Digital Sanskrit Buddhist Canon

चक्रसंवरतन्त्रम् [Vol.1]

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Milan Shakya
  • Input Date:
    2013
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of the Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Cakrasaṃvaratantram [Vol.1]

मण्डलावतारविधिपटलः प्रथमः

ॐ नमः श्रीचक्रसंवराय।

अथातो रहस्यं वक्ष्ये समासान्न तु विस्तरात्।
श्रीहेरुकसंयोगं सर्वकामार्थसाधकम्॥ १॥

श्रीचक्रसंवरविवृतिः

नमः श्रीचक्रसंवराय।

मा ध्वङ्क्षी रागसिन्धौ मदनहर हरे मा जुषो द्वेषसर्पं
मा स्थाः सम्मोहजाले द्रुहिण बलरिपो गूह मा मत्सराग्निम्।
नैरात्म्याहेतुभूते प्रणिधिविगमने चित्तमात्रे रमध्वं
वक्त्रैरेवं चतुर्भिर्जगदवतु दिशन् हेरुकः श्रीशरीरः॥
क्षयं कुष्ठादयः क्लेशाः शारीरा मानसा गदाः।
श्रद्धायुक्तिमतां यान्ति तन्त्रेणानेन योगिनः( नाम् )॥
तन्त्रोपादेयरत्नानि परिमातुं क ईश्वरः।
अम्भोधिजलबिन्दूनां कः क्षमो गणनाविधौ॥
मन्दिरं धनदस्येव लेखोऽगम्योऽर्थमन्दिरम्।
तन्त्रं वज्रधरेणेदमुद्गीर्णमिव मानसम्॥
निक्षिप्तो मयि तस्यार्थो गुरुभिर्मन्दमेधसि।
यथा संनिधितो भस्मकूटेऽपि प्राप्यते निधिः॥
यदि सोऽसंप्रजन्येन विस्मृतायुधधारिणा।
चोरेणेव हृता न स्याद् विभ [ ज्य विवृणोम्यतः॥
दुर्ग्रहश्चैव शब्दार्थो दृढमुच्छेदबुद्धिना।
उपदेशं विना तन्त्रस्वाध्यायो घटवह्निवत्॥

यतः सर्वत्र प्रयोजनदर्शनं विना प्रवृत्तिर्न दृश्यते। तथा च -

सर्वस्य चैव शा ] स्त्रस्य कर्मणो वापि कस्यचित्।
यावत्प्रयोजनं नोक्तं तावत्तर्को न गृह्यते॥

मन्दबुद्धेरपि हि प्रयोजनमपश्यतो नोपाये प्रवृत्तिः। " नहि कार्यमनुद्दिश्य मनो( मन्दोऽ )पि हि प्रवर्तते " इति वचनात्। ततः श्रीचक्रसंवरे प्रवर्तमानानां प्रवृत्त्यङ्गतया व्याख्यातृभिस्तद्वाच्यम्। तथा चाह -

प्रयोजनं सपिण्डार्थः पदार्थः सानुसन्धिकः।
संचोद्य परिहारश्च वाच्यः सूत्रार्थवादिभिः॥ इति। (ना. सं. १.१२-१३)

तच्चाभिधानादिकथनपुरः सरं सुकथम्। किञ्च , अथात इत्यादिपदैर्भगवतैवोक्तम्। तत इह तावद् द्वयद्रुतानि पदानि व्याख्यास्यन्ते तत् कथयिष्यामः। पिण्डार्थस्तु पक्षात् सूत्रेत्यादिसाधनोक्त एव विमर्शाद् विस्तारयितव्यः, पदार्थादिकथनं च व्याख्यानक्रमेण। भाविचतुर्मुखादिरूपो महावज्रधरो देशकः। स च साक्षादेव निर्माणवस्थितः। तन्त्रं चेदमनादिकालदेश्यत्वेनावस्थितं सत्त्वानामपुण्यात्कदाचित्तिरोधत्ते , कदाचित् पुण्यात् प्रतिभाति। तच्च देश्यदेशकादिमायोपममिदं तथागतानां चरितमचिन्त्यम्। इतश्च भगवती वज्रवाराह्यध्येषिका, वज्रपाणिः संगाता। सामान्येन प्रत्यर्पितं शासनत्वात्तस्य। अथवा चतुर्मुखादि का[य]देशकदेश्यदेशनादिसकलार्थाभिधायि तन्त्रं सिद्धम्। सुगता देशयन्ति न तु कुर्वन्ति , यथा कार्यकारणादि सुखदुःखादि रागद्वेषादि सुकृतदुष्कृतादि च। उक्तं चेह -

सुभाषितं बुद्धकोटीनां वीराणां कोटिमेव च॥ इति।

अन्यत्र -

यातीतैर्भाषिता बुद्धैर्भाषिष्यन्ते ह्यनागताः।
प्रत्युत्पन्नाश्च संबुद्धा यां भाषन्ते पुनः पुनः॥
मायाजाले महातन्त्रे या चास्मिन् संप्रगीयते। इति। (ना. सं. १।१२-१३)

भाषणश्चेह देशनैव। अर्थतो ग्रन्थतश्च समानपदादिबुद्धेरनवधिकालं देश्यमानं श्रीचक्रसंवरतन्त्रमवतरति। तदेवं देशयितुकामो भगवानाह - अथात इत्यादि। भगवान् श्रीचक्रसंवराधिमुक्तानामर्थाय लक्षपरिमाणान्मूलतन्त्रात् तदाकृष्य देशयते हि संक्षेपरुचय इति वज्रवाराह्यध्येषितस्य भगवतः प्रतिवचनमेतदथात इत्यादि। अथशब्द आनन्तर्ये। अत इति ल्यब्लोपे पञ्चमी। मूलतन्त्रदेशनाया अनन्तरं मूलतन्त्रमेवाकरीकृत्य रहस्यं वक्ष्ये इति सम्बन्धः। ततो हि भाषान्तरीकर्तुं श्रीचक्रसंवरतन्त्रं शक्यम् , अत्रैव तदर्थपरिसमाप्तेः। भेदस्तु ग्रन्थसंक्षेपमात्रेण। अथवा यतो वज्रवाराह्यध्येषितोऽहमतः कारणाद्रहस्यं वक्ष्ये इति योज्यम्। तन्त्रे निगदितं शृण्विति वचनादध्येषणामेव , अनध्येषितस्य नहि धर्मदेशना श्रेयसी , उन्नत्यै धर्मदेशनाया एवाऽगौरवसम्भवात्।

अध्येषिका देवीति को नियम इति चेत् , गुरुपरम्परातो हि श्रूयते मूलतन्त्रे सैवाध्येषिकेति , तत इहापि सैवेति गम्यते। भगवानध्येषको भगवती देशिकेति केचित्। अचिन्त्यरुपो हि तथागतानामभिप्रायः। रहस्य इति। कालदेशस्वभावा असर्वजनगोचराः। कालोऽतीतादिः, स च कालविशेषः तु-इत्यादि शब्देन वाच्यः। देशः प्रदेशः, स ' रहस्य ' इत्यादिपदवाच्यः। स्वभावो निजरुपम् , तच्च श्रीहेरुकभावनास्थानसमयाचाराध्येषणपूजादिलक्षणम्। अथवा महावज्रधरो रहःशब्दवाच्यः , तस्यासर्वजनगम्यस्वभावत्वात्। अतोऽस्य विगतसामान्यजनाधिगमत्वे विजनत्वम्।
तत्र भवं रहस्यम्। तच्च चतुर्विंशतिवीरसप्तत्रिंशद्वीरिणीसमन्वितश्रीहेरुकभावनास्थानसमयाचारादि यत्किञ्चित् तत्र वाच्यम् , अत एवैतदेवाभिधेयम्। एतदेव च श्री चक्रसंवरार्थशरीरम्।

वक्ष्ये इति। अभिधानशरीरीकरिष्ये। अभिधानशरीरीकरणमेवाभिधेयप्रकाशनम् , अत एवाभिधानाभिधेययोर्वाच्यवाचकलक्षणः सम्बन्धः। अत्र चाभिधानप्रयोजनमविपरीताभिधेयप्रतिपादनम् , अभिधेयप्रयोजनमस्यैव परिज्ञातस्य साक्षात्करणम् , तस्य च प्रयोजनं देशनादिना जगदर्थकरणम्। रहःसाक्षात्कृतं परस्मै प्रतिपादयितुं शक्यम्। उपयोपेयलक्षणो वा सम्बन्धः। उपाय इह उक्तमण्डलचक्रादिलक्षणः। स चानुकूलो यथारुचि विषयोपभोग्यानामभ्यस्यमानत्वात्। उपेयमप्रतिष्ठितं निर्वाणम्।
तथा चाह -
सम्बन्धानुगुणोपायं पुरुषार्थाभिधायकम्।
परीक्षाधिकृतं वाक्यमतोऽनधिकृतं परम्॥ इति।
मया तावत् संक्षेपा[ र्थमध्येषणायां कृतायां वज्रवाराह्याः सन्देहनिराकरणार्थं तदेवोक्तमितिचेत् तदाह - समासादिति। सर्वसमुच्चयः समासस्त्वल्पार्थे। तत्र अर्थतो ग्रन्थतो वा किमितिचेदाह - न तु विस्तरादिति। न इत्यवधारणार्थे न त्वर्थसंग्रहयोः। अर्थे विचिकित्सानिवारणार्थं शब्दस्य समासः कृतो नार्थस्य। ग्रन्थसमासमात्रमभीष्टमित्यभिप्रायः। नार्थसमास इति कथं ज्ञायत ] इत्याह - विस्तरादिति। अस्मिन् विस्तरोऽभ्युपेतः, यद्यर्थ इह संक्षिप्यते तदा नाभिमतार्थसिद्धिः। खसमतन्त्रं नानुकृष्टं स्यात्। खसम एव ग्रन्थतः संक्षिप्तं श्रीचक्रसंवरतन्त्रं तदधिमुक्तानां मन्त्रम्। विषयाद्विमुक्तिवशेन हि शास्तृदेशना। तथा हि रागादिविनेयेभ्यो रागादिदेशनैव।

तथा चाह -
यथा पावकदग्धाश्च स्विद्यन्ते वह्निना पुनः।
तथा रागाग्निदग्धाश्च स्विद्यन्ते रागवह्निना॥ इति।
नान्यद् विरागसदृशं पापमस्ति त्रैधातुके।
तस्माद् हि विरागित्वं न कार्यं भवता सदा॥
रहस्यपदेन पूर्वोक्तार्थस्तमेव कियता विस्तरेण विवृण्वन्नाह - श्री इत्यादि। संवृत्या भुजमुखादिरुपयोगस्तु संयोगः। कर्मणि घञ्। श्रीकारमद्वयस्थानमभिधत्ते , हेकारो हेत्वादिशून्यताम् , रुकारोऽप्रणिधानम्। ककारो [ न ] क्वचित् स्थितमे( मि )ति श्रीहेरुक इति स्थितम्। तदाह -
श्रीकारमद्वयं ज्ञानं [ हेति ] हेत्वादिशून्यता।
क(रु)कारोऽपगतव्यूहं क इति न क्वचित् स्थितम्॥ इति।
भूयश्च - श्रीकारमद्वयं ज्ञानं हेकारो हेतुवर्जितम्।
रुकारो रुपनिर्मुक्तं ककारो करणाज्जितम्॥
रुप्यत इति रुपम्। करणमिन्द्रियादि। अथवा-
हेरनिर्जितमारारी कम्भिः पूरितदिङ्मुखः।
कल्पनाजालनिर्मुक्तो हेरुकस्तेन कीर्तितः॥
इति हेरुकः। श्रीर्वज्रवाराही, तया युक्तो हेरुकः श्रीहेरुक इति। मध्यमपदलोपी समासः। यथा ज्वरहरो मन्त्रो ज्वरमन्त्रः। संयोग एव विशेष्यविवक्षतो हि विशेष्यविशेषणभावः। श्रीहेरुकश्चासौ संयोगश्चेति स तथा। श्रीहेरुको रहस्यशब्दस्याभिधेयैकदेशः। तं वक्ष्ये इति प्राक्क्रिययैव सम्बन्धः।
स्वार्थसम्पन्नं श्रीहेरुकं निर्दिश्य परार्थसम्पद्द्वारेण तं विशेषयन्नाह - सर्वेत्यादि। सर्वेषां शत्रुमित्रोदासीनानां देवासुरादीनां वा सत्त्वानां कामा अभिलाषाः, इच्छा इति यावत्। तेषामर्थो विषयः। स चाभूतस्य सुखस्य लाभोऽभूतस्यावियोगस्याभूतस्य चाभवनमिति। तस्य साधकः साक्षात्कर्ता॥ १॥

उत्तरादपि चोत्तरं डाकिनीजालसंवरम्।
रहस्ये परमे रम्ये सर्वात्मनि सदा स्थितः॥ २॥

किमयमसाधारणः साधारणो वा साधक इत्याह - उत्तरादित्यादि। श्रेष्ठादपि श्रेष्ठः श्रीहेरुकसंयोगः। प्रवृत्त्यङ्गं हि श्रेष्ठत्व प्रसरम्। अश्रेष्ठे तदधिमुक्तानामपि श्रेष्ठप्रतिपादनादप्रवृत्तिः। न च तेषां तत्र श्रेष्ठत्वबुद्धिः, श्रेष्ठेऽपि तदधिमुक्तानामपि श्रेष्ठत्वप्रतिपादनात् प्रवृत्तिः। धर्मता ह्येषां यदसाधारणं कथ्यते। सन्त्येव ह्यन्या देवता उत्तरभूताः , ताभ्य उत्तरभूतेयं श्रीहेरुकदेवतेति भावः। अथवा अतिशयपुण्यज्ञानसम्भारयोगात् श्रावकादिभ्य उत्तरो भगवानित्यनेन स्वार्थसम्पदुपायसम्पत् प्रतिपादिता।

उत्तरोत्तरत्वमेव कुत इत्याह - डाकिनीत्यादि। डा तुं निरालम्बनं ज्ञानमात्मीकर्तुं शीलमस्या इति डाकिनी। नैरुक्तेन ककारेण डाकिनीति स्यात्। यतो ' डै वैहायसगमने ' धातुरत्र विकल्पित इति विहायसः पक्षिणस्तत्साम्योपायवन्तो विहायसः ते चेह निरालम्बं मार्गं पक्षेण क्राम्यन्ति। निरालम्बनं च ज्ञानं योगिन उपायेन साक्षात्कुर्वन्ति। तेषां ज्ञानं वैहायसम्। तत्र गमनं स्थितिः। गमिरिह
स्थित्यर्थः, स च विश्रामः। निरालम्बनं ज्ञानं साक्षात्कृत्यान्यत्र सञ्चारनिरोधः,
तदानीमन्यस्यैवाभावात् , तस्य ज्ञानस्य प्रज्ञास्वभावत्वात्। डाकिनी शून्यता, जालमुपायः। जालेन हि मत्स्यादिबन्धनसिद्धिः, उपायेन हि क्लेशमीनादिर्नियम्या किचित्करः क्रियते। ताभ्यां सं सुखम् अवद्येभ्यो बहिष्ठेभ्यो वृणोतीति डाकिनीजालसंवरः। संस्कारय सुखवाचकत्वात् सं सुखम् " सुखं समिति चाख्यातम् " इति वहनात्। योऽयं लौकिकः शंशब्दः स तालव्य एव। अथवा डाकिनीनां लामादीनां निर्माणं स्वस्मिन् दधाति इति धातुः। अनेन परार्थसम्पदुपायसम्पद्द्वारेण पदस्य सर्वत्रानुव्याख्या।

अत्र सन्धिरभिप्रायः श्रुतचिन्ताद्यावर्तनं च चोद्यम्। विपक्षत्वेन प्रश्नः , परिहारश्चोद्यनिराकरणम् उक्ते वक्ष्यमाणे प्रस्तावे स्वयमूहनीयम्। सर्वमिदं कुत्र स्थितोऽहं वक्ष्य इत्याह - रहस्यमित्यादि। रहःशब्देन ज्ञानचित्तवाक्कायश्मशानसंज्ञकाः पञ्चचक्रवर्तिन्यः सवीरा निर्वीराश्च सप्तत्रिंशद्योगिन्यः। तत्र रहसं(सि) साधु रहस्यम् , योगिनीनां स्थितौ योग्यमित्यर्थः। तच्च कूटागारम्। किमनेन इत्याह - परम इति। परमं निर्वाणम्। यथाकथञ्चित् कार्यत्वेन मात्यस्मिन्निति परमम्। अथवा परे शत्रवः, ते तु क्लेशाः। ततश्च परे मीयन्ते परिमीयन्ते लघूक्रियन्ते येन तत्परमम्। रम्यति(रम्यते) अनेनेति रम्यम् , मायावत् प्रतिभासमानत्वात्। अस्यैकदेशत्वाद् रम्यत्वेऽपि तत् साक्षाहात्कारेऽपि च न सर्वतः सुखमित्याह - सर्वात्मनीति। सर्वेषु स्थिरचलादिषु आत्मा यस्य तत् सत्वात्मेति कूटागारम्। तत्र स्थितस्ततोऽन्यत्र गतेर्निवृत्तः, तदन्यगन्तव्याभावात्। सदेत्यासंसारम्॥ २॥

सर्वडाकिनीमयः सत्त्वो वज्रसत्त्वः परं सुखम्।
असौ हि स्वयम्भूर्भगवान् वीरो डाकिनीजालसंवरम्॥ ३॥

स्थितिः स्थानम्। सम्पन्नेऽपि न स्थान्यं सम्पदित्याह - सर्वडाकिनीत्यादि। सर्वडाकिन्यो डाकिनीलामादयस्तदवयवभूताः, तासां कायानुस्मृत्युपस्थानादिस्वभावात्। तदवयवत्वेन तस्य माहात्म्यम्। अथवा " समा( सा )क्षिकं वदन् वक्ता प्रामाण्यमधिगच्छति" इति सर्वडाकिनीत्यादिना परिषदमाह। अपरार्थकारित्वान्न देशकमाहात्म्यमित्याह - सत्त्व इति। सत्त्वार्थकरणे प्रवृत्तत्वात् सत्त्वः। तथाप्यनिश्चितार्थस्य न तदित्याह - वज्रसत्त्व इति। अभेद्याशयः, अभेद्याधिमुक्तिरिति भावः। अभेद्याधि मोक्षोऽपि न शोभत इत्याह - परमेति। परार्थे रमत इति परमम्। क्रियाविशेषणमिदम्। परं यथा स्यात्तथा वज्रसत्त्व इत्यर्थः। " परमार्थविकल्पोऽपि नालमर्थप्रसिद्धये " इत्याह - सुखमिति। सुष्ठु खं शून्यम् , परमार्थापरमार्थसङ्गाभ्यां रहितत्वात्। एतदपि क्रियाविशेषणम्। स्थानादिसम्पन्नोऽहं श्रीहेरुकसंयोगं वक्ष्य इति सम्बन्धः। यदि श्रीहेरुकसंयोगो न त्वया साक्षात्कृतः, तं कथं वक्ष्यस इत्याशङ्क्याह - असावित्यादि। हिरवधारणे , असावेव श्रीहेरुकसंयोगः। स्वयमात्मनाऽहं श्रीहेरुकसंयोगं वक्ष्य इति। श्रीहेरुकसंयोगरुपे साक्षात्कृते तस्यैवोपदेशेनेति भावः। तथा च सति न त्वं गुणस्थानमित्याह - [ स्वयं ] भूरिति। दशबलवैशारद्यादीनां बुद्धगुणानां भूरहं कथमेवं स्यामित्याह- भगवानिति।

ऐश्वर्यस्य समग्रस्य रुपस्य यशसः श्रियः।
ज्ञानस्याथ प्रयत्नस्य षण्णां भग इति स्मृतिः॥ इति।

भगयोगाद् भगवान् हम्। भगवत्त्वमेव कुत इत्याह - वीर इति। क्लेशसन्त्रासजेतृत्वाद् वीरः। तथा चाह - " चतुर्णां क्लेशादिमाराणां भञ्जनात् भगवान् " इति। क्लेशस्कन्धमृत्युदेवपुत्राणां भङ्गः। भूयश्च " भञ्जनं भगमित्याह क्लेशमारादिभञ्जनात् "। क्लेशभङ्ग एव कुत इत्याह - डाकिनीत्यादि। डाकिनी प्रज्ञा, सा च धर्मप्रविचयरुपा तथतारुपा च। जालं क्लेशाः, ततो मनसः संवरो रक्षणं डाकिन्या करणभूतया जालं संवरो यत्तद् डाकिनीजालसंवरम्। डाकिनीजालसंवरं यथा स्यात् तथाह - वीरः। स च श्रीहेरुकसंयोगं वक्ष्य इत्यर्थः। तथा चाह - " प्रज्ञाबाध्याश्च ये क्लेशास्तस्मात् प्रज्ञा भगोच्यते " इति। क्लेशजयश्च तेभ्यो मनोरक्षणम् , जालस्य मोहार्थत्वेऽपि सर्वक्लेशाः संगृह्यन्ते। यतः क्लेशानां मूलमात्मदृष्टिः। तथा चाह -

सर्वासां दोषजातीनां जातिः सत्कायदर्शनात्।
सा चाविद्या ततः स्नेहस्तस्माद्दोषादि सम्भवः॥

मोहो निदानं दोषाणामेतदेवाभिधीयते।
सत्कायदृष्टेरन्यत्र तत्प्रहाणे प्रहाणतः॥ इति।

समर्थकारणसत्त्वे कार्यसत्त्वमिति भावः। सर्वडाकिनीपर्षद्भूतं श्रीहेरुकसंयोगं तादृश एवाहं वक्ष्ये इति समुदायार्थः। स्वयम्भूरिति कार्यकारणभावादिना स्वयमेव सन्निति केचित् न च कार्यकारणादिति भावः। परमार्थतः सन्न तावत् कार्यं प्रत्युत्पन्नं सदसतोरुत्पादविगमात्। यतः सतो नोत्पत्तिः, विद्यमानत्वात् , कारणाभिमतभाववत्। पुनरुत्पादश्चेत् , भावानिवृत्तिः प्रसज्येत्। अथ निवृत्तिः, पूर्वभावविनाशादपूर्वोत्पत्तौ न सत उत्पादः। तत्र पूर्वस्य विनाशोऽपूर्वस्योत्पादोऽस्तु नाम, तथापि सत उत्पत्तिः। अपूर्वस्य सत उत्पत्तिरिति चेत् , न; सतः पूर्वत्वस्य हानात्। हानौ हि पूर्वस्य सतो विद्यमानत्वादविद्यमानवदुत्पादायोग इत्यपि न सत उत्पादः। न च यदि सत उत्पत्तिर्नास्ति सदेव तत्कथम् ? न ह्यनुत्पन्नाः शशविषाणादयः सन्तः। सामर्थ्यलक्षणं हि सत्त्वम्। अर्थक्रियायामनुपयोगे नित्याः पदार्था नरविषाणादिवन्न कस्यचिदर्थक्रियार्थिन उपादेयाः। उत्पत्तौ वा सतस्तेभ्यो( स्तस्याः ) नोत्पादः, निषिद्धत्वात्। नाप्यसतः, निषेध्यमानत्वात्। न च सदसतः , परस्परपर्हारावस्थितेरेकानेकत्वाभावात्। अनुभयपक्षस्य च युगपत् सदसत्प्रतिषेधरुपत्वात्। सदसद्विपरीत्वेन न ( च ) सदसद्रूप एव पातेन पृथगसम्भवात्। सम्भवे च तस्यानित्याभिमतहेतुकार्यतायां नियमेन सत्त्वप्रसङ्गात्। सत्कार्यवादनिषेधस्य प्रस्तुतत्वात्। सतश्चोत्पादयोगादर्थक्रियोपयोगाभावे सामान्येन सर्वभावानामेकानेकस्वभाववियोगेनोत्पादनिषेधेन च निःस्वभावत्वस्य प्रतिपादयिष्यमाणत्वादनुत्पत्तिस( म )न्तोऽसन्त एव नित्याः।

अत्र प्रतिसमाधीयते - प्रागुत्पादात् सतोऽसतो वा स्यादुत्पादः ? यदि सतस्तदा न, सतः? सर्वात्मना तस्य सिद्धसत्ताकत्वात्। नाप्यसतस्तस्यापि निषेध्यमानत्वात्। अथ शक्तिरुपेण कारणात्मनि सतो व्यक्त्यात्मतयोत्पादः? सा व्यक्तिरुत्पादात्मिका किं सत्यसती वा? कारणव्यापारात् पूर्वं यदि सती, शक्तिवन्न जन्येत हेतुना पूर्वोक्तया रीत्या। अथासती, सदा सत्कार्यवादः प्रहीयेत, अस्वत्कायवादश्च प्रसज्येत। शक्तिव्यक्त्योरेकात्मकत्वे सदसत्पक्षभावी दोषः स्यात्। भिन्नात्मकत्वे तु पूर्वोक्त एव।

अथ केयं शक्तिः? किं कारणस्यात्मा कार्यस्य वा? कारणत्मकत्वे तदेवोत्पत्तेः प्राक् सत् कार्यमिति सत्कार्यवाहदहानिः। कार्यात्मकत्वे न कार्यकाले शक्तिः, तदात्मकत्वान्न प्रागिति कुतः कारणात्मनि शक्त्यात्मना सत्कार्यम् , अतो न शक्तिः। नापि व्यक्तिः संभाविनी। शक्तेः कार्यकारणाभ्यामर्थान्तरभूतत्वे तत्त्वा न्यत्वाभ्यामवाच्यत्वे न शक्तिर्न कार्यं न च कारणं स्यात्। यच्च न कार्यं न कारणं तन्न कस्यचिद वग्राहकं प्रतिघातकं चेति। न मुमुक्षूणामपरस्यापि भावजातस्य सर्वस्य कार्यकारणभावनिषेधेन प्रतिघाततया विषयत्वसिद्धौ चेतसोऽविपर्यासान्मुक्तिसिद्धेरिष्टत्वात्। न च शक्तिः शक्तिमतोऽर्थान्तरभूता स्वरुपेण घटादिवदुपलब्धिलक्षणप्राप्ता भेदेन नो( उ )पलभ्यते , नाप्यनुपलब्धिलक्षणप्राप्ता तत्कार्येण समग्रकारणेन शक्त्यभावे तद्भावे च भवता चक्षुरादिवद्विज्ञानकार्येणोन्नीयमानसत्ताका शक्यते प्रतिपादयितुम् , सद्रूपस्यैव कार्यस्य कर्तुमशक्यत्वात् , तदभावेन दृष्टान्तासिद्धेः। तत्त्वान्यत्वावाच्यापि सामान्यन्यायत्वादनेनैव क्रमेण प्रतिक्षिप्ता वेदितव्या। तथा सर्वेऽप्युनुपलब्धिलक्षणप्राप्ता वेदितव्याः।

ननूत्पादे सति सत्त्वं भावस्यात्मेति कथं सद्भावः? अथोत्पादमन्तरेण सत् परिकल्प्यते, तदोत्पादात् प्रागनुत्पन्नाभावः सन्नुक्तः स्यात्। सत्त्वार्थो हि भावनामुत्पाद इष्यते। यदि चोत्पादमन्तरेण सत्त्वं सिद्ध्यते, तदा किमुत्पादेन ? भवत्वनुत्पन्नो भाव इति चेत् , न; तत्र पूर्वाभिहिताद् दोषात्पुनरभिधास्यमानत्वाच्च। अथोत्पादात् पूर्वस्य सतः कश्चिदसन्न भागः, तदर्थतोत्पादो न निष्फल इत्ययमपि पक्षो न घटते , सत्कार्यवादप्रसङ्गात्। सदसतोरेकत्वासम्भवे सत्त्वस्यासत्त्वस्य च प्र्तसङ्गात् , तत्र दोषस्य प्रतिपादितत्वात् , व्यक्तिपक्षस्य पूर्वमेव निराकृतत्वात्। अथोपादेयः सत्तस्यासत उत्पादैति चेत् , अस्यापि पक्षस्यायुज्यमानत्वात् , तथा हि प्रथमोत्पादादेव सिद्धसर्वात्म रुपस्य सतो द्वितीयोत्पादस्य वैयर्थ्यात् , सत्कार्यवादस्य प्रकृतत्वात्। पूर्वोत्पादादपि पूर्वसतः पूर्वोत्पादायोगात् , अनुत्पन्नपक्षस्य प्रागेव निराकृतत्वादिति सर्वथा सत उत्पादो न युज्यते।

यदि सत उत्पादो नास्त्यसतस्तर्हिं किं भविष्यति ? तथा हि कललादिषु कारणेषु शतशो विकीर्यमाणेष्वपि पाणिपादाद्यवयवसमुदायात्मकं शरीरं कार्मुपलब्धिलक्षणप्राप्तं यन्नोपलभ्यतेव् तदसदेव। तथाहि रुपालोकचक्षुर्मनस्कारेषु पुरोवर्तिनीलादिरुपाकारम् चक्षुर्विज्ञानमन्यत् , श्रोत्रशब्दमनस्कारेषु वेणुवीणादिनीललोहितादिवाचकावाचकमनोज्ञामनोज्ञादिशब्दनिर्भासं न श्रोत्रविज्ञानं सत्। चम्पकवकुलादिमनोज्ञामनोज्ञमध्यमगन्धाभासं नासिकाज्ञाणं न नासागन्धमनस्कारेषु विद्यमानम्। रसनारसमनस्कारेषु कटुतिक्तकषायादिरसाभासं रसनाज्ञानमसत्। न मनःकायप्रष्टव्येषु मृदुकर्कशादिस्पोर्शप्रतिभासि कायविज्ञानमस्ति। तथा " षण्णामनन्तरातीतं विज्ञानं यद्धि तन्मनः " इति वचनाद् , अनन्तरातीतमनस्कारापरनामनीलादिरुपप्रतिभासेन परज्ञानं पृष्ठभावि नीलमेतदित्यादि विकल्पकं ज्ञानम् , न निर्विकल्पनीलादिरुपाकार एव ज्ञाने नीलादिरुपविषयमस्ति; तथा पृथक् पृथग् जनकशब्दगन्धरसस्पर्शप्रतिभासिकर्णनासारसनाकायज्ञानान्तरभावीनी शब्दादिकमवस्त्वेतदिति विकल्पकानि ज्ञानानि निर्विक्लपशब्दादिप्रतिभासिश्रोतादिज्ञानेषु न विद्यन्ते। विकल्पज्ञानं नीलं पीतमेतदित्यादिरुपं जायते। न च तत्रास्ति कारणे निर्विकल्पादपि पुरोवर्तिनीलादिरुपप्रतिभासिनः पूर्वस्मात् पूर्वस्माद् विज्ञानात् तदित्तरमुत्तरमेकसन्तानसंगृहीतद्वितीयादिक्षणभाविपुरोवर्तिनीलादिरुपक्षंअपरम्पराविषयम् विकल्पकं च ज्ञानमुत्पद्यते। न च कारणे तदस्ति। एवमन्यत्रापि विषये द्रष्टव्यम् , यत्रासि
समानजात्यीयैकसन्तानलक्षणपरम्परासंभवः। यत्र तु नास्ति सन्तानैकप्रवृत्तिः, तत्रापि सर्वथा विच्छिन्नस्यैकस्याभावेऽन्यस्य चाव्यवधानेन सन्निधानेन निर्विकल्पकमिन्द्रियज्ञानम्। शब्दादिविषयसमूहेन शब्दादिसमानाकारं पूर्वशब्दादिग्राहिणि निर्विकल्पादिन्द्रियज्ञानादुत्तरं निर्विकल्पकं सविकल्पकं च तद्विषयं जायते। न च तदस्ति कारणे यथानुमुतं घण्डाकंसनादवज्जलतरङ्गवच्च शब्दानां सन्ता नेन प्रवृत्तिरिति तन्मते न पूर्वशब्दक्षणग्राहिणः श्रोत्रेन्द्रियज्ञानादविकल्पकादुत्तरशब्दक्षणग्राहि निर्विकल्पकं श्रोत्रेन्द्रियज्ञानमन्यच्च सविकल्पकं शब्दविषयमन्यद्वा ज्ञानमुत्पद्यते। व्याख्यानकाले च
पूर्वपूर्वविकल्पादुत्तरोत्तरं विकल्पकं चेतः प्रवर्तते।

ननु प्रथममेव विकल्पकं कुतो न जातम् , यतोऽपरं सविकल्पकं जायते। नात्र नियमोऽस्ति , कदाचिदिन्द्रियज्ञानादेकस्मात् सर्वतो वा। यथा गाढप्रसुप्तस्यापातपतितदण्डसम्पर्कादुपजातस्पर्शविषयककायेन्द्रियज्ञानस्य पुरुषस्य कायेन्द्रियज्ञानाद् भवति, कदाचिद् महाशनिसन्निपाते च बुद्धस्य श्रोत्रेन्द्रियज्ञानात् , कदाचिदगरुकर्पूरचन्दनादिपरिमलासादितनासापुटविवृद्धघ्राणेन्द्रियज्ञानाद् गन्धगोचरात् , कदाचित् कटुतिक्तकषायादिद्रव्येण जिह्वायाः संपर्कादुत्पन्नरसनेन्द्रियज्ञानाद्रसविषयादविकल्पकात् , कदाचित् स्पर्शज्ञानान्तरमुन्मीलितलोचनस्य गुरुजनादिरुपमभिवीक्ष्य चक्षुरिन्द्रियज्ञानादुत्पद्यते , कदाचिदस्तमितसमस्तेन्द्रियज्ञानस्य पूर्वसविकल्पमनोराज्यादिज्ञानानुकारि सविकल्पकं ज्ञानं पुनर्विकल्पयतो जायते। तदेव युगपदिन्द्रियज्ञानतः पञ्चभ्यः षड्भ्यो वा। यथा षड्विज्ञानानन्तरं निद्रावतः पूर्वचिन्तितस्वप्ने जल्पतः कथं शशविषाणादेरिवासत उत्पत्तिः, सर्वतः सर्वोत्पत्तिप्रसङ्गात्। जगतो ह्युपत्त्यादिकं मायोपमम्।

ननु कथमवसीयते निर्विकलमिन्द्रियज्ञान न सविकल्पमिति। अत्र तावद् बहिरर्थदर्शने सौत्रान्तिकानां स्थितिपक्षे बालव्युत्पत्त्यर्थं यथास्मरणं दिङ्मात्रं किञ्चिदाख्यायते। तत्र ज्ञानं ज्ञेयं चेति द्वौ भावौ व्यवस्थितौ, तृतीयादिर्विद्यते नापरः, कर्तृकरणादीनां तत्रैवान्तर्भावात्। तथा हि ते कल्प्यमानाः प्रमाणावसायादिपूर्वकं कल्पनीयाः, प्रमाणनिबन्धनत्वात् पदार्थव्यवस्थायाः। अन्यथेदमेवं नेदमिदानीं नेदानीमिदमिति देशकालस्वभावान्तरपरिहारेण देशान्तराद्यवगमाभावाद् गाढस्वापावस्थानम् पूर्वमेव हिताहितपरिहानात्मकव्यवहारविरहितं जगत् स्यात्। ये तु नार्थक्रियाकारिणः शशविषाणादिवत् , तेऽपि न बहिरवस्थिताः। केवलमनादिविकल्पवासनोद्भूता विक्लपानिविधायिनो न परार्थिका ज्ञेय( या ) एवेति द्वावेव भावौ। तत्र ज्ञानज्ञेययोरेकात्मकत्वं नास्ति। तदात्मकत्वे तु ज्ञानमेव, ज्ञेयमेवाद्वयम्। तदपिवा न स्यादुभयापेक्षत्वाद् द्वयोः। ज्ञेयपक्षे अन्धमूकं जगत् स्यात्। ज्ञानस्यानन्यत्वे ज्ञानपक्षे तु ज्ञेयस्य ज्ञानत्वे बहिरर्थदर्शनमुत्सीदेत, न चैतदिष्टं बाह्यार्थवादिनाम्। तत्र तयोः परस्परपरिहारेणावस्थाने ज्ञानात्मनि ज्ञेयस्याप्रव्रेसाज्ज्ञानमेवापरप्रकाश्यतया प्रकाशते न ज्ञेयम् , तस्याप्रकाशात्मकत्वात्। तदात्मकत्वे पूर्वदोषप्रसङ्गात्। ज्ञानस्याऽप्यप्रकाश्यत्वे ज्ञेयभावी दोषः। परप्रकाश्यत्वेन परेऽप्यधिकं तस्य प्रकाशत्वम्। परोऽप्यपरप्रकाश्यः स्यादितरो वा। अन्यथा परेण प्रकाशितमिदमिति न स्यात्। प्रकाशितमित्येदपि न स्यात्। स्वयं प्रकाशरुपमित्येव स्यात् , तत्प्रकाशकाग्रहणे प्रकाशितत्वात्। अन्यथानुपपत्त्या तत्प्रकाशत्वप्रतीतिरपि दुर्लभा, प्रकाशकाग्रहणे प्रकाशित्वाप्रतिपत्तेः। प्रकाशितत्वग्रहणे हि तदन्यथानुपपत्त्या प्रकाशकप्रतीतिः, तत्प्रतीत्या च प्रकाशितत्वप्रतीतुरित्यन्योन्याश्रयदोषः।

किञ्च, यो हि यत्स्वभावो भावः स स्वभावेनान्यानुपरञ्जयति। यथा रागद्रव्येण संयोगाद् धवलं द्रव्यं भवति रक्तम् , एवं कृष्णद्रव्येण कृष्णं हरितेन हरितमित्यादि। प्रदीपतेजसाप्रकाशं प्रकाशसहितं रुपं भवेत्। युत्पनः स्वयमप्रकाशात्मकं तत्कथमात्मनोऽपरमप्रकाशात्मकं प्तकाशयेत्। नहि दण्डेनाप्रकाशात्मना तमसि घटादयः प्रकाश्यन्ते, प्रदीपादीनामनुपादानप्रसङ्गात्। परस्मात् प्रकाशभावमासाद्यापरं प्रकाशयेदिति चेत् , न; ततः प्रकाशभावयोगात्। तथाहि यः सोऽपरः स तावत् स्वयं प्रकाशात्मा न भवति परं कथं प्रकाशयेत्। तस्यापरतः प्रकाशभावे तस्याऽप्यपरत इत्यनवस्थानान्न किञ्चित् प्रकाश्यं प्रकाशकमित्यन्धमूकं जगत् स्यात्। ततश्चायमेवं नेदमित्यादिदेशकालस्वभावविधिनिषेधात्मव्यवहाराभावात् सर्वमेवास्तमितं स्यात्। न चैवम्। एतेनेतरपक्षो निराकृतः।

भवतु तर्हि स्वयंप्रकाशात्मकं ज्ञानम् , तथापि कथं तेन ज्ञेयं प्रकाशितं स्यात्। न हि ज्ञानस्वरुपं ज्ञेयमावहति ज्ञेयस्वरुपं वा ज्ञानम् , तयोरत्यन्तभेदादिति पूर्वं प्रतिपादितम्। अथात्यन्तभेदेऽपि यथा रागद्रव्येण शुक्लद्रव्यस्य संयोगाद् रक्तता, तमसि स्थितानां पटादीनां यथा वा दीपादिप्रभास्वरद्रव्येण सन्निधानात् प्रभास्वरता, तथा ज्ञानवतः सन्निधानाद् ज्ञेयस्य प्रकश्यतेति चेत् , न ; ज्ञानज्ञेययोरत्यन्तभेदे दृष्टान्तासिद्धिः। तथा हि दृष्टान्तो नाम ज्ञेयात्मको न ज्ञानात्मकः। तयोरत्यन्तभेदे ज्ञानान्मनि प्रकाशात्मके प्रतिभासमाने तदनात्मस्वभावो दृष्टान्तः कथं प्रतिभासेत, येन दृष्टान्तः स्यात्। सिद्धो हि प्रमाणेनार्थः स्याद् दृष्टान्तः। स च प्रमाणाद् भिन्नतया स्थितः। तस्मिन् प्रकाशमाने तदनात्मा कथं प्रकाशेत। ततो दृष्टान्तासिद्ध्या न किञ्चिदिष्टं सिद्धमिति सर्वसत्त्वबधिरादिजगत् स्यात्।

तथा हि ज्ञानमुत्पन्नमनुत्पन्नं वा ? उत्पत्तिपक्षे रुपादिकारणसद्भावः स्यात् , तदभावे च साकारं निराकारमन्याकारं [ वा ] स्यात्। तत्राद्ये पक्षे तादात्म्यतदुत्पत्तिभ्यां ज्ञेयेन ज्ञानस्य सम्बन्धो नास्ति भेदात्प्रकाशात्मना ज्ञेयस्य इति कथं कस्यचित् प्रतीतिः स्यात्। तथा ज्ञेयादनुत्पन्नस्य्त ज्ञानस्य नास्ति तदाकारतेति न तदाकारज्ञानवदेनमप्यर्थवेदनमौपचारिकं सिद्ध्यतीति सर्वथा नार्थप्रतीतिः स्यात्। नित्यानित्यसत्त्वासत्त्वपक्षास्तादात्म्यतदुत्पत्त्यभावे भेदात्तदाकारतां विहाय पूर्ववन्नार्थप्रतिपत्त्यङ्गमिति न चिन्तनीयाः। तादाम्यतदुत्पत्त्यभावे सम्बन्धान्तरकल्पना नोपपद्यते , तस्योपकारप्रभावितत्वात् , अनुपकारे पूर्वदोषप्रसङ्गात् , उपकारे वा तदुत्पत्तिपक्षप्रसङ्गात् , पश्चान्निरुपयिष्यमाणत्वात्। सर्वथाऽनुत्पन्नपक्षो नान्यप्रतिपत्तावङ्गम्।

