथागतः।



 



॥महानुशंसाधारणी॥



 



ये धर्म्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत्।



तेषां च यो निरोध एवंवादी महाश्रमणः॥



 



इति गाथया प्रतिष्ठां कृत्वा ॐ मनो भगवते रत्नकेतुराजाय तथागतायार्हते सम्यक्सम्बुद्धाय,तद्यथा,ॐ रत्ने रत्ने महारत्ने रत्नविजये स्वाहा इत्यनेन चैत्यवन्दनां कुर्य्यात्। अनया धारण्या एकचैत्यवन्दनया कोटिचैत्यवन्दना भवति।



 



॥मृत्तिकासिकतादिचैत्यकरणविधिः॥



 



एतत्सर्व्वविशिष्टपरिणामनया परिणाम्यमानं विशिष्टफलावाहकं भवतीति। प्रज्ञापारमितोक्तेन महापरिणामेन परिणामयेत। तद्यथा,यथा ते तथागता अर्हन्तः सम्यक्सम्बुद्धा बुद्धज्ञानेन बुद्धचक्षुषा जानन्ति पश्यन्ति तत्कुशलमूलं यज्जातिकं यन्निकायं यादृशं यल्लक्षणं यत्स्वभावं यया धर्म्मतया सम्बिद्यते तथा अनुमोदे तत्कुशलमूलम्। यथा च ते तथागता अर्हन्तः सम्यक्सम्बुद्धा अभ्यनुजानन्ति परिणाम्यमानं तत्कुशलमूलमौत्तरायां सम्यक्सम्बोधौ तथाहं परिणामयामि इति। अपरम् -



 



अनेन चाहं कुशलेन कर्म्मणा,



भवेय बुद्धो न चिरेण लोके।



देशेय धर्म्मं जगतो हिताय,मोचेय सत्त्वान् बहुदुःखपीडितान्॥



॥पुण्यानुमोदनापरिणामविधिः॥



 



यस्य यस्य यदाजीव्यं शुद्धाजीव्यस्तदर्जयेत्।



क्षान्त्यर्थं व्याधिशान्त्यर्थं भैषज्यमिव चिन्तयेत्॥



 



ततो यथामिलितान्येषु ॐ अकारो मुखं सर्व्वधर्म्माणामाद्यनुत्पन्नत्वात् ॐ आः हूं फट् स्वाहा इत्यनेन बलिं दद्यात्। ॐ आः सर्व्वबुद्धबोधिसत्त्वेभ्यो वज्रनैवेद्ये हूं इत्यनेन नैवेद्यं दद्यात्। ॐ हारीति महायक्षिणि हर हर सर्व्वपापान् क्षीं स्वाहा इति पठित्वा हारीतिभक्त पिण्डद्वयं दद्यात्। अग्रपिण्डाशिभ्यः स्वाहा इति अग्रपिण्डदानम्। तदनु ॐ आः हूं इत्यनेन स्वपात्रभक्तमधिष्ठाय यावद्विषादिदोषशान्त्यर्थं प्रथमतोऽनामाङ्गुष्टाभ्यामुपस्पृश्य भुञ्जीत। तदनु यथा सुखं भुक्ता उत्सृष्टमन्नं ॐ उत्सृष्टपिण्डाशनेभ्यः स्वाहा। उत्सृष्टपिण्डं दद्यात्। परिशिष्टमन्नमनभिसन्धानेनैव परित्यजेत्। तथा च -वलिं दद्यान्नैवेद्यं हारीतिमग्रपिण्डकम्।



महाफलोपभोग्याय उत्सृष्टं पञ्चमं ददेत्॥



 



इति। तदनु आचमनादिकं कृत्वा परिशुद्धबुद्धिविशिष्टसुखसमन्वागतसर्व्वसत्त्वहित सुखाय इदं त्रिधाऽऽवर्त्तयेत् -



 



राजा दानपतिश्चैव ये चान्ये सत्त्वराशयः।



प्राप्नुवन्तु सदा सौख्यमायुरारोग्यसम्पदः॥



 



इति। तदनु परिशुद्धकायवाङ्मनःकर्म्मा यथेच्छं विहरेत्। अनन्तरं उपविश्य जातकनिदानोक्तदानकथया कल्याणमित्रैः सह गतैर्वा सार्द्धं दिनमनुदिनं वाऽतिवाहयेत्। ततो विकालसन्ध्यायामपि ध्यानजपसंस्तवादिकं यथाधिगमाखिन्नमानसं कुर्य्यात्। युगकारादिमन्त्रेण दत्तबलिर्योगनिद्रया सुप्यात्। उपासकशब्दः कथं जातव्यः ?[उ,इति ]--



 



उद्युक्तो बुद्धपूजायां उपशान्तोपशायकः।



उपकाराय सत्त्वानां उपायेनान्वितो भवेत्॥



 



