Digital Sanskrit Buddhist Canon

नानासिद्धोपदेशः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Parallel version Nānāsiddhopadeśaḥ
नानासिद्धोपदेशः

पद्माङ्कुरस्य-

प्रज्ञोपाययोर्महासुखचक्रस्थमोङ्कारहकारादवतीर्णौ(र्णो) ज्ञानचेत-
मणिसूत्रवदेकीकृत्य दोलया महामुद्रोपदेशः।

प्रज्ञारक्षितस्य-
कमलकुलिशानुभवित्वसद्बिन्दुरनक्षरशिखाग्रतो महामुद्रोपदेश-
स्तत्त्वपारगो महासुखचक्रावतीर्णो ज्ञानतन्तुं समरसीकृत्य दोलया
सहजयोगः।

नेलीपादस्य-
कुलिशमणिनिविष्टो ज्ञानबिन्दुरनक्षरः।
आशुसिद्धिकरः प्रोक्तो नेलीपादेन धीमता॥

रविगुप्तस्य-
ज्ञानदीपशिखाकारो निर्माणाब्जेन्दुमध्यगः।
हंकारं द्रावयत्याशु रविगुप्तेन भषितम्॥

कृष्णाचार्याणाम्-
कृष्णाचार्यैः समाख्याता चण्डाली नाभिमध्यगा।
आदिस्वरस्वभावाऽसौ दहत्यनाहतं मुखात्॥

निर्माणे तिलका ख्याता वसन्तो धर्मचक्रगः।
द्वयोरेकस्वभावस्तु कृष्णाचार्येण ख्यापितम्॥

सरहपादानाम्-
निर्माणचक्रद्वये नाभौ पञ्चाक्षरविभावना।
कर्तव्या योगयुक्तेन ख्यापितं सरहेण तु॥

महीधरस्य-
निर्माणचक्रे शून्यस्वभावा चण्डाली अनाहतप्रियेति महीधरः।

भूरिपादानाम्-
निर्माणचक्राद्याकारकमलवरटकेऽकरहकारौ
मृणालतन्त्वाकारेणैकीभूयाऽनाहतद्राविणाविति भूरिपादाः।

वीणापादस्य-
निर्माणचक्रे रविसोमसम्पुटज्ञानबिन्दुसमुत्थितौ रेखया आलि-
कालिसम्पुटस्वरूपया त्रिभिर्वेष्टय पुनरुत्थितौ रेखाद्वयप्रज्ञोपाय-
स्वभावौ। एका शुक्ला धर्मचक्रात् प्रतिनिवृत्य पश्येत् , द्वितीया
चक्रं प्रज्ञास्वभावा अनाहतं कान्तमिवालिङ्गयतीति वीणापादमतं
किल।

विरूपाचार्यस्य-
निर्माणचक्रेऽन्तरीक्षचक्रस्थमोङ्कारं मुखेन शीत्कारवाय्वप्रवेशेन
गणयेद् बुध इति विरूपाचार्येण देशितम्।

मुखेन घोलयेत् प्राज्ञो यावदद्वयतां व्रजेत्।
अकाराक्षरहकारौ विरूपाचार्येण देशितम्॥

नागबुद्धेः-
निर्माणपद्मस्थयोनिचक्रस्य कर्णिका ज्वलति धर्मचक्रगता भवेत्,
संभोगस्थानाहतरेखया एकीभवतीति नागबुद्धेः।

दिङ्नागस्य-
मुखेन निर्गमप्रवेशवायुना अकारहंकारौ तावद् घोलयेद् यावद-
द्वयतां व्रजेत्। ततोऽधरदशने संस्थाप्य रसनया आक्रमेदिति
दिङ्नागः।

मातलेः-
मुखे रक्त अंकारो निर्गमेन च वायुना।
उपायशुक्रहुंकारप्रवेशेन च घोलयेत्॥
एकीभवनतो नित्यं ककतुण्डी प्रसिद्धयति।
मिक्ताभं ज्ञानबिन्दुं नासाग्रे भावयेत् सुधीः॥
कर्णे वासति शब्दांश्च मतलिः संप्रचक्षते॥

मत्स्येन्द्रस्य-

नागसं(?)कायमुखाक्षिकर्णनासिका अपि वा वायुयन्त्रणादधिगपि-
(कोऽपि) ज्वलते वीरो मत्स्येन्द्रमतमीदृशम्।

उद्देशममुच्चयः

प्रज्ञाशिरसि ओङ्कारमुपायशिरसि हूँद्वयमधोमुखम्। अन्तर्मध्ये च वज्रादिमुखे प्रज्ञास्थितवायुना हतो बिन्दुरुपायशिखाग्रं याति।
उपायवायुना हतो बिन्दुः [प्रज्ञा]शिखाग्रं याति। ज्ञानबिन्दुः सुखरूपत्वेन
चिन्तितः सन् ज्ञानदीपशिखाकार ओङ्कारवचोलिङ्गितः सुखमयत्वेन
विभावितः सन् दाहानन्तरं शिखात् सुखमयभावनात्। तिलका ओङ्कारो
वसन्तो हूँकारोऽधोमुख एकस्वभावः। न सुखमयचित्तत्। चक्रद्वये लाँ हूँ मा इत्याद्यक्षराणि ज्ञानबोधिचित्तद्रावकणि। तदनु मु(सु)ख-
भावनामात्रम्।

यच्चक्राद्विनिवृत्य ज्ञानबिन्दुं मुखं परिवर्त्य प्श्यति, धर्मचक्रस्थ-
कान्तमलिङ्गाति, ओङ्कारवज्रमुखेन वायुं प्रवेशयेत् सुखस्वभावत्वेन।

अ(ओ)ङ्कारं निःसरन्तं वाय्वाकृष्टं हुँकारं प्रविश्द्वाय्वारूढं
घोलयेत्। अर्थयता निःस्वभावता यावत्। अधरदशनेऽधोदन्तपङ्क्तौ
जिह्वामारोच(प)येत्। अद्वयतो निःस्वभावता। काकतुण्डीमुखेन वायु-
निर्गमः। नरनासिकायां निर्गच्चेत्। अप्रविशेद्(शति) वायौ हं नासाग्रे
प्रज्ञपद्मनसाग्रे घोलरन्ध्राग्रे च वासति शब्दं करोति सुखरूपं बिन्दुम्।

मुखादिकं प्रथमादेव भावनया हस्तद्वयाङ्गुल्या पीडयेत्, भावना-
प्रकर्षेण मन्त्रयेत्॥

॥इति नानासिद्धोपदेशः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project