तदभावपक्षस्तदुत्पन्नपक्ष एव। केवलं तत्र नार्थो बाह्यं कारणम्। ज्ञानमेवार्थाभासं विनाप्यर्थेनोत्पद्यते। अनादिज्ञानसन्तानप्रभावितात् समनन्तरप्रत्ययात् , स्वप्नविज्ञानवदिति विज्ञानवादिनः। तथा हि द्वारं पिधाय गृहोदरे शयितस्य निमीलितलोचनस्य गृहातिरिक्तप्रमाणमातङ्गतुरङ्गमाद्याकारं विज्ञानं विनापि मातङ्गादिभिरर्थैरुत्पद्यते। न च ते स्वप्नप्रतिभासिनोऽर्थाः करितुरङ्गादयो युज्यन्ते, चक्षुर्व्यापाराभावे तेषां प्रतिभासनात्। नहि निमीलितचक्षुषोऽन्धस्येव रुपप्रतिभासोऽस्ति। चक्षुर्व्यापारस्यापि तत्रोपलम्भ इति चेत् , सत्यमस्ति तदुपलम्भः, नहि तत्रोपलम्भाभावः साध्यतेऽपि तु चक्षुरिन्द्रियाभावः। कथमन्धस्य सुप्तस्य तदभावे स्वप्ने नीलादिरुपं प्रतिभासते, रहिते स्वप्नेऽन्यत्र वा विद्यन्ते, तेषां वह्निदग्धदेहत्वात्। कथं वा स्वल्पागारोदरे महाप्रमाणमेदिनीनभोमण्डलस्थितास्तरुगिरिसागररविबिम्बादयः प्रतीयन्ते। न हि ते तत्र प्रविष्टाः स्थिता वा, सुप्तावस्थायां प्रतिभासावात्। अविकलोपलम्भकरणा हि साधारणमर्थजातमुपलम्भन्त एव पुमांसः सर्वे। यदि च स्वप्नेऽर्थाः सन्ति, कथमुपाध्यायादयो व्याख्यायां विकुर्वाणा तत्रोपलब्धाः प्रबुद्धावस्थायां पृष्टाः परिहरन्ति ? तत् सर्वं तैस्तस्याविस्मृतित्वादिति चेत् , न; सर्वदा विस्मरणाभावात्। यदि नाम व्यर्थोऽस्ति स्वापावस्थायाम् , किमियता दृष्तान्तमात्रेण जाग्रद्दशायामर्थशून्यं विज्ञानं सिद्ध्यति। नहि तैमिरिकज्ञानं मिथ्येति वितिमिरं ज्ञानं मिथ्या स्यात्। तथा हि तद्विज्ञानमभ्रान्तं नार्थशून्यमविसंवादात्। अविसंवादश्चार्थोत्पतेरन्यर्थामन्तरेण भवतो ज्ञानादर्थप्राप्तिरविसंवादलक्षणा मिथ्या ज्ञानादि न स्यात्। सा चार्थोत्पत्तितन्वयव्यतिरेकाभ्यां साक्षादिदिन्द्रियज्ञानस्य। तथा हि तिमिरादिदोषविरहिणि चक्षुषि सति ज्ञानं तदभावे न भवति। निमीलितलोचनस्य सत्स्वपि रुपालोकमनस्कारेषु पुनरुन्मीलितो भवति। तथा सत्यालोके भवति तदभावे न भवति। सत्स्वपि अन्येषु चक्षुरादिषु करणेषु पुनः प्रदीपादिप्रकाशे भवति तथा पुरोवर्तिघटादिरुपसद्भावे भवति। तदपसारे न भवति। सत्स्वन्येष्वालोकादिषु पुनस्तद्भावे भवति तथा मनस्काराभिधाने विज्ञाने सति जायते तदभावे न भवति। सत्स्वपि घटादिष्वतिगाढनिद्रावस्थायां पुनस्तत्प्रबोधे भवति। तत्रैकैकापाये न तद्भूत ज्ञानस्योत्पत्तौ सर्वेषां सामर्थ्यमुन्मील्यते।

तथा चक्षुषस्तस्य रुपप्रवृत्तिर्न शब्दादौ, न चक्षुषा शब्दादयः प्रतीयन्ते। श्रोत्रेन्द्रियादीनां परिकल्पनायां वैयर्थप्रसङ्गाद् बधिरादीनामभावप्रसङ्गाच्च। न च शब्दादयस्तस्य जनकाः, येन तत्र ते प्रतिभासेरन्। अजनकानामपि प्रतिभासे सर्वेऽर्थाः प्रत्यक्षा इति सर्वः सर्वदर्शी स्यात्। सर्वत्रेन्द्रियज्ञानव्यवस्थेयमेवेति रुपादिबिम्बाकरं चक्षुरादिविज्ञानं जायते, न निराकारमन्याकारं वा, ताभ्यामर्थवेदनाऽसम्भवात्। तथाहि यथा स्वमुखं पुरुषस्य सर्वदाऽप्रत्यक्षम् , आलोकाद्दर्पणे तत्प्रतिबिम्बदर्शनात्तदनुभवः। प्रतिबिम्बानुभव एव स्वमुखरुपानुभवस्तस्य पुरुषस्य, न प्रतिबिम्बानुभवादन्यः साक्षादनुस्तस्य कश्चित्। तथाऽर्थवादिनां सर्वेषामेवार्थः कदाचिदपि न स्वयं प्रत्यक्षः। तस्य ज्ञानादर्शप्रतिबिम्बानुभव एव तदनुभवः। तद्दर्शनमेवार्थदर्शनम्। नहि स्वयमर्थः प्रत्यक्षः। तस्य प्रत्यक्षत्वे प्रत्यक्षात्मकत्वाद् विज्ञानस्य विज्ञानमेव विज्ञानमेव स्यान्नार्थः, तस्य प्रत्यवेक्षत्वेन ज्ञानत्वापत्तेः।

अथ अर्थ एव प्रत्यवेक्षा न विज्ञानम् , तदप्रत्यक्षत्वे सर्वाप्रत्यक्षत्वप्रसङ्गः। प्रतिबिम्बाप्रत्यक्षत्वे स्वमुखाप्रत्यक्षत्ववत् तत्प्रत्यक्षत्वायोगात्। तस्मान्नार्थः प्रत्यक्षः। तत्र यदि नीलाकारादन्याकारं विज्ञानं स्यान्न नीलाकारं तदा सद्रूपमेव तद्विज्ञानम्। तस्यैव तत्संवेदनं न नीलस्य नीलाकारविभक्तत्वात् , संवेदनस्य सदसदाकारविविक्तं न नीलविज्ञानं पीतविज्ञानं वा। यत्र यद्रूपं न तत्तस्य संवेदनं यथा पीतज्ञानं कृष्णस्य। यथा दर्पणे स्वमुखाकरं परमुखाकारविविक्तं स्वमुखस्यैव संवेदकम् , न परमुखस्य, तदाकारविविक्तत्वात्तस्य। तथान्याकारं संवेदनं न नीलाकारस्य अर्थस्य वेदनकातिप्रसङ्गात् , असंवेदनाच्च। नापि निराकारवेदनं नीलार्थवेदकम्। तद्धि सर्वार्थाकारविविक्तं सर्वप्रतिबिम्बविविक्तमिवादर्शमण्डलं कथमर्थस्य वेदकम्। नहि दर्पणतलं निखिलप्रतिबिम्बरहितं प्रतिबिम्बविरहितानां स्वमुखादीनां वेदकम्। तद्विज्ञानमपि कस्यचिदर्थस्द्य रुपमात्मन्यप्रतिबिम्बयेत्( यन् ) , कथमिवार्थाबोधकं स्यात्। न चार्थः स्वमुखमिव स्वयं प्रत्यक्षः, पूर्वोक्तदोषात्। तस्मान्नान्याकारनिराकाराभ्यामर्थसंवेदनसंभव इत्यलमतिप्रसङ्गेन, दिङ्मात्रं तु दर्शितम्। इतः परं ग्रन्थविस्तरभयान्न लिखितम्॥ ३॥

स्वंभवान्नादरुपाद् विनिष्क्रान्ताः समयाचारगोचराः।
दुर्लभं त्रिषु लोकेषु आदिमध्यान्तसंस्थितम्॥ ४॥

कुत एवंभूतः संभूतस्त्वमित्याह - संभवादित्यादि। संविभज्य देवता भवन्त्यनेन संभव आलिकालिसमवायः। तत्रापि कुत इत्याह - नादरुपादिति। नादः शब्दमात्रम्। तस्य प्रतिनिधिर्दण्डमात्रम्। तस्य रुपं स्वरुपं य्तहा स्वासने स्वरव्यञ्जनसमूहस्तदुपरि हूँकारः, तन्निष्पन्नं विश्ववज्रं वरटकोपरि नस्थ(न्यस्य) हूँकारं तदुपरि नान्तरेण( अव्यवहित )कृष्णहूँकारस्तदुपरि रक्त आःकारस्तदुपरि शुक्ल ॐकारो भाव्य इति। प्रणवादेर्निःस्वभावीक्रियमाणस्य यन्नादमात्रम् , तन्नादमात्रे तद्बिन्दावसावर्धचन्द्रः। स ॐकारे, स आःकारस्य पार्श्वबिन्दुद्वये तद्बहिः पार्श्वदण्डे, स तकारपृष्ठलग्ने पार्श्वदण्डे, स तकारे , स मस्तके , तद् हूँकारस्य नादमात्रम्। तन्नादं स बिन्दौ सोऽर्धचन्द्रे स मस्तके, ततः बिन्दौ स हकारे स हकारपूर्वार्धे स हकारो(रा) ऽपरार्धे पार्श्वदण्डयोस्तद् उकारे स विश्ववज्रस्थस्य हूँकारस्य नादमात्रम्। तन्नादं स बिन्दौ स मस्तके स हकारपूर्वार्धे स हकारो(रा)ऽपरार्धे पार्श्वदण्डयोः। स उकारे स विश्ववज्रस्य पूर्वपार्श्वस्य मध्यशूके स वामशूके, स दक्षिणपार्श्वस्य दक्षिणशूके स मध्यशूके स वामशूके , स पश्चिमपार्श्वस्य दक्षिणशूके स मध्यशूके स वामशूके, स उत्तरपार्श्वस्य दक्षिणशूके स मध्यसूके स वामशूके, स पूर्वपार्श्वस्य दक्षिणशूके स मध्यकर्णिके स शून्यतास्वरुपे प्रविष्ट इति विचिन्त्य, ततः पुनः पूर्वपार्श्वस्य दक्षिणशूके, तत उत्तरपार्श्वस्य वामस्ततो मध्ये, ततो दक्षिणे, ततः पश्चिमपार्श्वस्य वामः, ततो मध्यस्ततो दक्षिणः , ततो दक्षिणपार्श्वस्य वामहस्ततो मध्यस्ततो दक्षिणः, ततः पूर्वपार्श्वस्य वामस्ततो मध्यस्ततो वरटकस्थस्य हूँकारस्योकारस्ततो हकारस्यापरार्धपार्श्वदण्डौ ताभ्यां हकारस्य पूर्वार्धम् , ततो मस्तके त्तऽर्धचन्द्रः ततो बिन्दुः, ततो नादः, ततो नादमात्रम्। तत उकारस्ततो हकारो( रा )ऽपरार्धे पार्श्वदण्डौ, ताभ्यां पूर्वार्द्धम् , ततो मस्तकम् , ततोऽर्धचन्द्रः, ततो बिन्दुः, ततो नादः, ततो नादमात्रम्। ततस्त कारस्य मस्तकम् , ततस्त कारः, ततः पार्श्वदण्डः, ततोऽपरपार्श्वदण्डः, ततो बिन्दुद्वयम् , तत ओकारः, ततोऽर्धचन्द्रः, ततो बिन्दुः, ततो नादः, ततो नादमात्रम्। तदुद्भूता आसनस्थमूला मृणालसूत्रसूक्ष्मस्थिता भाव्यमानदेवता चाष्टहस्तपरिमाणा शुक्ला विशुद्धकर्मक्लेशवासनाधारभूता विज्ञानालम्बनप्रज्ञापारमितास्वभावप्रज्ञोपायात्मवज्रसत्त्वस्वभावा भाव्या बुद्धरेखेति। नादरुपमिति द्वयतो मायोपमत्वेन जातोऽहमिति भावः। हिरवधारणे। इत्थं द्वयादेव निष्क्रान्तो द्वादशाङ्गप्रतीत्यसमुत्पादविशुद्ध्या द्वादशभुज एव प्रकृतः। चिह्नान्युपदेशात्। वक्ष्यति वा " हस्तिचर्मावरुद्धं च" इत्यादि। न केवलमहं ततो निष्क्रान्त इत्याह - विनिष्क्रान्ता इत्यादि। समयो गोकुदहनादि, तस्याचारः सेवा। स एव गोचरो यासां डाकिनीलामादीनां ताः समयाचारगोचराः। गोचरो विषयः समयो निर्माणम्। तच्च सत्त्वार्थप्रतिबद्धमिति केचित्। निष्क्रान्तशब्दो बहुवचनान्तोऽप्ययमेकवचनान्तो वज्रधरेण सम्बन्धनीयः, विभक्तिविपरिणामात्।

किं त्वं परमार्थज्ञानस्वरुप इत्याशङ्क्याह - दुर्लभमित्यादि। प्रज्ञोपायौ द्वौ विकल्पस्तृतीय इमे त्रयः। तयोर्द्वैधेन विकल्पितत्वेन सान्निध्याद् विकल्पस्तृतीयः। यदि पश्चाद् विकल्पो न भवति प्रज्ञोपाययोरिव सुलभोऽहमिति भावः। ताभ्यामभ्यस्यमानाभ्यामनासक्तत्वेन सकलक्लेशविविक्तरुपसहजज्ञानसाक्षात्करणात्। ततो विज्ञानस्वरुपोऽहं निर्विकल्पकत्वादेव। अत आह - लोकेष्विति। लोकनं लोको दर्शनमुपलम्भ इति यावत्। ते च प्रज्ञोपायग्राह्यादुपलम्भात्। लोकशब्दादेव विकल्पो लभ्यते , उपलम्भस्य तत्प्रस्तत्वात्। अथवा आनन्दपरमविरमेषु दुर्लभः। " न विद्यते सहजं त्रिष्वे( षु " इ)ति वचनात्। शेषं पूर्ववत्। अत आह - आदीत्यादि। सविकल्पकत्वादादिमध्यान्तेषु संविभज्य स्थितो येनाहं दुर्लभः। सुलभत्वमन्वयेन बुद्धिस्थीकृत्य दुर्लभत्वमुक्तम्। भावश्चायम् - नेदं मदीयं रुपं यदुत सविकल्पं नाम , यतो निर्विकल्पमेव मे रुपम् , तादृग्ज्ञानात्मकत्वात्। तच्च दुर्लभं विक्लपेनेति , अथवा विचित्रविपाकविमर्दक्षणेषु संस्थितेषु नष्टोऽदर्शनीभूत इति यावत् , अनुभवाभावात् , ततोऽहं दुर्लभः। विलक्षणक्षणे हि सर्वोपलम्भविविक्तस्य सहजाख्यस्य ज्ञानस्यानुभवात्॥ ४॥

मन्थमन्थानसम्योगं यथा तथा मन्त्रजापध्यानादिभिर्युक्तम्।
योगं चैव विधिज्ञानं तन्त्रे निगदितं शृणु॥ ५॥

अर्थाक्षिप्तेन प्रज्ञोपाययोगेन सुलब्धं सिद्धम् , तथापि तदेव कथमित्याह - मन्थमन्थानसंयोगमिति। मन्थः प्रज्ञाभागो मन्थान उपायभागः, धर्मसंकेतात्। तौ समरसत्वेन युज्येते यत्र तत्तथा। मन्थमन्थानसंयोगं यथा भवति तथाहं सुलभः। स श्रीहेरिकसंयोगे वक्ष्य इति सम्बन्धः। सहजज्ञानस्वरुपो भगवान्। तदेव कीदृगित्याह - यथा तथेति। एतच्चतुरक्षरं वाक्यं सर्वथा-
आ इ ण अन्त ण मज्झ नहिं णो भव णो निव्वाण।
एहु सो परम महासुह णो पर णो अप्पाण॥

स्वसव्येतरपाणेस्तु वृद्धा चानामिका तथा।
ताभ्यां [ नि ]पीडयेद् योगी संभोगे लहरीद्वयम्॥
पश्चादुत्पद्यते ज्ञानं कुमारीसुरतं यथा॥

इति यथाशब्दार्थः। " चतुर्थं तत्पुनस्तथा " इति तथाशब्दार्थः। ग्रन्थभागद्वयार्थो गुरुपदेशतो बोद्धव्यः। नेह छन्दः शब्दादि विवेचनीयमार्षत्वात्। रहस्यशब्दाभिधेयं सविशेषणम्। श्रीहेरुकसंयोगमभिधाय तस्यैवाभिधेयं योगादिप्रतिपादयितुमाह - मन्त्रेत्यादि। मन्त्रा अष्टपदादयः, तेषां जप एव जापः, आवर्तनम्। ध्यानं देवताकृतिचिन्तिनम्। आदिशब्दात् कुलिकापूजा, दूत्यः, कामसिद्धिः, बोधिचित्तबिन्दुबोधिसत्त्वदिपूजा, सर्वपापविमुक्तिः, योगित्वसाधनम् , समयपालनम् , समयरक्षणम् , पञ्चामृतभक्षणम् , गणचक्रे सोमपानवत्पञ्चामृतास्वादः, द्वीन्द्रियसमापत्तिः, दिव्यसौख्यम् , प्रशंसा, गिरिगह्वारादिस्थानम् , मण्डलादीनि तत्त्वानि दश, गुरुवीरवीरेश्वरीमण्डलपूजा, शिष्यमण्दलप्रवेशः , ततोऽभिषेकदानम् , मुद्रा आचार्यपूजा,डाकिनीभुवनविजृम्भणम् , मन्त्रोद्धारः, विद्याराजकर्मप्रसरः, लौकिकाष्टसिद्धिसाधनम् , छोम्मकविधिः, कर्ममुद्रालक्षणम् , ताभ्यां भाषणगमनागमनक्रिया, डाकिनीलक्षणम् , मुद्राप्रतिमुद्रादर्शनम् , समयनामकथनम् , लौकिकलोकोत्तरा अष्टौ महासमयाः, एकत्र चरुभोजनम् , बलिदानम् , सुम्भराजमन्त्रोद्धारः, तसय् कर्मप्रसरसाधनम् , मन्त्रबिम्ब ध्यानम् , निर्विकल्पतत्त्वभावना, लोकोत्तरोत्तमः, ततश्चतुर्वक्त्रमन्त्रपदसहितवीरवीरेश्वरीनामान्तर्गतचित्तवज्रादिमन्त्रजापः, पीठादिदशभूज्मिचतुर्विंशतिस्थाननिर्देशः, निशादिग्वासादि, सप्तत्रिंशद्बोधिपाक्षिकधर्माः, ततः खण्डकपालादिचतुर्विंशतिधातुविशुद्धिः, देवीभूचरखेचर्रुपपरिवर्तनम् , सप्तत्रिंशत्कुलनाडीचक्रसञ्चारभोगलयाधिकाराः, धर्मचक्रप्रवर्तनम् , ततो निर्माणसंभोगधर्मशुद्धकायस्वभावता, शून्यताकरुणाभिन्नस्वभावता चेत्येतेषां ग्रहणम्। योगः शान्तिकपौष्टिकवश्याभिचारादिकर्मसमाधिः। विधिज्ञानमिति। विधीयत इति विधिः, सुकृतादि कर्म , तस्य ज्ञानं ज्ञातव्यत्वम् , तदस्तीति। एतच्च सूचयिष्यति-
घृतपूर्णं यथा भाण्डं स्थापितमग्निमध्यके।
द्रवन्तं द्रवते सर्पिः कालं नश्यति भाण्डयोः।
तथा नश्यति पापं च श्रीहेरुकेति नामतः॥

इति वचनेन। अथवा विधिरिहातीतानागतप्रत्युत्पन्नरुपः कालः। ज्ञानमष्टौ ज्ञानकायाः। विधिश्च ज्ञानं विधिज्ञानम्। योगं विधिज्ञानं रहस्यमित्यादिपदाभिधेयं वक्ष्य इति। सम्बन्धः। तन्त्रे खसमाख्ये निगदितं निखिलसंग्रहेण गदितं यत्तद्रहस्यादुपदाभिधेयम्। ततश्च तच्छृणु वज्रवाराहि ! तस्य साध्यत्वादिति भावः। संक्षिप्तश्च ग्रन्थस्तस्य तन्त्रस्यान्यत्सति का क्षतिः। एवमित्यादि तत्रैवोक्तत्वान्नेहोक्तम्। अपूर्वग्रन्थसंक्षेपे कथमेतदपूर्वत्वात् तस्येति चेत् , न; मूलतन्त्राभिधेयसम्बन्धेनापूर्वत्वाभावात्। " एवं मया श्रुतमिति भिक्षवो मम धर्माः संगातव्याः " इति वचनात् संगातुरेवेदानीं तेन सम्बन्ध इति चेत् , न; संगातुश्च भगवदुक्ताभिधानाभिधेयरुपेण तन्त्रसंगानात्। यदि भगवती देशिका तदा कथं स्थित इत्यादि पदयोग इति चेत् , स्थित इत्यादिपदैः श्रीहेरुकसंयोगं वक्ष्ये। स कीदृश इत्याह - " रहस्ये परमे " इत्यादि योज्यम्। तन्त्र्यतेऽनेनार्थ इति शब्दसंदोहः। अर्थ इह त्रिधा भिन्नः फलहेतूपायरुपेण। फलं वैपुल्यरुपं समन्तभद्रत्वम्। हेतोरेवाभ्यासावस्थाविशेषापन्नत्वम्। हेतुस्तु माण्डलेयदेवतासमूहः। उपायश्चतुर्भूतसमेरुकूटागारादिः। इत्थमस्य तन्त्रता। तथा चाह -
प्रबन्धस्तन्त्रमाख्यातं स प्रबन्धस्त्रिधा भवेत्।
आधाराकृत्युपायैश्च त्रिभिस्तन्त्रार्थसंग्रहः॥ इति।

रहस्यमितिपदेनातिसंक्षेपात् सकलतन्त्राभिधेयमुक्तम्। ततः श्रीहेरुकसंयोगमित्यादिना विस्तराद् विवृतिभावेनोक्तम्। इदानीमतिविस्तरादाह आतन्त्रसमाप्तेः॥ ५॥

मध्यमोत्तमश्वासेन गन्धोदकसहितेन तु।
कुलिकां पूजयेन्नित्यं कालविशेषेण तु दूतिकाः॥ ६॥

तदेवाह - मध्यमेत्यादि। मध्यम उत्तमः श्वसित्यस्मिन्ननेनेति वा श्वासः। स्थानं कालो वा। मध्यमो वह्निः, " पृथिव्यप्तेजोवायवः" इति वचनेन मध्यमोद्भूतत्वात्। मध्यमोद्भूतत्वेऽप्यु पायग्रहणं यतस्तं वक्ष्यति - उत्तमो माहेन्द्रो देवराजत्वात्। मध्यमोत्तमयोः श्वासः स्थानं कालो वेत्यर्थः। तेन कुलिकां पूजयेदिति सम्बन्धः। किं भूतेनेत्याह - गन्धेत्यादि। गन्धोऽस्यास्तीति गन्धो गन्धवाहत्वाद्वायुः। उदकमस्यास्तीत्युदको वरुणः। तयोः स्थानेन सहितो गन्धोदकसहित इति मध्यपदलोपी समासः। घृतपूर्णो घटो घृतघटो यथा। तुशब्दः पादपूरणे। ततोऽयमर्थः - कुलिका योगिनी, तां पूजयेदाराधयेत्। नित्यं सर्वकालं प्रतिदिनमित्यर्थः।

कालविशेष इति। कालविशेषेषु शुक्लप्रतिपदादिप्रहरार्धभागेषु यथोपदेशम्। शुक्लप्रतिपदमारभ्य प्रातरर्धप्रहरे पुंकारजे शिरसि ॐ कर कर प्रचण्डे हूँ हूँ फट् फडिति मन्त्रजां प्रचण्डां भावयेत्। द्वितीये जांकारजायां शिखायां ॐ कुरु कुरु चण्डाक्षि हूँ हूँ फट् फडिति मन्त्रजां चण्डाक्षीम्। तृतीये ओंकारजे दक्षिणकर्णे ॐ बन्ध बन्ध प्रभावति हूँ हूँ फडिति मत्रजां प्रभावतीम्। चतुर्थे अँकारजे मस्तकपृष्ठे ॐ त्रासय त्रासय महानासे हूँ हूँ फट् फडिति मन्त्रजां महानासाम्। पञ्चमे गोंकारजे वामकर्णे ॐ क्षोभय क्षोभय वीरमति हूँ हूँ फडिति मन्त्रजां वीरमतीम्। षष्ठे रांकारजे भ्रूमध्ये ॐ ह्रौं ह्रौं खर्वरी हूँ हूँ फडिति मन्त्रजां खर्वरीम्। सप्तमे देंकारजयोः चक्षुषोः ॐ ह्रः ह्रः लङ्केश्वरि हूँ हूँ फट् फडिति मन्त्रजां लङ्केश्वरीम्। अष्टमे माँकारजे स्कन्धद्वये ॐ फें फें द्रुमच्चाये हूँ हूँ फट् फडिति मन्त्रजां द्रुमच्चायामिति चित्तचक्रम्। देवीनामासनं वह्निमण्डलमिति दिनभागः।

रात्रेः प्रथमार्धप्रहरे काँकारजे कक्षद्वयेव् ॐ फट् फट् ऐरावति हूँ हूँ फट् फडिति मन्त्रजाम् ऐरावतीं भावयेत्। द्वितीये ओंकारजे स्तनद्वये ॐ दह दह महाभैरवे( वि ) हूँ हूँ फट् फडिति मन्त्रजां महाभैरवा( वी )म्। तृतीये त्रिंकारजां( जे ) नाभौ ॐ पच पच वायुवेगे हूँ हूँ फट् फडिति मन्त्रजां वायुवेगाम्। चतुर्थे कोंकारजे नासाग्रे ॐ भक्ष भक्ष वसरुधिरान्त्रमालावलम्बिने सुराभक्षि हूँ हूँ फट् फडिति मन्त्रजां सुराभक्षीम्। पञ्चमे कँकारजे मुखे ॐ ग्रिह्ण ग्रिह्ण सप्तपातालगतभुजङ्गं सर्पं वा तर्जय तर्जय श्यामादेवि हूँ हूँ फट् फडिति मन्त्रजां श्यामादेवीम्। षष्ठे लँकारजे कठे ॐ आकड्ढ आकड्ढ सुभद्रे हूँ हूँ फट् फडिति मन्त्रजां सुभद्राम्। सप्तमे काँकारजे हृदि ॐ ह्रीं ह्रीं करकर्णे हूँ हूँ फट् फडिति मन्त्रजां हयकर्णाम्। अष्टमे हिंकारजे मेढ्रे ॐ ज्णौं ज्णौं खगानने हूँ हूँ फट् फडिति मन्त्रजां खगाननामिति वाक्चक्रम्। देवीनामासनं वारुणमण्डलमिति रात्रिभागः।

द्वितीयायां तिथौ प्रातरधप्रहरे प्रेंकारजे लिङ्गे ॐ क्ष्माँ क्ष्माँ चक्रवेगे हूँ हूँ फट् फडिति मन्त्रजां चक्रवेगां भावयेत्। द्वितीये गृँकारजे गुदे ॐ हां हां खण्डरोहे हूँ हूँ फट् फडिति मन्त्रजां खण्डरोहाम्। तृतीये सौंकारजे उरुद्वये ॐ हीं हीं शौण्डनि हूँ हूँ फट् फडिति मन्त्रजां शौण्डिनीम्। चतुर्थे सुंकारजे जंघायुगे ॐ हूँ हूँ चक्रवर्मिणि हूँ हूँ फट् फडिति मन्त्रजां चक्रवर्मिणीम्। पञ्चमे नँकारजे पादाङ्गुलीसञ्चये ॐ किलि किलि सुवीरे हूँ हूँ फट् फडिति मन्त्रजां सुवीराम्। षष्ठे सिंकारजे पादपृष्ठद्वये ॐ सिलि सिलि महाबले हूँ हूँ फट् फडिति मन्त्रजां महाबलाम्। सप्तमे मँकारजे पादाङ्गुष्ठद्वये चिलि चिलि ( हिलि हिलि ) चक्रवर्तिनि हूँ हूँ फट् फडिति मन्त्रजां चक्रवर्तिनीम्। अष्टमे कँ ( कुँ )कारजे जानुद्वयोः( ये ) ॐ धिलि धिलि महावीर्ये हूँ हूँ फट् फडिति मन्त्रजां महावीर्यामिति कायचक्रम्। देवीनां माहेन्द्रमण्डलमासनमिति दिनभागः।

तस्यामेव रात्रौ प्रथमप्रहरद्वये प्रचण्डा - चण्डाक्षी - प्रभावती - महानासानां समीपे यथाक्रमं काकास्या - उलूकास्या - श्वानास्या - शूकरास्याः। द्वितीयप्रहरद्वये वीरमतीखर्वरी - लङ्केश्वरी - द्रुमच्छायानां समीपे यथाक्रमं यमदाढी - यमदूती - यमदंष्ट्रिणी - यममथन्यो भाव्याः। एवं पुनस्तृतीयायास्तिथेश्चित्तवाक्चक्राभ्यामहोरात्रः। ततश्चतुर्थ्याः कायश्मशानचक्राभ्यां यातीति द्वात्रिंशद्योगिनीसंचारः। एवं पञ्चम्यादिषु ज्ञेयः। श्रीहेरुको डाकिन्यादयश्चतस्त्रो योगिन्यो विज्ञानचक्रम्। आसां च संचारो नास्त्युपदेशाभावात्। षण्मासान् यावद्भावनाजपौ विधाय निमित्तमासाद्य ततो योगिनीसंचारः साप्तमासिको योगिना विधेयः। एवं यद्यसिद्धिस्तदा पुनस्तथैव भाव्यः। इत्थं षट्त्रिंशन्मासैर्नियमेन सिद्ध्यतीत्युपदेशः। सादरनिरन्तराभ्यासो वार्षिकः। ततः षण्मासाद्यभ्यास इति क्रमः। अग्न्यादियोगोऽप्यभिचारादेस्तथैव ज्ञेयः। यथा अभिचारे चित्तचक्रस्य वह्निक्षणे , शान्तिके वाक्चक्रस्य वरुणक्षणे, पौष्टिके कायचक्रस्य माहेन्द्रक्षणे उच्चाटने श्मशानचक्रस्य वायुक्षणे योगिनीनामन्यतमा भाव्या। आग्नेयश्चतुरङ्गुलो वायुः, माहेन्द्रो दशाङ्गुलो वायुः, वायव्यः षडङ्गुलः, वारुणो द्वादशाङ्गुलः। " अग्नीन्द्रवायुवारुणानां चतुः- दश - षड् - द्वादशभिरङ्गुलिभिर्निर्गमस्थाननियमः " इति वचनात्। किञ्च , ऊर्ध्व उष्णो वह्नेर्वायुः, नातिशीतो नात्युष्णः पूरितनासापुटो माहेन्द्रस्य, तिर्यग्रूक्षश्च वायोः, वारुणस्यातिशीतोऽधो वहति। अग्न्यादिमण्डलं तु तत्राग्नेस्त्र्यस्त्रं रक्तं सप्तशिखाङ्कम् , माहेन्द्रस्य चतुरस्त्रं पीतं वज्राङ्कम् , वायोर्धन्वाभं नीलं पता[ का ]ङ्कम् , वरुणस्य पर्तिमण्डलं घण्टाङ्कं शुक्लं वायोर्निर्गमेनाग्न्यादक्षिणाः। कुलिकापूजां दर्शयता सिद्धिरादौ दर्शिता, तस्या एव साध्यत्वेन प्राधान्यात्॥ ६॥

दूतयोः सहजाः सिद्धा अधमोत्तममध्यमाः।
अन्तर्गतेन मनसा काम सिद्धिं तु भावयेत्॥ ७॥

कुलिकाः कियत्य इत्याह - दूतय इत्यादि। पूर्वकुलिकामिति जातिमात्रेणैकवचनम्। ततश्च दूयन्ते सत्त्वदुःखेन तप्यन्त इति दूतय इति बहुवचनम्। कुलिका दूतय इति पर्यायकथनम्। ताः सहजा भगवतः प्रकृतिसमा डाकिन्यादयश्चतस्त्रः। ता इति तस्य ज्ञानस्वभावाः। सिद्धा इति यमदाढ्यादयोऽष्टौ योगिन्यः। अधमाः कायचक्रगाः पातालवासिन्यः। मध्यमा वाक्चक्रगा भूचर्यः। उत्तमाश्चित्तचक्रगाः खेचर्यः।
इत्येताः षट्त्रिंशद् योगिन्य एव पूज्या इति भावः। कायबहिर्मण्डलाभ्यां साध्यः श्रीहेरुक इति सिद्धम्। किमभ्यासवता भाव्या इत्याह - अन्तरित्यादि। कामा रुपशब्दादयः, तेभ्यस्तैर्वा श्रीहेरुकासिद्धिः। भावयेद् भावं स्वसत्त्वां करोतीत्यर्थः। कामसिद्धिः सती भवतीति यावत् , " रुपशब्दादयः कामाः " इति वचनात्। कथमेवमित्याह - मनसेति। विज्ञानेनेत्यर्थः। " चित्तं मनोऽथ विज्ञानं विज्ञप्तिः " इति वचनात्। अन्तर्गतेनेति। स्वाभिन्नश्रीहेरुकरुपेण चित्तेनेत्यर्थः। सर्वकामोपभोगेन श्रीहेरुकयोगी सिद्ध्यतीत्याशयः। तथा चाह - " सर्वकामोपभोगैस्तु स्वेवयंश्चाथ( शु ) सिद्ध्यति " इति। अतस्तुशब्द एवकारार्थः, निष्क्रयस्य साध्यसिद्धेरभावात्। भावनारुपा मनोमयी। रुपादिविषयोपभोगलक्षणा बहिः पूजा॥ ७॥

स्वरेतोबिन्दुभिर्बुद्धान् बोधिसत्त्वांश्च पूजयेत्।
दर्शनस्पर्शनाभ्यां च श्रवणस्मरणेन च॥ ८॥

साक्षात्पूजामाह- स्वरेत इत्यादि। बहिःप्रज्ञायां तन्त्रान्तरोक्तलक्षणायां पूजार्थं बोधिचित्तमुत्पादयेत्। तस्योभयसमापत्तिं तस्य बिन्दुभिरमृतास्वादरुपेण विशोध्य भुक्तेर्बुद्धान् रुपवेदनादीन् पञ्चस्कन्धान् बोधिसत्त्वांश्चक्षुरादिरुपान् पूजयेत्। एवं त्रिसन्ध्यमनुष्ठेयमिति साक्षात्पूजा। तदाह-

गुह्यशुक्रं विशालाक्षो भक्षयेद् दृढबुद्धिमान्।
इदं तत्सर्वमन्त्राणां कायवाक्चित्तपूजनम्॥ इति।

गुह्यपूजा तु सहजसंवेदनम् , चतुःपूजासंपत्त्या सिद्ध्यतीति भावः। अनेन योगेन पूर्वोपचितस्य पापस्य पुण्यस्य च ग्राह्याद्यभिनिविष्टस्य नाशादपूर्वमेवानभिनिवेशसम्पन्नं पुण्यम्। ततः सिद्धिराह - दर्शनेत्यादि। दर्शनं चक्षुषोपलम्भः, स्पर्शनं कायेन्द्रियेण, श्रवणं श्रवणेन्द्रियेण, स्मरणं मन इन्द्रियेणेति॥ ८॥

मुच्यते सर्वपापैस्तु एवमेव न संशयः।
योगित्वं परमं पुण्यं पवित्रं पापनाशनम्॥ ९॥

एभिः श्रीहेरुकसम्बन्धिभिः करणभूतैः पुरुषोऽन्योऽपि मुच्यते त्यज्यते, सर्वपापैर्निश्शेषकायादिदुश्चरितैः कर्तृभूतैः। निष्पापयोगा निष्पापता। एवमेवेति। एतदेव पर्यायोक्तमित्यर्थः। एतत् किं सत्यमित्याह- न संशय इति। नात्र द्वैधमित्यर्थः। दर्शनादिना ग्राह्याद्यभिनिविष्टेन मुच्यते, सहजगुह्यवेदनक्षणयोगात्। इतीयं गुह्यपूजा। तत्र चैवमेवेति त्रैधातुकमेव न किञ्चिदित्यर्थः। न संशय इति कल्पनाया अभावादिति केचित्। योगिदर्शनादेव कथमिदमित्याह - योगित्वमिति श्रीहेरुकयोगित्वम्। परममिति दर्शनमात्रादेव सर्वपापहारित्वात्। अत एव पुनातीति पुण्यम्। पवित्रमिति क्लेशमलरहितत्वात्। पापनाशनमिति पञ्चानन्तर्यादिविनाशकत्वात्॥ ९॥

सिद्ध्यते जपमन्त्रेण जापेन ध्यानेन च।
समयान् पालयेन्नित्यं साधकः सुसमाहितः॥ १०॥

भावयेदित्युद्दिष्टस्य निर्देशमाह - सिद्ध्यत इत्यादि। सिद्ध्यत इतीकारस्थान एकारो विकृतः, साक्षाद्भवतीत्यर्थः। जपेति तृतीयालोपे, स च मानसो व्यापारः, तेन मन्यते धर्मधातुं त्रायते लोकधातुमिति प्रज्ञोपायात्मकः श्रीहेरुको मन्त्रः सिद्ध्यति। मन्त्रेणेति प्रथमार्थे तृतीया। जापेनेति वाचो व्यापारो दर्शितः। ध्यानेनेति चेतसो व्यापारः, प्रज्ञोपायात्मकत्वेन कायस्य व्यापारः। जपादिकं केन सहकारिणा सफलमित्याह - समयानित्यादि। समया उक्ताः, नित्यभावेऽपि तेषां भावनयाऽप्युपयोग इति भावः। तथा चोक्तम्-

इदं ते नारकं वारि समयातिक्रमाद् दहेत्॥ इति।

समयाचारगोचरा इत्यस्य निर्देशः। साधकः इति। साधको हि नित्यं भावनां च कुर्वाणो गोकुदहनानां पञ्चामृतस्य च वटिकां भावनारम्भे भक्षयेत्। तेन हि निर्विघ्नता [ भवति ]। सुसमाहित इति। सुष्ठु समेन वैषम्यरहितेन प्रज्ञोपायात्मकेन योगेन समन्ताद्धितः पुष्टः। समयश्चान्यत्रोक्तः। तथा चाह -

नादिं गादिं तथा हादिमन्तश्वमादिश्वं च [ वा ]॥ इति॥ १०॥

भेदेन समयानां तु न दीक्षामण्डले सिद्धिरवाप्यते।
मधु रक्तं सकर्पूरं रक्तचन्दनयोजितम्॥ ११॥

तत्रापि कथमेवं गूढसंकेत इत्याह - भेदेनेत्यादि। भेदोऽसमयप्रज्ञप्रतिपत्तिः। तुर्यस्मादर्थे। भेदेन हि वस्तुतत्त्वापरिज्ञातॄणां प्रतिक्षेपादुभयावद्यम्। ततो न सिद्धिर्न साधकः। तन्त्रमन्त्रनयसंदोहेन सिद्धिरिति भावः। " न मन्त्रमण्डले सिद्धिरवाप्यत " इति पाठे मन्त्रेण तत्त्वचोदनभाषणेन मण्डलं ( मण्डं ) बोधिं लाति येन तत्तथा। मन्त्रमहायानमिति व्याख्येयम्। सर्वत्र च समयः सेव्यः, तद्भेदश्च न कार्य इतीयं साक्षात्पूजा।

अपरां पञ्चामृतसेवारुपां साक्षात्पूजामाह - मध्वित्यादि। मधु सार्धर्म्यात् मधु शुक्रम् , संयोगे त्रिदोषघ्नत्वेन संकेतितत्वात्। रक्तं प्रसिद्धम्। कं सुखं शरीरे पूरयतीति कर्पूरम्। वर्णागमविनाशाभ्यां सिद्धिं( द्धिः ) , तच्च मांसम्। रस्यतेऽन्नादीति रक्तं मूत्रम्। चन्दनमाह्लादकर्तत्वाद्वैरोचनः॥ ११॥

गणमध्ये प्रतिष्ठं तु सर्ववज्राङ्कचिह्नधृक्।
अनामाङ्गुष्ठवक्राभ्यां लेहयेद्योगवित् सदा॥ १२॥

गणमध्ये गणचक्रमध्ये। मध्येशब्दः सामान्यसम्बन्धप्रतिपादकः। प्रतिष्ठित इति प्रतिष्ठम्। तुरेवार्थः। किमाधारं तदित्याह - सर्वेत्यादि। सर्वं वज्रं विश्ववज्रम् , रदेवाङ्कचिह्नमस्येति सर्ववज्राङ्कचिह्नम् , तच्च कपालम् , तत्र ध्रियत इति तत्तथा। कथमुपयोक्तव्यमित्याह - अनामेत्यादि। वक्त्रे लिह्यत इति लेहम्। तत्कुर्यात् , लेहयेत्। योगविदिति अमृतास्वादयोगवित् , चित्तमात्रसमापत्तिमानिति वा। सदेति। माण्डलेयदेवतापरिषदा सह पञ्चामृतं भक्षयेदित्यर्थः॥ १२॥

सोमपानवदास्वाद्य सिद्धिमाप्नोति शाश्वतीम्।
पञ्चामृतं भवेदत्र सर्वसिद्धिप्रवर्तकम्॥ १३॥

इह विचिकित्सा न कार्येत्याह - सोमेत्यादि। विप्राणां यागकाले कालिङ्गलतारसं कपिलगौचर्मणि निधापयेत्। स च सोमः, तस्य पानं तच्चायुष्यं पुण्यवर्धनम्। विप्रैर्यथा निःसंशयैः सोम आस्वाद्यते, तथा पञ्चामृतमास्वाद्य योगी सिद्धिमाप्नोति शाश्वतीम्। शाश्वत फलदात्मकत्वान्निर्विचिकित्सास्वादनमात्रेण दृष्टान्तः, न तु फलेन। यथाह -

विण्मूत्रशुक्ररक्तानां जुगुप्सां नैव कारयेत्।
भक्षयेद् विधिना नित्यमिदं कार्यं त्रिगुह्यजम्॥ इति।

एतन्मध्वादि किमुच्यत इत्याह - पञ्चेत्यादि। पञ्चानाममृतानां समाहारः पञ्चामृतम्। देवतायोगेन विचिकित्सारहितत्वेनामृतास्वादविधिना चास्वाद्य सर्वमन्नपानादिकममृतं भवेदिति समुदायार्थः । कथमेतच्छाश्वतसिद्ध्यावाहकमित्याह - सर्वेत्यादि। सर्वलौकिकलोकोत्तराः सिद्धीः प्रवर्तयतीति तत्तथा॥ १३॥