पा,इति -



पापानावर्जयेन्नित्यं पापिष्ठैः सह सङ्गतिम्।



पापान्निवारयन् जन्तोः पापं सर्व्वत्र देशयेत्॥



 



स,इति -



समारोपविनिर्मुक्तः समाधौ सुसमाहितः।



सर्व्वदा परमानन्दौ सम्बोधिं साधयेद् बुधः।



 



क,इति -



करोति सर्व्वदा यत्नं करुणां परिपालयेत्।



कष्टेनापि न चानिष्टं करोत्युपकृतिं पराम्॥



इति वचनात्।



 



अक्षरचतुष्टयान्वितोऽयमुपासकः पांरहृताकुशलकर्म्मा उपचितपुण्यसम्भारो ऽभ्यासवशात् जाग्रद्दशावत् स्वप्नेऽपि कुशलान्येव करोति।



 



प्रतिबिम्बनिभं पश्यन् जगत् शुद्धमनाविलम्।



मायापुरुषवत् सर्व्वं कुर्य्यादनुपलम्भतः॥



 



अतश्चावैवर्त्तिक इत्यभिधीयते। एवमहोरात्रं सततसमितं पुण्यसम्भारमुपार्ज्जयन् आबोधिमण्डपर्य्यन्तं सत्त्वहितहेतोः सन्तिष्टेत्।



 



नाम्ना गगनगर्भोऽसौ मध्यमार्थपरायणः(पञ्चः)।



समादानं करोत्येव आदिकर्म्म समाहितः॥



वज्जपीठात् समायातो विप्रजन्यः सदाशयः।



तस्याभ्यर्थनया चैतदादिकर्म्म कृतं मया॥



 



इह हि गगनगर्भाभ्यर्थनातो मयोक्तः



कतिपयपदमात्रेणादिकर्म्माभिधानतः।



अघतिमिरमपास्य क्लेहनिर्घात एष



अचिरममलबुद्धेर्बोधयेऽभ्यासतः स्यात्॥



 



आदिकर्म्म विधायैतत् यदलाभि शुभं मया।



आदिकर्म्म विधायैतदुत्कृष्टं लभतां जगत्॥



 



॥कुदृष्टिनिर्घातनं समाप्तमिति॥



 



तत्रावस्थाः त्रयः -- हेत्ववस्था नाम बोधिचित्तात् प्रभृति बोधिमण्डनिवेदनं यावत्। फलावस्था नाम सम्य्क्सम्बोधिज्ञानोत्पत्तौ सर्व्वक्लेशगुणप्रहाणिप्राप्त्यवस्था। सत्त्वार्थक्रियावस्था नाम  प्रथमधर्म्मचक्रप्रवर्त्तनात् प्रभृति आशासनान्तर्धानं यावत्।



 



तत्र हेत्ववस्था त्रिविधा;आशयावस्था,प्रयोगावस्था,वसितावस्था चेति। तत्र आशयावस्था सत्त्वानिर्मोक्षप्रणिधानम्। तद्धेत[व]श्चत्वारः तद्यथा -



 



गोत्र-सन्मित्रकारुण्य-दुःखाभीरुत्वहेतवः।



चतुर्भिर्प्रत्ययैरेभिर्बोधिचित्तं प्रजायते॥



 



इति वचनात्। दशभिरर्थैराशयावस्था। तत्र प्रयोगो द्विधा। अधिमुक्तिचित्तस्य पारमिताः सप्त। तत्र अधिमुक्तिचरितस्य पारमिता दश-



 



दानं शीलं क्षमा वीर्य्यं ध्यानं प्रज्ञा उपायता।



प्रणिधानं बलं ज्ञानं मताः पारमिता दश॥



 



भूमिप्राप्तस्य चतसृभिः सम्पद्भिः सम्पन्नं आशयप्रयोग-प्रतिग्राहकदेयसम्पद्भिरिति दानं शीलं क्षान्तिर्वीर्य्यं ध्यानं प्रज्ञा उपायः -----एताः सप्त पारमिताः। अधिमुक्ति चर्य्याचरितपारमिताभ्यो विशिष्यत इति द्विविधा प्रयोगावस्था।



 



तत्र वसिताः पञ्च,तद्यथा - क्लेश,उपपत्ति,कर्म्म,उपाय,सत्त्वपरिपाकावस्था चेति।



 



तत्र हेत्ववस्थास्थितेन सर्व्वमादिकर्म्म कर्त्तव्यम्। फलावस्थासत्वार्थक्रियावस्थास्थितस्य च शाक्यमुनेरिव अनाभोगेन आदिकर्म्म प्रवर्त्तत एव इति। विस्तरेण कुदृष्टिनिर्घाते ज्ञेयम्।



 



॥कुदृष्टिनिर्घातादिवाक्यटिप्पिनिकेयं श्रीमत्पण्डितावधूताद्वयवज्जपादानां कृतिरियम्॥। 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project