चतुष्पूजा तथा वीरा मनसेप्सितयोगिन्यः।
वीराद्वयसमापत्ति समापन्नं च तत्त्वधृक्॥ १४॥

उद्देशनिर्देश पिण्डार्थमाह - चतुरित्यादि। चतस्त्रः पूजाश्चतुष्पूजा इत्यस्यार्थः, बाह्यगुह्यमनोमौसाक्षाद्भावभेदेन ता उक्ताः। अत आह - तथेति। " मध्यम् " इत्यादिना प्रकारेण निर्दिष्टा इत्यर्थः। योगिन्य इति डाकिन्यादयश्चतस्त्रः काकास्यादयोऽष्टौ च। वीरैरद्वयेन रुपेण समापत्तिर्यासां ता वीराद्वयसमापत्तिशब्दार्थः, विभक्तिलोपात्। समापन्नं यथा भवति तथा। तत्त्वं वज्रवाराह्यभिन्नं स्वभावं धारयतीति तत्त्वधृक्। तुकस्तकारेण ककारे चणः। श्रीहेरुकसंयोग इति स उद्दिष्टः॥ १४॥

दिव्यमानुष्यतासौख्यं पिण्डीकृत्य तदेव च।
तदेव वज्रकणिकया कलां नार्घन्ति षोडशीम्॥ १५॥

दिवि भवं दिव्यम् , तच्च सुखम् , मानुष्यमस्यास्तीति प्रकृतिर्मानुष्यता, सा च सुखस्वभावेऽद्वये सति सिद्धा। कथं सुखं लभ्यत इत्याह - सौख्यमिति। सुखं चेतसः सौस्थित्यं तदेव सौख्यम् , तच्च नरकप्रेततिर्यग्गतिगानां सामान्यम्। पिण्डमभिन्नम्। वज्रं निर्मला बुद्धिः, तदेव कणिका सूक्ष्मत्वात्। वज्रं च कणिका चेति वज्रकणिका, सहजं ज्ञानमित्यर्थः। दिव्यं मानुष्यतां सौख्यं चाभिन्नीकृत्य स्थितया करणभूतया वज्रकणिकया षोडशीं कलामपि नार्घन्ति न पूजयन्ति , क्लेशा इति शेषः। अस्योपायस्य क्लेशविजयसाध्यत्वाद् यथा तथेत्युद्दिष्टस्य पिण्डत्वेन निर्देशः॥ १५॥

गिरिगह्वरकुञ्जेषु महोदधितटेषु वा।
आदिसिद्धे श्मशाने च तत् मण्डलमालिखेत्॥ १६॥

इति हेरुकाभिधाने मण्डलावतार[ विधि ]पटलः प्रथमः॥ १॥

अभिषेकमन्तरेण न सिद्धिः। स च मण्डलप्रवेशं विना नास्तीत्याह - गिरीत्यादि। गिरिः पर्वतः। गह्वरशब्देन तद्भित्तिद्वयान्तरम्। कुञ्जशब्देन लतादिपिहितः प्रदेशः। महोदधितटा द्वीपाः। आदिसिद्ध इति। आदौ सिद्धा यत्र प्रदेशे स तथा। श्मशानं शवनिलयः। तत्रेति निमित्तसप्तमीयम्। अभिषेकार्थं मण्डलमालिखेदिति॥ १६॥

इतिशब्दः पटलार्थसमाप्तौ। श्रीहेरुकस्य साङ्गोपाङ्गस्याभिधीयतेऽनेनेत्यभिधानं तन्त्रं शब्दशरीरम्। तत्र मण्डलावतारविधिपटलः। अवतरत्यनेनेत्यवतारः, स एव विधीयत इति विधिः श्रीहेरुकादिमण्डलावतारविधिः, तदभिधायकः पटलो ग्रन्थपरिच्छेदः प्रथम एकः।

इति श्रीचक्रसंवरविवृतौ प्रथमः पटलः॥ १॥

चक्रपूजाविधिपटलो द्वितीयः

तत्रापातगोमयेन मण्डलभूमिं प्रलेपयेत्।
श्मशानभस्मना युक्तं पञ्चामृतसमन्वितम्॥ १॥
मण्डलमाह - तत्रेत्यादि।
यस्मिन् कर्मणि विद्यन्ते न कर्मविधयः स्वकाः।
तत्र सामान्यतन्त्रोक्तो विधिराश्रीयते बुधैः॥

इति सामान्यतन्त्रोक्तो न्यायः। इह तु कश्चित् साधारणो विधिरुक्त इति, तत्रेत्यादिनाह - तत्रेति। मण्डलवर्तनार्थमपातगोमयेन वैरोचनेन गिरिगह्वरादिषु मण्डलार्थं भूमिं मण्डलभूमिं स्थानमुपलेपयेत् , शिष्येणाचार्यः। पुनस्तदुपरि श्मशानभस्मादिना लेपयेदित्याह - श्मशानभस्मना युक्तं पञ्चामृतसमन्वितं च यथा स्यात् तथा॥ १॥

उपलिप्य ततो भूमिं तत्र मण्डलमारभेत्।
[ ततस्तद्भावनां कृत्वा ] श्मशानं तु समाचरेत्॥ २॥

अपातगोमयलेपानन्तरं भूमिमुपलिप्य मण्डलमारभेदितिसम्बन्धः। अपातगोमयलेपानन्तरं श्मशानभस्मादिलेपः। तथापि कुतोऽनन्तरं मण्डलारम्भ इत्याह - तत इति। रक्षाचक्राद्यनन्तरम्। श्मशानं तु समाचरेदिति। श्मशानादेरन्यत्र यदि मण्डलवर्तनं तदा तत्र श्मशानं भावयेदिति भावः॥ २॥

चित्यङ्गारचूर्णेन श्मशानेष्टकसंयुतम्।
आलिखेन्मण्डलं दिव्यमाचार्यः सर्वलक्षणम्॥ ३॥

रज आह- चित्यङ्गारेत्यादि। श्मशानेष्टकमिति। चितिः मृत्तिका श्मशानेष्टकाभावनयापि तत्सम्पादनम्। चित्यङ्गारश्मशानेष्टकरजसा श्मशानमारभेदिति केचित्। इष्टकायां ह्रस्वत्वम्। कृष्णं पीतञ्च रजोद्वयम्। असर्वजनगोचरत्वाद्दिव्यम्। आचार्य इति -

सद्धर्माध्यापको यश्च व्याख्याता चोपदेशदः।
अभिषेक्ता कर्मकर्ता चान्यः( चाचार्यः ) सदुदाहृतः॥
इत्युक्तलक्षणः। विशेषेण गुरुरेव। " गुरुराचार्यशब्देन पण्डितैः परिगद्यते " इति यावत्। इदं चाभिषेकार्थं पुण्यत्वं वा। यदि मण्डलवर्तनं सिद्ध्यर्थं चेदालिखेद् योगी। स च सुष्ठु सर्वलक्षणम्॥ ३॥

सम्यग्ज्ञान तन्त्रज्ञः श्रीहेरुक गुह्यमन्त्रवित्।
अक्रोधश्च शुचिर्दक्षो योगज्ञो ज्ञानपारगः॥ ४॥

विशेषणद्वारेण लक्षणमाह - सम्यगित्यादि। सम्यगविपरीतं ग्राह्यादिरहितं ज्ञानमस्येति सम्यग्ज्ञानः। स चासौ संवरादितन्त्रज्ञश्चेति सम्यग्ज्ञानतन्त्रज्ञः। श्रीहेरुकमन्त्रज्ञ इति। श्रीहेरुकश्चाष्टपदादयो मन्त्राश्च, तान् यथोपदेशं जानातीति स, तथा। श्रीहेरुकस्य सततमन्त्रजापी वा। वर्तमानमपकारमार्गस्य चेतस आध्यातः क्रोधः, तदभावादक्रोधः। शुचिरिति कौकृत्यमलरहितः। दक्षः कुशलोत्साही। योगः शान्तिकादिस्तस्य पारः पर्यन्तस्तद्गतवानिति योगपारगः॥ ४॥

कपालकृतमूर्धजो [ भस्मानुलिप्ताङ्गकः ] सम्भवान् मात्रैर्विभूषितगात्रः, अस्थि मलास्थिसंस्थितश्च एकखण्डीकृतमूर्धजः॥ ५॥

कपालैः पञ्चभिः कृतं शेखरं येन स कपालकृतमूर्धजः। भस्मना श्मशानिकेन चानुबन्धिकेनानिलिप्तमङ्गं येन स भस्मानुलिप्ताङ्गः। संभवान्मात्रैर्विभूषितगात्रस्थितिः। विद्यमानत्वान्निरंशुकैः विशेषेण भूषितं गात्रं येन स तथा। अस्थीति मलन्त इति अस्थिमलाः सत्त्वाः, तेषामस्थीति तेषु संस्थित उपविष्टः। किञ्च सम्भवान्मात्रशब्देन रत्नसम्भवमिश्रोऽमिताभ उच्यते, तेन कृताङ्गराग इति केचित्। तत्रास्थीत्यादिना आभरणमेवोच्यते। एकखण्डीकृतमूर्धज इति। खण्डः प्रदेशः। एकः खण्डो येषां ते तथा। एकखण्डीकृता मूर्धजा येन स तथा। अन्यकेशकृतमुकुट इत्यर्थः॥ ५॥

अस्थिमालावलम्बी च खट्वाङ्गकरसंस्थितः।
आत्मानं श्रीहेरुकं ध्यात्वा श्रीहेरुकं ततः स्मरेत्॥ ६॥

अस्थिमालाया अवलम्बो यज्ञोपवीतं सोऽस्यास्तीत्यस्थिमालावलम्बी। चकारः समुच्चये। खट्वाङ्गधारिणा वामेन करेण सम्यक् स्थित इति खट्वाङ्गकरसंस्थितः। इत्याभरणादिद्वारेण विशेषेण जातम्। एवंभूतो यथोपदेशं समाण्डलेयदैवत श्रीहेरुकमात्मानं ध्यात्वा श्रीहेरुकं स्मरेत्॥ ६॥

[ एवं प्रदर्श्य समयं ] चक्रमस्य हृदि न्यसेय्।
एवं सन्नह्यमात्मानं प्राकारं दिक्षु भावयेत्॥ ७॥

एवमिति। समाण्डलेयदैवतं श्रीहेरुकं ज्ञानात्मकं तादृशं समयं श्रीहेरुके प्रदर्शयेत्। चक्रमस्य हृदि न्यसेदिति। अस्येति हेरुकीभूतस्यात्मनः। हृदि काये। ततोऽयमर्थः- प्रचण्डादिदेवीः खण्डकपालादींश्च वीरान् स्वकाये पुल्लीरमलयादौनखदन्तादौ च न्यसेदिति। असतिर्गत्यर्थो भौवादिकः। एवं संनेह्येति। आत्मानं श्रीहेरुकं कृत्वा वर्तितव्यस्य रजोमण्डलस्य बहिः प्रागेव प्राकारं दिक्षु भावयेत्। मनुते ज्ञानमात्रीभवतीति निरुक्तविधिना मकारो हल्। एतदात्मनो विशेषणम्। ज्ञानमात्रमात्मानं श्रीहेरुकीकृत्येत्यर्थः। परमार्थतो ज्ञानमात्रमेवेदमिति भावः॥ ७॥

एवं सन्नह्यमात्मानमधो ह्यस्त्रं विनिवेशयेत्।
चक्रस्य सममात्मानमूर्ध्वं तु शरजालकम्॥ ८॥

श्रीहेरुकमेव कथं भावयेदित्याह - एवं संनह्यमात्मानमिति। मकारः पूर्ववम्। स्कन्धादिशुद्ध्यादिनाऽऽत्मानं लब्धारम्भं कृत्वा श्रीहेरुकम् , विनिवेशयेदिति क्रिया। अधो ह्यस्त्रमिति। अधो ह्यस्त्रमपि विनिवेशयेत्। ऊर्ध्वं शरजालकं चक्रस्य। ततः समाण्डलेयदेवतां श्रीहेरुकं निवेशयेत्॥ ८॥

आत्मनः खेचरं पञ्जरं कृत्वाऽऽत्मानं सुसमाहितः।
एवं सन्नह्य सकवचमभेद्यस्त्रिदशैरपि॥ ९॥

आत्मन उपरि खेचरं वज्रं तन्मयं पञ्जरं च कृत्वा श्रीहेरुकं निवेशयेदिति सम्बन्धः। सकवचत्वं च श्रीहेरुकनिष्पत्तौ षड्वीरादिमन्त्रकवचविधिः॥ ९॥

एवं सुरक्षात्मानं मुद्रामन्त्रैरलङ्कृतम्।
आलिखेन्मण्डलं घोरं महासिद्धिप्रदायकम्॥ १०॥

एवं सुरक्षमात्मानमिति। नैरुक्तो मकारः। पूर्ववत्। मुद्रा वज्रवाराही। मन्त्रा मूलमन्त्रादयः। अथवा मुद्रा चिह्नमुद्रा। मन्त्राः करकरादिमन्त्रस्य ॐ कर - कर हूँ हूँ फट् फडित्यादयो विभक्तावयवाः। एवमात्मानं सुरक्षामण्डलमालिखेदिति सम्बन्धः। श्रुतिस्मृत्यादिव्यवहारविमुखत्वाद् घोरम्। महेत्यादिना सिद्ध्यर्थमपि मण्डलं वर्तयेदिति दर्शयति। पूर्वोक्तेन विधिना सादरनिरन्तरभावनापर्यन्तेन मण्डलपूर्वकमहोरात्रेण जापादिना सिद्धिं साधयेदिति भावः॥ १०॥

ततो मृतकसूत्रेण महारुधि रार्चितेन वा।
सूत्रयेन्मण्डलं घोरं हेरुकस्य परं पुरम्॥ ११॥

एकहस्तं चतुरष्टं चतुरस्त्रं समन्ततः।
चतुर्द्वारसमाकीर्णं चतुस्तोरणभूषितम्॥ १२॥

घोरत्वनिमित्तमाह - तत इत्यादि। पान( अपात )गोमयलेपवज्रपञ्जराद्यनन्तरम्। महारुधिरार्चितेन वेति। मृतकखट्वाङ्गवेष्टितस्वभावत्वात्। घोरमिति। श्मशानपरिवृतत्वात्। श्रीहेरुकशब्दार्थविवृत्या मण्डलनैरात्म्यदर्शनाद्बालानां भयजनकत्वाद् वा। पां पुरमिति। श्रीहेरुकस्य निजत्वात्। चतुरष्टं चेति। चत्वारोऽष्तौ वा हस्ताः परिमाणमस्येति तत्तथा। शेषं सुगमम्॥ ११-१२॥

विचरेद् द्विगुणं मन्त्री पूजयेद् डाकिनीजालसंवरम्।
तस्य मध्ये पद्यं प्रतिष्ठाप्य सपत्रं कर्णिकोज्ज्वलम्॥
पुष्करैश्च केसरान्वितम्॥ १३॥

विचरेद् द्विगुणमिति। द्विहस्तमष्टहस्तं षोडशहस्तं चेति। सुत्रस्य विशेषणमिदम्। चक्रद्विगुणत्वं सूत्रस्येति प्रतिपादितम्। मन्त्रीति जप्तविद्यः। तस्य मण्दलस्य मध्ये डाकिनीजालसंवरं पूजयेदित्यर्थः। किं कृत्वेत्याह - प्रतिष्ठाप्येत्यादि। सह विश्ववर्णैः पत्रैर्वर्तत इति सपत्रम्। किं तदित्याह - कर्णिकोज्ज्वलमिति। इयं विश्वपद्यस्य संज्ञा। पुष्करैर्बीजकोशैर्लक्षितम्। बहुवचनं स्फरणेन बहुत्वात्। चकारात् सुविकसितत्वादि। केसरं किञ्जल्कम् , तेनानुरुपवेष्टनं तेनेदं प्राप्तम्। परिपूर्णकेसरमिति भावः। शेषं सुबोधम्॥ १३॥

कर्णिकायां न्यसेद्वीरं महाभैरवभीषणम्।
तेजस्कं तु सुदीप्ताङ्गमट्टहासमहारवम्॥ १४॥

महारौरावादिनरकपलादिभ्योऽपि भयजनकत्वाद् भीषणः। तेजस्करोतीति तेजस्कः। तुर्यस्मादर्थे। तेजस्कत्वात्सुदीप्तः। सुदीप्तं चेति पाठे चकारः पादपूरणे। अट्टहासमहारवमिति। अलीकनिर्माणेन कुतूहलादट्टाट्टहासरुपो महारवो गगनव्यापको मुखरवो यस्य स तथा॥ १४॥

कपालमालाभरणं दिव्यं त्रिनेत्रं चतुर्मुखम्।
हस्तिचर्मावरुद्धं च वज्रसम्भिन्नसुभ्रुवम्॥ १५॥

कपालमालां बिभर्तीति कपालमालाभरणः। क्लेशकपालग्रहणविशुद्धिरेषा। दिवि सुखरुपायां भवं दिव्यम्। त्रिविमोक्षविशुद्ध्या प्रत्येकमुखं त्रिनेत्रम् , चतुर्विमोक्षविशुद्ध्या चतुर्मुखम्। हस्तिचर्मावरुद्धं चेति। भुजद्वयेन तत्प्रावरणत्वात्। हस्तिसाधर्म्यात् क्लेशसमूहो हस्ती। तथा चाह - " गजचर्मपटार्द्रधृग् " इति। तस्य हि भिन्नस्यापि मायोपमावस्थानं चर्म, तेन प्रावरणं संवृतिर्मायोपमा, अत एव तत्पृष्ठतो धृतं न हृदि। तुच्छत्वेनानवग्रहादिति हस्तिचर्मप्रावरणम्। चकार एतदेवावृतं व्यनक्ति। वज्रवत्सम्यग्भिन्ने नानात्वं गते सत्यौ भ्रुवौ यस्य स वज्रसंभिन्नसुभ्रूः भ्रुवोर्मध्यं वरटकम्। भ्रुवौ नेत्रे तयोरधः त्रिशूकमिति सिद्धं वज्रं तदुक्तं " भ्रूमध्यं वज्रवरटकम् " इति॥ १५॥

खट्वाङ्गकृतहस्तं तु शतमालार्धभूषितम्।
तस्यालिङ्ग्यं स्थिता देवी वज्रवाराही सुघोरा॥ १६॥

खट्वाङ्गकृतहस्तं त्विति। कृतं सत्त्वार्थकरणमस्यास्तीति कृतस्तृतीयो हस्तः। ततश्च खट्वाङ्गं कृतो हस्तो यस्य स तथा। सत्त्वार्थकरणविशुद्ध्या खट्वाङ्गधारिणमिति भावः। न्यसेदिति क्रियायां सर्वत्र द्वितीया। मालारुपेणार्धं मालार्धं शतस्य मालार्धं शतमालार्धं तेन भूषितः। आलिकालिसम्बद्धा मन्त्रमाला कण्ठगतेति भावः। तस्याऽग्रतः स्थितामिति। संमुखमालिङ्ग्य तिष्ठतीति स्थिता। दीव्यति भगवता सहेति देवी। वज्रेण वराकान् क्लेशानाहन्तीति वज्रवाराही। सुघोरा दुष्टतर्जनादिना॥ १६॥

श्रीहेरुकदेवाभिमुखां कृत्वा तु त्रिनेत्रां रौद्ररुपिणीम्।
कपालं त्वन्त्रसंपूर्णं स्त्रवन्तीं रुधिरं मुखात्॥ १७॥

सम्मुखालिङ्गनस्योद्दिष्टस्य निर्देशमाह - श्रीहेरुकाभिमुखामिति। कृत्वेति क्रियाव्याप्तत्वात् सर्वत्र द्वितीया। तस्याग्रतो देवीं विशिनष्टि कपालान्तर्गतमन्त्रं कपालमन्त्रं तेन सम्पूर्णा भर्तुरन्यूना। कपालमन्त्रं च माराणाम्। स्त्रवन्तीं रुधिरं मुखादिति। रागविशुद्ध्या॥ १७॥

तर्ज्जयन्तीं दिशः सर्वान् सदेवासुरमानुषान्।
डाकिन्यश्च [ च ]तुर्विंशा वाराह्याः कुलसम्भवाः॥ १८॥

तर्ज्जयन्तीं दिशः सर्वान् दिक्पतीनित्यर्थः। सदेवासुरमानुषानिति। लोकानिति भावः। दिशान् सर्वानिति पाठे दिशाऽस्ति येषां ते दिक्पतय इति ज्ञेयम्। डाकिन्यश्च चतुर्विंशा इति। प्रचण्डादि चतुर्विंशति। चकारात् काकास्यादयो द्वादश, ता अपि सर्वाः पूजयेत्। वाराह्याः कुलसम्भवा इति। वाराह्या सह चित्तादिकुलसम्भवाः। एतेन कुलनियमः कथितः॥ १८॥

चक्रगर्भे पूजयेत् तु दिशासु विदिशासु च।
वीरांश्च तथैवेह चक्रसंस्था तु पूजयेत्॥ १९॥

चक्रगर्भे त्विति। मण्डलं वर्तयित्वा तत्र श्रीहेरुकं समाण्डलेयदेवीकं भावयित्वा पूजयेदित्याकूत्म्। कथं देवतान्यास इत्याह - दिशासु विदिशासु चेति। वीरांश्चैव तथैवेहेति। इहेति चक्रगर्भे। कुलसम्भवानित्यर्थः। सर्वदेवताचक्रं पूजयेदिति संक्षेपः। चक्रसंस्था इति द्वितीयाबहुवचनान्तं पदं नकारलोपात्। एतेन चक्रगर्भ इति दृढीकृतम्। तु-शब्दो देहस्थत्वनिषेधे पुनः पूजयेदिति पूजानियमार्थम्॥ १९॥

[ पूजयेदद्वयं वीरं ] यदिच्छेत् सिद्धिसाधकः।
कलशांश्च ततः कुर्यान्मूलकालादिवर्जितान्॥ २०॥

एतेन कस्य पूजेत्याह - वीरमद्वयमिति। विसदृशं ग्राह्यादिरुपमीरयतीति वीरः, स च चित्तमात्रम्। अत आह - अद्वयम्। ततो वीरम् अद्वयमेव पूजयेदिति भावः। कुत इत्याह - यदिच्छेत् सिद्धिसाधक इति। सिद्धीति द्वितीयालोपे। यतः सिद्धिं साधकः इच्छेत् ततः पूजयेत्। चित्तमात्रं मण्डलमिति ज्ञेयम्। कलशांश्चेत्यादि सुबोधम्। मूलकालादिवर्जितान्। मूलं चक्रात् कुलालेन कृतो भागः। कालः कृष्णो भागः। आदिशब्दात् कुर्बरत्वादि॥ २०॥

मौक्तिकैर्हेमरत्नैश्च प्रवालरजतैस्ताम्रैः।
सर्वभक्ष्यैस्तु सम्पूर्णान् कपालोपरि संस्थितैः॥ २१॥

हेमानि च तानि रत्नानि चेति हेमरत्नानि। रत्नेति सर्वत्र। एतेन पञ्चरत्नानि दर्शितानि तानि ताम्रैरित्यन्तेन। सर्वाणि च भक्ष्याणि चेति सर्वभक्ष्याणि। सर्वपदेन पञ्चव्रीहयः पञ्चौषधयश्च। भक्ष्यशब्देन पञ्चामृतानि। कपालोपरि संस्थितैरिति पञ्चामृतविशेषणम्। अतस्तुशब्दो विशेषार्थः। पञ्चरत्नानि पञ्चौषध्यः कलशगर्भे पञ्चामृतानि तु कपालस्थानि तन्मुखे निदध्यात्। कपालोपरि संस्थितैरिति तृतियान्तेन कलशविशेषेण वा। रजोनिर्मितकपालोपरिसंस्थितैरिति केचित्॥ २१॥

सूत्रेण वेष्टितान् कण्ठे पल्लवाग्रसमन्वितान्।
अष्टौ( ष्ट )द्वारेषु विनि( न्य )स्य वस्त्रयुग्मेन सुवेष्टितान्॥ २२॥

नवमं मध्यतः कलशं वस्त्रयुग्मेन वेष्टितम्।
कृत्वा रजतं हिरण्यं वा रत्नमौक्तिकशोभितान्॥ २३॥

तेषां कलशानां कण्ठस्तत्कण्ठः। पल्लवाग्रसमन्वितानिति मुखे। कृत्वेत्यादिना नवमे विजयाख्ये कलशे पञ्चरत्नप्रक्षेपं दर्शयति - कृत्वा रजतं हिरण्यं वेति। तृतीयार्थे प्रथमैकवचनम्। रत्नमौक्तिकेति। तृतीयाद्विवचनलोपः। रजतादिशोभितं नवमं कलशं मध्यतः कृत्वा पुरवरं पूजयेदिति सम्बन्धः॥ २२-२३॥

विकिरेन्मण्डले सर्वान् रत्नसौवर्णशोभनान्।
पूजयेत् पुरवरं रम्यं सिद्धिरेव न संशयः॥ २४॥

गन्धोदकेन संसिच्य चात्मानं सर्वतोमुखम्।
दीपानां [ तु ]शतं दद्यात् यदिच्छेत् सिद्धिमुत्तमाम्॥ २५॥

कैरित्याह - विकिरेद् मण्डले सर्वैरित्यादि। रत्नानि मौक्तिकादीनि। सुवर्णमेव सौवर्णम्। शोभित एभिरिति शोभनानि भूषणानि। रत्नसौवर्णानि च भूषणानि चेति तानि तथा सर्वैर्यथोपलब्धैरेभिः। कुतः पूजां विकिरेत् , मण्डले तानि यतस्ततः पूजा। हस्तिरत्नम् , अश्वरत्नम् , मणिरत्नम् , खड्गरत्नम् , चक्ररत्नम् , परिणायकम् , स्त्रीरत्नं चैते( तानि )सप्तरत्ना[ नि ]। तानि सुवर्णे सगुणे भवानि सौवर्णानीति केचित्। आत्मानं सर्वतो मुखमिति। आत्मानं श्रीहेरुकं पुरमध्ये पूजयेदिति सम्बन्धः॥ २४-२५॥

आकाशे डाकिन्यः सर्वा मनसा ऊर्ध्वतो न्यसेत्।
भूर्लोके डाकिन्यो याश्च मण्डले सर्वतो न्यसेत्॥ २६॥

पाताले डाकिन्यो याः काश्चित् पाताले तान् परिन्यसेत्।
दिशासु मातराः सर्वा विदिशासु च नियोजयेत्॥ २७॥

भूर्लोके पृथिव्याम्। पाताले डाकिन्यो याः काश्चिदिति। चतुर्विंशति। क्वचिन्मातर इति पाठे स एवार्थः। मातृशब्देन काकास्यादयो द्वादश॥ २६-२७॥

पुष्पैः गन्धैस्तथा धूपैर्दीपानां तु शतं दद्यात्।
[ पूजयद्विधिवदेवं ]यदिच्छेत् सिद्धिसाधकः॥ २८॥

पूजयेद् वीरयोगिन्यः श्रीहेरुकस्य मण्डले स्थितान्।
ध्वजै रक्तैस्तथा पीतैः श्वेतैश्च कृष्णपिङ्गलैः॥ २९॥

स्त्रग्दामैर्विविधैश्चैव वस्त्रैर्नानाविधैस्तथा।
वितानैश्च काण्डपट्टकैः सुशोभनैस्तथा।
भक्ष्यभोज्यखाद्यपानैश्च कुर्यात् सुसमाहितः॥ ३०॥

इति श्रीहेरुकाभिधाने चक्रपूजाविधिपटलो द्वितीयः॥ २॥

प्राग्दीपानामिति सामान्येन तैलदीपशतमुक्तं दीपानां तु शतमिति। महातैलभवम्। अतस्तुशब्दो विशेषार्थः। शेषं सुस्थम्। भक्ष्यं पिष्टकादि, भोज्यमन्नादि, खाद्यं व्यञ्जनम् , पानं पेयं पीयत इति दधिमण्डादि। कुर्यादिति पूजामिति शेषः। इति बाह्यपूजा दर्शिता॥ २८-३०॥

चक्रं तत्पूजा च तयोर्विधिः करणं तदभिधायकः पटलः, स च द्वितीयः।

श्रीचक्रसंवरविवृतौ द्वितीयः पटलः॥ २॥

दक्षिणाभिषेकपटलस्तृतीयः

ततः-
आचार्यं तोषयेत् पूर्वं सर्वभावेन साधकः।
यथाशक्त्या पूजयेद् गुरुं सिद्धिकामः सुसमाहितः॥ १॥

गुरुपदेशमन्तरेण न किञ्चिन्मन्त्रसाधनम् , स एवाराधनीय इति सेककाले तत्पूजेत्याह - तत इति। यत आचार्योपदेशं विना न सिद्धिः, ततो गुर्वाराधनम्। तत इति भिन्नं पदम्। एतदेवाह - आचार्यमित्यादि। पूर्वमित्याचार्यविशेषणम्। सम्यग् ज्ञानतन्त्रज्ञेत्यादिविशेषणविशिष्टम्। यद्वा कालविशेषणम्। प्रथममाचार्यं तोषयेदध्येषयेदित्यर्थः। सर्वभावेनेति। आत्मादिपदार्थेन। यथाशक्त्या तु पूजयेद् गुरुं सिद्धिकामः सुसमाहित इति। तु-शब्दो विशेषार्थः।

अत इह तावद् गुरुमेवाचार्यं सर्वभावेन पूजयेद् शिष्यः। पश्चाद् मण्डलकरणम्। तत्र प्रवेशाद्यर्थं पूजयेद्। मया लब्धाभिषेकादिना सिद्धिः साध्येति कामोऽस्येति सिद्धिकामः कृतमन्त्रजपादिः सुसमाहितः॥ १॥

घण्टानादमालम्ब्य पुष्पधूपैरलङ्कृताम्।
घण्टां नादयेत् सुस्वरां पटहिकां वापि साधकः।
हाहाकारं च कारयेत्॥ २॥

घण्टानादमित्यादिना घण्टाभिषेकः प्रतिपाद्यते। घण्टां नादयेत् साधक इति सम्बन्धः। पुष्पधूपैरलङ्कृतामिति पूजितामित्यर्थः। सुस्वरामित्युपलक्षणत्वेन सर्वं लक्षणं सूचितम्। किं कृत्वा नादयेदित्याह - घण्टेत्यादि। घण्टा संवृतिः, तस्या नादः। यथा-
स्वभावशुद्धाः सर्वधर्माः स्वभावैर्विभवीकृताः।
स्वभावशुद्धैः सन्सत्त्वैः क्रियते परमो भवः॥
इति गाथापाठस्तदर्थबुद्धिश्च।
इयं सा सर्वबुद्धानां प्रज्ञा घोषानुगा स्मृता।
त्वयापि हि सदा धार्या बोधिरग्रा जिनैर्मता॥
इति गाथापाठेन गुरुभट्टारकदत्तां घण्टां घण्टानादमालम्ब्य वादयेदिति भावः। पटहिकामिति मङ्गलकारिणीम्। वाशब्दो लक्षणान्तरसमुच्चये। अपि व्यक्तक्रमेण साधकोऽपि तां वादयेत्। गुरुणा सर्वं सा दत्तेति , यतो नाददानक्रियासिद्धेत्यपिशब्दो बोधयति। हाहाकारञ्च कारयेदिति। हाहाकारो नामाभिषेकः, तं गुरुभट्टारकेणात्मनः कारयेत्। भक्तिरेवास्य तादृशी यया शतं कुर्यादिति। कारयेदिति व्यपदेशः। ततोऽस्य भूयसी गुरुभक्तिः सूचिता। हाहाकारो नाम च " द्वयं शब्दात्मकमिति साम्यान्नाम तथोच्यते "। तत उदकमौलिवज्राधिपत्यभिषेकाणां ग्रहणं तत्पूर्वकत्वात्तयोः। अर्थान्तरं च घण्टां नादयेद् गुरुरिति ज्ञेयम्। किं कृत्वेत्याह - दशसु दिक्षु सूक्ष्मघण्टाध्वनिकरणं घण्टानाद इत्युपदेशः। यद्वा स पूर्ववत् गाथापाठः पटहिकां हाहाकारं च साधकोऽपि कारयेत्। हाहाकारो झंकारः। चशब्दादन्योऽपि वाद्यविशेषो गीतं चेति ज्ञेयम्। घण्टानादः स्वलिङ्गावस्थितः। पञ्चविंशतिकाभिधानम्। घण्टाद्वादशाब्दिका। पटहिका षोडशाब्धिका। घण्टानादो वज्रकुलम् , घण्टा रत्नकुलम् , पटहिका पद्यकुलम् , हाहाकारस्तथागतकुलम् , चकारादन्यच्च घण्टानादादीनामन्यतमानो(न्) वा सेवयेत्। घण्टानादं चाहो सुखमिति मन्त्रं साधकः शिष्यः कारयेदुच्चारयेदित्यर्थः। कुतोऽनन्तरमित्याह - अनामेत्यादि।
अनामाङ्गुष्ठवक्राभ्यां लेहयेद् योगवित्सदा।
सोमपानवदास्वाद्य सिद्धिमाप्नोति शाश्वतीम्॥
इति गाथेह योजयितव्या। ततोऽस्या इदमर्थान्तरम् - पूर्वोक्तप्रज्ञासेवया य[ दु ]द्भूतं तदनामाङ्गुष्ठवक्राभ्यामाचार्यः शिष्यं लेहयेत्। स च शिष्यः तत् सोमपानवदास्वाद्य सिद्धिमाप्नोतीति गुह्याभिषेकोऽयम्। अत एवाचार्याभिषेकः सिद्धः, तत्पूर्वकत्वात् तस्य॥ २॥

एवं विधिवत् सम्पूज्य मण्डलं सर्वकामिकम्।
प्रच्छाद्य पटवस्त्रेण मुखं तेषां तु पुत्रकान्॥ ३॥

कुतोऽनन्तरमेतत्सर्वमित्याह - एवमित्यादि। पुष्पादिना पूर्वोक्तेन। मण्डलं पूर्वोक्तं रजोनिर्मितं पटगतं वा। पूज्येति संपूज्योपसर्गक्ष्ये तत्र प्रवेशयेदिति सम्बन्धः। कानित्याह - पुत्रकानिति। पुनन्ति त्रायन्त इति पुत्राः। अतः प्रशंसायां कविकृतेः पुत्रकाः शिष्याः। जप्तविद्यत्वादिना कुलीनत्वादिना च तथाभूताः। किं कृत्वेत्याह - प्रच्छाद्येत्यादि। पटवस्त्रेण काषायवस्त्रेण। तेषां पुत्राणां सामान्येन बहुवचनम् , तत्त्वत एकैकं प्रवेशयेदिति॥ ३॥

पुष्पपूर्णाञ्जलिं [ कृत्वा ततः सम्यक् प्रक्षिपेत् ]।
प्रदक्षिणं च ततः कृत्वा साधकः सुसमाहितः॥ ४॥

[ मनः समाधाय सुमतिः पुरं रम्यं प्रवेशयेत् ]।
दक्षिणां मूर्तिमाश्रित्य पुष्पाञ्जलिम् ततः क्षिपेत्॥ ५॥

एतदेवाह - पुष्पपूर्णेत्यादि। प्रवेशानन्तरं प्रदक्षिणावर्तेन पुष्पपूर्णमञ्जलिं साधकः प्रक्षिपेत्। दक्षिणां मूर्तिमाश्रित्य पुष्पाञ्जलिं ततः क्षिपेदिति। दक्षिणाभिमुखः क्षिपेदित्युपदेशः। भगवतो दक्षिणावर्तेन चैत्यवन्दनाक्रमेण वा॥ ४-५॥

मण्डलोपरि पतेद् यत्र तत्कुलं तस्य निर्दिशेत्।
दर्शयेत् श्रीहेरुकादिपीठा आचार्यो नाम निर्दिशेन्॥ ६॥

ततः पूजयेन्मुद्रामाचार्यः सुसमाहितः।
शिष्याणां तु द्वितीयेऽह्नि [ सम्यक्कर्म समाचरेत् ]॥ ७॥

रक्तेन [ च ] त्रिजप्तेन तिलकं तस्य कारयेत्।
मुखमुद्घाट्य शिष्यं च दर्शयेन्मण्डलं ततः॥ ८॥

श्रीहेरुकादिपीठेति द्वितीयालोपे। मुखमुद्धाट्य दर्शयेन्मण्डलं तत इति योजनीयम्। मण्डलदर्शनानन्तरं श्रीहेरुकाद्युपलक्षितं पीटादि दर्शयेदित्यर्थः। तत इत्यादिना प्रज्ञाभिषेकं दर्शयति। ततो गुह्याभिषेकानन्तरमाचार्य इति धैर्यादिगुणयोगात्। तत्र रजस्वलारुधिरेण करकरादिमन्त्रजप्तेन तिलकं कुर्यात्। तस्येति तेषां मध्ये यस्य कस्यचित्। प्रवेशितस्योद्घाटितमुखस्य तिलकस्तेन करणीय इत्यर्थः॥ ६-८॥

यो यस्य देवतास्थानं तु तत्र तान् संदर्शयेत्।
ततः सम्यक्प्रणिपत्य पश्चादाचार्यसहितं पुरम्॥ ९॥

यस्या देवताया यत् स्थानं तत्र तां देवतां दर्शयेदिति भावः। पीठादिषु श्रीहेरुकादिदेवतां दर्शयेदिति। कायानुस्मृत्युपस्थाने डाकिनी , वेदनानुस्मृत्युपस्थाने लामा, धर्मानुस्मृत्युपस्थाने खण्डरोहा, चित्तानुस्मृत्युपस्थाने रुपिणीत्यादिमण्डलतत्त्वं देवतातत्त्वं प्रतिपादयेत्। सम्यक् प्रणिपत्य ततः कृत्वा आचार्यसहितः। पुर इति। ततः शिष्यमुखोद्घाटनान्तरं मण्डलं प्रणिपत्य कृत्वा च तिलकं मन्डलमग्रतो दर्शयेत्॥ ९॥

प्रदक्षिणं च पुनः कृत्वा प्रत्यारम्भेण वामतः।
मण्डलं गुरवे [ सम्यक् ] प्रणिपत्य यथाविधि॥ १०॥

ततस्तु गुरवे दद्यात् तथागतोक्तदक्षिणाम्।
निर्जात्यसुवर्णं शतसहस्त्रं रत्नानि विविधानि च॥ ११॥

वस्त्रयुग्मशतं चैव गज वाजी राष्ट्रमेव च।
कर्णाभरणं कटकं च कण्ठिकाङ्गुकिलैश्च समुत्त मम्॥ १२॥

प्रदक्षिणं च पुनः कृत्वा प्रत्यारम्भेण वामत इति। पुनः प्रदक्षिणं कृत्वा प्रत्यारम्भेण वामतो भमणेन दक्षिणावर्तेन च मण्डलं वेष्टयित्वा। मण्डलं गुरवे च प्रणिपत्य गुरवे तथागतोक्तां दक्षिणां दद्यात्। मण्डलदेवतातत्त्वकथनानन्तरं शिष्यस्य गुरवे दक्षिणादानम् , ततोऽपि पञ्चामृतदानपुरःसरमुदकादिसेका आचार्यान्ताः। ततो गुह्याभिषेक इति। व्यस्तस्य ग्रन्थस्य समुदायार्थः।
दक्षिणामाह - निर्जात्येत्यादि। जातौ भवं जात्यम् , निःशेषजात्यं निर्जात्यम् , निर्जात्यं च तत् सुवर्णं शतसहस्त्रं चेति तत्तथा। लक्षपलसंख्यं सुवर्णम्। गजेति लुप्तविभक्तिकं पदम्। अङ्गुलिकैरित्यङ्गुलीयकैः। सहार्थे तृतीया। समुत्तमं मकुटम्॥ १०-१२॥

यज्ञोपवीतं सौवर्णं स्वभार्यां दुहितामपि।
दास दासीं भगिनीं वा प्रणिपत्य निवेदयेत्॥ १३॥

यज्ञोपवीतं सौवर्णं सुवर्नयज्ञोपवीतम्। दासेति निर्विभक्तिकम्। सर्वमेतन्निवेदयेद् गुरवे-
नित्यं सुसमयाचार्यं प्राणैरपि निजैर्भजेत्।
अदेयैः पुत्रदाराद्यैः किं पुनर्विभवैश्चलैः॥ इति वचनात्॥ १३॥

आत्मानं सर्वभावेन निवेदयेद्बुद्धिमान् गुरोः।
अद्य प्रभृति दासोऽहं समर्पित मया तव॥ १४॥

आत्मानं च सर्वभावेन निवेदयेत् बुद्धिमान् गुरोरिति। सर्वभावः कायादिव्यापारः। अक्षयमिदमीदृशापर्यन्तमिति बुद्धिः। आत्मदानमाह - आत्मेत्यादि। समर्पितेति निर्विभतिकम्॥ १४॥

एवं विधिं ततः कृत्वा साधकेन सुनिश्चितः।
ततस्तस्य तुष्यन्ति डाकिन्यो योगमातराः॥ १५॥

एवमित्यादिना पृष्ठपूरणमाह - अनन्तरोक्तः सुवर्णादिदानविधिः साधकेन सुष्ठु निश्चितः शोभनत्वेन स्वीकृतोऽनुमोदित इत्यर्थः। तत इति विधेः। अनिष्ठितविधिफलमाह - डाकिन्य इत्यादि। डाकिन्य इति डाकिनीजातयः। विशेषमाह - योगेत्यादि। योगमातराश्चतुर्विंशति॥ १५॥

डाकिन्यो लामयश्चैव खण्डरोहा तु रुपिणी।
एतैर्विचरेज्जगत्वसर्वं डाकिन्यैः सह साधकः॥ १६॥

सर्वाः किङ्करीस्तस्य साधकस्य न संशयः।
योगसिद्धिर्भवदेषां त्रैलोक्यमनिवारितम्॥ १७॥

अन्तर्धानबिलोत्तिष्ठखेचरत्वं पादलेपोऽथ रसायनम्।
जायते तु सदा नित्यमिच्छया साधकस्य तु॥ १८॥

रुपाण्यनेकानि कुरुते आकाशेन तु गच्छति।
डाकिनी विशेषतः निषुम्भयति च सर्वजन्तूनाम्॥ १९॥

डाकिन्यः काकास्यादयश्च लामयो लामाजातीयाः। लामापर्यायो लामशब्दः। आकारक्षये यकारगमे बहुवचनान्तपदमिदं वा। एतैरित्यादि। ईदृशे मण्डले प्रवेशात् पूजाकरणादभिषेकग्रहणात् तद्वर्तनपूर्वकं सिद्धिसाधनार्थं डाकिनीभिः करणभूताभिर्जगत् सर्वं विचरेत्। अगम्यमपि गम्यीकरोतीत्यर्थः। एतैर्डाकिन्यैरित्यादिकं वर्णागमविनाशविपर्ययविकारैर्निरुक्तविहितैः साध्यम्। आर्षस्य तत्प्राधान्येन साध्यत्वात्। एवं सर्वत्र। अनास्तथया वा शब्दापशब्दौ नाशङ्कनीयौः। उत्तिष्ठेति मृतोत्थापनम् , निषूदनज्ञानं मारणम् , शेषं सुबोधम्॥ १६-१९॥

सकृद्दृष्टेन योगेन योगित्वं जायते क्षणात्।
अदृष्टमण्डलो योगी योगित्वं यः समीहते॥ २०॥

हन्यते मुष्टिनाऽऽकाशं पिबति मृगतृष्णिकाम्।
एष योगवरः श्रेष्ठः सर्वयोगेषु चोत्तमः॥ २१॥

अदृष्टमण्डल इत्यादि मन्डलानुशंसा। यथा आकाशं मुष्टिना हन्ति न ताः घातलक्षणार्थक्रिया निष्पद्यन्ते। पिबति मृगतृष्णां न च पानलक्षणा तृष्णाशान्तिलक्षणा चार्थक्रियास्ति। तथाऽदृष्टमण्डलो योगित्वं समीहते। न स योगफलं लभते॥ २०-२१॥

यः काङ्क्षिष्यते कश्चित् सदेवासुरमानुषान्।
अभिभूय गमिष्यत्यत्रव् मण्डले योऽभिषिक्तः।
सर्वतन्त्रोक्तसाधकः॥ २२॥

गोप्य ईक्षण पाणिं तु आलिङ्गं द्वन्द्वमादिकम्।
अभिषिक्तो भवेत्तत्र सर्वतन्त्रैक मुत्तरम्॥ २३॥

तत्त्वसंग्रहे संवरे वापि गुह्ये वा वज्रभैरवे।
अयं मण्डलराजा न भूतो न भविष्यति॥ २४॥

उक्तानुक्तं च यत् किञ्चित्तत्सर्वं श्रीहेरुके स्थितम्॥ २५॥

इति श्रीहेरुकाभिधाने दक्षिणाभिषेकविधिपटलस्तृतीयः॥ ३॥

यः काङ्क्षिष्यते कश्चिदिति। एवं श्रीहेरुकं वरं यः काङ्क्षिष्यति स देवादीनभिभूय गमिष्यति। गमिरिह स्थित्यर्थः। स्थास्यतीति भावः। नैव भूतो भावीत्युत्पन्नो वेति दर्शयितुं काङ्क्षिष्यतीत्यादि भविष्यन्निर्देशः। उक्तानुक्तं चेति। उक्तं चानुक्तं चान्यत्र यत्तत् सर्वं श्रीहेरुके चक्रसंवरे स्थितं मण्डलविधानम्॥ २२-२५॥

दक्षिणा गौरवातिशयेन दानम् , अभिषेकः क्लेशमलापनयनम् , तयोर्विधिः, तदभिधायकः पटलः स च तृतीयः।

इति श्रीचक्रसंवरविवृतौः तृतीयः पटलः॥ ३॥

वीरयोगिन्यद्वयं नाम विधिपटलश्चतुर्थः

ततो डाकिन्यो भुवनानि विजृम्भयन्ति।
महावीर्या चक्रवर्तिनी महाबला सुवीरा॥ १॥

चक्रवर्मिणी शौण्डिनी खण्डरोहा चक्रवेगा।
खगानना हयकर्णा सुभद्रा च श्यामादेवी तथैव च॥ २॥

सुराभक्षी वायुवेगा तथा महाभैरवा।
ऐरावती द्रुमच्छाया लङ्केश्वरी खर्वरी तथा॥ ३॥

वीरमती महानासा प्रभावती चैव।
चण्डाक्षी प्रचण्डा च एताः सिद्धास्तु साधकः।
प्रचण्डादिं तु वै पूर्वं चतुर्विंशति डाकिन्य॥ ४॥

[ कायवाक्चित्तमध्ये तु यथा बाह्ये तथात्मनि ]।
स्वनामोच्चारणमन्त्राणां हूँ हूँ फट्कारान्तयोजिताः॥ ५॥

आधारमण्डलकथनान्तरं तदाधेया योगिनीर्दर्शयितुं चतुर्थपटलमाह - तत इत्यादि। याः समयाचारगोचरा डाकिन्य उक्ताः कायवाक्चित्तस्वरुपनिर्माणसंभोगधर्मकायात्मिका यतः, ततः कारणाद् डाकिन्यश्चतुर्विंशतिर्भुवनानि त्रीणि कायादिचक्राणि विजृम्भयन्ति व्याप्नुवन्ति। ता एवाह - महावीर्येत्यादि।
चक्रवेगा, खण्डरोहा, शौण्डिनी, चक्रवर्मिणी, सुवीरा, महाबला, चक्रवर्तिनी, महावीर्येत्येताः सर्वाः शुक्ला इति कायचक्रम्।
ऐरावती, महाभैरवा, वायुवेगा, सुराभक्षी, श्यामादेवी, सुभद्रा, हयकर्णा, खगाननेत्येता रक्ता इति वाक्चक्रम्।
प्रचण्डा, चण्डाक्षी, प्रभावती, महानासा, वीरमती, खर्वरी, लङ्केश्वरी, द्रुमच्छायेत्येताः कृष्णा इति चित्तचक्रम्।

पूर्वत्र तन्त्रे व्यतिक्रम एव क्रम अत आह - प्रचण्डादिं त्विति। प्रचण्डामादिं कृत्वा चण्डाक्ष्यादयो द्रष्टव्याः। स्वस्य स्वस्य नाम्न उच्चारणं तेन पूर्वत्र संयुक्तः साधनोक्तक्रमेण करकरादिमन्त्राः यासां ताः स्वनामोच्चारणमन्त्रा इति प्रथमार्थे षष्ठी। हूँ हूँ फट्कारान्तयोजिता इति। हूँ हूँ फट्कारो नामान्ते योजितो यासां तास्तथा॥ १-५॥

दृष्ट्वा योगवरं श्रेष्ठं घुणमन्यत् पलालवत्।
ॐकारदीपिकाः सर्वसिद्धिदं सर्वकामिकम्॥ ६॥

ॐकारदीपिका इति। करकरादिमन्त्रेण पूर्वत्र ॐकारो दिपको यासां तास्तथा। ततोऽयमर्थः। ॐ क्ष्माँ क्ष्माँ चक्रवेगे हूँ हूँ फट् फडित्यादि चक्रवेगादीनामष्टानाम्। ॐ फट् फट् ऐरावती हूँ हूँ फट् फडित्यादि ऐरावत्यादीनामष्टानाम्। ॐ कर कर प्रचण्डे हूँ हूँ फट् फडित्यादि प्रचण्डादीनामष्टानाम्। इति मण्डले शरीरे च न्यासः। अत एव चित्तचक्रम् , ततो वाक्चक्रम् , ततः कायचक्रं च। उपदेशार्थं तु तन्त्रे तद् व्यतिक्रमः। किञ्च हूँ हूँ फट्कारान्तयोजिता इत्यस्यार्थान्तरम्। हूँ हूँ हूँ फडिति मन्त्राऽन्ते योजितानामिति षष्ट्यर्थे प्रथमा। अन्तभूतत्वादन्तयोजिताः काकास्यादयोऽष्टौ। डाकिन्यादयश्चतस्त्रो मध्यस्थाः। कालविशेषेणैतन्मन्त्रजास्ता द्रष्टव्याः। यस्य ॐ हूँ हूँ फट् फट् काकास्ये हूँ हूँ फट् फडित्यादि। प्रचण्डादयो द्रुमच्छायान्ताश्चित्तचक्रस्था। तच्च कृष्णम्। ऐरावत्यादयः खगाननान्ता वाक्चक्रस्थाः। तच्च रक्तम्। चक्रवेगादयो महावीर्यान्ताः कायचक्रस्थाः। तच्च शुक्लम्। डाकिन्यादयश्चतस्त्रो यथाक्रमं वामावर्तेन कृष्णश्यामरक्तगौर्या यमदाढ्यादयो वर्णद्वयं द्वयं प्राप्ताः। सिद्धिदं सर्वकामिकमिति। एता मिलिताः श्रीहेरुकाधिपतयो मण्डलमित्यस्य विशेषणद्वयम्॥ ६॥

वीरत्वं गताः सिद्धा गृहे दृष्ट्वा च मण्डलम्।
ततो ज्ञात्वा भवयेन्नित्यं सिद्धिस्तथागतवचो यथा॥ ७॥

इति श्रीहेरुकाभिधाने वीरयोगिन्या द्वयं नाम विधिपटलश्चतुर्थः॥ ४॥

वीरत्वं गता इति चतुर्विंशतियोगिनीनां विशेषणम्। एता वीरत्वं वीराङ्गत्वं गता लब्धाः, वीरालिङ्गनयुक्ता इत्यर्थः। वीरास्तु खण्डकापालदयः। ते चैकवक्त्राश्चतुर्भुजास्त्रिनेत्रा जटामकुटपटका व्याघ्रचर्माम्बरा वज्रवज्रघण्टाधारिवामदक्षिणभुजद्वयालिङ्गना अपरवामदक्षिणभुजखट्वाङ्गडमरुका आलीढासनाश्चक्रीकुण्डलादिमुद्रान्विताश्चक्रानुरुपदेवीवर्णाः। प्रचण्डादयोऽप्यालिङ्गितभुजद्वया अपरवामदक्षिणभुजभृतरक्तपूर्णकपालतर्जनीकाः। डाकिन्यादयो वामभुजद्वयेन खट्वाङ्गकपालधरा दक्षिणेन डमरुकर्तीधराः। काकास्यादयो डाकिन्यादिचिह्नधराः। यमदाढ्यादयो वामतो भुजद्वयेन डमरुकर्तीचिह्नधरा दक्षिणेन खट्वाङ्गकपालधराः। डाकिन्यादयः षट्त्रिंशद्योगिन्यस्त्रिनेत्रा एकवक्त्रा मुक्तकेश्यो नग्ना आलीढपदस्था रौद्ररुपाः कण्ठिकाद्याभरणाः। किञ्च ललाटस्थवज्रमाला वीरवीरिण्यश्च। देवतास्वभाव उच्यते - कायानुस्मृत्युपस्थानस्वभावा डाकिनी। वेदनानुस्मृत्युपस्थानस्वभावा लामा। धर्मानुस्मृत्युपस्थानस्वभावा खण्डरोहा। चित्तानुस्मृत्युपस्थानस्वभवा रुपिणीति ज्ञानचक्रम्।

छन्दऋद्धिपादस्वभावा प्रचण्डा। वीर्यऋद्धिपादस्वभावा चण्डाक्षी। मीमासांऋद्धिपादस्वभावा प्रभावती। चित्तऋद्धिपादस्वभावा महानासा। श्रद्धेन्द्रियस्वभावा वीरमती। वीर्येन्द्रियस्वभावा खर्वरी। स्मृतीन्द्रियस्वभावा लङ्केश्वरी। समाधीन्द्रियस्वभावा द्रुमच्छायेति चित्तचक्रम्।

प्रज्ञेन्द्रियस्वभावा ऐरावती। श्रद्धाबलस्वभावा महाभैरवा। वीर्यबलस्वभवा वायुवेगा। स्मृतिबलस्वभावा सुराभक्षी। समाधिबलस्वभावा श्यामादेवी। प्रज्ञाबलस्वभावा सुभद्रा। समाधिसंबोध्यङ्गस्वभावा हयकर्णा। वीर्यसंबोध्यङ्गस्वभावा खगानना, इति वाक्चक्रम्।

प्रीतिसंबोध्यङ्गस्वभावा चक्रवेगा। प्रश्रब्धिसंबोध्यङ्गस्वभावा खण्डरोहा। धर्मप्रविचयसंबोध्यङ्गस्वभावा शौण्डिनी। स्मृतिसम्बोध्यङ्गस्वभावा चक्रवर्मिणी। उपेक्षासंबोध्यङ्गस्वभावा सुवीरा। सम्यग्दृष्टिस्वभावा महाबला। सम्यक्संकल्पस्वभावा चक्रवर्तिनी। सम्यग्वाक्स्वभावा महावीर्येति कायचक्रम्।

सम्यक्कर्मान्तस्वभावा काकास्या। सम्यगाजीव[ स्वभावा ] उलूकास्या। सम्यग्व्यायामस्वभावा श्वानास्या। सम्यक्स्मृतिस्वभावा शूकारस्या। अनुत्पन्नकुशलधर्मोत्पादनस्वभावा यमदाढी। उत्पन्नकुशलधर्मसंरक्षणस्वभावा यमदूती। उत्पन्नाकुशलधर्माप्रहाणस्वभावा यमदंष्ट्रिणी। अनुत्पन्नाकुशलधर्मानुत्पादनस्वभावा यममथनीति श्मशानचक्रम्।

सम्यक्समाधिस्वभावाः श्रीहेरुकः। सिद्धा इति। चतुर्विंशति योगिन्यः गृहे दृष्ट्वा च मण्डलमिति। स्वदेहे मण्डलं दृष्ट्वा। ततो मण्डलभावनातः सिद्धिं ज्ञात्वा भावयेदित्याशयः। तथागतवचो यथेति। तथागतवचनेन भावयेदित्याकूतम्॥ ७॥

वीरान्विता योगिन्यो वीरयोगिन्यः चतुर्विंशति। अद्वया वीररहिता द्वाददश। ह्रस्वत्वमार्षत्वात्। तासां न्यासस्तस्य विधिस्तदभिधायकः पटलः, स च चतुर्थः।

इति श्रीचक्रसंवरविवृतौ चतुर्थः पटलः॥ ४॥

मूलमन्त्रस्याक्षरोद्धारविधिपटलः पञ्चमः

ततः -
सर्वधर्मोदये विश्वं कर्णिकेऽनाहतं शिवम्।
आलिखेद् विधिवन्मन्त्री सर्वधर्मैकसंग्रहम्॥ १॥

न केवलं भावनामात्रेण सिद्धिसाधनं किं तर्हि कथ[ ने ]नापीत्याह - तत इत्यादि। ततः कारणान्मन्त्र उद्धरणीयः। उद्धारमाह - सर्वेत्यादि। सर्वेषां धर्माणाम् उदयः। उदेत्यस्मासिति कृत्वा। विश्वं विश्ववर्णत्वात्। कर्णिकेति कर्णिकया। अनाहतमासमन्तादाप्तं शिवं कल्याणावाहकत्वात्। एवंभूतं पद्यमित्यर्थः। ' नागृहीतविशेषणा विशेष्यबुद्धिः प्रवर्तते ' इति कर्णिकया विशेषितत्वात्। अथवा धर्मोदयो भग इत्यनर्थान्तरम्। विश्वं विश्वपद्यान्वितं कर्णिकाहतत्वात्। न केवलविश्वपद्यधर्मोदयान्तर्विश्वपद्ये वा प्रस्तरेदिति सम्बन्धः। किं कृत्वेत्याह - आलिख्येत्यादि। सर्वधर्मा अकारादिककारादिरुपा एकत्वेन संगृह्यन्ते अनेनेति। तदेवोनपञ्चाशतकोष्ठकं भुवनं प्रस्तार इति पर्यायौ॥ १॥

अत्र मन्त्रपदानि भवन्ति -
आलिकालिसमां कृत्वा वर्गेभ्यः परिणामिताम्।
चतुश्चतुर्विज्ञेयं प्रस्तरे मुनिसत्तमः॥ २॥

अत्र मन्त्रपदानि भवन्तीति। अत्रैकोनपञ्चाशत्कोष्ठके भुवने मन्त्रस्थानानि सन्ति। तान्यष्टौ, भगवतो मूलमन्त्रश्चायं भावि सर्वावयत्वात्। अक्षरजोतेर्मन्त्रव्यपदेशो यथा सूत्रसन्ताने पटस्य। किं तत्पुनः प्रस्तरेदित्याह - आलीत्यादि। आलीति द्वितीयैकवचनलोपे कालीति च। सममिति। एकस्याप्यक्षरस्यापरिवारात्। अन्यत्र ङञणनमवर्जितमिति दर्शनात्। एवम्भूतामालिं कालिं च कृत्वा प्रस्तरेत् प्रस्तृणीयात्। परिणामितां साक्षात्परिणामाम्। अवस्थाविशेषः परिणामः। कोऽसावित्याह - वर्गेभ्य इति। ल्यब्लोपे पञ्चमी। अष्टौ वर्गानासाद्य परिणामिता सा। अष्टवर्गरुपोऽवस्थाविशेष इत्यर्थः। अत आह - चतुरित्यादि। चतुर्भिश्चतुर्भिर्वर्गैर्ज्ञेयं ज्ञातव्यं यत्र तद्यथा भवति तथा प्रस्तरेत्। मननान्मुनिः। पारमितानयिकमन्त्रनयिकयोः सतोर्मध्ये अयं श्रेष्ठो मन्त्रनयिकः प्रस्तारज्ञो मन्त्रनयिको मुनिसत्तमः। तत्र अकारादयः षोडशस्वरा एको वर्गः। पञ्चभिः पञ्चभिर्वर्णैः ककारादिभिर्मकारपर्यन्तैः पञ्चवर्गाः। यरलवैश्चतुर्भिरेको वर्गः। शषसहैरपरः। इहानुपयोगात् ककारषकारसंयोगजत्वात् क्षकारो न दर्शितः। इत्थमष्टौ वर्गा विज्ञेयाः॥ २॥

तत्रस्थमुद्धरेद्वीरं सर्वकामार्थसाधकम्।
चतुर्थस्य यः पञ्चमं पञ्चस्यापि पञ्चमम्॥ ३॥

तत्रस्थमुद्धरेद्वीरमिति। आलिकालिस्थं वीरमष्टपदमन्त्रमुद्धरेद् दधिस्थं नवनीतमिव। शेषं सुस्थम्। चतुर्थस्य यः पञ्चममिति। चतुर्थस्य वर्गस्य नकारः पञ्चमः। पञ्चमस्यापि पञ्चमः मकारः॥ ३॥

पञ्चमस्य यश्चतुर्थं प्रथमस्य तु यस्तृतीयम्।
एकोनत्रिंशत्तथैव च चतुर्थस्य यः प्रथमः॥ ४॥

पञ्चमस्य यश्चतुर्थं भकारः। प्रथमस्य यस्तृतीयं गकारः। तु-शब्दः स्तुत्या विशेषयति। भनक्तिक्लेशाननेनेति भः, स च भगार्थः। गकारः पश्चाद् वाच्यः। तथा चाह - " भकारो भग इत्याहुः " इति। एकोनत्रिंशत्तथैव चेति वकारः। स तथैव चेति सत्त्वार्थं दर्शयति। प्रज्ञोपायौ वाति सम्बन्ध्नातिति वः। चतुर्थस्य यः प्रथमस्तकारः। कवर्गमारभ्य चतुर्थवर्गादित्वम्॥ ४॥

अन्तः स्थानां यश्चतुर्थं तस्यैव यद् द्वितीयं तु।
त्रिंशमं तु समादाय तथा षड्विंशमेव च॥ ५॥

अन्तःस्थानां यश्चतुर्थं वकारः। दन्तौष्ठ्य इत्यर्थः। तस्यैव यद् द्वितीयं त्विति। तस्यैवान्तःस्थवर्गस्य यद् द्वितीयमक्षरं तत् समादाय वीरमुद्धरेदिति सम्बन्धः। त्रिंशमं त्विति। शकारस्तालव्यः। स च शान्त्यर्थ इति तु-शब्दार्थः। तत् त्रिंशत्तममित्यर्थः। तथा षड्विंशमेव चेति। षड्विंशतितमो यकारः। तथैव वाय्वर्थः॥ ५॥

एतत्सर्वं समुद्धृत्य शतार्धार्धं तु तथा पुनः।
त्रयस्त्रिंशं ततो गृह्य प्रथमस्य तु प्रथमम्॥ ६॥

शतार्धार्धं मकारः। तथा पुनरिति। मरणोपगता सर्वधर्मा इति प्रतिपादकोऽयमित्यर्थः। त्रयस्त्रिंशत् ततो गृह्येति। हकारमकारानन्तरं गृहीत्वा वीरमुद्धरेदिति सम्बन्धः। प्रथमस्य प्रथमं त्विति। व्यञ्जनाधिकारे कवर्गः प्रथमः। तस्य प्रथमः ककारः। न क्वचित् स्थित इति। ककारस्यार्थ इति तु-शब्दार्थः॥ ६॥

अन्तः स्थानां तृतीयं चैव प्रथमस्य तृतीयं तु।
द्वात्रिंमेव च चतुर्थस्य यः पञ्चमम्॥ ७॥

अन्तःस्थानां तृतीयञ्चैवेति लकारः। पार्थिवत्वं प्रतिपादयति। प्रथमस्य तृतीयं त्विति गकारः। तस्य गम्भीरधर्मार्थत्वं तु-शब्दार्थः। द्वात्रिंशमेव चेति। सकारं द्वात्रिंशत्तममित्यर्थः। तस्य दन्त्यत्वं सूचयत्येव च-शब्दः। चतुर्थस्य यः पञ्चममिति नकारः॥ ७॥

पञ्चमस्यापि यश्चतुर्थम् आन्तस्थस्य यः प्रथमम्।
द्वितीयस्य यस्तृतीयकं तृतीयस्य यः प्रथमम्॥ ८॥

पञ्चमस्यापि यश्चतुर्थमिति भकारः। आन्तस्थस्य यः प्रथममिति। अन्तः- स्थानामयं वर्ग आन्तस्थः। तस्य प्रथमं यकारः। द्वितीयस्य यः तृतीयकमिति जकारः। जपार्थकत्वे। तृतीयस्य यः प्रथममिति टकारः॥ ८॥

पञ्चमस्य पञ्चमं प्रथमस्य प्रथमं तु।
तथा एकादशं चैव षोदशमं तथा विदुः॥ ९॥

पञ्चमस्य पञ्चममिति मकारः। प्रथमस्य प्रथमं त्विति ककारः। रेफककारादिसंयोगे कामदीपकत्वं तु-शब्दः सूचयति। तथा एकादशं चैवेति। तथेति फट्कारावयवभूतत्वेन पातानार्थत्वं सूचयति। एकादशं टकारम्। चकारात्तस्य प्राग्भूतं फकारं नियमेन मन्त्रान्ते सहयोगिनमाह - अत एवकारः। षोडशमं तथा विदुरिति। षोडश एव षोडशमः। स्वार्थे मः। द्रुमवत्। स च तकारः। तं विदुरिति क्रियाव्याप्तत्वात् द्वितीया। पञ्चमस्यापि पञ्चममित्यादौ किञ्च चतुर्थस्य यः पञ्चममित्यादि। एवञ्च बोद्धव्यं चतुर्थस्य वर्गस्य यो वर्णस्तं पञ्चमं पञ्चमस्य पञ्चमं समादाय वीरमुद्धरेदिति विदुरिति वा। एवं पञ्चमस्य यो वर्णस्तं चतुर्थमित्यादि। तथेति षोडशशून्यताप्रतिपादकत्वमस्य प्रतिपादयति॥ ९॥

तृतीयस्य [ यः ] प्रथमं षड्विंशतिमं तथा।
चतुर्थस्य तृतीयं तु ऊष्माणां द्वयमेव च॥ १०॥

तृतीयस्य यः प्रथमं टकारः। षड्विंशतितमं यकारं विदुरिति क्रियया द्वितीया। एवं सर्वत्र। षड्विंशतितमादीनां तकारलोपः। तथेति वायुबीजत्वमस्य। चतुर्थस्य तृतीयं त्विति दकारम्। तु-शब्दोऽस्य पापदहनार्थत्वं सूचयति। ऊष्माणां द्वयमेव चेति। शषसहा ऊष्माण। ऊष्माणामिति वर्णागमात्। द्वयमिति द्वितीयं षकरम्। एव चेति। अन्यद्वितीयं चावधारणार्थम्॥ १०॥

प्रथमस्य यः प्रथमं सप्तविंशतिमं तथा।
अष्टाविंशतिमं पुनः प्रथमस्य तृतीयं तु॥ ११॥

प्रथमस्य यः प्रथममिति ककारम्। सप्तविंशतिमं रेफम्। अग्निबीजत्वमस्य तथा - शब्दः सूचयति। अष्टाविंशतिमं लकारम्। पुनरिति तस्य पृथिवीबीजत्वप्रतिपादकम्। प्रथमस्य तृतीयं त्विति गकारम्। तु-शब्दो विशेषेण गच्छति सदावतिष्ठत इति शून्यता , तद्वाचकत्वाद् गत्यर्थः॥ ११॥

पञ्चमस्यापि चतुर्थकं एकत्रिंशत्ततो गृह्य।
तथा पञ्चदशं चैव पञ्चविंशतिमं तथा॥ १२॥

पचमस्यापि चतुर्थं भकारम्। अपि शब्दोऽस्य पूर्वोक्तार्थसुचकः। एकत्रिंशत्ततो गृह्येति। कालेरेकत्रिंशदक्षरं षकारं गृहीत्वा। तथा पञ्चदशं चैवेति। तथेति कालेः पञ्चदशं णकारम्। एवेति कालिसम्बन्धावधारणे। पञ्चविंशतिमं तथेति मकारम्। तथैव तथाशब्दार्थः॥ १२॥

प्रथमस्य द्वितीयं तु तथा षड्विंशतिमं पुनः।
द्वात्रिंशदक्षरं चैव ऊष्माणामन्तमेव च॥ १३॥

प्रथमस्य द्वितीयं त्विति। खकारम्। तु-शब्दः शून्यतार्थत्वमस्य प्रत्याययति। तथा षड्विंशतिमं पुनरिति। तथेति पूर्ववद् यकारम्। पुनःशब्दो वाक्यालङ्कारे। द्वात्रिंशदक्षरं चैवेति। द्वात्रिंशत्तममक्षरं सकारम्। चकारो जलस्वरुपत्वमस्य सूचयति। एवकार इहावधारणे। ऊष्माणामन्तमेव चेति हकारः। एव चेति काल्यन्तसम्बन्धावधारणे॥ १३॥

द्वात्रिंशं पुनश्चैव पञ्चमस्य चतुर्थं तु।
द्वितीयस्य तृतीयं चैव पञ्चमस्य चतुर्थं तु॥ १४॥

द्वात्रिंशं पुनश्चैवेति। द्वात्रिंशदक्षरं सकारम्। पुनश्चैव वाक्यं पूर्ववाक्यार्थं सूचयति। पञ्चमस्य चतुर्थं त्विति। भकारम्। तु-शब्दो भयहारित्वमस्य दर्शयति। द्वितीयस्य तृतीयं चैवेति। जकारम्। चैव शब्दो जयार्थत्वमस्यावधारयति। पञ्चमस्य चतुर्थं त्विति। भकारम्। तु-शब्दोऽस्य पूर्वोक्तार्थसूचकः॥ १४॥

ऊष्माणां तृतीयं चैव सप्तविंशतिमं परम्।
अन्तःस्थानां प्रथमं चैव तथा एकविंशतिमं पुनः॥ १५॥

ऊष्माणां तृतीयं चैवेति। सकारः पूर्ववत्। सप्तविंशतिमं परमिति। रेफम्। परं वह्निजनकत्वात्। अन्तःस्थानां प्रथमं चैवेति। यकारम्। चैवेति समुच्चयावधारणयोः। तथा एकविंशतिमं पुनरिति। तथेति तथागतोक्तत्वसूचनाय। पकारमेकविंशतितमम्। पुनर्गुणमविस्तरे॥ १५॥

अन्तःस्थानां यद्द्वितीयं त्रिंशतिमं पुनस्तथा।
पञ्चमस्य यः प्रथममूष्माणां प्रथमं चैव॥ १६॥

अन्तःस्थानां यद् द्वितीयमिति। यद् द्वितीयमक्षरं रेफम्। त्रिंशतिमं पुनस्तथेति। त्रिंशत्तमं शकारम्। पुनःशब्दः पुनरुक्तत्वमस्य दर्शयति। तथेति शान्तिं शास्तीति श इत्यर्थसूचकम्। पञ्चमस्य यः प्रथमं पकारम्। ऊष्माणां प्रथमं चैवेति। शकारम्। चकार एवकारश्च शान्त्यर्थप्रथमत्वावधारणयोः॥ १६॥

तथा द्याकारमेव च चतुर्थस्य यः प्रथमम्।
ऊष्माणां तु यः प्रथममष्टाविंशतिमं तथा॥ १७॥

तथाद्य( द्या )कारमेव चेति। द्याकारं समादाय वीरमुद्धरेदिति सम्बन्धः। चतुर्थस्य यः प्रथमं तकारम्। ऊष्माणां यः प्रथमं शकारम्। अष्टाविंशतिमं तथेति। लकारम्। तथेति पूर्वोक्तार्थत्वमस्य सूचयति॥ १७॥

प्रथमस्य द्वितीयं तु तृतीयस्य प्रथमोच्यते।
प्रथमस्यापि यस्तृतीयं चतुर्थस्य चतुर्थं तु॥ १८॥

प्रथमस्य द्वितीयं त्विति। खकारं पूर्ववत्। तृतीयस्य प्रथमोच्यते। टकारम्। प्रथमस्यापि यः तृतीयं गकारम्। चतुर्थस्य चतुर्थं त्विति। धकारम्। धमति पापमिति ध इतिसूचकः तु-शब्दः॥ १८॥

अन्तःस्थानां यो द्वितीयं तृतीयस्यापि पञ्चमम्।
व्याकारं वीरमित्याहुः प्रथमस्य यश्चतुर्थं।
तु तथा चाष्टमेव च॥ १९॥

अन्तःस्थानां यो द्वितीयं रेफम्। तृतीयस्यापि पञ्चममिति। अपिरवधारणे। एवं सर्वत्र। पञ्चमं णकारम्। व्याकारं वीरमित्याहुरिति। विशेषमाप्नोतीति व्या। तं वीरं श्रीहेरुकमाहुः। प्रथमस्य यश्चतुर्थं घकारम्। तथा चैवाष्टमेव चेति। तथाशब्दो जयार्थानुसूचकः। एवकारस्तदवधारणे। अष्टमष्टमं जकारः। एव चेति कालेरष्टशब्दसूचकः॥ १९॥

चतुर्थस्य यः पञ्चमं पञ्चमस्यापि पञ्चमम्।
सप्तविंशतिमं तथा चतुर्थस्य चतुर्थं तु॥ २०॥

चतुर्थस्य यः पञ्चममिति नकारम्। पञ्चमस्यापि पञ्चमं मकारम्। सप्तविंशतिमं तथेति। रेफम्। तथाशब्दः पूवोक्तार्थसूचकः। चतुर्थस्य चतुर्थं त्विति। धकारम्। तु-शब्दः पुनरर्थे॥ २० ॥

सप्तविंशतिमं पुनश्चैव तथा वै षड्विंशतिमेव च।
पञ्चविंशं समादाय त्रयस्त्रिंशमेव च॥ २१॥

सप्तविंशतिमं पुनरिति। सप्तविंशतिमं रेफम्। पुनःशब्दस्तथैव। तथा वै षड्विंशतिमेव चेति। तथाशब्दस्तथैवेति तमभागलोपे। षड्विंशतिमं यकारम्। एव चेति पूर्वोक्तार्थत्वमस्य सूचयति। पञ्चविंशं समादायेति। मकारं समादाय वीरमुद्धरेदिति सम्बन्धः। समादायेत्यन्यत्रापि त्रयस्त्रिंशमेव चेति। हकारम्। सत्त्वानां पापं हन्तीति ह इत्यर्थमवधारयत्येव च-शब्दः॥ २१॥

चतुर्थस्य चतुर्थं तु पञ्चमस्य पञ्चमम्।
चतुर्थस्यापि पञ्चमम्।
प्रथमस्यापि प्रथमं चैव सप्तविंशतिमं तथा॥ २२॥

अन्तःस्थानां चतुर्थं तु एकविंशतिमं तथा।
ऊष्माणां द्वितीयं चैव तथा षड्विंशमेव च॥ २३॥

चतुर्थस्त चतुर्थं त्विति। धकारम्। तु-शब्दः पुनरर्थे। पञ्चमस्य पञ्चमं मकारम्। चतुर्थस्यापि पञ्चमं नकारम्। अपि-शब्दः पञ्चमसमाहारे प्रथमस्यापि प्रथमं चैवेति। ककारम्। चैव-शब्दोऽस्य पूर्वोक्तार्थसूचकः। सप्तविंशतिमं तथेति रेफम्। तथा-शब्दो वह्निजनकत्वसूचकः। अन्तःस्थानां चतुर्थं त्विति। वकारम्। तु-शब्दो वारुणबीजत्वसूचकः। एकविंशतिमं तथेति। पकारम्। तथा-शब्द आलिसम्बन्धं दर्शयति। ऊष्माणां चैवेति। षकारम्। चैव-शब्दोऽस्यात्रस्थाने नियमं कथयति। तथा षड्विंशमेव चेति। यकारम्। अयं मूलमन्त्रस्याक्षरोद्धारः॥ २२-२३॥

कर २ कुरु २ बन्ध २ त्रासय २ क्षोभय २ ह्राँ २ ह्रः २ फेँ २ फट् २ दह ३ पच २ भक्ष ३ वसरुधिरान्त्रमालावलम्बिने ग्रिह्ण २ सप्तपातालगतभुजङ्गं

इति श्रीहेरुकाभिधाने मूलमन्त्रस्याक्षरोद्धारविधिपटलः पञ्चमः॥ ५॥

अत आह - ज्ञात्वेत्यादि। श्रीयुक्तो हेरुको येन सिद्ध्यति स श्रीहेरुको मन्त्रः। तं ज्ञात्वा सिद्धिप्रभवं बुद्ध्वा ततोऽन्यत् मन्त्रपदम्। पलालवत् इति। क्रियाध्यारोपः। एतत् साध्यफलापेक्षया निष्फलत्वात्। घुणः कीटविशेषः। तेन खादितं काष्ठं च घुणः ततोऽयमर्थः घुणखादितकाष्ठमिवार्थक्रियाशून्यमन्यं मन्त्रजातं पलालमिव निष्फलं च मन्यते योगी। मूलमन्त्रः प्रकीर्तित इति। अक्षरोद्धारात् प्रविभज्य कीर्तितः प्रकीर्तितः॥ २६॥

कोशावित्याह - मूलमन्त्र इति। मूलं सर्वसिद्धीनां तच्चासौ मन्त्रश्चेति स तथा। विद्याराजादन्यो मूलमन्त्र इति भावः। स चाष्टविमोक्षविशुद्ध्याष्टपदः। अक्षराणि व्यञ्जनानि।

इति चक्रसंवरविवृतौ पञ्चमः पटलः॥ ५॥

षड्वीरकवचोद्धारविधिपटलः षष्ठः
अतःपरं द्वाविंशत्यक्षरं हृदयं सप्ताक्षरमुपहृदयम्।
यवर्गाच्चाष्टमं बीजं मात्रैर्द्वादशभिस्तथा॥ १॥

संक्षेपरुचीनार्थे संक्षिप्तो मन्त्रोद्देश्य इत्याह - अत इति। यतः संक्षेपरुच्यर्थं संक्षिप्तमन्त्रदेशना, अतः कारणात् द्वाविंशत्यक्षरं हृदयम् , सर्वसिद्धीनां कारणभूतत्वात्। उपशब्दो हीनार्थे। हीनत्वमक्षरैर्न तु फलेन। तच्च द्वयं परं वक्ष्यमाणमित्यर्थः। किञ्च संक्षिप्तं कवचमन्त्रं तावदाह - यवर्गाच्चाष्टमं बीजमित्यादि। यवर्गाच्चाष्टमं बीजं हकारः। चकार एवकारार्थो विशेषार्थो वा। मात्रैर्मात्राभिर्नपुंसकवर्जिताभिः। तथेत्यर्थविशेषवर्तिनीभिः। लक्षणे तृतीया॥ १॥

अक्षरान्तरितं कृत्वा षडङ्गः श्रीहेरुकोच्यते।
षड्वीरसमायोगैरेकाक्षरसंस्थिताः॥ २॥

अक्षरानतरितं कृत्वेति। तद्बीजमक्षरान्तरितं कृत्वा। श्रीहेरुकोच्यत इति विभक्तिलोपे सति। स च षडङ्गः षडवयवः। यथा - ह हा हि ही हु हू हे है हो हौ हं हः, इति। अक्षरेणाक्षरेणान्तरितं व्यवहितं कृत्वा श्रीहेरुक उच्यत इति सम्बन्धः। करोति ग्र[ ह ]णार्थे हकारतो हाकारेण हिकारोः व्यवहितः। ततोऽपि हिकारतो हीकारेण हुकारः। ततोऽपि हुकारतो हूकारेण हेकारः। ततोऽपि [ हेकारतो ] हैकारेण होकारः। ततोऽपि होकारतो हौकारेण हंकारः। इत्युभयव्यवधानमित्युपदेशत एषां षण्णां ग्रहणम्। एतान्यक्षराणि तानि यथा - ह हि हु हे हो हमिति षट्। कदैतानि श्रीहेरुकाद्वयवज्रभूतानि इत्याह - षडित्यादि। यथा( दा ) षड्वीरा मन्त्रा एकैकाक्षरसंस्थिता भवन्ति तदा श्रीहेरुकषडङ्गत्वम्। वीरेति प्रथमाबहुवचनलोपात्। एवम्भूताः कथमेते इत्याह - समायोगैरिति। सम्यगादौ योगाः समायोगास्तैः। हकारादेः पूर्वस्मिन् ॐकारादयः षड्वीरादय इत्यर्थः॥ २॥

ॐनमः स्वाहा वौषट् हूँ हूँ फट्कारसंयुक्तं ज्ञेयं हृदयानि तु साधकः॥ ३॥

ॐकारादीनाह - ॐ नमः स्वाहा वौषट् हूँ हूँ फट्कारेति प्रथमा बहुवचनलोपे। संयुक्तं यथा भवति तथा। ज्ञेयम् ज्ञेयानि हृदयानि षण्णां वीराणामिति। तु-शब्दात् केन ज्ञेयानीत्याह - साधक इति। तृतीयार्थे प्रथमा॥ ३॥

प्रथमं तु हृदयं चैव द्वितीयं तु शिरःस्मृतम्।
तृतीयं तु शिखां दद्याच्चतुर्थं कवचं भवेत्।
पञ्चमं तु भवेन्नेत्रं षष्ठस्यास्त्रमुच्यते॥ ४॥

इति श्रीहेरुकाभिधाने षड्वीरकवचोद्धारविधिपटलः षष्ठः॥ ६॥

प्रथमं तु हृदयञ्चैवेति। तु-शब्दः स्वदेवतां समुच्चिनोति। एवमुत्तरत्रापि। ॐ ह हृदयम्। वज्रसत्त्वः प्रथमः। हृदयमिति सप्तम्यर्थे प्रथमा। द्वितीयन्तु शिरः स्मृतिमिति। नमः हि वैरोचनः शिरसि। स्मृतं चिन्तित इत्यर्थः। तृतीयन्तु शिखां दद्यादिति। स्वाहा हू पद्यनर्तेश्वरः। चतुर्थं कवचं भवेदिति। तु-शब्दोऽनुवर्तने। वौषट् हे। कवचं श्रीहेरुकः स्कन्धद्वय इत्युपदेशतो ज्ञेयम्।
पञ्चमं तु भवेन्नेत्रमिति। हूँ हूँ हो वज्रसूर्यश्चक्षुर्द्वये। षष्ठस्यास्त्रमुच्यतेति। फट् हं हयग्रीवः। सर्वेष्वङ्गेष्वस्त्रम्। षष्ठस्येति प्रथमायां षष्ठी। हृदयादिषु सप्तम्यर्थे प्रथमाया द्वितीया। सर्वत्रैव हृदयानीति हृदयानुवर्तनम्॥ ४॥

एते मन्त्रा एतन्निष्पन्ना वा वीरा एषु स्थानेषु। षड्वीरकवचम्। मारैर्दुर्भेद्यत्वात्। तस्योद्धारः, तदभिधायकः पटलः षष्ठः। षष्ठमपाठे स्वार्थे मकारः।

इति श्रीचक्रसंवरविवृतौ षष्ठः पटलः॥ ६॥

मन्त्रोद्धारविधिपटलः सप्तमः

ततः-
स्वराणां त्रयोदशेनैव द्वितीयाक्षरयोजितम्।
एकादशस्वरसंयुक्तं षष्ठमाक्षरभूषितम्॥ १॥

पूर्वमष्टपदमन्त्राक्षरोद्धारः कृतः। इदानीं तान्यक्षराणि स्वरैर्योजयितुं प्रक्रममाण आह- स्वराणामित्यादि। तत्रैवेत्यकाक्षरोद्धारावधारणे षष्ठी। त्रयोदशमोकारम्। चकारोऽर्थविशेषे। सूर्यप्रभः सहस्त्रकिरणोज्ज्वलः मूर्द्धललाटहृदयेषु ध्यातो वशंकरोतीत्येवकार एतमर्थमवधारयति। द्वितीयाक्षरयोजितमिति। द्वितीयमक्षरं नकारात् परो मकारस्तेन योजित ओकारस्तं विदुः। ततो मो-रुपं स्यात्। एवमष्ट( षष्ठ )मादि हि प्रथमान्नकारादेव। एकादशस्वर एकारः। स चासौ संयुक्तश्चेति स तथा। अतः षष्ठमेनाक्षरेण तकारेण भूषितः। ततः ते रुपं स्यात्॥ १॥

स्वराणां चतुर्थेनैव संयुक्तं सप्तमाक्षरम्।
एकादशस्वरसंयुक्तमष्टमं चाक्षरं विदुः॥ २॥

स्वराणां चतुर्थ ईकारः। एवकारो ह्रस्वनिषेधे। तेन लक्षितं सप्तममक्षरं वकारम्। तेन वी-रुपं स्यात्। अष्टमाक्षरं रेफमेकादशस्वरसंयुक्तं विदुः। तेन रेरुपं स्यात्। क्रियेयं सर्वत्र॥ २॥

नवमं ततो गृह्याक्षरं द्वितीयस्वरसंयुक्तम्।
स्वराणां द्वितीयेनैव संयुक्तं द्वादशाक्षरम्॥ ३॥

नवमं ततो गृह्येति। शकारम्। तत इति उद्धृतात् प्रथमान्नकारात्। द्वितीयस्वर आकारः। तेन शा-रुपं स्यात्। द्वादशाक्षरं हकारम्। द्वितीयस्वरसंयुक्तं विदुः। तेन हा-रुपं स्यात्॥ ३॥

एकविंश त्ततो गृह्य द्वितीयस्वरसंयुक्तम्।
चतुर्दशाक्षरं मतं विंशत्यक्षरसमायुक्तम्॥ ४॥

पञ्चदशाक्षरं गृह्य तृतीयस्वरयोजितम्।
स्वराणां पञ्चदशं चैव शोभनं षोडशाक्षरम्॥ ५॥

एकविंशत्ततो गृह्येति। एकविंशतितममक्षरं पकारम्। द्वितीयस्वरसंयुक्तं गृहीत्वा तेन युक्तं चतुर्दशाक्षरं लकारं विदुः। ततो ल्पा-रुपं स्यात्। विंशत्यक्षरमिति। विंशतितममक्षरं नकारः। तेनाधः संयुक्तं पञ्चदशाक्षरं गकारम्। स्वराणां तृतीयः स्वर इकारः , तेन लक्षितं विदुः। तेन ग्नि-रुपं स्यात्। एवकारो दीर्घनिषेधे। पञ्चदशस्वरोऽनुस्वारः। तेनार्चितं षोडशमक्षरं सकारं विदुः। तेन सं-रुपं स्यात्॥ ४-५॥

तृतीयस्वरसंयुक्तं सप्तदशमाक्षरम्।
स्वराणां द्वितीयेनैव अष्टादशाक्षरसंयुक्तम्॥ ६॥

सप्तदशं नकारं तृतीयस्वरसंयुक्तं विदुः। परमम्ं हितमिति। गुरुबुद्धाद्यपकारिणामुच्चाटनकारित्वात् तस्य। यथा वायुमण्डलारुढः धूमपुञ्जोपमं साध्यस्य हृत्कण्ठनाभिपादद्वयभावितं तच्च [ त ]मुच्चाटयति नकाराक्षरमिति। तेन नि-रुपं स्यात्। अष्टादशाक्षरं पुनर्भकारम्। द्वितीयास्वरसंयुक्तं विदुः॥ ६॥

आकारस्वरसंयुक्तमेकविंशतिमाक्षरम्।
मातृकापञ्चमेन संयुक्तं त्रयोविंशत्यक्षरम्॥ ७॥

आकारस्वरसंयुक्तमिति। एकविंशतिमम्। एकविंशतितमं टकारं विदुः। मातृकापञ्चम उकारः। तेन संयुक्तं त्रयोविंशत्यक्षरं ककारं विदुः॥ ७॥

स्वराणां त्रयोदशमं तेन संयुक्तं चतुर्विंशत्यक्षरम्।
प्रथमस्य प्रथमं गृह्य संयोगाक्षरं पञ्चविंशत्यक्षरसंयुक्तम्॥ ८॥

स्वराणां त्रयोदशमं त्रयोदशममोकारमादाय तेन संयुक्तं चतुर्विंशत्यक्षरं टकारं विदुः। प्रथमस्य प्रथमं ककारं विदुः। चकारोऽनुक्तसमुच्चये। सूर्यसमप्रभो बिन्दुयुक्तः साध्यस्य हृन्नाभिमूर्धसु न्यस्तस्तं ककारो वशीकुरुत इति। एवकारः समुच्चितार्थावधारणे। किं भूतं तं विदुरित्याह - पञ्चविंशत्यक्षरसंयुक्तमिति। पञ्चावशतीति पञ्चविंशतितममक्षरं तकारः। तेनोपरि संयुक्तम्। तेन त्क-रुपं स्यात्॥ ८॥

तृतीयस्य प्रथमं तु द्वितीयस्वरसंयुक्तं षड्विंशत्यक्षरं भवेत्।
अष्टाविंशतिमं चैव पञ्चदशेनार्चितम्॥ ९॥

तृतीयस्य प्रथमं त्विति टकारं विदुः। इन्द्रायुधसमप्रभष्टकारः साध्यस्य ललाटहृट्कण्ठे न्यस्तो वशीकुरुत इति तु-शब्दार्थः। द्वितीयस्वरसंयुक्तमिति। टकाराक्षरं द्वितीयस्वरसंयुक्तं यत्तत् षड्विंशत्यक्षरं भवेत्। टा-रुपमित्यर्थः। तृतीयस्य प्रथमं तु द्वितीयस्य सा भवेदिति पाठान्तरे। द्वितीयस्य तु द्वितीयैव मात्रा सा। संयोगेन टारुपमेव। अष्टाविंशतिमं चैवेति। दकारं विदुः। चकारोऽनुक्तसमुच्चये। दकारो मेघसमप्रभः साध्यशिरसि चिन्तितः स्तभ्नाति। एवावधारणे। पञ्चदशस्वरोऽनुस्वारः। तेनार्चितं विदुः। तेन दं-रुपं स्यात्॥ ९॥

तृतीयस्य प्रथमेन संयुक्तमधोभागेन वह्निसंयुक्तम्।
तथैव च द्वितीयस्वरयोजितमेकोनत्रिंशतिमं चाक्षरं भवेत्॥ १०॥

तृतीयस्य प्रथमेन टकारेणाधोभागे संयुक्तम्। तदधो वह्निना रेफेण संयुक्तम्। तथैव च-शब्दात् द्वितीयस्वरेण च योजितमेकोनत्रिंशत्तमञ्चाक्षरं भवेत्। तेन ष्ट्रारुपं स्यात्। चकारः संयोगसमुच्चये॥ १०॥

एकत्रिंशत्तममक्षरं द्वितीयस्वरयोजितम्।
द्वात्रिंशत्यक्षरं त्रयोदशस्वरयोजितम्॥ ११॥

एकत्रिंशत्तममक्षरं रेफः। द्वितीयस्वरयोजितं भवेत् तेन रा-रुपं स्यात्। द्वात्रिंशत्तममक्षरं लकारः। त्रयोदशस्वरयोजितं लो - रुपं स्यात्॥ ११॥

भास्करेण समायुक्तं त्रयस्त्रिंशत्यक्षरं भवेत्।
मातृकाचतुर्थेनैव चतुस्त्रिंशत् समायुक्तम्॥१२॥

भास्करेण समायुक्तं त्रयस्त्रिंशदक्षरं भवेदिति। भास्करो रेफः। त्रयस्त्रिंशत्तममक्षरं गकारं संयोगे ग्र - रुपं स्यात्। मातृका चतुर्थ ईकारः। एवकारो ह्रस्वनिषेधे। चतुस्त्रिंशति( दिति )। चतुस्त्रिंशत्तममक्षरं भकारः। तेन भी-रुपं स्यात्॥ १२॥

सर्वकामार्थसाधकं मातृकापञ्चमेनैव।
सप्तत्रिंशत् समायुक्तं साधनं डाकिनीस्मृतम्॥ १३॥

मातृकापञ्चम उकारः। एवकारो दीर्घनिषेधे। सप्तत्रिंशदिति। सप्तत्रिंशत्तममक्षरं मकारः। संयोगे मु - रुपं स्यात्। साधनं डाकिनीति। डाकिनीनां साधनं समग्रो मन्त्रः। अथवा सप्तत्रिंशन्मकारः केवलश्च सम्यगर्कसंकाशः साध्यशिरसि ध्यातो यक्षादीन् वस( शय )तीति साधनं डाकिनीस्मृतम्। डाकिनीसम्मतम्॥ १३॥

अष्टत्रिंशतिमं चैव द्वितीयस्वरयोजितम्।
साधनं सर्वदेवानामेवमेव न संशयः॥ १४॥

अष्टत्रिंशतिमं चैवेति। अष्टत्रिंशत्तममक्षरं खकारः। तस्य द्वितीयस्वरयोगे खारुपं स्यात्। इह च सर्वत्र प्रथमा। भवेदिति क्रियायोगे। साधनं खकाराक्षरं भवेद्विदुर्वा। एवमन्यत्रापि। इन्द्रगोपसमप्रभः साध्यमूर्द्धादौ चिन्तितो वशयति सर्वदेवादीन् ख इति। चकारं समुच्चितमेवकारोऽवधारयति। अत आह - साधनमित्यादि॥ १४॥

द्वाचालीशतिमं चैव दहनेन तु संयुक्तम्।
अधोभागेन साधकः त्रयश्चालीशतिमक्षरम्॥ १५॥

द्वाचालीशतिममिति द्वाचत्वारिंशत्तममक्षरं सकारः। पूर्वोक्तार्थावधारणे चैवशब्दः। दहनो रेफः। तु-शब्दोऽवधारणे। स चाधोभागोऽस्येत्यधोभागः। तेन युक्तं द्वाचत्वारिंशतिममक्षरं तेन स्त्र - रुपं स्यात्। तच्च साधको जानीयादीति क्रियाध्याहारः। त्रयश्चालीशतिममिति त्रयश्चत्वारिंशत्तममक्षरं भकार॥ १५॥

स्वराणां पञ्चमेनैव योजितं पञ्चचालीशतिमं चैव।
द्वितीयस्वरयोजितम्॥ १६॥

तत्स्वराणां पञ्चमेन योजितम्। तेन तु भु - रुपं स्यात्। एवकारो दीर्घनिषेधे। पञ्चचालीशतिमम्। पञ्चचत्वारिंशत्तमम्। भकाराक्षरम्। चैव - शब्दः पूर्वोक्तसमुच्चितार्थावधारणे। द्वितीयस्वरयोजितं भा- रुपं स्यात्॥ १६॥

स्वराणां पञ्चमेनैव षट्चालीशसमायुक्तं सर्ववीराप्रपूजितम्।
सप्तचालीशतिमं चैव द्वितीयस्वरयोजितम्॥ १७॥

स्वराणां पञ्चमेनैवेति पूर्ववत्। षट्चालीशसमायुक्तमिति। षट्चत्वारिंशत्तमं सका राक्षरमुकारसंयुक्तं सु-रुपं स्यात्। सप्तचालीशतिमं चैवेति सप्तचत्वारिंशत्तमं रेफाक्षरम्। चैवशब्दः पूर्वोक्तार्थसमुच्चितावधारणे। द्वितीयस्वरयोगे रा-रुपं स्यात्॥ १७॥

वज्रसत्त्वः परमं हि तदेकपञ्चाशकं तथा चैव।
स्वराणां पञ्चमेन तु शोभनं परमं मतम्॥ १८॥

वज्रसत्त्वः परमं हि तदिति। तदेव रेफाक्षरं वज्रसत्त्वः। एकपञ्चाश एकपञ्चाशत्तमः शकारः। तथा चैवेति पूर्वोक्तार्थत्वमस्य सूचयति। पञ्चमेन त्विति। तु-शब्दो विशेषे। इन्द्रायुधसमप्रभः साध्यगले ध्यात उकारस्तं वशयतीति। ततश्च शु - रुपं स्यात्। शोभनं परमं मतमिति॥ १८॥

द्वापञ्चाशतिमं चैव द्वितीयस्वरयोजितम्।
साधनं सर्वदेवानामेवमेव न संशयः॥ १९॥

द्वापञ्चाशतिमं चैवेति। द्वापञ्चाशत्तममक्षरं पकारम्। चैवकारोऽनुक्तार्थसमुच्चयावधारणे। वायुना प्रेर्यमाणोऽम्बुधरारुढो ध्रूमवर्णः साधयस्य कण्ठे हृदि कट्यां पादतले ध्यातस्तमुद्वर्णयन् पकार उच्चाटयतीति। द्वितीयस्वरयोगे पा - रुपं स्यात्॥ १९॥

त्रिपञ्चाशस्तथा पुनः त्रयोदशस्वरयोजितम्।
चतुर्थवर्गाद्दकारं समुद्धृत्य चतुःपञ्चाशेन योजितम्॥ २०॥

त्रिपञ्चाशः त्रिपञ्चाशत्तमः शकारः। तथा पुनरिति पूर्वोकार्थसूचने। तमेव त्रयोदशेन स्वरेण योजितं विदुरिति क्रियानुवर्तनम्। तेन शो - रुपं स्यात्। चतुर्थवर्गाद् दकारमुद्धृत्येति। चतुर्थवर्गात् तृतीयमुद्धृत्येति वक्तव्ये यद्दकारमित्युक्तं तत्कवर्गाच्चतुर्थत्वसूचनाय। अन्यथा अवर्गात् कवर्गाद्वेति सन्देहः स्यात्। ततो द्दकारे लिपिभ्रान्त्या किमिदमुकारयुगं दकारयुगं वेति संदिह्येत। चतुःपञ्चाशेति। चतुःपञ्चाशत्तमो यकारः। तेन योजितं विदुः। तेन द्य-रुपं स्यात्॥ २०॥

षट्पञ्चाशदक्षरं षष्ठस्वरयोजितम्।
ध्रुवं शत्रुनिकृन्तनमन्तःस्थानां चतुर्थेन॥ २१॥

षट्पञ्चाशदक्षरं षट्पञ्चाशत्तममक्षरं शकारः। षष्ठस्वर ऊकारस्तेन योजितं विदुः। तेन शू-रुपं स्यात्। ध्रुवं शत्रुनिकृन्तनमिति क्लेशशत्रुजयात्। अन्तःस्थानां चतुर्थो वकारः। सहार्थे तृतीया॥ २१॥

द्वितीयस्वरयोजितं तथा पञ्चदशान्वितम्।
साधनं सर्वसिद्धीनां ऊनषष्टि चाक्षरं भवेत्॥ २२॥

ऊनषष्टितममक्षरं द्वितीयस्वरयुक्तेन वकारेण तथा योजितं पञ्चदशान्वितं साधनं सर्वसिद्धीनां भवति। विदुरिति क्रियाया वा द्वितीया। तेन ट्वां - रुपं स्यात्। अनुशंसा चेयं टकारमात्रस्य समग्रस्य मन्त्रस्य वा॥ २२॥

एकषष्टिमाक्षरसंयुक्तं स्वरेण द्वितीयेन तु।
एवमेव विदुर्वरा द्वाषष्टिस्तथा चैव॥ २३॥

एकषष्टिमाक्षरेति धकारम्। द्वितीयस्वरसंयुक्तं धा - रुपं विदुः। तु-श्बदो धकारस्य केवलस्य पूर्वोक्तार्थाभिधायी। एवमेव विदुर्वरा इति बुद्धाः। द्वाषष्टीति द्वाषष्टितममक्षरं रेफं विदुः। तथा चैवेति पूर्वो[ क्ता ]र्थप्रकारसमुच्चयावधारणे॥ २३॥

तृतीयस्वरयोजितं [ डाकिनीनां ] परमम् मतम्।
त्रिषष्टिः पुनश्चैव एकादशस्वरसंयुक्तम्॥ २४॥

तत्तृतियस्वरयोगे रि-रुपं स्यात्। त्रिषष्टीति। त्रिषष्टितमो म( ण )कारः। पुनश्चैवेति पुनरुद्धरणं समुच्चयावधारणे। तमेकादशस्वरसंयोगे णे-रुपं विदुः॥ २४॥

शोभनं वर्णोत्तमं पञ्चषष्टिस्तथा चैव।
वज्रसत्त्वेन भेदितं द्वितीयस्वरयोजितम्॥ २५॥

पञ्चषष्टीति घकाराक्षरम्। वज्रसत्त्वो रेफः। तथा चैवेति पूर्वोक्तार्थप्रकारसमुच्चयावधारणे। तेन घ्रा - रुपं विन्द्यात्॥ २५॥

इदं बीजं परं दिव्यं सिद्धिदं मोक्षदं महत्।
षट्षष्टि अक्षरं तु तृतीयस्वरयोजितम्॥ २६॥

[ सिद्धिदं ] सर्वकार्येषु तथागतं इदं ब्रवीत्।
सप्तषष्टिमाक्षरसंयुक्तं द्वितीयस्वरयोजितम्॥ २७॥

षट्षष्टीति। षट्षष्टितममक्षरं जकारम्। तथागतोऽब्रवीत्। चकारः पूर्वोक्तार्थसमुच्चये। तृतीयस्वरयोगे जि - रुपं स्यात्। सप्तषष्टिमाक्षरेति सप्तषष्टिममक्षरं नकारमब्रवीत्। द्वितीयस्वरयोजितं ना - रुपं स्यात्। तच्च संयुक्तमर्थेन॥ २६-२७॥

योगिनीनां सर्वकार्येषु एवमेव न संशयः।
अष्टषष्टि पुनश्चैव बकारं तत्र योजयेत्॥ २८॥

[ अनेन बीजाक्षरेण ] अधोभागे प्रकल्पयेत्।
एकसप्तत्यक्षरं चैव द्वितीयस्वरयोजितम्॥ २९॥

अष्टषष्टीति। अष्टषष्टितममक्षरं मकारमब्रवीत्। पुनश्चैवेति पूर्वोक्तार्थसमुच्चयावधारणे। बकारं तत्र योजयेदिति मकारेऽधोभागे प्रकल्पयेत्। तेन म्ब - रुपं स्यात्। एकसप्तत्यक्षरम्। एकसप्ततिममक्षरं रेफमब्रवीत्। चैव - शब्दः पूर्वोक्तार्थसमुच्चयावधारणे। द्वितीयस्वरयोगे रा - रुपं स्यात्॥ २८-२९॥

शोभनं सर्ववर्णानामेवमेव न संशयः।
चतुःसप्ततिमं चैव द्वितीयस्वरयोजितम्॥ ३०॥

चतुःसप्ततीति। चतुःसप्ततिममक्षरं हकारमब्रबीत्। चैव - शब्दः पूर्ववत्। द्वितीयस्वरयोगे हा - रुपं स्यात्॥ ३०॥

आदिसिद्धिदं तथागतमुखोद्गतम्।
पञ्चसप्ततिमं चैव मात्रिकाषष्ठमेव च॥ ३१॥

पञ्चसप्ततीति। पञ्चसप्ततिममक्षरं धकारमब्रवीत्। चैव पूर्ववत्। मात्रिकाषष्ठयोगे तच्च धू - रुपं स्यात्॥ ३१॥

एष योगवरः श्रेष्टः सर्वयोगेषु चोत्तमः।
षट्सप्ततिं चैव मातृकाद्वितीयेन तु॥ ३२॥

षट्सप्ततिमं षट्सप्ततिममक्षरं मकारं मात्रिकाद्वितीयेन भेदयेत्। चैवशब्दः पूर्ववत्॥ ३२॥

सूर्येण भेदयेच्चैव वकारं तत्र योजयेत्।
नान्यत् परमं शोभनं सप्तसप्तत्यक्षरसंयुक्तम्॥ ३३॥

सूर्येण भेदयेच्चैव वकारं तत्र तयो रुपं त्वधोभूतयोर्मध्ये योजयेत्। तेन म्व्रारुपं स्यात्। नान्यत् परमं शोभनमिति। म्व्रा - बीजात्। सप्तसप्तत्यक्षरेति। सप्तसप्ततितममक्षरं नकारं संयुक्तं पूर्वोक्तेनार्थेनाब्रबीत्॥ ३३॥

धकारं तत्र योजयेत् शोभनं डाकिनीमतम्।
अष्टसप्ततिं चैव द्वितीयस्वरयोजितम्॥ ३४॥

धकारेणाधोभागयोगे न्ध - रुपं स्यात्। अष्टसप्ततीत्यष्टसप्ततिममक्षरं ककारः चैव पूर्ववत्। द्वितीयस्वरयोगे का - रुपं स्यात्॥ ३४॥

[ एतद्बीजं परं दिव्यं ] कारणं परमं मतम्।
एकाशीत्यक्षरं चैव चतुर्थान्तस्वरभेदितम्॥ ३५॥

एकाशीत्यक्षरमेकाशीतिममक्षरं प -रुपं ( पकारं ) चतुर्थान्तस्वरभेदे पु - रुपं स्यात्। चैव पूर्ववत्॥ ३५॥

आदिसिद्धिकरं ह्येतत् सर्वसिद्धिप्रवर्तनम्।
द्वाशीत्यक्षरं चैव तथा द्वितीयस्वरयोजितम्॥ ३६॥

[ इमं तु परमं दिव्यं ] मूलमन्त्रं विदुर्वराः।
आलयं सर्वसिद्धीनां डाकिनीनां हृदयमर्दनम्॥ ३७॥

द्वाशीतिममक्षरमिति। द्वाशीतिममक्षरं षकारं चैव पूर्ववत्। द्वितीयस्वर योगे षा - रुपमब्रवीत्। मूलमन्त्रोऽयमष्टपदः। अत आह - मूलमन्त्रं विदुर्वरा इति॥ ३६-३७॥

श्रीहेरुकदेवस्य विद्याराजपठितसिद्धिरयं मन्त्रः। ॐकारादि हूँ २ फट्कारान्तयोजितो मूलमन्त्रः सर्वकामार्थसाधकः॥ ३८॥

इति श्रीहेरुकाभिधाने मन्त्रोद्धारविधिपटलः सप्तमः॥ ७॥

श्रीहेरुकैर्दीव्यतीति श्रीहेरुकदेवः। तस्य विद्याराजो मन्त्रः करकरेत्यादि। ॐकारादि हूँ हूँ फट्कारान्तयोजिता इति निर्विभक्तिकं प्लुतोच्चारणम्। मन्त्रप्रभावलोचने एतद्विशेषणं मूलमन्त्रस्य विद्याराजस्य च। अत आह - अयं मन्त्र इति। न केवलं मूलमन्त्र ॐइत्यादिपदविशिष्टः किं तर्ह्ययं विद्याराजोऽपीत्यर्थः। सर्वसाधनवर्जिता इति। हृदयोपहृदयकवचमन्त्रा मूलमन्त्रो विद्याराजश्च सर्वैः साधनैर्लिखनादिभिर्वर्जिताः॥ ३८॥

मूलमन्त्रस्य सर्वभावेन विद्याराजस्य चांशेनोद्धारस्तद्विध्यभिधायकश्चासौ पटलश्चेति स तथा सप्तम इति।

इति श्रीचक्रसंवरविवृतौ सप्तमः पटलः॥ ७॥

विपरीतहृदयषड्योगिनीमन्त्रोद्धारविधिपटलोऽष्टमः

ततः स्वमात्मानं सर्ववीरसमायोगम्।
सर्वसिद्धिसमावहं डाकिनीजालसंवरम्॥ १॥

हृदयोपहृदयमन्त्रौ प्रागुद्दिष्टौ, षड्योगिनीकवचमन्त्रो वज्रवाराह्या हृदयमन्त्रश्चानुदिष्टः। ते सर्वे क इत्याह - तत इत्याह - तत इत्यादि। तत एवालिकालिसमुदायात् सर्ववीरसमायोगडाकिनीजालसंवरं समुद्धरेदिति द्रष्टव्यं सर्वेत्यादिना। श्रीहेरुकस्तन्मन्त्रोऽपि तथोच्यते यथैते वर्णा हास्वारमित्यादयः सिद्धा मन्त्रगता दर्श्यन्ते तथाऽऽलि[ कालि ]भ्यामेवैवंभूताः पृथक्कृता इति समुद्धारः, विलोमरुपेण गोपादुद्ध्रियमाणत्वात्। किं भूतमित्याह - स्वात्मानमिति। निजं चित्तमित्यर्थः॥ १॥

हा स्वा रं व सं ल जा नी कि डा ट्फ हूँ हूँ कं रु रु हे हे ज्रव श्री ॐ॥ २॥
विद्याराजस्य हृदयं न भूतो न भविष्यति॥ ३॥

ॐ श्रीवज्र हे हे रु रु कं हूँ हूँ फट् डाकिनीजालसंवर स्वाहेत्यनुलोमेन लिखनं समुद्धारः। हृदयमन्त्रो द्वाविंशत्यक्षरोऽयम्। कस्य हृदयमित्याह - विद्येत्यादि। ॐ कर करेत्यादि विद्याराजस्य हृदयमष्टपदस्य च हृदयं संक्षिप्तमुच्यते। अस्य सामर्थ्यमाह - न भूत इत्यादि। अतीतानागतयोः कालयोर्न मया कस्मैचिदयं मन्त्रः कथितः कथयिष्यते चेति भावः॥ २-३॥

ट्फ हूँ २ ह ह ह्रीँः ॐ। ट्फ हूँ ह्रेँ ह्रीँ हाँ ॐ॥ ४॥

षड्योगिनीकवचमन्त्रोद्धारमाह - ट्फेत्यादि। ॐ हाँ ह्रीँ ह्रेँ हूँ फदिति प्रगुणीकृतोऽयं ट्फ हूँ ह्रेँ ह्रीँ हाँ ॐ इति वर्णराशिः॥ ४॥

वँकार - योँकार - मोँकार - ह्रीँकारमेव च।
हूँकार - फट्कारः समाख्यातः षड्योगिन्यः प्रकीर्तिताः॥ ५॥

वंकारश्च योँकारश्च मोँकारश्च ह्रीँकारश्च हूँकारश्च फट्कार एव चेति। ॐकारादयो वँकारादीनामादौ योज्याः। ॐ वँ वज्रवाराही नाभौ। हाँ योँ यामिनी हृदये। ह्रीँ मोँ मोहनी वक्त्रे। ह्रेँ ह्रीँ संचारिणी शिरसि। हूँ हूँ त्रासनी शिखायाम्। फट् फट् चण्डिका सर्वाङ्गेष्वस्त्रम्। चकारः सर्वत्र परस्परसव्यपेक्षश्च। एवकारः स्वार्थावधारणे। षड्योगिन्यः प्रकीर्तिता इति वज्रवाराह्यादयः॥ ५॥

हा स्वा ये नी च रो वै ज्र व ॐ।
डाकिनीनां तु महाविद्या न भूतो न भविष्यति॥ ६॥

षड्योगिनीकवचमन्त्र उद्धृतोऽयम् - ॐ वज्रवैरोचनीये स्वाहेति। वज्रवाराह्या उपहृदयमन्त्रोऽयं गोपादुध्हृतः। यत ॐ वज्रवैरोचनीये स्वाहेति स्थिते हूँ हूँ फट्कारौ गोपितौ, तौ च स्वाहाकारात्प्राक्। डाकिनीति। वज्रवाराह्यादीनां मन्त्रो डाकिनी। तु - शब्दो महात्म्यप्रदर्शने। न भूत इति। मन्त्रविशेषणत्वात् जात्यैकवचनम्॥ ६॥

पृथिव्यां चतुरो रत्ना मन्त्रमाला तु चोत्तमा।
डाकिनी तु महाविद्या विद्याराजा च हेरुकम्॥ ७॥

इति श्रीहेरुकाभिधाने विपरीतहृदयषड्योगिनी मन्त्रोद्धारविधिपटलोऽष्टमः॥ ८॥

पृथिव्यामित्यादि। यावन्तो लोकधातवस्तावत्सु याः पृथिव्यास्तासु जात्यैकवचनम्। चतुरो रत्ना इति। चत्वारि रत्नानि। रतिं तन्वन्तीति कृत्वा। कानि तानीत्याह - मन्त्रमालेत्यादि। मन्त्रमाला मालामन्त्रः स चाष्टपदः। अतस्तुशब्दो विशेषे मकारो व्याख्यातः। अत एवोत्तमा। डाकिनी तु मजाविद्येति। वज्रवाराह्यादिमन्त्रः। तुशब्दोऽवधारणेः। विद्याराजा ॐ कर करेत्यादिः। चकारः समुच्चये। श्रीहेरुकम्। एतदर्थज्ञानं भुजमुखादिरुपं च॥ ७॥
विपरीतहृदयषड्योगिनीवज्रवाराहीमन्त्रोद्धारविधिपटलोऽष्टम इति पटलस्यास्य पिण्डार्थः।

इति श्रीचक्रसंवरविवृतौ अष्टमः पटलः॥ ८॥

मूलमन्त्रस्य कर्मविधिपटलो नवमः

अथातो मूलमन्त्रस्य कर्मवरं वक्ष्ये यथावदनुपूर्वशः।
त्रैलोक्ये यद्भवेत् किञ्चित्तत्सर्वं साधयेत् क्षणात्॥ १॥

सामर्थ्यश्रवणं विना न मन्त्रप्रवृत्तिरिति, तत्कथनाय नवमं पटलमाह - अथेत्यादि। अथेति मन्त्रोद्धारनन्तरम्। कर्म वक्ष्ये इति सम्बन्धः। तच्च वरमीप्सितम्। कुत इत्याह - अत इति। यतःफलदर्शनं विना नोपाये प्रवृत्तिः, मूलमन्त्रस्य प्रथमोक्तत्वात्। कर्म कार्यम्। एतच्च स्वयमेव उक्तवान् भगवान् यथावदितिप्रचयेन। अनुपूर्वश इत्यानुपूर्व्या। मन्त्रस्य कर्तृत्वमाह - त्रैलोक्ये यद्भवेद् विद्यते, किञ्चित् किमपि तत्सर्वं निःशेषं साधयेत्। क्षणाल्लक्षणजापानन्तरम्॥ १॥

सर्व[ कर्माणी करोति ] सर्वनागान् सर्वदेवान् सर्वयक्षान् [ सर्वगन्धर्वान् ] सर्वयोनयः सकृत् स्मरणान्मारयति।

मेघान् त्रासयति वर्षापयति निवारयति। समुद्रान् शोषयति। नदीं कूलमुपनयति। इन्द्रं निवारयति। अस्य मन्त्रलक्षजापेन पृथिवीं चालयति।

वृक्षमारुह्य यत्रेच्छति तत्र गच्छति। सर्वमन्त्रानपहरति सर्वसिद्धिमपहरति। रुचितमाकर्षयति, पुनर्विसर्जयति।

रुपसहस्त्राण्यनेकानि कुरुते। इच्छया दृश्यते, इच्छया न दृश्यते। प्रासादद्रुमशिखरादींश्चूर्णयति। विषममृतं करोति। अमृतं विषं करोति। सोमं पयः करोति। पयः सोमं करोति।

सर्वगन्धानपहरति। यत्रेच्छति तत्र संक्रामति। मुखगरुडो यानसृष्टिकृत् सोमसंगमे स्त्रीणां यः समाचरति नरः श्रेष्ठः। तत्र हस्तगता लक्ष्मीर्न के[ न ]चित् प्रतिहन्यते।

एवं विधिसमायुक्तं सर्वसिद्धिफलभाग् भवेत्। स्मरणान्मारयति। अग्निमुत्पादयति। पातालं विदारयति अस( श )निं च पातयति [ पुनर्निवारयति ]। विद्युत् स्मरणादुत्पादयति। सर्वदेवप्रतिमां नर्तापयति। यस्य सिद्धिर्नामग्रहाय सकृज्जप्तेन तत्क्षणादेव म्रियते। अशेषाणां तु भुवनानां भोक्ता भवति। इच्छया संग्रहति एष भगवान्।

न व्रतं न चर्या नोपवासो विधीयते।
अनेन कल्पोपचारेण कर्म कुर्याद्यथेप्सितम्॥ २॥

साधकव्यापारमाह - सर्वमित्यादि। वैरवधारणे। कर्माह - सर्वेत्यादि। सर्वनागान् दृष्टिविषादीननर्थकर्तॄन् , अतस्तेषां प्रागुक्तत्वात्। सर्वदेवान् हरिहरहिरण्यगर्भादीन्। सर्वयक्षानोजोहारादीन्। सर्वयोनय इति। क्रूरा मानुषाः। कर्मणि प्रथमा। देवान् प्राणातिपातादिना देवनकारिणः। मारयति प्राणैर्वियोज[ य ]ति साधकः। मध्यस्थानक्रूरांश्च प्रति सामर्थ्यमुक्तम्। पुनरुत्पादनसामर्थ्यमप्युन्नेयम् अन्यथा कारुणिकस्यासामर्थ्यमेव प्रसज्येतेति।

इदानीमचेतनान् प्रति सामर्थ्यमाह - मेघानित्यादि। त्रासयति चालयति। खण्डखण्डीकरोतीत्यर्थः। वर्षमाप्नोतीति वर्षापः। वर्षापं करोतीति वर्षापयति मेघान्। सुबोधं शेषम्। नदीमिति। वेगवतीम्। एतेन किमित्याह - इन्द्रं निवारयतीति। इन्द्रं जात्यैकवचनम् , इन्द्रन्तीतीन्द्राः। चेतनाचेतनाधिपतीनकार्यकारणान् निषेधयतीत्यर्थः। चालयतीति स्फोटयति।

वृक्षमित्यादिना निश्चेतनं सचेतनवत् करोतीति दर्शयति। सर्वमन्त्रानिति। अवतारितानप्यपहरति। इतो वागपहारो दर्शितः। सर्वेषां रसदीनां सिद्धिर्निष्पत्तिः सर्वसिद्धिः। सिद्धिमपि द्रव्यादिकमहरतीति भावः। आहारं रुचितमपकर्षयतीति। रुचितमिष्टमन्यतो गृह्णाति। पुनर्विसर्जयतीति मन्त्रादि।

कायगतं मन्त्रसामर्थ्यमाह - रुपेत्यादि। अनेन बहुभुजमुखादित्वं दर्शितम्। इच्छयेति। योगिन इच्छया योगी दृश्यते न दृश्यते चेत्यदृश्यतासिद्धिरितिरुपगोपनसामर्थ्यम्। अथवा यद्रूपं योगिनो द्रष्टादि द्रक्षति तत्तस्यानेयं ज्ञात्वा स दर्शयतीतीच्छादर्शनम्। प्रासादेत्यादिना सुघटितस्यापि विघटनं दर्शितम्। आदिशब्दात् पाषाणशैलप्राकारादयो दर्शिताः। इति सुघटितविघटनसामर्थ्यम्। विषमित्यादिना वस्तुस्वरुपाऽन्यथात्वकरणसामर्थ्यम्। सोमं मद्यम्। पयो जलम्। सर्वेत्यादिना मद्यादिगन्धापहारो दर्शितः। एतेन योगेन विनेय[ स्य ] तं प्रति तत्र सामर्थ्यं प्रतिपाद्यमिति सूचितम्।

अन्यथा व्याख्यानं चास्ति - सर्वनागान् सर्वक्लेशान्। सर्वे दीव्यन्त [ ए ]भिरिति सर्वदेवा विषयरुपादयः। सर्वथा जयत्येभिरिति। सर्वयक्षाः। जकारे यकारो नैरुक्तः। ते चेन्द्रियाणि सर्वेषाम्। योनय उत्पत्तिहेतवः सर्वयोनयः सर्वसिद्धिकर्माणि। स्मरणात् मन्त्रचिन्तनात्। मारणं विशोधनम्। मेघान् डाकिनीनाडीसन्धीन् त्रासयति द्रावयति वर्षापयति। बोधिचित्तं च्यावयति। निवारयति तेषु तत्पुनः स्थिरीकरोति। समुद्रान् पापान्। नदी बीजमूर्ध्वीकरोति। इन्द्रं चित्तम्। सर्वाधिपत्यान्निवारयति स्थितयति। अस्य मन्त्रलक्षजापेनेति। मन्त्रस्येति षष्ठीलोपे। लक्षत इति लक्षः श्रीहेरुकः। पचाद्यम्। तस्य जापो मानसो व्यापारो भावनेत्यर्थः। सर्वमिदं मन्त्रजापश्रीहेरुकभावनाभ्यामिति भावः। मण्डलवर्तनकाले पृथिव्यभ्यर्थना पृथिवीचालनम्। वृक्षः पञ्चाकारो योगस्तमारुह्य यत्रेच्छति यमिच्छति लब्धुं , तं प्राप्नोति। इष्ट इह श्रीहेरुक एवेत्याहूतम्। साधनोक्तेन विधिना प्रणवादिनिःस्वभावीकरणं नादादेर्बिन्द्वादौ प्रवेशादिति सर्वेत्यादिना प्रतिपादितम्। पुनस्सर्वेत्यादिना नादादिप्रवेशसिद्धिर्नादादिनिर्गमात् सर्वसिद्ध्युपहारः। रुचितमित्यादिना स्फरणादि। रुपेत्यादिना ॐ कर करेत्यादिना मन्त्रविभागः। इच्छयेत्यादिना प्रणिधिः। नेत्यनभिनिवेशात्। प्रसीदत्यस्मिन् मन इति प्रासादः कायः। द्रवतीति द्रुः। आगमशासनमनित्यमिति न तुक्। द्रुरेव द्रुमो वेदना। शिखरं चित्तम्। आदिशब्दाद् धर्माः। चूर्णयति प्रज्ञाशस्त्रेण विभज्यते। इतश्चतस्त्रोऽनुस्मृतय उक्ता इति शून्यता दर्शिता। विषं विषयममृतममृतोपमम्। अमृतमप्रसादविषयं करोति सेवते। अमृतं प्रद्योतस्येव निर्वानं विमोक्षस्तस्य चेतस इति निर्वाणं विषमिव करोति असेव्यत्वात्। रुपादीन् विशोध्य भुंक्त इति भावः। सोममिति। सह उमाभ्यां वर्तत इति सोम ॐकारः। उश्च मश्चेत्युमौ विलोमेन संधानम्। अर्द्धचन्द्रनादावुपदेशात्। पकारो जलं वारुणत्वात्। करोतीति द्वयेऽपि। पुनः पयः सोममिति पूर्ववत्। ततोऽयं मन्त्रः। ॐ व व ॐ इति वारुणे मण्डले कुन्देन्दुधवलाश्चतुरो मन्त्राश्चतसृषु दिक्षु शुचिवस्त्रादिभूषितं साध्यश्चेत्तन्मध्ये विचिन्त्य पुरतस्तन्मन्त्रं क्षरद्भिरमृतबिन्दुभिस्तं सिञ्चेत् जपेत्।

तत्किमित्याह सर्वेत्यादि। गन्धो रोगविषादि। शेषं सुस्थम्। मुखं द्वारमुपाय इति पर्यायः। मुखाभ्यां गमनोपायाभ्यां पक्षाभ्यामिव गरुडो मुखगरुडः। अथवा मुखेति तृतीयालोपे। गरुडो गरुडवद् बाहुद्वयस्य पक्षवच्चालनात्। यानस्य गमनस्य सृष्टिर्निष्पादनं करोतीति यानसृष्टिकृद् यगी। सोमयोः प्रज्ञोपायसम्भवयोर्बोधिचित्तयोः सङ्गमस्तं समाचरति। यः स्त्रीणां पुष्पवतिनां नरो विवेकित्वात्। श्रेष्ठोऽसाधारणः। एतेन तद्बोधिचित्तं मुखेनादाय गरुडवत्पक्षद्वयमुच्चालयन् प्रज्ञामुखे दत्त्वा शेषं स्वयमभ्यवहरेत्। एतच्च जप्तलक्षाष्टपदमन्त्रोच्चारणसमं साध्यम्। तत्र गता स्थिता लक्ष्मीर्विभूतिर्भवन्ती न केनापि देवपुत्रमारेन प्रतिहन्यते विघ्नादिति यावत्। उपदेशस्त्वयं ' कूटयोर्हानियोगेन मुर्मुकुटमिति स्मृतम् ' इति मुर्मुकुटं खो मूलं मुखद्वयज्ञानविशुद्धः। ग उत्तरं हेत्वादिशून्यताविशुद्धः। रु पश्चिमं प्रणिधाननिर्मुक्तिविशुद्धः। डो दक्षिणं न क्वचित् स्थितिविशुद्धः। समुदायेन मुखगरुडाः सन्त्यस्येति मुखगरुडः श्रीहेरुकः। सोमसङ्गमं यः समाचरति स मुखगरुड इति योज्यम्। किम्भूत इत्याह - यानसृष्टिकृदिति। यानं प्रज्ञोपायज्ञानाम् , तेन सृष्टिरुत्पादस्तत्कृत्। केषामित्याह - स्त्रीणामिति योगिनीनाम्। सकारोऽर्धचन्द्रोऽमृतबीजत्वात्। तत उकारः। ततः खण्डमकारोऽनुस्वारवाचकः। अकारोऽधः पार्श्वदण्डवाचकः। सोमैः संगच्छत इति सोमसङ्गमो हकारः। समुदायेन हूँकारः। नाद उपदेशात्। तं समाचरति जानाति भावयतीति यावत्। नर इति। नृ नय इति भौवादिको धातुः नरति यथास्थानं देवीं पश्यतीति नर इति पचाद्यत् । श्रेष्ठो नायकत्वात्। हूँकारजवरटकस्थं हूँकारवज्रं ततो जातः श्रीहेरुकः। सृष्टिकृदिति समुदायार्थः। तत्र हस्तगता लक्ष्मीर्वज्रवाराही न केनचित् कवचयोर्मध्ये केनापि प्रतिहन्यते प्रत्यङ्गं न प्राप्यते।

एवं पूर्वोक्तेन विधिना समायुक्तं यथा भवति तथा सर्वसिद्धिफलभाग्भवेत्। स्मरणादित्यादिना मनुष्यतिर्यग्नरकगतं सामर्थ्यम्। अग्निं रेफम् आग्नेयमण्डले रेफं त्र्यस्त्रं विभाव्य वायुमन्डलप्रेरणादग्निं जनयति, अकस्माद्वा, मन्त्रशक्तेरचिन्त्यत्वात्। पातालं विदारयतीति। पातालस्थमुरगसमुहं पातालं विदारयतीति यूयमकिञ्चित्करा इति विडम्बयतीत्यर्थः। भीषयत इति वा। अशनिं च पातयतीति। चकारादन्यच्च शस्त्रविशेषम्। अशनिं भोजनमिच्छया कुतोऽप्यानयतीत्यर्थान्तरम्। विद्युदिति। कर्मणि प्रथमा। विना मेघं विद्युदुत्पादः। विद्युच्छोभा दीप्तिः। स्मरणाच्चिन्तनात्। तामुत्पादयति वा। विद्युद्वसुधारा तां स्मरणाद् हूँकारादुत्पादयतीत्यर्थान्तरम्। शेषं सुस्थम्। यस्य सिद्धिर्नामग्रहणायेति। नामग्रहणार्थं यस्य मन्त्रादिसिद्धिर्भवति, योऽतिशयेन मन्त्रसिद्धोऽपीत्यर्थः। नामग्रहणेन मन्त्रसिद्धिरिति समुदायार्थः। सोऽपि सकृज्जप्तेन मन्त्रेण म्रियते। अतिशयतीर्थिकमन्त्रसिद्धिसामर्थ्यम्। कामधात्वादीनां भुवनानां भोक्ता पालयिता। अथवा भुवनानां विस्तारयिता निर्मातेत्यर्थः। अत आह - इच्छयेत्यादि। नियमादिना विना सिद्ध्यतीत्याह - एष इत्यादि। एष इहाष्टपदो मन्त्रः, स यथेप्सितं कर्म कुर्यादिति सम्बन्धः। व्रतं महाव्रतादि। चर्या अवधूतादिरुपता। आहारं विना अहोरात्रस्थितिरुपवासः। अत एवोक्तं पठितसिद्ध इति। कल्पशास्त्रम् , तत्रोक्त उपचारो विधानम्। यथेष्टविहारः॥ २॥

यदि क्रुद्धः सकृदावर्तयति कोटिं मारयति। शान्तेन वर्तितो जीवापयति। श्मशानाङ्गारेण सकृज्जप्तेन यमाहनति स तत्क्षणात् पतति। भस्म परिजप्य यमाहनति स तत्क्षणात् पिशाचेन गृह्यते। श्मशानाङ्गारेण फलके भित्तौ वा रात्रौ यस्य नाम लिखति स महाग्रहेण गृह्यते।
अतिमुक्तिकलतया सकृज्जप्तया यमाहनति स तत्क्षणात् पवनवेगेनागच्छति। स( श )र्करया सकृज्जप्तया यं ताडयति स स्तम्भितो भवति। यत्रेच्छति तत्र संक्रामति। गुग्गुलं सकृत् परिजप्य धूपं प्रयोजयति, स सर्वसत्त्वानावे[ श ]यति। हस्तं सकृत् परिजप्यं मुखं प्रच्छाद्य कालदष्टमुत्थापयति। डाकिनीमुद्रामुद्रितस्य सकृज्ज्पतेनोदकेन स्तम्भयति। सकृज्जप्तया करवीरलतया यत्रेच्छति तत्र संकामयति गर्भम्॥ ३॥

इदानीं भैषज्यसहकारिणो मन्त्रस्य सामर्थ्यमाह - यदीत्यादि। लोहमलममुकस्य मुण्डमद्यीति चर्व[ य ]न् क्रुद्धः सकृदावर्तयन्मन्त्रं सत्त्वानां कोटिं मारयति। शान्तेनाक्रोधेन चित्तेन मूर्ध्नि जीवन्तीं परिधायावर्तनात्प्रत्यानयनं जीवस्यापः प्राप्तिः जीवापः तं करोतीति जीवापयति। अरिष्टवृक्षस्य दक्षिणदिग्गतां शाखां चण्डालादिकुठारच्छिन्नामादय कृष्णाष्टम्यां चतुर्दश्यां रात्रौ श्मशाने दग्ध्वा तस्य पत्ररसेन निर्वाप्याङ्गारो भस्म च ग्राह्यम्। अथवा श्मशानेति। श्मशानगतं भस्म। तृतीयालोपे सति। अङ्गारेणेति। मङ्गलवारे मङ्गलवारगृहीतेन तेन भस्मनायं विधिरिति समुदायार्थः। मन्त्रलक्षजापानन्तरमित्यतिमुक्तकलतामण्डलो( मनुसृत्यो ) पवेशनात् कन्याकर्तितसूत्रं त्रिगुणीकृतहरिद्रारसरञ्जितपश्चिमदिग्गतां तच्छाखां संवेष्ट्य विवसनो मुक्तकेशः सोमग्रहे मोक्षपर्यन्तं वामेन हस्तेन गृहीत्वा निरन्तरं जपेत्। ततः सा ग्रहीतव्या। अग्रेणागच्छति मूलेन निवर्तते। सकृज्जप्तेनेति भावे क्तः। स्तम्भित इति पीतभावनया। शेषं सुबोधम्॥ ३॥

न ज्ञात्वा श्रीहेरुकं ज्ञानं सिद्धिं त्वभिकाङ्क्षति।
तुषाणां कण्डयति स तु मन्त्रेणानेन रहितः॥ ४॥

नैरात्म्यानुविद्धमेव भावनादित्याह - न ज्ञात्वेत्यादि। श्रीकारमद्वयं ज्ञानमित्यादिज्ञानं श्रीहेरुकज्ञानम्। सिद्धिरिति द्वितीयार्थे प्रथमा। तुरतिशयार्थः। विशिष्टां सिद्धिमभिमतां कांक्षतीत्यर्थः। तुषाणां कण्डयति स त्विति। असारकण्डनमेव तस्य। सारकण्डनेन हि असारपरिहारात् सारावस्थानम्। आदावेव सारग्रहणान्न तस्य सिद्धिरिति भावः। नैरात्म्यामन्त्रमन्तरेण सिद्धिरित्याह - मन्त्रेणानेन रहित इत्यादि। मूलमन्त्रेण। अतो मन्त्रस्यासाधारणरुपमुक्तम्॥ ४॥

न च सिद्धिं न च सौख्यं लभते नरः।
अविदित्वा इदं मन्त्रं योगित्वम भिकाङ्क्षति॥ ५॥

सिद्ध्यति साक्षाद्भवतीति सिद्धिः सम्यक्संबोधिः। सौख्यं लोकोत्तरादिसुखम्। नर इति नयस्थोऽपि। प्रज्ञोपायाद्वययोगं विना न सिद्ध्यतीत्याह - अविदित्वेत्यादि। मन्त्रं प्रज्ञोपाययोगम्॥ ५॥

वृथा परिश्रमं तस्य नैव तत्फलमाप्नुयात्।
कामाचारोऽयं मन्त्रः सर्वसिद्धि प्रदायकम्॥ ६॥

[ न व्रतं न तपो ध्यानं मन्त्रं मुद्रां च साधकः ]।
सुगतवर्णितं यं ज्ञात्वा खानपानादि चरु भोज्यभोजनम्।
रसाद्याः सर्वसिद्धिश्च [ प्राप्नोत्येव हि ] साधकः॥ ७॥

इति श्रीहेरुकाभिधाने मूलमन्त्रस्य कर्मविधिपटलो नवमः॥ ९॥

वृथापरिश्रमो भावनादिलक्षणोऽस्येति तत्तथाचेष्टितम्। कामाचारोऽयं मन्त्र इति। पञ्चकामोपभोगेन सिद्ध्यति। अत एवोक्तम् - न व्रतमित्यादि। कोऽसौ मन्त्र इत्याह - सुगत इत्यादि। सुगतैर्वर्णितो निरुपितः। तादृशं यं ज्ञात्वा। मन्त्रमुद्रामन्त्रजाश्च देवताः साधको भवति। खानेत्यादि। खानं खादनं पानं समदमदञ्च पेयम्। आदिशब्दाल्लेह्यचोष्यादिकम्। चरुरुत्सृष्टम्। भोज्यं भक्ष्यम्। तस्य भोजनं भोगः। रसः शब्दः। आद्यशब्दाद्रूपगन्धरसस्पर्शा ग्राह्याः। एताः आत्मनः पूजा ज्ञात्वा साधकः सर्वसिद्धिर्भवति। सर्वाः सिद्धयो यतो भवन्ति स तथा। एतेन यथेष्टचेष्टा विषयोपभोगता नोत्फलिता। नैरात्म्यज्ञानञ्च भूषितम्॥ ६-७॥

मूलमन्त्रकर्मविध्यभिधायको नवमः पटलः।

इति श्रीचक्रसंवरविवृतौ नवमः पटल॥ ९॥

कायत्रयसिद्धिहृदयमन्त्रस्य कर्मविधिपटलो दशमः

अथ कायत्रयं वक्ष्ये श्रीहेरुकाद्वययोगतः।
येन विज्ञातमात्रेण सिद्ध्यन्ते नात्र संशयः॥ १॥

कायत्रयात्मकः श्रीहेरुकश्चेत् कायत्रयमेव किं तदिति स्वयं कृते प्रश्ने अथशब्दः। ततोऽयमर्थः - कायत्रयं किं तदिति पृच्छसि चेत् , कायत्रयं वक्ष्य इति प्रतिवचनम् किम्भूतमित्याह - श्रीहेरुकाद्वययोगत इति। श्रीहेरुकोऽयेनासंशयेन युज्यते यत्र तत्तथा कायत्रयम्। प्रथमान्तात्तसिल्। कायत्रयं विशिष्टकायत्रयमेवेह साध्यमिति दर्शयति - येनेत्यादि। विज्ञातमात्रेणावबुद्धमात्रेण साक्षात्कृतेनेति यावत्। मात्रशब्दोऽवधारणे। सिद्ध्यन्ते सिद्ध्यन्ति धर्मकायादिकं योगिनोऽभिलषन्तीत्यर्थः। नात्रेति। नास्यां सिद्धौ भवति न भवतीति संशयः॥ १॥

धर्मकायशरीराणां यदा भवति साधकः।
[ एवं सुविचारवतां ] तदा ज्ञानं प्रवदाम्यहम्॥ २॥

धर्मकायसाधनमाह - धर्मेत्यादि। धर्मश्चासौ कायश्चेति धर्मकायः शरीरं येषां ते तथा, जिनाः। तेषां साधको निष्पादको यदा भवति सिद्ध्यति तदा ज्ञानं प्रवदाम्यहम्। ज्ञानं धर्मकायमेकानेकविरहितं तथागतगोचरं प्रकृतिनित्यं प्रकृतिप्रभास्वरं प्रविभज्य निश्चिनोमि। स च धर्मकायो जिनस्वरुप इति समुदायः। तथा चाह -
यो नैको नाप्यनेकः स्वपरहितमहासम्पदाधारभूतो
नैवाभावो न भावः खमिव समरसो दुर्विभावस्वभावः।
निर्लेपं निर्विकारं शिवमसमसमं व्यापिनं निष्प्रपञ्चं
वन्दे प्रत्यत्मवेद्यं तमहमनुपमं धर्मकायं जिनानाम्॥ इति॥ २॥

संभोगकायशरीराणां यदा भवति साधकः।
[ तदा समाहितानां च ] संभोगं प्रवदाम्यहम्॥ ३॥

संभोगमाह - सम्भोगेत्यादि। असेचनकविग्रहादियुक्तो धर्मदेशनां यदा करोति तदा संभोगकायो बोधिसत्त्वगोचरः। प्रवाहनित्यः संभोग इति। बुद्धबोधिसत्त्वः सम्यक्प्रतिपत्त्या भुज्यत आत्मसात् क्रियत इति स, तथा। तथा चाह -
लोकातीतामचिन्त्यां सुकृतसफला( लता )मात्मनो यो विभूतिं
पर्षन्मध्ये विचित्रां प्रथयति महतीं धीमतां प्रीतिहेतोः
बुद्धानां सर्वलोकप्रसृतमविरतोद्धारसद्धर्मघोषं
वन्दे संभोगकायं तमहमिहमहाधर्मराज्यप्रतिष्ठम्॥ इति॥ ३॥

निर्माणकायशरीराणां यदा भवति साधकः।
तदा [ चित्तैकाग्र्यं ] निर्माणकायं प्रवदाम्यहम्॥ ४॥

निर्माणमाह - निर्माणेत्यादि। सर्वसत्त्वसाधारणः प्रबन्धनित्यो निर्माणकायः। तथा चाह -
सत्त्वानां पाकहेतोः क्वचिदनलमिवाभाति यो दीप्यमानः
संबोधौ धर्मचक्रे क्वचिदपि च पुनर्दृश्यते यः प्रशान्तः।
नैकाकारप्रवृत्तं त्रिभवभयहरं विश्वरुपैपायै-
र्वन्दे निर्माणकायं दशदिगनुगतं तं महार्थं मुनीनाम्॥ इति॥ ४॥

ज्ञानसंभोगनिर्माणं समाप्नोतीति न संशयः।
श्रीहेरुक स्वात्मानं सिद्ध्यन्ते नात्र संशयः॥ ५॥

अस्य मन्त्रस्य हृदयं वक्ष्यामि शृणु त्वं गुह्यसाधकः॥ ६॥

[ त्रिकायमेव साध्यत्वात् सिद्धम्। तेन किमुक्तमित्याह - ज्ञानमित्यादि। श्रीहेरुकस्वात्मानमिति। श्रीहेरुकः स्वमेवात्मानमाप्नोतीति सम्बन्धः। तत्कथमित्याहज्ञानसंभोगनिर्माणमित्यादिज्ञानं धर्मकायः, समुच्चये एकवचनम्। इति तु प्राप्तव्यस्य निष्पत्तिः। पुनः किंभूतमित्याह - आत्मानमिति। ] आत्मधृतिस्तु हेतुत्वात् सुखमपि तथोच्यते। सुखरुपं तदित्यर्थः। सिध्यन्त इति। कायत्रययोगिनः सिध्यन्तीत्युपसंहारः। एवंभूतस्य श्रीहेरुकस्य यो मन्त्रः सोऽपि तथाभूत इत्याह - अस्येत्यादि। द्वाविंशत्यक्षरं हृदयमन्त्रः। तत्प्रयोजनमपि हृदयम्। यथा आयुर्घृतमिति। तत्किंभूतः सन् प्रवक्ष्यामीत्याह - गुह्यसाधक इति। चित्तादिस्वरुपं कायत्रयं गुह्यं साधयति योगिषु निष्पादयतीति स तथा। त्वं च तत्तथाभूतः शृणु॥ ५-६॥

हृदयजापेन योजनकोटिमुत्पतति। गच्छत्यागच्छति। रुपसहस्त्राण्यनेकानि कुरुते। प्रासादद्रुमभुवनेष्वारुह्य योजनकोटिं डाकिन्या सह गच्छति। आकाशे गत्वा पुनरागच्छति। इच्छया दृश्यते इच्छया न दृश्यते। इच्छया बालवृद्धयौवनरुपधारी भवति। इच्छया गजमहिषगवल( य )व्याघ्रसिंहवलीवर्दशशकमार्जारोष्ट्ररुपधारी भवति। इच्छया मयूरकुक्कुटहंसचक्रवाकबकोलूकसे( श्ये )नगृध्रकाकरुपधारी भवति। यस्येच्छति तस्यैव रुपं करोति। वाचमपहरति , श्रोत्रमपहरति , दृष्टिमपहरति , घ्राणमपहरति , जिह्वामपहरति। यस्येच्छति तस्य रुधिरमाकर्षयति स्तम्भयति वा॥ ७॥

इति श्रीहेरुकाभिधाने कायत्रयसिद्धिहृदयमन्त्रस्य कर्मविधिपटलो दशमः॥ १०॥

उत्पतीति ऊर्ध्वं गच्छति। गच्छत्यागच्छतीति। योजनकोटिमेव क्षणमात्राद् गच्छत्यागच्छतीति भावः। एतेन मनोजवऋद्धिर्दर्शिता। प्रासादद्रुमेति। द्वितीया द्विवचनलोपे सति। भुवनेष्विति। स्वर्गादिभुवनत्रये। योजनकोटीति द्वितीयालोपे। डाकिन्येति रतिं सूचयति। तथैवाकाशेन गत्वा पुनरायाति। शेषं सुबोधम्। [ रुपमित्यादि नवमोद्दिष्टस्य निर्देशमाह - इच्छया बालेत्यादि। यौवनमस्यास्तीति युवैवेति वा यौवनः पुरुषः। एतच्च वयोगतसामर्थ्याम्। इच्छया गज इत्यादिना पशुरुपधारिता। इच्छया मयूर इत्यादिना पक्षिधारिता। अस्य तिर्यग्भूतं सामर्थ्यमुक्तम्। यस्येत्यादिना सामान्यरुपधारित्वम्। शेषं सुबोधम्। स्तम्भयति चेति। रागादिस्तभ्नाति। अतो वा शब्दोऽनुक्तसमुच्चये॥ ७॥

कायत्रयस्य सिद्धिः हृदयमन्त्रस्य च कर्मविधिः तयोरभिधायकः पटलो दशमः।

इति श्रीचक्रसंवरविवृतौ दशमः पटलः॥ १०॥

सप्तजन्मनः लक्षणविधिपटलो एकादशमः

अथान्यतमं वक्ष्ये साधकः सिद्धिमाप्नुयात्।
येन प्राशितमात्रेणाशुसिद्धिः प्रवर्ततते॥ १॥

इदानीं सप्तजन्मसहकारिणो हृदयमन्त्रस्य सामर्थ्यमाह - अथेत्यादि। अथेति समुच्चये। अन्यतमं हृदयस्य सप्तजन्मप्रयोगं वक्ष्ये। अथवा हृदयस्य भैषज्यप्रयोगाः क इत्यध्येषिकावितर्कानन्तरमित्यथशब्दार्थः। कीदृशः प्रयोग इत्याह - साधक इत्यादि। येन प्रयोगेण सिद्धिमाप्नुते तं वक्ष्ये इति सम्बन्धः। घ्राणितमात्रेण घ्राणमात्रेण। आशु सप्तजन्मपरिज्ञानसिद्धिर्जायते। संक्षेपेण तावत्तज्ज्ञानसिद्धिरिति भावः॥ १॥

यस्य पुरुषस्य सुगन्धगन्धः प्रस्वेदो निर्गच्छति , सत्यवादी चिरं निमेषयति, अक्रोधनश्च भवति , वक्त्रे सौरभ्यनिश्वासं भवति , स सप्तजन्म मानुषजातो भवति। तं भक्षयित्वा तस्य हृदये रोचना भवति। तां गृहीत्वा श्रीहेरुकस्य हृदयमन्त्रेण [ अष्टोत्तर ]शतजप्तेन तिलकं करोति, ऊर्ध्वमुत्पति। लक्षजापोऽनुवर्तनीयः योजनकोट्यो गच्छति। तेन प्राशितमात्रेण त्रैलोक्यज्ञानी भवति। [ योजन ]पञ्चाशकोटीं गत्वा अहोरात्रेणागच्छति दिव्यकायं च भवति। श्रीहेरुकस्य हृदयं यो जानाति स यान् यान् कामानिच्छति , तांस्तान् ददाति॥ २॥

इति श्रीहेरुकाभिधाने सप्तजन्मस्य( नः ) लक्षणविधिपटल एकादशमः॥ ११॥

यस्य पुरुषस्येति। पुरुषरुपेण पुण्यराशिरिति भावः। सुगन्धस्येव कसतूर्यादेर्गन्धोऽस्येति स सुगन्धगन्धः प्रस्वेदः। शेषं सुस्थम्। सत्यवादी चिरं निमेषयति अक्रोधनश्च भवति स इति ज्ञेयम्। सौरभ्यान्वितो निश्वासमिति नपुंसकनिर्देशः। यस्य सौरभ्यनिश्वासो भवति स सप्तजममानुषजातो भवति। सप्तजन्मस्वेकसन्तानेन मानि( नु ) षजातो मानुषश्रेष्ठमित्यर्थः। मानुषे जात इति वा। गन्धलिङ्गे प्रयोजनमाहतमित्यादि। तं घ्राणयित्वा ज्ञातव्यमिति ज्ञेयम्। किं तदित्याह - तस्येत्यादि। सौगन्धेन हि रोचनाकार्यत्वात् साऽनुमीयते। तत्र तस्य नान्यजन्मत्वात्। तामित्यादिना रोचनाप्रयोजनमाह - लक्षजापोऽनुवर्तनीयः। योजनकोट्या गच्छतीति। योजनकोटिपरिमाणं मार्गमूर्ध्वं गच्छतीत्यर्थः। पञ्चाशकोटीरिति। योजनानि। दिव्यः कायो यस्मात्तद्दिव्यकायं हृदयम्। यान् यान् कामानिच्छति दातुं साधकस्तान् ददाति॥ २॥

सप्तजन्मनो लक्षणं विधिश्च तदभिधायकः पटल एकादशः।

इति श्रीचक्रसंवरविवृतावेकादशः पटलः॥ ११॥

उपहृदयस्य कर्मविधिपटलो द्वादशमः

अथोपहृदयमन्त्रं वक्ष्ये सर्वसिद्धिप्रसाधकम्।
त्रैलोक्ये यद्भवेत् किञ्चित्तत्सर्वं साधयेत् क्षणात्॥ १॥

अथेत्यादि। अथेति हृदयकर्म विधिकथनानन्तरम्। शेषं सुबोधम्॥ १॥

ट्फ हूँ हूँ ह ह ह्रीः ॐ। एतद् हृदयस्योपहृदयम्। अस्य मन्त्रस्य लक्षजापेन त्रैलोक्यमपि कम्पयति। देवदानवयक्षराक्षसनागगन्धर्वकिन्नरानाकर्षयति। नदीसमुद्रतडागादीनि शोषयति स्तम्भयति च। यस्मिन् जपति तस्मिन् स्थाने सर्वडाकिन्यः साधकस्य किङ्करीभवन्ति। अनयोदकं परिजप्यात्मनोऽक्षिणी प्रक्षालयति सप्तजन्मानि जानाति। गतायुषमपि मृतमिव पश्यति दीर्घायुषं सजीवं पश्यति। चक्षुरभिमन्त्र्यं यं पश्यति स स्तम्भितो भवति॥ २॥

ट्फ हूँ हूँ ह ह ह्रीः ॐ इति। ॐ ह्रीः ह ह हुँ हूँ फडिति प्रगुणीकृतोऽयं मन्त्रः। एतद् हृदयस्योपहृदयमिति। उपशब्दो हीनार्थः। हृदयमन्त्रादक्षरेण हीनत्वं न तु सामर्थ्येन। समीपार्थो वा। अस्येति उपहृदयस्याक्षरजापः। स च लक्षांख्यो जापः। देवेत्यादिनाऽऽकर्षणसामर्थ्यमुक्तम्। तडागः सरः, स्तम्भयति चेति। जलस्तम्भनम्। तस्मिन् स्थान इति। यत्र सप्तलक्षसंख्यं मन्त्रं जपति। किङ्करीभवन्तीति। न विघ्नन्तीति भावः। एतच्च जापमात्रगतं सामर्थ्याम्। अनयेति। सप्ताक्षरमन्त्रविद्यया। उदकमिति जलभैषज्यसहकारिसामर्थ्यम्। सप्तजन्मेति। सप्तजन्मान्यतीतान्यनागतानि च। चक्षुरभिमन्त्र्येत्यत उदकमिति निवृत्तम्॥ २॥

वीरमृतकपादतलचर्म गृह्य मनुष्यरुधिरेण पिंष्य गोलकमध्ये स्त्रोताञ्जनं प्रक्षिप्य मनःशिलोगोरोचनाकुङ्कुमरुधिरेण भावयेत्। छायाशुष्कं त्रिलोहवेष्टितं कृत्वा पुनरधिवास्य पुष्येण च कारयेत्। श्रीहेरुकस्य मुखे प्रक्षिप्य वामहस्तेन मुखं प्रच्छाद्य भूयोऽष्टशतं जपेत्। स तत्क्षणादन्तर्हितो नष्टच्छायो भवति। देवैरपि न दृश्यते, किं पुनः क्षुद्रमानुषैः। एवं मुखादपनीय दृश्यते। अस्मिंमस्तन्त्रे इयं खेचरसिद्धिगुलिका स्वयं वीरेण भाषिता। श्रीहेरुकस्य हृदयोपहृदयम्॥ ३॥

गुलिकासाधनसामर्थ्यमाह - वीरेत्यादि। वीर[ मृतक ]पादतलचर्मेति। तन्मनुष्यरुधिरेण पिंष्येति पिष्ट्वा गोकलमध्य इति। तत्पिण्डीकार्यमिति भावः। स्त्रोताञ्जनम् , स्त्रोतोऽञ्जनम्। मनःशिलारोचनाकुङ्कुमेति। द्वितीयालोपे। स्त्रोताञ्जनमनःशिलादिरुधिरेण भावयित्वा तद् गोलकमध्ये प्रक्षिप्य छायाशुष्कीकृत्य त्रिलोहवेष्टितं च कृत्वा कारयेत् साधयेदिति समुदायार्थः। पुनः स इति। जप्तसप्तलक्षमन्त्रो योगी। अधिवास्येति। हेरुकमण्डलचक्रिणं तत्र गोलकत्रिलोहवेष्टिते भावयित्वा अष्टोत्तरशतं मन्त्रं विकाले जपेत्यधिवासना। पुष्येण चेति। अन्येनापि शुभनक्षत्रादिना। साधनमाह - श्रीहेरुकस्येत्यादि। श्रीहेरुकयोगी तामन्तर्गतां मण्डलचक्रां गुलिकां स्वमुखे प्रक्षिप्य यथोक्तं जपेत्। ततो यथोक्तं स्यात् -
कनकशशिदिनकराणां वेदत्रिचतुःप्रमाणका माषाः।
गुलिकाबन्धक्रमशो मुनित्रिशररक्तिकाभ्यधिकाः॥
इति त्रिलोहनियमः। शेषं सुस्थम्। यस्येदमुपहृदयं तदेव कस्य हृदयमित्याह - श्रीहेरुकस्येत्यादि। श्रीहेरुकस्येति ॐ कर करेत्यादि॥ ३॥

अनेन मन्त्रेण तर्जन्यग्रेण शिरःकपालं निर्मांसोपधिं कृत्वा निर्मथति, तस्य रुधिरमाकर्षयति। अवसव्येन मथनात् पुनः प्रविशति।

अभिमन्त्र्य शिरःकपाले मुष्टिप्रहारो देयः। यस्य नाम्ना ददाति तस्य शिरोवेदना भवति। मन्त्रमनुस्मृत्य कपालं दुग्धेन पूरयेत् , उपशमयति।

गोरोचनया परिजप्य तिलकं कुर्यात् , यं पश्यति स मुद्रितो भवति। तर्जनीं परिजप्य यं तर्जयति, स तत्क्षणात् पतति। मन्त्रं जप्तं( प्त्वा ) भूमिं पादेन ताडयति यस्य नाम्ना, तत्क्षणात् म्रियते। उदकमभिमन्त्र्य भूमिं सिञ्चयति, पुनर्जीवापयति।

मन्त्रजप्तेन तर्जन्यग्रेण सहस्त्रमपि तर्जयति , सर्वे द्रष्टारः स्तम्भिता भवन्ति, वाचया मोचयति।

चण्डालभस्मशतजप्तं कृत्वा यमाहनति सत्त्वमनुस्मृत्य, तस्य रुपधरो भवति। होमाग्निभस्मशतजप्तं कृत्वा यमाहनति, स देवैरपि न दृश्यते। उदकेन सप्तजप्तेन हनेत् , पुनर्दृश्यते।

कपालमुद्रासम्पुटं बद्ध्वा निरुस्वा( च्छ्वा )सो जपेत् , क्रुद्धो यस्य नाम्ना, स तत्क्षणात् उन्मत्तो भवति। जनसहस्त्रमपि उन्मत्तं भवति। मनसा मोचयति।

यस्य नाम्ना शिखां दशाभिमन्त्रितां कृत्वा बध्नीयात् , सर्वडाकिन्यागच्छन्ति। शून्यायतनं गत्वा शतजप्तं शिखां बध्नीयात्। अक्षिण्युन्मील्य तावज्जपेद्यावददृशो( श्यो ) भवति। मुक्तेन पुनर्दृश्यते।

शर्करोटामभिमन्त्र्य ऊर्ध्वमधस्ताद् दिशासु विदिशासु क्षिपेत् , सर्वदेवासुरयक्षराक्षसगन्धर्वकिन्नरमहोरगाश्चैव बद्धा भवन्ति। डाकिनी सर्वयोगमपहरति। शयनासनशय्यागतं स्त्रीं पुरुषं वा दृष्ट्वा शतवारान् मन्त्रं जपेत् , लग्नापयति। मनसा मोक्षः। शर्करोटां परिजप्य नदीषु प्रक्षिपेत् , प्रतिकूलं वाहयति। तेनैव शर्करोटेन ऊर्मि स्तम्भयति। मनसा मन्त्रमावर्तयति।

ऊर्ध्वे निरीक्षमाणः सहस्त्रं जपेत् , महावृष्टिं निवारयति।

परसैन्याभिमुखं सहस्त्रजप्तं कृत्वा संग्रामे वा प्रविशति। शस्त्रशतैर्हन्यमानस्य व्यथा। नोत्पद्यते। न च शस्त्रसहस्त्रैर्भिद्यते। वज्रशरीरं भवति॥ ४॥

इति श्रीहेरुकाभिधाने उपहृदयस्य कर्मविधिपटलो द्वादशमः॥ १२॥

अनेनेत्यादि। शिरःकपालेति निर्विभक्तिकम्। तच्च कपालमेव। निर्विद्धं मांसमस्येति निर्मांसं शिरावेधात्। उपाधिः शरीरम् , निर्मांसश्चासावुपधिश्चेति स तथा। तथाभुतं साध्यशरीरं कृत्वा कारयित्वा निर्मथति निर्मथ्नाति। कथमित्याह - तर्जन्येति। दक्षिणया। तस्याश्चाग्रेण। एतच्च भावनया द्रष्टव्यम्। नरकपालमादाय वज्ररुद्रयोगी स्वदक्षिणनासापुटान्तराद् हूँकारोच्चारणजां शस्त्र हस्तां खण्डरोहां निर्गम्य यस्य नामग्रहेण पञ्चशिरवेधं कारयित्वा तस्य रुधिरेण पूर्यमाणं कपालं भावयंस्तर्जन्यग्रेण सप्तजप्ततन्मन्त्रेण तस्यान्तःशरीरं सर्वं निर्मांसरुधिरमाकर्षयतीति समुदायार्थः। प्रत्यानयनमाह - अवेत्यादि। अवसव्यतर्जन्यग्रेण शान्तचित्ततया तदन्तःशरीरमथनात् तत्परिपूर्णशरीरः साध्यो भवति। कुत इत्याह - प्रविशतीति। तस्यैव रुधिरस्य प्रवेशात्। अभिमन्त्र्येति साध्यशिरः। कपालभावनया मुष्टिप्रहारो देयः। कपाल इति भावनया सोद्धातस्य कपालपूरणात् साक्षात् कपालान्तःपूरणाच्च। मन्त्रजप्तमिति क्रियाविशेषणम्। शेषं सुगमम्। सर्वडाकिन्यागच्छन्तीति। डाकिनीति प्रथमाबहुवचनलोपे। शर्करोटेति। शर्करा द्वितीयालोपे। डाकिनीसर्वयोगमपहरतीति। दिग्विदिक्क्षिप्तयैव शर्करया। शयनं मैथुनम्। तदर्थमासने शय्यायां वा गता स्थिता शयनासनमप्यागता। तां स्त्रियं वेति समुच्च्य। संग्रामे वेति। वा - शब्दः शर्करोटमनुवर्तयति॥ ४॥

उपहृदयेत्युपहृदयमन्त्रः, तत्कर्मविधिश्च तदभिधायकः पटलः उपहृदयकर्मविधिपटलो द्वादशमो द्वादशः।

इति श्रीचक्रसंवरविवृतौ द्वादशः पटलः॥ १२॥

कवचमन्त्रस्य प्रयोगविधिपटलः त्रयोदशमः
अथ कवचस्य कर्मेदं वक्ष्ये यथावदनुपूर्वशः।
त्रैलोक्ये यद्भवेत् किञ्चित् तत्सर्वं यन्मनसेप्सितम्॥ १॥

अथेत्युपहृदयमन्त्रतत्कर्मविधिकथनानन्तरं कवचस्य कवचमन्त्रस्य कर्म वक्ष्यते। ' ॐ ह, नमः हि, स्वाहा हूँ , वौषट् हे, हूँ हूँ होः, फट् हं ' इति मन्त्रः। अनुपूर्वश इति। जपौषधादिसामर्थ्यप्रदर्शनानुक्रमेण। किं तदित्याह - त्रैलोक्येत्यादि। तत्सर्वं यन्मनसेप्सितमिति। मनसा काङ्क्षितम्॥ १॥

[ तत्र ] कवचं जपमानोऽध्वानं व्रजेत्। चौरव्याघ्रेषु( घ्रादि ) भयं न भवति।
कवचं जपमानो राजकुल मङ्गनाधिष्ठाने प्रविशन्न दृश्यते वा यद् रोचते तद् गृहीत्वा निर्गच्छति, देवैरपि न दृश्यते।
कवचं जप्तहस्तेन यं स्पृशति , स शूलमिव स्तम्भितो भवति। त्रिदशैरपि न चाल्यते। मन्त्रं जप्त्वा पादेन हनेन्मोक्षः।
स्वरक्तं स्वरेतो वा त्रिजप्तं तिलकं कृत्वा येन सह भाषते , यं पश्यति , ये च [ तं ] पश्यन्ति, सर्वेषां रुधिरमाकर्षयति।
यस्य गृहे क्रोधाविष्टः सहस्त्रं जपेत् , सर्वेषां ज्वरो भवति। उदकं पञ्चजप्तं क्षिपेत् , प्रत्यानयनम्।
यस्य मुखं निरीक्ष्य जपते तस्य वाचमपहरति।
नदीतडागावस्थितः सहस्त्रं जपेत् , उदकोपरि व्रजेत्। यथा स्थले तथा जलेऽपि गच्छति। उदकं प्रविश्य नद्यां समुद्रे चापि तिष्ठति। करद्वयेनोद्वर्तमानो सहस्त्रं जपेत्। योगिनी वश्या भवन्ति॥ २॥

कवचं जपन्नध्वानं व्रजेद् यस्तस्य चौरादिभ्यो भयं न भवतीति कवचमित्यादेरयमर्थः। राजकुलं राज्ञो गृह प्रविशेत्। स च न दृश्यते चेति। कुत्र न दृश्यते इत्याह - अङ्गनाधिष्ठान इति। अन्तःपुर इत्यर्थः। अत्र हि मनुष्याणां परेषां सूक्ष्मेक्षिका क्रियते। अत्रापि न दृश्यते इति मन्त्रसामर्थ्यम्। यद् रोचते तद् गृहीत्वा निर्गच्छतीति। भाण्डागाराद् यद्वस्तु रोचते तद्ग्रहेण निर्गच्छन्न दृश्यते वेति सम्बन्धः। इहापि बहुसूक्ष्मदर्शित्वात् दुर्दर्शीभवितुमशक्त इति मन्त्रसामर्थ्यम्। देवैरपि न दृश्यत इति। मांसचक्षुषापि देवानामव्याहतं दर्शनम्। तैरप्यदर्शनान्मन्त्रसामर्थ्यम्। शूलमिवेति। निखातवत्। तद् विदूरप्रवेशान्निश्चलीभवति। स्वरक्तमित्यादि। सुबोधम्। यस्य गृह इत्यत्र तत्रेत्यध्याहार्यम्। योगिनीति प्रथमाबहुवचनलोपे॥ २॥

योगिनीश्चैव नानारुपिण्यो डाकिनीलामयस्तथा।
खण्डरोहारुपिण्य इत्याद्याः प्रकीर्तिताः॥ ३॥

सर्वे तस्य वश्यानुगा भवन्ति। पुष्ययोगेन पटं कृत्वा तेन प्रावृतशरीरो योगिनीसमापन्नो दशसहस्त्राणि जपेत् , ततः सिद्धो भवति। तेन प्रावृतशरीरो योजनसहस्त्रमाकाशेऽदृश्यो भवति। यत्रेच्छति तत्र गच्छति, तेन पृथिवीं समुद्रान्तां पर्यटति, ऊर्ध्वस्त्रोतगो वा गच्छति॥ ४ ॥

योगिनीश्चैवेति प्रथमार्थे द्वितीया। चकारः प्रभेदसमुच्चये। एवावधारणे। नानारुपित्वमाह - डाकिनीत्यादि। डाकिनीति डाकिनीजातयः। लामय इति लामाजातयः। रुपिणीति रुपिणीजातयः। ऊर्ध्वस्त्रोते ता गच्छन्तीति नैरुक्तः। सकारलोपः। विलोमेन नदीप्रवाहानतिक्रम्यागच्छतीत्यर्थः। मण्यन्तर्बोधिचित्ते स्थिरीकृते योगी ऊर्ध्वं सहजं स्त्रोतेन साक्षादागच्छति प्रत्येतीत्यर्थान्तरम्॥ ३-४॥

यद्यदिन्द्रियमार्गत्वं यायात् तत्तत्स्वभावतः।
परमाहितयोगेन सर्वं बुद्धमयं वहेत्॥ ५॥

पञ्चकामगुणोपभोगमुद्दिष्टं निर्दिशन्नाह - यदित्यादि। इन्द्रियाणां चक्षुरादीनां मार्गत्वं गोचरत्वं यायात्। यद् यज्जापादिकं तत्सर्वं बुद्धमयं वैरोचनादिमयं वहेदनुभवेत्। स्वभावतोऽनुभवं क्रियातः कथमनुभवतीत्याह - परमाहितयोगेनेति। परमे श्रीहेरुक आहित आरोपितो योगः समाधिः। रुपे वैरोचनः शब्दे अक्षोभ्यो गन्धे रत्नसंभवो रसेऽमिताभः स्पर्शेऽमोघसिद्धिरिति सर्वबुद्धात्मकत्वम्। पञ्चकामगुणोपभोगेन मन्त्रो जपितव्य इति भावः॥ ५॥

पारिजातयूषं करे संगृह्य सहस्त्रं जप्तं कृत्वा यस्य तिलकं करोति, स वृक्षो भवति। उदकेन सप्तजप्तेन सिञ्चयेत् प्रत्यानयनमेतत्। हस्तिपादतलस्थां धूलिं गृह्य सहस्त्रं जप्तं कृत्वा यमाहनति, स हस्ती भवति॥ ६॥

इति श्रीहेरुकाभिधाने कवचमन्त्रस्य प्रयोगविधिपटलः त्रयोदशमः॥ १३॥

पारिजातेति पारिजातो भद्रदलादिकम्। शेषं सुबोधम्॥ ६॥

कवचमन्त्रस्य विभज्य योगः कवचमन्त्रयोगः। स एव विधीयते येन स चासौ पटलश्चेति स तथा। त्रयोदशमस्त्रयोदशः पटलः।

इति श्रीचक्रसंवरविवृतौ त्रयोदशः पटलः॥ १३॥

गर्दभाकारयोगश्रीहेरुकीकरणविधिपटलः चतुर्दशमः

अथ [ तत् ] साधनं वक्ष्ये येन सिद्ध्यन्ति साधकाः।
गर्दभाकारयोगात्मा मनोवेगनिवृत्तये॥ १॥

अथेति पुनरर्थे। पुनः साधनं हृदयमन्त्रस्य वक्ष्य इति सम्बन्धः। किं तदित्याह - येनेत्यादि। येन साधकाः सिध्यन्ति तत्साधनमित्यर्थः। किमर्थमित्याह - मन इत्यादि। मनोवेगो मनोराज्यं तस्य निवृत्तिः सिद्धत्वात्। कुत इत्याह - गर्दभाकारयोगात्मेति। गर्दभाकारयोगादित्यर्थः॥ १॥

योगिनी लामा रुपिणी डाकिनी तथा खण्डरोहा योगिन्यः कामरुपिण्यः गर्दभाकारुधिरवक्त्रा च, डाकिन्यः त्रिशूलकरवेष्टिता च साधिताः। गतायुषमपि पश्येद् दीर्घायुषं च। अस्मिंस्तु सुगर्दभो योगी पश्येत्। तदा गर्दभं हस्तिनं चैव यः पूर्वं तं पश्येत्। यस्य यस्य तु यो जातिमावहेत् पूर्वजन्मनि तस्यैव तद् रुपं दृश्यते इह योगिनः। स भवेत् सिद्धिदः पुरुषः स सप्तजन्मा मानुषः पुरुषः। तेन बलिहोम कर्तव्यः साधकस्य सिद्ध्यति॥ २॥

योगिनीत्यादिना माण्डलेयदेवता आह - योगिन्य इति त्रिचक्रवर्तिन्यः। कामरुपिण्य इति। गर्दभाकारुधिरवक्त्रत्वात्। अत आह - गर्दभाकाररुधिरवक्त्रा चेति। प्रथमाबहुवचनलोपात्। तथा डाकिनीति। डाकिन्यः काकास्यादयः काकास्यादिचतुष्टयं विहाय सर्वा एव गर्दभाकारविशिष्टाः। त्रिशूलकरवेष्टिता इति। खट्वाङ्गमुत्सृज्य तत्स्थाने त्रिशूलधारिण्यः पुनः षट् त्रिंशद्देवयोगिन्यो वर्णास्तु साधनक्रमत एव। स्त्रवद्रुधिरगर्दभमुखश्रीहेरुकयोगवान् स्वयम्। एतेनैतदुक्तं गर्दभस्त्रवद्रुधिरमुखत्वमिति विशेषः। शेषं सर्वं साधनोक्तमेव। कदैवमित्याह - साधिता इति। हृदयमन्त्रजप्तसप्तलक्षसंख्ये साधनमेतत्करणीयमिति भावः। उपदेशात्तदुच्यते - आधारमण्डलं रजसोऽभिलिख्य तस्याऽष्टदलकमलमध्ये पञ्चाशद्वर्णपरावृतो हूँकारो भाव्यः। चर्तुषु दिग्दलेषु भगवतो भगवत्याश्च हृदयोपहृदयानि। कोणदलेषु रुधिरपूर्णानि चत्वारि कपालानि। चतुर्विंशत्यारेषु ॐ खण्डकपालिनि हूँ हूँ फट् फडित्यादयो मन्त्राश्चतुर्विंशति । ॐ कर कर प्रचण्डे हूँ हूँ फट् फडित्यादयश्चेति खण्दकपालादीनां प्रचण्डादीनां च मिलिता अष्टचत्वारिंशन्मन्त्रा भवन्ति। मूल सूत्राभ्यन्तरे काकास्यादीनामष्तौ, तदूर्ध्वद्वारचतुष्टये सुम्भमन्त्रपदचतुष्टयम् , प्राकाराद् बहिर्द्वारोपरि निर्यूहसन्धिषु च कवचद्वयम् , चक्रवाते( टे ) भगवत्या हृदयमन्त्रः, बहिःपुल्लीरादिबीजैः पुँकारादिभिर्वेष्टनं भाव्यम् , चक्रगर्भे शालिपिष्टकमयीं गर्दभाकारां प्रतिकृतिं तैलालक्तकाभ्यक्तकां साज्यां निधाय स्त्रवद्रुधिरगर्दबमुखहेरुकयोगवान् , कोणचतुष्टये प्रदीपान् प्रज्वाल्य हृदयमन्त्रमेकतानीभूयावर्त्य प्रतिकृतिं पश्येत्। ततो यथोक्तं पश्येदित्येतदेवाह - गतायुषमित्यादि। अपिः संभावनायाम्। अस्मिंस्त्विति। नियमार्थस्तुशब्दः। अस्मिन्नेव विधाने कृते सतीत्यर्थः। सुगदर्भ इति। सुष्ठु यदि पूर्वं गर्दभो भवेद् योगी तदा गर्दभमात्मानं पश्येत्। हस्तिशब्द इकारन्तः। परस्यापि जातिदर्शीत्याह - यस्येत्यादि। यस्य मनुष्यादेः इति सत्त्वः ( भावः ) । योगिन इति तृतीयार्थे षष्ठी। अनेन सप्तजन्मनो दर्शनं सुलभमित्याह - स इत्यादि। बलिहोमो भक्षणं कर्तव्यः करिष्यन्। तेन बलिहोमं करिष्यन् योगी भवति। कुत इत्याह - साधकस्य सिद्ध्यतीति। यत्र सप्तजन्मा साधकस्योक्तेन क्रमेण सिद्ध्यति। योगेति निर्विभक्तिकम्। एष गर्दभयोग इत्यर्थः॥ २॥

तथा योजनानां शतसहस्त्रमूर्ध्वमाक्रमते क्षणात्।
एष मन्त्रवरो योगः श्रेष्ठो डाकिनीयोगसाधकः॥ ३॥

योगनिमित्तं जपेद्यस्तु मासेनैकेन सिद्ध्यति।
रहस्यमेतत्तन्त्रस्य मन्त्रस्य हृदयं परम्॥ ४॥

यो जानाति तत्त्वेन स योगी नात्र संशयः।
एष ते हेरुको वीरो डाकिनीजालसंवरम्॥ ५॥

इति श्रीहेरुकाभिधाने गर्दभाकारयोगश्रीहेरुकीकरणविधिपटलश्चतुर्दशमः॥ १४॥

मन्त्रो वरोऽस्येति मन्त्रवरो योगः। हृदयमन्त्रसहकारित्वात्। मन्त्रधर इति पाठेऽपि तथैव। श्रेष्ठमभिमतसाधकत्वात्। डाकिनी वज्रवाराही। तस्या योगस्तेन पूर्वजन्मदर्शनसाधकः। तत्समापन्न इति भावः। योगेत्यादि सुबोधम्। रहस्यमिति। अस्य तन्त्रस्य सारम्। किमित्याह - हृदयमिति। हृदयमन्त्रः। कस्य हृदयमित्याह - मन्त्रस्येति। विद्याराजस्य। तद् यो जानाति तत्त्वेन श्रीहेरुकाद् विद्याराजाच्चाऽभेदेन स योगी। ज्ञानस्येति पाठे ज्ञानमात्रस्य योगी स यो जानाति हृदयम्। एता डाकिनीजालसंवरमिति श्रीहेरुकः, लिङ्गस्यातन्त्रत्वात्। स एवायं युज्यते समाधीयते चित्तमनेन भावः। एषत इति पाठे एष्य गत्यर्थो धातुः। एषते प्राप्नोति डाकिनीजालसंवरं ज्ञानमिति व्याख्येयम्॥ ३-५॥

श्रीहेरुकः क्रियतेऽनेनेति श्रीहेरुकीकरणं गर्दभाकारयोगेन श्रीहेरुकीकरणो विधिः साधनं तदभिधायकः पटलश्चतुर्दशः।

इति श्रीचक्रसंवरविवृतौ चतुर्दशः पटलः॥ १४॥

अक्षरछोमविधिपटलः पञ्चदशमः

अथातः सर्वसंवरेषु छोम्मकान् वक्ष्ये।
यो जानाति तत्त्वेन स सिद्ध्यति न संशयः॥ १॥

अथेति समुच्चये। अत इति हेतौ। न केवलं हृदयं यो जानाति स योगी किं तर्हि छोम्मकानपि। यतो योगसम्बद्धछोम्मकविधिः किमर्थमित्याह - सर्वसंवरेष्विति। सर्वेषां पुरुषादीनां श्रावकादिभ्यो गोपनीयानां संवरा रक्षणानि, तेषु तदर्थमित्यर्थः॥ १॥

डा इति पुरुषः स्मृतः डी इति स्त्रीणां ततः।
षु इति स्तम्भनं सु इति भक्षणं चैव॥ २॥

तत्केन प्रतिबन्धग्रहरुपेण ? तानेवाह - डा इत्यादि। स्मृत इति। अनन्तैः तथागतैः संकेतितः। डी इति स्त्रीणां तत इति। डीङ् विहायसागतावितिधातोः प्रयोगः। तत इति यतस्तत्त्वतोऽन्वयः डीरिति क्विपि सिद्धम्। डीयते सर्वं व्याप्नोतीति। षु इति स्तम्भनं स्तम्भने संकेतितोऽयं शब्दः। डिथो( त्था )दिवद् वृक्षविशेषे। सु इति भक्षणम् चैवेति। संकेतितत्वमेवास्य चैवशब्दाभ्यां समुच्चितमवदारितं च॥ २॥

मा इति माता वै स्मृता ये इति भार्या तु वै।
भी इति भगिनी तथा वी इति सखी प्रकीर्तिता॥ ३॥

मा इति माता वै स्मृतेति। मातेवेत्यर्थः। ये इति भार्या तु वै इति। कलत्रं विशिष्टमेवेत्यर्थः। भी इति भगिनी स्मृतेति। यथार्थम्। वी इति सखी कीर्तितेति। प्रेयसी॥ ३॥

लु इति दुहिता स्त्री इति रुधिरं ज्ञेयम्।
सो इति सिमपानं तु पे इति पेयं तथा॥ ४॥

लु इति दुहितेति। आत्मजा। स्त्री इति रुधिरं ज्ञेयमिति रक्तम्। सो इति सोमपानमिति। अमृतपानम्। पे इति पेयं तथेति पातव्यं द्रवद्रव्यमित्यर्थः। तथाशब्द एकदेशेन सङ्केतितत्वमेव प्रतिपादयति॥ ४॥

ही इति मांसं वै भ इति भक्षणम्।
भू इति मेलापकं पी इति तथा श्मशानम्॥ ५॥

ही इति मांसं वा इति पिशितमेव। भ इति भक्षणमिति। अभ्यवहरणम्। भू इति मेलापकमिति। योगिनीमेलस्थानविशेषः। पी इति श्मशानं भवेदिति शवनिलयः॥ ५॥

हू इति मृतकं विदुर्धी इति योगिनी स्मृता।
ग इति लामयस्तथा त्री इति रुपिणी चैव॥ ६॥

हू इति मृतकं विदुरिति। शवम् अनन्ता योगिन्यो विदुः। धी इति योगिनी स्मृतेति। समाधिमती द्वयर्थत्वात्। ग इति लामयस्तथेति। लामि( मा )जातयः सङ्केतिताः। त्री इति रुपिणी चैवेति। रुपिणीजातय एव सङ्केतिता इति भावः॥ ६॥

कु इति डाकिनी स्मृता हा इति खण्डरोहा वै।
ज इति जङ्घायुगलं क इति बाहुयुगलम्॥ ७॥

कु इति डाकिनी तथेति। डाकिनीजातयस्तथैव सङ्केतितत्वात्। डा इति खण्डरोहा वायिति। खण्डरोहाजातय एव। डाशब्दोऽपि द्वयर्थः। ज इति जङ्घायुगलमिति। जङ्घाद्वयम्। एकदेशेन सङ्केतः॥ ७॥

भ इति अभिवादनं सु इति स्वागतक्रिया।
एते एकैकाक्षरा छोम्मका वीरभगिन्यस्तु सा ज्ञेया॥ ८॥

इति श्रीहेरुकाभिधानेऽक्षरछोमविधिपटलः पञ्चदशमः॥ १५॥

भ इत्यभिवादनमिति। वन्दना। भ शब्दो द्वयर्थः। सु इति स्वागतक्रियेति। स्वागतकरणम्। सर्वाण्यक्षराणि। निर्विभक्तिकादीनि। एते चैकैकाक्षरा छोम्मका इति। एकमेकमक्षरं येषां ते तथा। वीरभगिन्यस्तु सा ज्ञेया इति। वीरा योगिनः। भगिन्यो योगिन्यः। तुरवधारणे। सेति ते छोम्मकाः। अस्य बहुत्वे सङ्केतितत्वात्। तृतीयार्थे प्रथमाः। वीरैर्योगिनीभिश्चैव ते ज्ञेयाः। तदकेव्यवहाराङ्गत्वात्। अथवा छोम्मकाश्चतुर्विंशत्यक्षराणि चतुर्विंशतियोगिनीविशुद्ध्या॥ ८॥

अक्षरछोम्मका एकाक्षरात्मका छोम्मकाः। तेषां निर्देशविधिरक्षरछोम्मकविधिः। तदभिधायकः पटलः पञ्चदशमः पञ्चदशः।

इति श्रीचक्रसंवरविवृतौ पञ्चदशः पटलः॥ १५॥

सप्तयोगिनीलक्षणपरीक्षाविधिपटलः षोडशमः

अथ गुह्य महासिद्धिं प्रवक्ष्यामि ह साधकः।
परमसमयं स्थिता भव्या मनोज्ञोपकारकाः॥ १॥

अथेत्यक्षरछोम्मकानन्तरं गुह्यकानां योगिनीनां महासिद्धिर्महानिश्चयसिद्धिः गुह्यमहासिद्धिः तां प्रवक्ष्यामि। प्रकारेण भेदेन वक्ष्यामीत्यर्थः। हशब्दो वाक्यालङ्कारे। अव्ययस्यानेकार्थत्वात्। साधक इति साधकाय। चतुर्थ्यर्थे प्रथमा। गुह्यशब्दवाच्या योगिन्यः का इत्याह - परेत्यादि। परमः समयो वर्णगन्धादिः। स्थिताश्चिरावस्थिताः। किम्भूता इत्याह - मनोज्ञोपकारो येभ्यः साधकानां भवति ते मनोज्ञोपकारका योगिनीजनाः॥ १॥

भक्ताय प्रदातव्यं वर्णभेदं तु प्रगृह्य वीराद्वययोगिनः।
येन विज्ञातमात्रेण साधकः सिद्धिमाप्नुयात्॥ २॥

किम्भूतानामर्थाय त एवमित्याह - भक्तायेति। सेवया लक्षितानाम्। अत एव ता ज्ञातुं यत्नः कार्य इति भावः। समयं विवृण्वन्नाह - वर्णेत्यादि। तुर्नियमार्थः। नियमं प्रतिपादयन्नाह - वीरेत्यादि। वीराद्वयं विना योगिनीजनानां येन वर्णादिना ज्ञानेन सिद्धिसाक्षात्कारमाप्नुयात् तत्प्रवक्ष्यामीति सम्बन्धः। बहिर्योगिना ज्ञातास्तादृशीं सिद्धिं ददतीति भावः॥ २॥

मृणालगौरा तु या नारी पद्यपत्रायतलोचना।
सितवस्त्रप्रिया नित्यं नवचन्दनगन्धिनी॥ ३॥

लक्षणमाह - मृणालेत्यादि। सुबोधम्। नवं प्रसिद्धं चन्दनं गोशीर्षमित्यर्थः। नवचन्दनगन्धोऽस्यास्तीति नवचन्दनगन्धिनी॥ ३॥

सौगतगोष्ठीरता चैव सा ज्ञेया कुलगोत्रजा।
या नारी तप्तहेमाभा रक्तपीताम्बरप्रिया॥ ४॥

जातिवत्येकगन्धा च सा वीरानुगा भवेत्।
सर्वेन्दीवरश्यामा नीलाम्बरधरप्रिया॥ ५॥

नीलोत्पलशुभगन्धा च श्रीहेरुकानुगा हि सा।
या नारी [ सुन्दरी चैव ]पुण्डरीकदलच्छविः॥ ६॥

मृणालगन्धा च सततं सा तु वीरमती तथा।
रक्तगौरा च या नारी रक्तवक्त्रसुरुपिणी॥ ७॥

मल्लिकोत्पलगन्धा च सा वज्रकुलसम्भवा।
पीतश्यामा तु या नारी शुक्लाम्बरधरप्रिया॥ ८॥

शिरसि( शिरीष )पुष्पगन्धा च तथागत[ कुला ]नुगा।
आरक्तवर्णा च या नारी तद्वर्णाम्बरधारिणी॥ ९॥

कर्पूरगन्धा सततं वैरोचनकुलानुगा।
सप्तैतानि मयोक्तानि योगिनीनां कुलानि तु॥ १०॥

सौगतानां च गोष्ठ्यां रतैव। कुलं हयग्रीवस्तदेव गोत्रं यस्याः सा शौण्डिनीकुलगोत्रा। तस्या जातेति ह्रस्वत्वे कुलगोत्रजा भवति। वीर आकाशगर्भस्तदनुगा चक्रवर्मिणी तत्कुलसंभवत्वात् सा तथा। श्रीहेरुकानुगेति। सुवीराकुलानुगा। वीरमतीति। वीरमतीकुलानुगा। वज्रकुलं वाराहीकुलम्। तथागतः पद्यनर्तेश्वरः तेन कुल्यत इति तथागतकुला महाबला तदनुगा। मयेति मयैव। अभिसंप्रत्ययाय। तुरनन्तरत्वसूचकः॥ ४-१०॥

वामाचाररता नित्यं ह्येते स्वमुद्रावर्ण संकुलाः।
कुलविद्याक्षराणि [ च ] षड्वर्णानि भवन्ति हि॥ ११॥

वामा नार्यस्तासामाचारोऽतिक्रोधाहङ्कारादिकम्। हि समुच्चये। एते योगिनीजनाः। पुनः कीदृशा इत्याह - स्वमुद्रा सितवर्णादि वर्णो मृणालगौरत्वादि। ताभ्यां संकुलाः सम्बद्धाः। कुलविद्याक्षराणि चेति। कुलं साधकस्तस्य विद्यास्ता एवाक्षराणि वज्राणि दृढाधिमोक्षत्वाद् योगिनीजनाः। एते चाविचलितरुपा देव्यो भवन्तीतिभावः। षड्वर्णानि भवन्ति हीति। षड्वर्णाः प्रकाराः योगिनीनां ज्ञातव्याः। हि समुच्चये॥ ११॥

बध्नाति हि स्वकां मुद्रां वाचं वक्ति स्वगोत्रजाम्।
वामेन याति या नारी योगिन्यो वामतः सदा॥ १२॥

महद्वाचा प्रभाषी वै वामदृष्ट्यावलोकिनः।
स्त्रीणां हृष्ट प्रहासी च समयी सोऽभिधीयते॥ १३॥

तानाह - बध्नातीत्यादि। मुद्राबन्धमाह - वामेनेत्यादि। योगिनीनां वामेन। योगिन्यो वामत इति। यस्या वामतो योगिन्यः। स्वगोत्रजां वाचमाह - वाचेत्यादि। महद् यथा स्यात् तथा प्रभाषी प्रकृष्टभाषणशीलः। वै वार्थे समुच्चये वा। हृष्टप्रहासशीलत्वात् हृष्टप्रहासी। चकारः पूर्ववत्। समयोऽनतिक्रमणीयो विधिः, स यस्यास्तीति समयी सोऽभिधीयते। योगिनीजनापेक्षया पुंसोऽपि निर्देशः। प्रकारपेक्षयाऽनास्थया वा प्रकारश्चैकोऽयम्॥ १२-१३॥

या ( यः ) स्त्रीणां प्रार्थितं कुर्यात् कुलबीजैः प्रभाष्य( ष )ते।
कुलक्रियां न परित्यजति स्वशास्त्रोक्तं न मुञ्चति॥ १४॥

जपति स्वकुलां विद्यां समयी सोऽभिधीयते।
नमस्कारं हि यो बद्ध्वा वामाङ्गं प्रणतः सदा॥ १५॥

स्त्रीणां सम्भाषणं कुर्यात् सद्भावैस्तस्य ताः खलु।
वामाङ्गुष्ठलिखन्या सुभूमौ संलिख्यते पदा॥ १६॥

शिरःकण्डूयनं कुर्यात् तिर्यग्दृष्ट्या वामपाणिना।
स्वविद्यास्मरणं तस्य साधकस्य विषये हितम्॥ १७॥

गण्डे चिबुके वापि नासिकायां कृताङ्गुलिः।
तिर्यग्दृष्टिः सकृमन्त्रं जपन् विद्यां निरीक्षयेत्।
सद्भावं यान्ति योगिन्यः समयीभ्यस्तथा खलु॥ १८॥

इति श्रीहेरुकाभिधाने सप्तयोगिनीलक्षणपरीक्षाविधिपटलः षोडशमः॥ १६॥

स्त्रीणामिति निर्धारणे षष्ठी। कुलानि साधकाः। तान्येव बीजानि प्रभाषणाय कारणानि। तैः प्रविभज्य भाष्य( ष )ते। कुलक्रिया समयाचारः। कुलविद्यां कुलदेवीम्। स्वशास्त्रोक्तं मन्त्रनयोक्तम् , सोऽभिधीयत इति द्वितीयः। नमस्कारमित्यादि। सद्भावैस्तस्त ताः खल्विति। एतल्लक्षणप्रतीत्या तादृशीषु योगिनीषु तथैव नमस्कारादिकैः सद्भावैस्[ स्तस्य साधकेन खल्विति तृतीयः। वामाङ्गुष्ठेनेति। पदा पादस्य। लिखन्येति। पुनःपुनर्यल्लिख्यते तद्योगिनीजनप्रकार इति ज्ञेयमितिभावः इति चतुर्थः। शिरःकण्डूयनं कुर्यादिति पाणिना कर्तव्यम्। तद्योगिनीजनप्रकारेतिज्ञातव्यम्। सदानुगा।] तस्य साधकस्य विषये हितमिति। एवंभूतां तां दृष्ट्वा विद्यास्मरणं साधकस्य तस्य युज्यते। स्वविद्यां स्वेष्टदेवतामिव तां पश्येदिति भावः। कुत इत्याह - विषये हितमिति। तादृशो विषयो गौरवाय यतः। प्रथमार्थे सप्तमीत्यर्थसमुदाय इति पञ्चमः। मण्डलस्य गण्डो वा समुच्चये। अपिः संभावनायाम्। तिर्यग्दृष्टिरिति। चिबुकादिषु कृताङ्गुलिस्तिर्यग्दृष्टिर्या स्त्री सा योगिनीजनप्रकार इति ज्ञेयमिति षष्ठः। ता एवं दृष्ट्वा किं कार्यमित्याह - सकृन्मन्त्रं जपन् विद्यां निरीक्षयेदिति। मन्त्रो विद्याराजः। एतेन किमित्याह - सद्भावमित्यादि सुबोधम्॥ १५-१८॥

सप्तयोगिनीत्युपलक्षणम्। षण्णामपि लक्षणमपि। त्रयोदशयोगिन्यः। लक्षणं चिह्नम्। सप्तानां षण्णां च योगिनीनां लक्षणपरीक्षा सप्तयोगिनीलक्षणपरीक्षेति मध्यपदलोपीसमासः। तद्विध्यभिधायकः पटलः षोडशमः षोडशः।

इति श्रीचक्रसंवरविवृतौ षोडशः पटलः॥ १६॥

सर्वयोगिनीरुपपरिवर्ते चिह्नमुद्राविधिपटलः सप्तदशमः

ततः-
दुर्लभा योगिनीनां तु डाकिनीनां तथैव च।
पञ्चामृतसद्भावात् यामिनी त्रासनी [ तथा ]॥ १॥

कामिनी भीमा रुपा सञ्चारा भासुराः।
डाकिन्यः सप्त संहृताः स्वलक्षणमिहोच्यते॥ २॥

लक्षणानन्तरं वक्तुं सप्तदशं पटलमाह - ततो दुर्लभा इत्यादि। योगिनीनां तु डाकिनीनामित्यादि प्रथमार्थे षष्ठी। ततो योगिन्यो देव्यः। तुर्विशेषार्थः। योगिनीनामिति। डाकिन्यो मानिष्यो योगिन्यो योगिनीगुणानुवर्तिन्य इत्यर्थः। अतस्तथैव चेति पदम्। कुत इत्याह - ततो दुर्लभा इति। यतो देवीगुणत्वत्यो डाकिन्यस्ततो दुःखेनोपलभ्यन्त इति भावः। यद्येवं कथमुपलभ्यन्त इत्याह - पञ्चामृतसद्भावादिति। तदुपयोगिने साधकाय तिष्ठन्त्येता इति भावः।

डाकिनीनां लक्षणमाह - यामिनी - त्रासिनी - कामिनी - भीमा - रुपा - सञ्चारा - भासुरा - डाकिन्यः सप्त संहृता इति। एता यामिन्यादयः संहृताः संक्षेपेण सप्त व्याहृता इति भावः। स्वलक्षणमिहोच्यत इति। अन्वयेन तासां नाम एतल्लक्षणकथनद्वारेणोच्यत इत्यर्थः॥ १-२॥

रुपिका चुम्बिका लामा परावृत्ता सबालिका।
अनिर्वृत्तिका ऐहिकी देवी डाकिन्यः सप्तधाः स्मृताः॥ ३॥

अविरक्तां निरीक्षेत या भ्रूभङ्गं करोति च।
रुपं संहरति प्राक् पश्चान्नाशं करोति च॥ ४॥

रुपिका सा तु विज्ञेया वीराद्वयसेवितुम्।
इष्टं वा यदि वानिष्टा( ष्टं ) शिशुमालिङ्ग्य चुम्बति॥ ५॥

चुम्बिका सा तु विज्ञेया डाकिनी चाघनाशिनी।
तिर्यग्दृष्टिभृकुटीवक्त्रा भ्रू[ क्षेपे तर्जयन्ति ह॥ ६॥

अन्यथा निःश्वास भैरवस्तु लामाऽसौ विनिर्दिशे ]त्।
वाराहशरभमार्जारश्रृगालाद्या अजा हया॥ ७॥

सर्वांस्तान् त्रासयेत् ततः परावृत्ता हि सा [ कथ्यते।
प्रहृष्टा हसते गता भूयो न निव ]र्तते॥ ८॥

अनुरक्ते हसते स्पष्टं खण्डरोहा हि सा स्मृता।
मनोद्विग्ना करेणाथ लोष्ठेन चरणेन वा॥ ९॥

पटान्तेन वा काष्ठेन तया स्पृष्टो न जीवति।
अनिवर्ती विजानीयाद् असाध्या सा हि कीर्तिता॥ १०॥

तासां सान्वयं नामान्तरमप्याह - रुपिका - चुम्बिका - लामा - परावृत्ता - सबालिका - अनिर्वृत्तिका - ऐहिकी देवी डाकिन्यः सप्तधा स्मृता इति। रुपाया रुपिकाऽपराभिधानाया लक्षणमाह - अविरक्तामित्यादि। वीराद्वयसेवितुमिति। वीराद्वयसेविनीत्यर्थः।

यामिन्याश्चुम्बिकापराभिधानाया लक्षणमाह - इष्टं वेत्यादि। डाकिनी चेति। डाकिन्यघनाशिनीति भावः। अत एव यमः संयमः, स एव यामः स्वार्थेऽण्। स यस्याऽस्ति सा यामिनी। नाशनं करोति यतः। भीमाया लामापराभिधानाया लक्षणमाह - तिर्यग्दृष्टिरित्यादि। तर्जयन्ति हेति। एकत्वे बहुवचनम्। अत एवार्थः। अन्यथा निश्वासः कामासक्तोऽपि भैरवो विशेषेण प्रयासात्। तुर्विशेषे। अतो विशेषेण रमत इति रामा। रेफे लत्वाल्लामा। लक्षणद्वययोगाद् भीमैव लामा। त्रासन्याः परावृत्तापराभिधानाया लक्षणमाह - वराहेत्यादि। शरभः पशुविशेषः। शरमेति पाठे तु श्वा। सर्वांस्तांस्त्रासयेदिति। तस्या दर्शनेन ते बिभ्यतीत्यर्थः। अतः परावृत्ता सा। हिर्यस्मादर्थे। परे परावर्त्तन्ते यस्याः सा तथा यस्मात्। सञ्चारायाः सबालिकापराभिधानाया लक्षणमाह - प्रहृष्टेत्यादि। भूयोऽनिवर्तितत्वात् सञ्चारः। कामिन्या ऐहिक्यपराभिधानाया लक्षणमाह - अनुरुक्त इत्यादि। खण्डरोहा खण्डेऽभिन्नप्रदेशे पुनः पुनरारोहति तिष्ठतीति सा तथा। हिर्यस्मात्। इह प्रदेशे चिरमवतिष्ठति इत्यैहिकी। भासुराया अनिवर्तिकापराभिधानाया लक्षणमाह - मनोद्विग्नेत्यादि। या भासुराऽनिवर्तिकापरसंज्ञा सा मनसोद्विग्ना भवति। तथाभूतया च तया लोष्ठादिना स्पृष्टः सत्त्वो न जीवति। अनिवर्त्या निवर्तयितुमशक्यत्वात्। कुत इत्याह - असाध्या हीति। हिर्यस्मत्॥ ३-१०॥

हसति जल्पति रुदति वा अकस्मात् प्रकुप्यते।
ऐहिका सा स्मृता [ देवी पूर्वाभिलापिनी॥ ११॥

सौगतगोष्ठीरता सैव वज्रकुलोद्भवा ]।
डाकिनीनां कुलानीह महावादीनि लक्षयेत्॥ १२॥

कपालपर्शुदंष्ट्राश्च क्रकचध्वजखड्गसंत्रासनी।
शंखा चाष्टमी स्मृताः कुलमुद्राः प्रकीर्तिताः॥ १३॥

इति श्रीहेरुकाभिधाने सर्वयोगिनीरुपपरिवर्ते चिह्नमुद्राविधिपटलः सप्तदशमः॥ १७॥

डाकिनीनां कुलानीह महावादीनि लक्षयेदिति। वायुवेगादयो महावीर्यान्ता योगिन्यो यामिन्यादीनामैहिकान्तानां कुलानि। डाकिनी योगिनीति समानार्थः। डाकिनीनां कुलमुद्रावीरसेवितुं लक्षयेदिति पाठान्तरे। डाकिनीनामुक्तानां कुलानि मुद्रा एव। योगिन्य एव वायुवेगादयः। ता लक्षयेज्जानीयात्। वीरसेवितुं वीरसेविनीत्यर्थः। द्वितीया बहुवचनलोपात्। कपालपरशुदंष्ट्राश्चक्रकचध्वजखड्गसन्त्रासनी संख्याश्चेति। चकारः समुच्चये। दंष्ट्रा वराहदन्ताः। कचध्वजेति मुक्तकेशता। अष्टमी अष्टौ मुद्राः। एतासां मुद्राणां मध्ये यां काञ्चिद् यस्याः कस्याश्चित् डाकिन्याः। कपालपरशुदंष्ट्राश्च खड्गसंत्रासनी चैवेति पाठान्तरे। खड्गेति निर्विभक्तिकं संत्रासनी कर्त्ती। पञ्चैव मुद्राः॥ ११-१३॥

एतच्च योगिनीनां रुपपरिवर्तनमविरक्तनिरीक्षणादि कपालादिमुद्राश्च विधिः प्रयोजनं योगिनीज्ञानं लक्षणम्।

इति श्रीचक्रसंवरविवृतौ सप्तदशः पटलः॥ १७॥
स्
सर्वयोगिनीवर्णलक्षणचिह्नविधिपटलोऽष्टादशमः

अथापरं प्रवक्ष्यामि डाकिनीनामपरं पदम्।
येन सम्यग्विजानाति डाकिन्यः समये स्थिताः॥ १॥

अथेति। रुपपरिवर्तनादिकथनानन्तरं ततोऽपरं पदं चिह्नं प्रवक्ष्यामि( मीति ) सम्बन्धः। पद्यते गम्यते डाकिनी येन तेन पदम्। कीदृगित्याह - येनेत्यादि। डाकिन्य इति द्वितीयार्थे प्रथमा॥ १॥

रक्तगौरा हि या नारी पद्यगन्धं विमुञ्चति।
सौम्यदृष्टिः प्रकृत्यैव संरक्तदर्शना तु या॥ २॥

पदमाह - रक्तेत्यादि। पद्यगन्धं विमुञ्चतीति पद्यगन्धगात्रेत्यर्थः। सौम्यदृष्टिरिति। भृकुट्यादिरहितत्वात्। संरक्तदर्शना तु येति। अत्यन्तानुरागविशिष्टत्वात्। संरक्तनयनानुगेति पाठे संरक्तनेत्रान्विता॥ २॥

नखा हि यस्या नार्या संरक्ते नयने तथा।
गृहे च लिखितं पद्यं पद्यनर्तेश्वरकुलोद्भवा॥ ३॥

नखा हीति। हिरधिकार्थे। अत्यन्तरक्ता नखा इत्यर्थः। संरागप्रकरणात् चिह्नं पद्यं लिखितं पद्यमिति सुगमः पाठः। पद्यनर्त्तेश्वरोऽमिताभः तत्कुलोद्भवा इति ज्ञेयम्॥ ३॥

भ्रूमध्यगतं त्रिशूलं श्यामा पाण्डरशरीरं च।
सततं वज्रकुले भावितं वज्रं तु गृहे लिखितमर्चये [ त् सदा॥ ४॥

श्रीहेरुककुलोद्भूता ज्ञेया सा वज्रडाकिनी।
यस्याः शूलं ललाटे वै शक्तिर्हि चापि दृश्यते॥ ५॥

रक्ताक्षी रक्तगौरा च रक्तपादकरा तथा।
छागले कुक्कुटे वापि रमते भाविता सदा॥ ६॥

चिह्नं तस्या गृहे वज्रमर्चयेत् सततं तथा।
श्रीहेरुक कुलोद्भूता डाकिन्यो नात्र संशयः॥ ७॥

यस्याः चक्रं ललाटे तु करे चापि हि दृश्यते।
श्यामा जीमूतसदृशी नित्यं ललाटे पट्टधारिणी॥ ८॥

महासौभाग्यसम्पन्ना साध्वी परतरा च या।
लिखितं च गृहे चक्रं यस्या वै पूज्यते सदा॥ ९॥

वज्रवाराहीकुलोद्भूता डाकिनी बलदर्पिता।
या च कृष्णाञ्जनश्यामा सितदशनोन्नता च या॥ १०॥

क्रूरा च सततं वामा सत्त्वयुक्ता च या भवेत्।
नित्यं स्नानरता या च वाचा न बहुभाषिणी॥ ११॥

वज्रं गृहे च सततं पूज्यते लिखितं शुभम्।
वज्रवाराह्याः कुलोद्भूता सहस्त्राणि दशपञ्चकम्॥ १२॥

भ्रूमध्ये गतं त्रिशूलं त्रिशूलाकारमङ्गम्। श्यामा पाण्डरशरीरं चेति। यस्याः श्याममापाण्डरं च शरीरम्। अस्याः स्वगृहे वज्रं लिखितम्। गृहमर्चयेत्। तुर्निश्चये। सा नियमेन श्रीहेरुककुलोद्भूता ज्ञेया। वै वाक्यालङ्कारे पक्षान्तरे वा। अपिः संभावनायाम्। हिरतिशये। रक्तेत्यादि। छगल एव छागलः। सततता निरन्तरता। डाकिनी इति डाकिनी। ललाट इति। ललाटमध्य इति ज्ञेयं तुशब्दात्। हिरवधारणे। ललाटशब्देन वीरपटः। साध्वीत्येकपत्नी। परतरेति परमशोभना। दशनोन्नतेत्युन्नतदशना। वामेति। असत्पदे रता। वज्रवाराह्याः कुलोद्भूता। कियत्य इत्याह - सहस्त्राणि दशपञ्चकमिति। पञ्चदशसहस्त्राणि योगिन्य इत्यर्थः॥ ४-१२॥

गौरी कनकसङ्काशा तथा स्तब्धाक्षी या च लोमशा।
यस्य ललाटे वज्रं वा करे चापि हि दृश्यते॥ १३॥

राज्यारुढा तु नित्यं गर्विता सत्यवादिनी।
मल्लिकामोदगन्धिनी।
वज्रं च लिखितं यस्याः पूज्यते सततं महत्॥ १४॥

खण्डरोहा कुलोद्भूता महायोगेश्वरी वरा।
मांसप्रिया च या नित्यं तृषा कृष्णाञ्जनप्रभा॥ १५॥

शूलाकारं ललाटं तु क्रूरकर्मरता च या।
श्मशानं याति नित्यं निर्भया निर्घृणा च या॥ १६॥

यस्या ललाटे शूलं कपालं च लिखितं पूज्यते गृहे।
श्रीहेरुकदेवस्य डाकिनी सा कुलोद्भवा॥ १७॥

जीमूतवर्णा या नारी दशनैर्विषमैः स्थिताः।
सततं क्रूरकर्मा च वामदंष्ट्रोत्कटा च या॥ १८॥

लिखितं परशुं यस्या गृहे नित्यं च पूज्यते।
विनायककुलोद्भूता डाकिनी सा न संशयः॥ १९॥

गौरीत्यादिना वरेत्यन्तेन खण्दरोहाकुलोद्भूता लक्षणम्। मल्लिकाया इवामोदो यस्य स मल्लिकामोदो गन्धो यस्याः सा तथा। मांसप्रियेत्यादिना डाकिनी सा कुलोद्भवेत्यन्तेन श्रीहेरुककुलोद्भवाया लक्षणम्। जीमूतेत्यादिना न संशय इत्यन्तेन विना[ य ]ककुलोद्भूताया लक्षणम्। दशनैर्विषमस्थितेति विषमदशनेत्यर्थः। विनायको विघ्नारिः॥ १३-१९॥

एतद् डाकिनीगणस्य श्रीहेरुककुलोद्भवा।
साधकानां हितार्थोप लक्षणं समुदाहृतम्॥ २०॥

इति श्रीहेरुकाभिधाने सर्वयोगिनीवर्णलक्षणचिह्नविधिपटलोऽष्टादशमः॥ १८॥

एतद् डाकिनीगणस्य श्रीहेरुककुलोद्भवा साधकानां हितार्थोपलक्षणं समुदाहृतमिति। एतल्लक्षणं डाकिनीगणस्य सम्बन्धि। किम्भूतस्येत्याह - श्रीहेरुककुलोद्भवेति निर्विभक्तिकम्। श्रीहेरुक एव कुल तत्संभवस्य। प्लुतोच्चारणम्। चकारादिशब्दाः समुच्चयाद्यर्था ज्ञेयाः। लक्षणं कुलं च साङ्कर्येण न तु [ मनसा यथावतारितं षोडशे।] वर्णगन्धादिना कुलेन च सप्तयोगिन्य उक्ताः। क्रियामात्रेण षट्। सप्तदशे नामग्रहणादिना कपालादिना चिह्नेन च सप्त। इह च वर्नगन्धादिना चिह्नेन कुलेन प्रतिबद्धेनाष्टौ। समुदायेनाष्टाविंशतिः। सर्वशब्दः प्रदेशकार्त्स्न्ये॥ २०॥

सर्वासामष्टानां योगिनीनां वर्णलक्षणचिह्नानि विधीयन्ते प्रतिपाद्यन्ते येन स चासौ पटलश्चेति सर्वयोगिनीवर्णलक्षणचिह्नविधिपटलोऽष्टादशमोऽष्टादशः।

इति श्रीचक्रसंवरविवृतौ अष्टादशः पटलः॥ १८॥

सर्वयोगिनीमुद्राप्रतिमुद्रानिर्देशविधिपटल ऊनविंशतिमः

अथापरं संप्रवक्ष्यामि लामानां तु विशेषतः।
सम्यगङ्गावयवं जानीयाद् येन साधकः॥ १॥

अथेति लक्षणसमुच्चये। अपरमिति लक्षणं लामानां लामाजातीयानां योगिनीनामित्यर्थः। तुर्वाक्यालङ्कारे। विशेषत इति लामादिकुलोद्भूतानां सामान्यं लक्षणमुक्तमिदानीं लामाजातीयानामेवोच्यत इति विशेषः। अवयवसद्भूतत्वादवयवं लक्षणं तत्सम्यक्प्रवक्ष्यामीति सम्बन्धः। साधकेति चतुर्थीलोपे तादर्थ्यात् साधक इति पाठेऽपि प्रथमा चतुर्थ्यर्थ एव॥ १॥

मुखं यस्यास्तु विस्तीर्णं दृश्यते परिमण्डलम्।
वक्त्रे श्मश्रूणि नित्यं भ्रुवौ दीर्घास्तु लोमशाः॥ २॥

शुभ्रवस्त्रा शुचिः सौम्या अक्षोभ्या सत्ववादिनी।
सद्धर्मरता नित्यं वीरभगिनी तु सा ज्ञेया॥ ३॥

लक्षणमाह - मुखमित्यादि। परिमण्डलं वर्तुलम्। लोमशा लोमबहुला भवन्तीति। शुभ्रवस्त्रेति निर्मलवस्त्रा। शुचिर्निर्मला। अक्षोभ्या सुनिश्चया। वीरभगिनीति योगिनीत्यर्थः। वीरभगिन्य इति पाठान्तरे एकत्वे बहुवचनम्॥ २-३॥

पद्यमुद्रा दातव्या कूर्ममुद्राऽथवा पुनः।
अजिनं कमण्डलुं चैव प्रतिमुद्रा विधीयते॥ ४॥

तां दृष्ट्वा मुद्रा देयेत्याह - पद्येत्यादि। अञ्जलिगताङ्गुलिकुञ्चनात्पद्यमुद्रा। अथवेति पक्षान्तरे। पुनर्वाक्यालङ्कारे। दक्षिणं हस्तं प्रसार्योद्धृतां कृत्य च तदुपरि वामं चाकुञ्चितं स्थापयेदिति कूर्ममुद्रा। अजिनं कमण्डलुं चैवेति। वामस्कन्धावलम्बितस्य पटाञ्चलस्य वामकरेण धारणाभिनयादजिनम्। यज्ञोपवीतपरिधानाभिनयादिति केचित्। कमण्डलुधारणाभिनयात् कमण्डलुः। चैवो निश्चयावधारणयोः। अजिनं पद्यमुद्रादायिने दर्शयेत्। कमण्डलुं च कूर्ममुद्रादायिने। योगिन्या मुद्रादर्शनाद् योगिनो मुद्रा प्रतिमुद्रा॥ ४॥

दशमी पर्वणी तस्याः पद्यं च लिखितं गृहे।
श्रियाणां तु लामानामेतद्भवति लक्षणम्॥ ५॥

लम्बोष्ठी च विशालाक्षी रक्तपिङ्गललोचना।
आढ्या सुभगा धन्या गौरी चम्पकसन्निभा॥ ६॥

नादीर्घा नातिदीर्घा च विचित्रवसनप्रिया।
तिस्त्रो रेखा ललाटे च ऊर्ध्वसीमान्तमाश्रिता॥ ७॥

हसते रमते* ] चैव मार्गमाक्रम्य तिष्ठति।
संग्रामे मृतकानां तु कथासु रमते सदा॥ ८॥

ईदृशीं प्रमदां दृष्ट्वा शूममुद्रां प्रदापयेत्।
आकुञ्चितवामपादं तु सनृत्यं चैव दर्शयेत्॥ ९॥

परिवर्तनं च वामेन प्रतिमुद्रा विधीयते।
चतुर्दशी चाष्टमी तु पर्वणी तस्या विधीयते॥ १०॥

श्रियाणामिति वर्णागमात्। श्रीर्वज्रवाराहीयुक्तः श्रीहेरुकः तदुद्भूता योगिन्यः श्रियः। लम्बोष्ठीत्यादि। अपरमाह - आकुञ्चितवामपादेति। अर्धपर्यङ्कं नाट्यं दर्शयेदित्यर्थः। परिवर्तनं विमुखीभावः। द्वयमिदं प्रतिमुद्रा। पर्वणी पुण्यकालः। चतुर्दश्यादिपर्वणे तथागताचार्यादिषु पूजा॥ ५-१०॥

पूजयेद् सततं तस्याः शूलं वा लिखितं गृहे।
लोकेश्वरीणां तु लामानामेतद्भवति लक्षणम्॥ ११॥

नित्यं च कूपकौ यस्या दृश्येते गण्डसङ्गतौ।
रक्तगौरा तथा नित्यं हरितपिङ्गललोचना॥ १२॥

कुञ्चिताश्च तथा केशाः पट्टबन्धशिर[ स्तथा ]
ललाटे दृश्यते चैव एकरेखा प्रतिष्ठिता॥ १३॥

दीर्घग्रीवा तथा चोच्चा रक्तवस्त्रप्रिया नित्यम्।
हसते गायते चैवाकस्माच्च प्रकुप्यति॥ १४॥

चलचित्ता विशेषेण कलहेषु च रज्यते।
ईदृशीं प्रमदां दृष्ट्वा शक्तिमुद्रां प्रदर्शयेत्॥ १५॥

घण्टामुद्रा प्रदातव्या द्वितीया चैव यत्नतः।
परिवर्तनं तु वामेन प्रतिमुद्रा विधीयते॥ १६॥

ह्रस्वा चैव स्थूलजङ्घा च।
पीतवस्त्रप्रिया नित्यं स्कन्धवस्त्रावलम्बिनी॥ १७॥

ईदृशीं प्रमदां दृष्ट्वा मुखमुद्रां प्रदर्शयेत्।
शङ्खमुद्रा प्रदातव्या द्वितीया चैव यत्नतः॥ १८॥

परिवर्तनं [ च ] वामेन प्रतिमुद्रा विधीयते।
चतुर्दशी पर्वणी तस्या वज्रं च लिख( ख्य )ते गृहे॥ १९॥

श्रीहेरुकलामानामेतद्भवति लक्षणम्।
लोमशा सर्वगात्रेषु कृष्णपिङ्गललोचना॥ २०॥

कराली विकृता घोरा स्थूलास्या स्थूलवक्त्रा( क्त्रिका )।
लम्बोष्ठी कृष्णवर्णा च कोटराक्षी भग्ननासिका॥ २१॥

नित्यं गान्धर्वकुशला मेघवर्णा मनोहरा।
ईदृशीं प्रमदां दृष्ट्वा नागमुद्रां प्रदापयेत्॥ २२॥

शक्तिमुद्रा प्रदातव्या द्वितीयापि हि यत्नतः।
परिवर्तनं च वामेन प्रतिमुद्रा विधीयते॥ २३॥

एकादशी पर्वणी तस्या दंष्ट्रा च लिखितं गृहे।
वज्रवाराहीनां तु लामानामेतद्भवति लक्षणम्॥ २४॥

इति श्रीहेरुकाभिधाने सर्वयोगिनीमुद्रा[ प्रतिमुद्रा ]निर्देशविधिपटल ऊनविंशतिमः॥ १९॥

लोकेश्वरीणाममिताभकुलानाम्। गण्डसङ्गतौ नित्यं कपोलयोः कूपकौ। कपोलगण्डेति क्वचित्पाठः। तत्र कपोलगण्डः कपोलः। अङ्गुष्ठेन शेषसर्वाङ्गुलिसमाक्रमणादूर्ध्वीकृतां तर्जनीं धारयेदिति शक्तिमुद्रा। घण्टावादनाभिनयेन घण्टामुद्रा। मुद्रयोरेका देया। ह्रस्वेत्यादिनाऽन्यदाह - स्कन्धादेकस्माद् वस्त्राञ्चलमवलम्बयितुं शीलं यस्याः सा स्कन्धवस्त्रावलम्बिनी। वज्राञ्जलिं कृत्वा मध्यमाद्वयमुत्थाप्य तर्जनीभ्यामनामिकाद्वयवेष्ट्याङ्गुष्ठद्वयं प्रगुणीकृत्य तं मुखसमीपे धारयेदिति मुखमुद्रा। उत्तानवामकरकनीयस्याद्यङ्गुलित्रयं संकोच्य तर्जन्यङ्गुष्ठौ संयोज्य प्रसारयेदिति शङ्खमुद्रा। वामं हस्तमुद्धृतीकृत्य तदुपरि दक्षीणं कफोणिं निधायाङ्गुष्ठतर्जनीसमुत्थापनादङ्गुलित्रयमाकुञ्च्य दक्षिणहस्तं धारयेदिति नागमुद्रा। द्वितीयेति प्रतिमुद्रा। अत आह - प्रतिमुद्रेति द्वितीया प्रतिमुद्रा चेति पर्यायौ। पञ्चानां लामाजातीयानां योगिनीनां लक्षणमुक्तम्। समुदायेन द्वात्रिंशद्योगिनीनां लक्षणं तासां लक्षणमुद्रादर्शनात्। प्रतिमुद्रा देयेति विशेषः। तु-शब्दादीनामनुक्तार्थः स्वयमभ्यूहनीयः॥ ११-२४॥

मुद्राप्रतिमुद्राद्वारेण पटलपिण्डर्थमाह - सर्वेत्यादि। सर्वशब्दः पूर्ववत्। सर्वासां पञ्चानां योगिनीनां मुद्रास्तासु योगिनां प्रतिमुद्राश्च तासां निर्देशः कथनं स विधीयते येन चासौ पटलश्चेति स तथा। ऊनविंशतिमः। तकारलोपे सति॥ १९॥

इति श्रीचक्रसंवरविवृतावूनविंशतितमः पटलः॥ १९॥

सर्वयोगिन्यहस्तमुद्रासंकेतविधिपटलो विंशतिमः

अथान्यतमं वक्ष्ये वामहस्तं तु छोम्मकम्।
येन विज्ञायते सम्यग् भ्राता च भगिनी तथा॥ १॥

पञ्चदशेऽक्षरछोम्मक उक्तः। इह तु हस्तछोम्मकमाह - अथेत्यादि। अथेति मुद्राप्रतिमुद्राकथनानन्तरम्। अन्यतममिति। अक्षरछोम्मकान्तरं हस्तछोम्मकं वक्ष्य इति सम्बन्दः। वामहस्तं त्विति। वामेन हस्तेन साध्यत्वाद् वामहस्तछोम्मकः। तुधब्दाद्दक्षिणहस्तसाध्यं च छोम्मकं वक्ष्य इति ज्ञेयम्। अतः परं प्रवक्ष्यामि डाकिनीनां तु लक्षणमिति पाठान्तरं सुबोधम्॥ १॥

वामहस्तं दर्शयेद् यस्तु( या तु )अभिवादयामीत्युक्तं भवति।
अनामिकां दर्शयेद् या तु प्रत्यभिवादनमित्युक्तं भवति॥ २॥

उदरं ताडयेद् या तु बुभुक्षिता वयमित्युक्तं भवति।
ललाटं दर्शयेद् या तु आकाशादागतमित्युक्तं भवति॥ ३॥

मुखादङ्गुलिं प्रक्षिपेद् या तु भुञ्जामीत्युक्तं भवति।
जिह्वां लालयेद् या तु भुक्तास्मीत्युक्तं भवति॥ ४॥

जानुं स्पृशते या तु श्रान्तास्मीत्युक्तं भवति।
अङ्गुल्यग्रं स्पृशते या तु विश्रान्तास्मीत्युक्तं भवति॥ ५॥

दन्तं किटकिटायते या तु भक्षयामीत्युक्तं भवति।
भृकुटीं दर्शयेद् या तु बद्धास्मीत्युक्ज्तं भवति॥ ६॥

गुरुदं दर्शयेद् या तु मुक्तास्मीत्युक्तं भवति।
मुष्टिं दर्शयेद् या तु पट्टिशमस्याः प्रदर्शयेद्॥ १७॥

केशान् दर्शयेद् या तु विकृतं च निरीक्षयेत्।
नखं दर्शयेद् या तु खट्वाङ्गं तस्या दर्शयेत्॥ ८॥

अङ्गं विधूनते या तु द्विदंष्ट्रां तस्या प्रदर्शयेत्।
हस्तेन हस्तं वादयेद् या तु बलिर्भोक्तव्यमित्युक्तं भवति॥ ९॥

छोम्मकमाह - वामहस्तमित्यादि। तुरवधारणे। अभिवादयामि नमस्करोमीति तयोक्तं भवति। अनामिकामिति। वामहस्तस्यैव। तुर्विशेषार्थः। ताडयेद् या त्विति। उदरं जिह्वां चेति तुशब्दार्थः। दर्शयेदित्यपि बोद्धव्यम्। तयोक्तमिति सर्वत्रैव योज्यम्। आकाशादागतमिति। उक्तं भवतीत्यनुवर्तते। अङ्गुलिं प्रक्षिपेदिति। मुख इति ज्ञेयमिति तुशब्दार्थः। जानुं स्पृशते या त्विति। तुर्विशेषे। कुतश्चिदागत्य जानुस्पर्शनाच्छ्रान्ताऽस्मीति तयोक्तं भवति। श्रान्तोऽस्मीत्यादि देशविशेषोक्तिनिबन्धात्। तथा च स्त्रीलिङ्गपुंलिङ्गयोः। प्रायेण भगादौ समोक्तिः। अङ्गुल्यग्रमिति। अङ्गुल्याऽङ्गुल्यग्रं स्पृशतीति यत्र। तुशब्दार्थो विशेषेणोच्यते तेनेह स एवार्थः। गरुडमिति नासिकाग्रम्। पट्टिशमिति वीरपटबन्धाकारेण वामहस्तम्। ललाटे दर्शयेत्। केशानिति। तत्र वामहस्तव्यापारात्। विकृतं चेति। भृकुट्या निरीक्षणस्य विकृतत्वम्। चकाराद् हूँकारो ज्ञेयः। खट्वाङ्गधारणाभिनयेन खट्वाङ्गदर्शनम्। अङ्गविधूननसङ्केतः। इह वामहस्तव्यापाराभावः। कनीयसीद्वयमिच्छ्रित्याऽऽस्यबन्धद्वये वज्रमुष्टिद्वयं न्यसेदिति। दंष्ट्राद्वयम्। द्वे दंष्ट्रे यस्याः सा द्विदंष्ट्रा मुद्रा। बलिर्भोक्तव्यमिति। बलिः पूजा। बलिर्भोक्तव्य इत्यर्थः। वामहस्तस्यैव सर्वत्र व्यापारः॥ २-९॥

दक्षिणहस्तं प्रदर्शयेद् या तु एवं कुरुष्वेत्युक्तं भवति।
कर्णं स्पृशते या तु वशितव्यमित्युक्तं भवति॥ १०॥

नखैर्नखं संस्पृशते या तु मृता नीयतेत्युक्तं भवति।
भूमिं विलिखते या तु अद्य मण्डलं प्रविशामीत्युक्तं भवति॥ ११॥

चिबुकं स्पृशते या तु पुत्रो मे रक्षितव्यमित्युक्तं भवति।
वामाङ्गुष्ठेन भूमिं विलिखते या तु गुरुजनो मे रक्षितव्यमित्युक्तं भवति॥ १२॥

अक्षिणी उन्मीलयेद् या तु एवं कुरुष्वेति वक्तव्यं भवति।
पर्वणी लेहयेद् या तु सुखशयनमित्युक्तं भवति॥ १३॥

यानि कानिचिद् दूतीनां तान् सर्वान् प्रदर्शयेत्॥ १४॥

इति श्रीहेरुकाभिधाने सर्वयोगिन्य[ हस्त ]मुद्रासंकेतविधिपटलो विंशतिमः॥ २०॥

दक्षिणहस्तछोम्मकमाह - दक्षिणेत्यादि सुबोधम्। वामेत्यादि। वामहस्ताङ्गुष्ठेन। अक्षिणीति सङ्केतः। एतयोर्यथाकथञ्चिद् व्यापारः। यानीत्यादि कान्यपि दूतीनां मुद्रारुपाणि लक्षणान्युक्तानि तेषु योगिनीभिः कृतेषु योगिभिः प्रतिमुद्रा देया इत्यर्थः। [ तान् सर्वान् प्रदर्शयेदिति। प्रतिमुद्रा इत्यर्थः। ] यतो भावग्रस्तमिदं वाक्यं विशेषेण बोद्धव्यम्॥ १०-१४॥

सर्वशब्दः सामान्यवचनः। सर्वासां योगिनीनां हस्तमुद्राः सङ्केताश्चैते विधीयन्ते येन स चासौ पटलश्चेति सर्वयोगिनीहस्तमुद्रासङ्केतविधिपटलो विंशतिमो विंशतितमः।

इति श्रीचक्रसंवरविवृतौ विंशतितमः पटलः॥ २०॥

दर्शनाङ्गमुद्रालक्षणविधिपटल एकविंशतिमः

अथ दर्शनमहागुह्यं लक्षणं प्रवदाम्यहम्।
या स्पृशते शिखां नारी शिरस्तस्याः प्रदर्शयेत्॥ १॥

ललाटं दर्शयेद् या तु गण्डं तस्याः प्रदर्शयेत्।
दशनं दर्शयेद् या तु जिह्वां तस्याः प्रदर्शयेत्॥ २॥

ओष्ठौ दर्शयेद् या तु चिबुकं तस्याः प्रदर्शयेत्।
ग्रीवां स्पृशते या तु उदरं तस्याः प्रदर्शयेत्॥ ३॥

हस्तौ दर्शयेत् या तु बाहुं तस्याः प्रदर्शयेत्।
त्रिकटिकां दर्शयेद् या तु पृथिवीं तस्याः प्रदशयेत्॥ ४॥

स्तनौ दर्शयेद् या तु चिबुकं तस्याः प्रदर्शयेत्।
उदरं दर्शयेद् या तु नाभिं तस्याः प्रदर्शयेत्॥ ५॥

गुह्यं दर्शयेद् या तु लिङ्गं तस्याः प्रदर्शयेत्।
उरुं दर्शयेद् या तु अपानं तस्याः प्रदर्शयेत्॥ ६॥

जानुं दर्शयेद् या तु जङ्घां तस्याः प्रदर्शयेत्।
पादौ दर्शयेद् या तु तलं तस्याः प्रदर्शयेत्॥ ७॥

अथेति। हस्तमुद्रानन्तरं लक्षणं प्रवदाम्यहमिति सम्बन्धः। तच्च योगिनीनां किं भूतमित्याह - दर्शनमहागुह्यमिति। दर्शनार्थं महागुह्या योगिन्यो यतो भवन्ति तत्तथा। लक्षणं शिखादिस्पर्शनस्वरुपम्। अथातो ह्यङ्गमुद्राणामिति हि के( क्व )चित्पाठे अथेति प्राग्वत्। यतो लक्षणेन ज्ञायन्ते योगिन्य इत्यत इति शब्दार्थः। हिरवधारणे। अङ्गस्य स्पर्शनादि यासां ता अङ्गमुद्रायोगिन्यः। या स्पृशते शिखामिति शिखायाश्चूडायाः स्पर्शमात्रमेव लक्षणम्। शिर इति। हस्तस्पर्शनमेव प्रदर्शनम्। एवमन्यत्रापि। दर्शितान् ( दशनं ) दर्शयेदिति। ओष्टावुद्धाट्य हस्तेन। जिह्वामिति। जिह्वाऽपि तथैव। त्रिकटिकामिति। स्फिग्द्वयसम्बन्धिग्रन्थिः। पृथिवीमिति। भूस्पर्शमुद्रां दर्शयेदित्यर्थः। गुह्यमिति धर्मोदयम्। अपानमधोमार्गम्। तलं पादतलमिति सुबोधम्॥ १-७॥

अङ्गुलिं दर्शयेद् या तु नखं तस्याः प्रदर्शयेत्।
भूमिं प्रदर्शयेद् या तु आकाशं तस्याः प्रदर्शयेत्॥ ८॥

आकाशं दर्शयेद् या तु सूर्यं तस्याः प्रदर्शयेत्।
नदीं प्रदर्शयेद् या तु समुद्रं तस्याः प्रदर्शयेत्॥ ९॥

एता अङ्गमुद्रा डाकिनीनां नात्र संशयः।
एभिस्तु दर्शयेन्नित्यं सम्यग्दर्शनं यान्ति गुह्यकाः॥ १०॥

इति श्रीहेरुकाभिधाने दर्शनाङ्गमुद्रालक्षणविधिपटल एकविंशतिमः॥ २१॥

भूमिं भूस्पर्शमुद्रामेव दर्शयेत्। आकाशेऽधोमुखभ्रमणेन तत्प्रतिपादनम्। सूर्यमूर्ध्वनिरीक्षणात्। हस्तेनाकाशे नद्याकारेण रेखादानाभिनया नदीमुद्रा। आकाशे वेपमानेन हस्तद्वयेन समुद्रमुद्रा॥ ८-१०॥

दर्शनेनाङ्गमुद्रालक्षणं दर्शनाङ्गमुद्रालक्षणम्। तद्विधीयते येन स चासौ पटलश्चेति दर्शनाङ्गमुद्रालक्षणविधिपटल एकविंशतितमः।

इति श्रीचक्रसंवरविवृतावेकविंशतितमः पटलः॥ २१॥

विशेषमुद्रालक्षणविधिपटलो द्वाविंशतिमः

अतः परं प्रवक्ष्यामि अङ्गमुद्रां यथाविधि।
येन विज्ञायते भ्राता भगिनी वा विशेषतः॥ १॥

एकाङ्गुलिं दर्शयेद् यातु स्वागत[ मित्युक्तं ] भवति।
द्वयङ्गुलिं दर्शयेद् ता तु सुस्वागतमित्युक्तं भवति॥ २॥

एताः सर्वयोगिन्योऽङ्गमुद्राः प्रकीर्तिताः।
नेत्रमुद्रां विजानीयाद् द्वाभ्यामङ्गुलिसू [ च्यं तु॥ ३॥

किञ्चित् कुञ्चिततर्जनीं मन्त्री दर्शयेत् तु ताम्।
तत्क्षणाद् वशमायाति यावज्जीवं तु गुह्यक॥ ४॥

अतः परमिति। शिखास्पर्शादिमुद्राकथनानन्तरम्। अङ्गमुद्राः प्रवक्ष्यामीति सम्बन्धः। ताः कथिता एव किमाभिरित्याह - विशेषत इति। विशेषेणाङ्गमुद्रा इत्यर्थः। अथातः संप्रवक्ष्याम्यङ्गमुद्रा यथाविधीति पाठान्तरेऽपि। अथेति समुच्चये। अत इति विशेषेण। द्वयोरङ्गुल्योः सुस्वागतमिति। तर्जनीमध्यमयोर्दर्शनेन। एताः सर्वयोगिन्योऽङ्गमुद्राः प्रकीर्तिता इति। अङ्गमुद्रा सर्वासां योगिनीनां साधारण्य इत्यर्थः। मुद्रा पोतङ्गीनामाङ्गमुद्राः प्रकीर्तिता इति पाठान्तरे पोतङ्गिनीति नाम्न्यो मुद्राः ताश्चाह - नेत्रमुद्रां विजानीयाद् द्वाभ्यामङ्गुलिसूच्यन्तु किञ्चित् कुञ्चिततर्जनी यस्य ता दर्शयेद् योगी स तत्क्षणाद् वशमायान्ति गुह्यक इति। द्वाभ्यां ज्येष्ठातर्जनीभ्यां हस्तद्वयगताभ्यां सूच्यं सूचीकृत्वा शेषाङ्गुलिसङ्कोचे किञ्चित् कुञ्चिता तर्जनी यस्यां सा तथा मुद्रा, तां नेत्रमुद्रां विजानीयात्। यस्येति यस्या मुद्रामेतां योगी दर्शयेत्। स इति ता गुह्यका योगिन्यस्तस्यैवं वशीभवन्तीत्यर्थः॥ १-४॥

मुद्रा पोतङ्गिनीनाम यावज्जीवं न संशयः।
मध्यमां दर्शयेद् या तु प्रदेशिनीं तस्याः प्रदर्शयेत्॥ ५॥

अनामिकां प्रदर्शयेद् या तु जिह्वां तस्याः प्रदर्शयेत्।
पट्टिशं दर्शयेद् या तु शूलं तस्याः प्रदर्शयेत्॥ ६॥

शिरो दर्शयेद् या तु मेदिनीं तस्याः प्रदर्शयेत्।
महीं दर्शयेद् या तु आकाशं तस्याः प्रदर्शयेत्॥ ७॥

भृकुटिं दर्शयेद् या तु सीमान्तं तस्या दर्शयेत्।
दन्तान् दर्शयेद् या तु ओष्ठं तस्याः प्रदर्शयेत्॥ ८॥

ग्रीवां दर्शयेद् या तु वक्त्रं तस्याः प्रदर्शयेत्।
ललाटं दर्शयेद् या तु दृष्टिं तस्याः प्रदर्शयेत्॥ ९॥

एताः सर्वयोगिन्यः क्रमादङ्गमुद्रा प्रचोदिता।
एभिस्तु दर्शयेत् सम्यग् दर्शनं यान्ति गुह्यक(।ः )॥ १०॥

इति श्रीहेरुकाभिधाने विशेषमुद्रालक्षणविधिपटलो द्वाविंशतिमः॥ २२॥

मुद्रा पोतङ्गिनीनाम यावज्जीवं न संशय इति। इयं नेत्रमुद्रा पोतङ्गिनीसंज्ञका। एता इत्यादिना बहुत्वनिर्देशस्तु प्रत्येकयोगिन्यङ्गभेदसम्बन्धात्। पट्टिशं पूर्ववत्। शिरो दर्शयेदिति शिरोदर्शनमात्रम्। मेदिनीमिति व्याख्यातम्। वक्त्रं वक्त्रमुद्राः। एताः सर्वयोगिन्योऽङ्गमुद्राः प्रचोदिता इति। सर्वा एव योगिन्योऽङ्गमुद्रा एव भेदाभावात्। सर्वासामेव चेत्यर्थः। एभिरिति प्रतिमुद्राः। कर्मणि तृतीया। लिङ्गव्यत्ययश्च॥ ५-१०॥

विशेषेणाङ्गमुद्रालक्षणं विधीयते येन स चासौ पटलश्चेति स विशेषेणाङ्गमुद्रालक्षणविधिपटलो द्वाविंशतितमः।

इति श्रीचक्रसंवरविवृतौ द्वाविंशतितमः पटलः॥ २२॥

डाकिनीविशेषचिह्नमुद्रालक्षणविधिपटलस्त्रयोविंशतिमः

अथातः संप्रवक्ष्यामि डाकिनीनां तु लक्षणम्।
ज्ञायतेऽदूरतो येन वीराणां वीरभगिनी॥ १॥

अथेति। अङ्गमुद्रालक्षणकथनानन्तरम्। संप्रवक्ष्यामीति लक्षणमेवानुवर्तनीयं कर्मपदम् , किञ्च पूर्वतो विशिष्टम्। अतःशब्दस्य विशेषार्थत्वात्। किं तद्विशेषलक्षणमित्याह - ज्ञायत इत्यादि। अदूरत इत्यविलम्बतः। वीराणामिति वीरैरित्यर्थः। वीरभगिनीति वीरैरेव ज्ञातुं शक्यत्वात्। वीरेभ्यो वा सिद्धिदानात्। समानसमयत्वाद् वा। अतः परं प्रवक्ष्यामि डाकिनीनां तु लक्षणमिति पाठः सुबोधः॥ १॥

अनुरक्ता समयिनी यस्य वीरभोग्या वसुन्धरा।
आधारं तु मेदिनीं कृत्वा यजेद्वै योगसंवरम्॥ २॥

कथं तेऽभ्यस्ताः सिद्धिदायिन्य इत्याह - अनुरक्तेत्यादि। समयिनी समानसमया योगिनी सन्तुष्टा यस्य योगिनस्तस्य वीरभोग्या वसुन्धरा स्यात्। वीरः सुभटस्तस्यैव भोग्या वीरभोग्या। वसूनि रत्नानि धारयतीति वसुन्धरा। आक्रम्य रत्नपूर्णा पृथ्वी तेन भुज्यत इति भावः। किं चान्यदपीत्याह - आधारमित्यादि। आधे( धी )यते सुखमनेनेत्याधारः। मेदः स्नेहः। स्निग्धा यदि सा स्यात्तदा तां डाकिनीमाधारं नियतां( तं ) स्थानं कृत्वा योगो( ग )संवरं यजेतेति सम्बन्धः। योगः प्रज्ञोपायौ वैषम्यात्मनः संवृणोत्यनेनेति सम्बन्धः। सं सुखं योगस्य संवरो योगसंवरस्तं यजेतादत्ते। परमानन्दानन्तरं विषयेभ्य इन्द्रियग्रामो निवर्तते मनोमात्रं सुखमात्रमालम्बते यदा तदा विरमानन्दः। ततश्च विषयेभ्य इन्द्रियविरामो विरमः। तस्यैव पर्यन्तभूतो निर्विकल्पज्ञानस्वरुपो निरतिशयसुखपरिपूर्णस्तज्जश्च सहजानन्दस्तमादत्त इति समुदायार्थः। स च मण्यन्तर्गतबोधिचित्तस्थिरीकरणेन प्रतीयमानोऽप्युपदेशं महान्तमपेक्षते स्वप्रतीतये। तदर्थं सद्गुरुभट्टारकचरणकमलमेव प्रसन्नीकार्यम्। अतः सङ्कल्पात्मनः संवृणोतीति संवरः सहजानन्दः। प्रज्ञोपाययोगेन तयोरेव तादृशं ज्ञानमुदेति। याभ्यां ज्ञानममूल्यं जायते तौ प्रज्ञोपायावेव रत्नभूताविति ज्ञेयम्॥ २॥

एषां हि डाकिनीनां तु विलोमेन निरीक्षणम्।
आननस्य विरुपत्वं भ्रूभङ्गशाश्वतं सुखम्॥ ३॥

डाकिनीलक्षणमाह - विलोमेनेति। पुरो निरीक्षणं विहाय पश्चान्निरीक्षणं विलोमनिरीक्षणम्। आननविरुपत्वमेव स्पष्टयति। भ्रूभङ्गशाश्वतं सुखमिति। शाश्वतभ्रूभङ्गमित्यर्थः॥ ३॥

विविधमाशु विज्ञेयं डाकिनीनिर्गतं तथा।
आवर्तविकृता ज्ञेया त्रिरेखा तु परिमण्डला॥ ४॥

विविधमाशु विज्ञेयं डाकिनीनिर्गतं तथेति। विविधं विज्ञेयमाशु शीघ्रं डाकिन्या निरभिप्रायं गतं गमनम्। तथेति तथाभूतमवाग्गोचरमित्यर्थः। विविधत्वमाह - आवर्त इत्यादि। येन यथा गच्छति ततोऽन्येन पुनः पुनरागच्छतीति आवर्ताश्चक्रवर्ताः। अतो विकृताः। तिस्त्रो रेखागमनागमनरुपा ये ते तथा आवर्ताः। पुनः कीदृश इत्याह - परिमण्डलाः कुण्डलाकारत्वात्॥ ४॥

गच्छन्त्याः खलु डाकिन्याः सर्वचिह्नं च लक्षयेत्।
अकस्माद्विनिवर्तन्ते प्राग्गिरां वदनखण्डितम्॥ ५॥

गच्छन्त्याः खलु निश्चितम्। एतन्निपुणेन सर्वलक्षणमालोकनमित्याह - सर्वचिह्नं च लक्षयेदिति। अकस्माद्विनिवर्तन्ते इति। अकारणेन विद्यमानेऽपि कार्ये प्राप्तादेशाद् विशेषेण निवर्तत इति गमनलक्षणम्। प्राग्गिरां वदनखण्डितमिति। प्राक्तनगिरां वदनमुक्तिस्तस्य खण्डं भेदः। पूर्वापरयोर्वचनयोरसम्बन्ध इति वचनलक्षण्म्। निरर्थकं वचनं खण्डितमिति पाठः सुबोधः॥ ५॥

तथैव तेन च तस्या वज्राकृतिरिव स्फुटम्।
स्वरः कोकिलध्वनिर्व्यक्तं तस्याः सदैव हि॥ ६॥

गृहे चास्या भवेच्चिह्नं वज्राकारं तु दर्पणम्।
अपराकृतिस्तु खड्गाकारं सदर्पणम्॥ ७॥

ध्वजशक्तिर्ज्ञायते नित्यं संपुटं दर्पणेन च।
एतानि ज्ञेयचिह्नानि कृतरुपो हि [ सूक्ष्मतः ]॥ ८॥

एभिस्तु लक्षणैर्युक्ता विज्ञेया परमडाकिनी॥ ९॥

इति श्रीहेरुकाभिधाने डाकिनीविशेषचिह्नमुद्रालक्षणविधिपटलस्त्रयोविंशतिमः॥ २३॥

तस्या वज्राकृतिः स्फुटमिति ललाटलक्षणम्। स्वरः कोकिलध्वनिर्व्यक्तमिति वाग्लक्षणम्। गृहे चास्या इत्यादिना गृहलक्षणम्। ध्वजशक्तिश्च ज्ञायते नित्यमिति। ध्वजो लिङ्गं तच्छक्तिर्यस्याः सा तथेति। दर्प[ ण ]लक्षणं संपुटं दर्पणेनेति। संपुटत्वं दर्पणेन सततं निरीक्षणमित्यर्थः। एतद् दर्पणलक्षण्म्। ज्ञेयानि चिह्नान्येतानि। इत्युपसंहरति। अत आह - एभिरित्यादि। कथमेवं भूतानि तानि योगी जानातीत्याह - कृतरुपो हि। यतोऽभ्यस्तडाकिनीचिह्नस्वरुपः सः, अत आह - एभिरित्यादि। युक्तेति नियमात्। परमडाकिनीति विशेषलक्षणयोगात्। एकस्या एव यस्याः कस्याश्चिल्लक्षणान्येतानि॥ ६-९॥

डाकिन्यागमनादीनि विशेषेण चिह्नानि मुद्रागृहे दर्पणादिलक्षणा एव लक्षणम्। एभिरिति लक्षन्ते तानि विधीयन्ते येनासौ पटलश्चेति। डाकिनीचिह्नमुद्रालक्षणविधिपटलस्त्रयोविंशतितमः।

इति श्रीचक्रसंवरविवृतौ त्रयोविंशतितमः पटलः॥ २३॥

चतुर्वर्गसर्वसङ्केतभाषाविधिपटलश्चतुर्विंशतिमः

अथान्यभाषया च प्रवक्ष्यामि तु छोम्मकम्।
साधको येन ज्ञायते भ्राता भगिनी न संशयः॥ १॥

अथेति समुच्चये। अन्यभाषया च छोम्मकं प्रवक्ष्यामीति सम्बन्धः। पञ्चदशेऽक्षरछोम्मकस्योक्तत्वात्। तु-शब्दो वाक्यालङ्कारे। साधको येन छोम्मकेन ज्ञायते। भ्रातेति साधकविशेषणं भगिनी चेति योगिनी। अन्यथान्यभाषाछोम्मका भवन्तीति सुबोधं पाठान्तरम्॥ १॥

पोतङ्ग्यभिवादनं प्रतिपोतङ्गी प्रत्यभिवादनम्। गमु गच्छामीत्युक्तं भवति। लुमु आगच्छामीत्युक्तं भवति। देहं नगरमित्युक्तं भवति। गृहाणां वटुकमित्युक्तं भवति। वीराणां हृदयं कारणं चैव। मारणं कौरवा। घण्टा च कर्णिका। शिरोऽलिः। करणं वाराहकेशः। श्रवणौ कर्णौ। अमृतस्थानं मन्थानम्। समागमो नरः। तिलका डाकिन्यः। नरकं मण्डलम्। अमुकं श्मशानम्। काम्पिल्या द्वारम्। श्वसनं ब्राह्मणः। परिधिः क्षत्रियः। विरतिर्वैश्यः। क्रूरः शूद्रः। अन्तश्चण्डालः। गृहमङ्गुलिका। डाकिनी भगिनी। मेदकमुदकम्। गृहिणिति मुद्राणाम्। जिह्वायां दन्तं स्पृशतीति बुभुक्षिता। तृष्णा गन्धवाहिनीति। कुत आगमनममुकस्थानात्। किरणं पुष्पमिति। हास्यं तु लम्ब इति। दरो दन्तम्। वृष्टिनिरोधनं निरोधः। तृप्तिर्विज्ञप्तिः। धुर्युर्बहिः। मेघा धूप( म )प्रिया। सानु पर्वतम्। सरितो नद्यः। अङ्गुल्यवयवः। वदनं मुखम्। राजिका जिह्वा। अदना दन्ताः। पङ्क्तिर्ध्वजः। छन्दो माला। चलो वायुः। नावं प्रवाहः। पशु मृगः। यान्ति मण्डलम्। समं चतुष्पथम्। जनः फल्गुषम्। महाशवं महाक्षरम्। महापशु छागलम्। ना इति नरम्। गो इति। वलीवर्दः। म इति महिषम्। भा इति भक्षणम्। हा इति पर्यायाः। अप्पका इति राजस्पशे राजपुरुषः। वनं स्थिति। मुखस्पर्शनं भुक्तमिति। दन्तस्पर्शनं तृप्तमिति। हो इति पर्यायः क्वचित्। ह्री इति लज्जा। शून्यस्पर्शने नास्तीति। ऊरुस्पर्शने मैथुनं कुरुष्वेति। ऊर्ध्वेन तथा। एवमिति अधस्तान्नास्तीति मुद्रा प्रतिमुद्रा गुह्यछोम्मका वीराख्या चतुर्वर्गलक्षणम्॥ २॥

इति श्रीहेरुकाभिधाने चतुर्वर्गसर्वसङ्केतभाषाविधिपटलश्चतुर्विंशतिमः॥ २४॥

पोतङ्ग्यभिवादनमिति। अभिवादनस्य संज्ञा पोतङ्गीशब्दः। प्रतिपोतङ्गी प्रत्यभिवादनमिति प्रत्यभिवादनम्। पुनर्वन्दनाविशेषः। गमु शब्दोच्चारणौ( णे ) गच्छामीति दर्शयति। लुमु शब्दोच्चारणे आगमनम्। लुम्बुरिति केचित्। देहं नगरमित्युक्तमिति शरीरस्याख्या। गृहाणां वटुकमित्युक्तमिति। वटुकमिति गृहस्य संज्ञा। गृहाणमिति क्वचित् पाठे। गृहाणमित्रि पात्रसंज्ञा। पूर्वत इत्युक्तं भवतीति सर्वत्र वर्तते। वीराणां हृदयमिति। हृदयमिति वीराणां संज्ञा। कारणं हृदयमिति क्वचित् पाठे हृदयमिति कारणम्। चैवशब्दौ समुच्चयावधारणयोः। कौरवा मारणमिति। कौरवा मारणाख्या। कौरवाशब्दः स्त्रीलिङ्गः। घण्टा कर्णिका चेति। कर्णिका घण्टायाः संज्ञा। शिरोऽलिरिति। शिरःसंज्ञोऽलिरिति। करणं वराहकेश इति। वराहरोम्णां करणसंज्ञा। श्रवणौ कर्णाविति यथार्थः। अमृतस्थानं मन्थानमिति। अमृतोद्धरणस्थानं मन्थानमुच्यते। समागमेति स्त्रीलिङ्गः शब्दः नरस्याख्या। तिलका डाकिन्या इति। तिलका डाकिन्यो भण्यन्ते। नरकं मण्डलमिति। मण्डलस्याख्या नरकमिति। अमुकं श्मशानमिति। श्मशानसंज्ञा। कम्पिल्येति स्त्रीलिङ्गः शब्दः। सा च द्वारसंज्ञा। श्वसनं ब्राह्मण इति ब्राह्मणसंज्ञा। परिधिः क्षत्रिय इति। क्षत्रियसंज्ञा। विरतिर्वैश्य इति। वैश्यसंज्ञा। क्रूरः शूद्र इति यथार्थः। अन्तश्चण्डल इति। चण्डालस्याख्या। गृहम ङ्गुलिकेति गृहसंज्ञा। डाकिनी भगिनीति सुबोधम्। मेदकमुदकमिति। उदकस्याख्या। गृहिणीति मुद्राणामिति। मुद्राणां संज्ञा गृहिणीति। जिह्वायां दन्तं स्पृशतीति तेन बुभुक्षितान्नमिति। बुभुक्षयान्नं याचत इत्यर्थः। तृष्णा गन्धवाहिनीति। तृष्णायाः संज्ञा। कुत आगमनं छोम्मकदानम्। अमुकस्थानादिति पञ्चम्यन्तपदं प्रकृतिसिद्धम्। प्रतिछोम्मकदानसंज्ञा। किरणः पुष्प इति। किरणाख्या। हास्यन्तु लम्ब इति। हसनं हास्यं हास इत्यर्थः। तुः समुच्चये। दरो दन्त इति। दन्तस्याख्या। वृष्टिनिरोधनमिति। निरोधाख्या। तृप्तिर्विज्ञप्तिरिति। तृप्तेराख्या। धुर्युर्बहिरिति। बहिः- स्थानाख्या। मेघा धूप( म )प्रिया इति सुबोधम्। सानुरिति पर्वताख्या। सरितो नद्य इति। अङ्गुल्यवयव इति अङ्गुलीसंख्या। वदनं मुखमिति यथार्थम्। राजिका जिह्वेति जिह्वाख्या। अदना दन्ता दरो दन्त इति च समम्। पङ्क्तिर्ध्वज इति। ध्वजाख्या। छन्दो मालेति मालाख्या। चलो वायुरिति। वायोराख्या। [ नावं प्रवाह इति प्रवाहाख्या ] पशु मृगा इति। मृगाख्या। पशुशब्दात् प्रथमाबहुवचनलोपः। यान्तिर्मण्डलमिति मण्डलाख्या नरकमिति च।

समं चतुष्पथमिति चतुष्पथस्याख्या। जनं फल्गुषमिति। जनस्याख्या। लिङ्गमतन्त्रम्। महाशवं महाक्षरमिति। नरशवास्याख्या। महापशु छागलमिति। छगल एव छागलः स च नरः। आहुरिति अध्याहारात् सर्वत्र द्वितीया। ना इति नरमिति। नाशब्दः पुरुषवाची स्त्रीलिङ्गः। नृ-शब्द इति केचित्। गो इति वलीवर्दमिति। न पुनर्गावीशब्दार्थः। म इति महिषमिति। महिषशब्दैकदेशः। भा इति भक्षणमिति। अयमपि स्त्रीलिङ्गः। भोज्यतयाऽघसित इति वचनात्। हा इति पर्यायाः। क्वचिद् या इति। रा - शब्दोऽपि भक्षणपर्यातः स्त्रीलिङ्गश्चायम्। ' हार्याः प्रभावात् ' इति वचनात्। अप्पका इति राजस्पशे इति। राजपुरुषे चर इत्यर्थः। ' अप्पकायां निविष्टान् ' इति दर्शनात्। वनं स्थितीति। निर्विभक्तिकम्। स्थितिर्वचनस्याख्या। मुखस्पर्शो भुक्त इतीति। मुखस्पर्शो भुक्तवानिति प्रतिपादयतीत्यर्थः। दन्तस्पर्शने तृप्त सुगमम्। हो इति पर्यायः। क्वचिदिति तृप्तपर्यायः। ह्री लज्जेति। ह्रीताख्या शून्यस्पर्शने। मैथुनं कुरुष्वेति सुगमम्। ऊरुस्पर्शने। ऊर्ध्वेन एवमितीति। पूर्वकालमेवं कुर्विति भावः।
अधस्तादित्यादि। इतः परं मुद्रा प्रतिमुद्रा च नाम्नि छोम्मकाश्च न सन्तीत्यर्थः॥ २॥

डाकिनी च तथा लामा खण्डरोहा च रुपिणी। चत्वारो वर्गास्तेषां सर्वसङ्केतभाषा छोम्मका डा इति पुरुषः स्मृत इत्यादयस्त एवादिभूता यस्य वर्णादिसमूहः, तच्चतुर्वर्गसर्वसङ्केतभाषाछोम्मकादि। तदेव विधीयत इति विधिर्येषा नवानां पटलानां ते चतुर्वर्गसर्वसङ्केतभाषाछोम्मकादि विधयः। तेषामन्तर्भूतः पटलः। प्रथमपटलापेक्षया चतुर्विंशति चतुर्विंशतितमः। पञ्चदशापेक्षया दशमोऽपि। तेन गर्दभाकारयोगहेरुकीकरणविधिपटलमुत्सृज्य दशपटलपिण्डार्थो दर्शितः। अनुलोमविलोमेनेत्यस्यार्थान्तरम्। शुक्लप्रतिपदादिक्रमेण त्रिचक्रयोगिनी यथास्थानं भावनं वामदक्षिणावर्तयोगिनीन्यासश्चेति।

इति श्रीचक्रसंवरविवृतौ चतुर्विंशतितमः पटलः॥ २४॥

मूलमन्त्रसर्वगोप्यविधिपटलः पञ्चविंशतिमः

अथ सर्वार्थकामानामष्टगोपितान्तेन योजिताः।
हीनाधिमुक्तिसत्त्वानां मोहाज्ञानावृतचेतसाम्॥ १॥

पूर्वमुद्धृतो मूलमन्त्रः कीदृशः किमर्थञ्च गोपित इति स्वयं कृतायां प्रश्नाशङ्कायामथशब्दः। अत आह - सर्वेत्यादि। तत्रैते मन्त्रा गोपिता इति सम्बन्धः। कस्यार्थे गोपिता इत्याह - सर्वथाऽर्थेषु विषयेषु काम इच्छा यस्य स तथा। विषयार्थिनोऽर्थायेत्यर्थः। तेन हि सुसाध्य( ध )यितुमशक्यः प्रत्युत ततो माराधिष्ठानमिति भावः। कियन्तस्त इत्याह - अष्टेति। अष्टपदत्वादष्टौ मन्त्राः। गोपितशब्दात् प्रथमाबहुवचनलोपः। अन्तेन स्वरुपेण योजिता। हीनाधिमुक्तिसत्त्वमाशयो यस्य स तथा। श्रावकस्याप्यर्थायेत्यर्थः। स हि स्वदमशममात्रार्थित्वाद्धीनाधिमुक्तिः कुतीर्थ्यानामज्ञानं तत्र चित्तं बुद्धिस्तदर्थेन। एतेनासद्भ्यो रक्षणार्थं गोपिता इत्यभिसन्धिः॥ १॥

तत्र वीरैर्योगिनीभिः स्पष्टाभिभाषितो मन्त्रस्त्वयम् - ॐ नमो भगवते वीरेशाय। महाकल्पाग्निसंनिभाय। जटामकुटोत्कटाय। दंष्ट्राकरालोग्रभीषणमुखाय। सहस्त्रभुजभासुराय। परशुपाशोद्यतशूलखट्वाङ्गधारिणो। व्याघ्राजिनाम्बरधराय। महाधूम्रान्धकारवपुषाय। कर कर कुरु कुरु बन्ध बन्ध त्रासय त्रासय क्षोभय क्षोभय ह्रौं ह्रौं ह्रः ह्रः फें फें फट् फट् दह दह पच पच भक्ष भक्ष वसरुधिरान्त्रमालावलम्बिने ग्रिह्ण ग्रिह्ण सप्तपातालगतभुजङ्गं सर्पं वा तर्जय तर्जय आकड्ढ आकड्ढ ह्रीं ह्रीं ज्ञौं ज्ञौं ( ज्णौं ज्णौं ) क्ष्मां क्ष्मां हां हां हीं हीं हूं हूं किलि किलि सिलि सिलि हिलि हिलि धिलि धिलि हूँ हूँ फट्॥ २॥

इति श्रीहेरुकाभिधाने मूलमन्त्रसर्वगोप्यविधिपटलः पञ्चविंशतिमः॥ २५॥

तत्रेति। स्वयमाशङ्कायाम्। एत इत्यष्टपदाः गोपिता इति कुतो ज्ञायत इत्याह - स्पष्टा इत्यादि। वीरैर्योगिनीभिश्च स्पष्टाः सन्तोऽभाषिता न भाषिताः। अनाचार्यकं हि विधानं मन्त्रनयसिद्धिहानिकरमेव। मन्त्रानाह - ॐ नम इत्यादि। मन्त्रराजेन मिश्रीभावान्मूलमन्त्रस्य द्वयोरिहापि गोपः। हूँ हूँ फट्कारद्वययोगः। द्वयोरपीत्याह - हूँ हूँ फट् फडिति॥ २॥

अत आह - मूलमन्त्रेत्यादि। मूलमन्त्रस्य सर्वात्मा मूलमन्त्रसर्वात्मा तस्य गोप्यं गोपनम्। भावे ण्यत्। उद्धारे ह्येकैकाक्षरगोपः तद् विधीयते येन यत्र वा स चासौ पटलश्चेति मूलमन्त्रसर्वगोप्यविधिपटलः। मध्यपदलोपात्। पञ्चविंशतितमः।

इति श्रीचक्रसंवरविवृतौ पञ्चविंशतितमः पटलः॥ २५॥

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project