Digital Sanskrit Buddhist Canon

चक्रसंवरतन्त्रम् [Vol.2]

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Milan Shakya
  • Input Date:
    2013
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of the Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Cakrasaṃvaratantram [Vol.2]

चक्रसंवरतन्त्रम् [Vol.2]

शिष्यपरीक्षासंवरविधिपटलः षड्विंशतिमः
अतः परं मन्त्रपदं त्रिषु लोकेषु न विद्यते।
श्रीहेरुकमन्त्रं ज्ञात्वा सर्वान् मन्त्रान् परित्यजेत्॥ १॥
इदानीं मन्त्रानुशंसामाह- अत इत्यादि। अतो मूलमन्त्रात् श्रेष्ठमन्त्रपदम्।
विद्यता वज्रवाराही तस्याः सम्बोधनं विद्यते। नास्तीत्यस्य निर्देशो वा। मन्त्रं मूल-
मन्त्रादिकम्। ज्ञात्वा सर्वान् मन्त्रान् परित्यजेत्। श्रीहेरुकस्य मन्त्रोऽपि श्रीहेरुकः।
तयोरभेदात्॥ १॥
अनुलोमविलोमेन योगिन्यः संव्यवस्थिताः।
अधोर्ध्वं सिद्धिदा नित्यमात्मदूतीं तु सर्वगाः॥ २॥
चतुर्थपटलोक्तानां महावीर्यादीनां योगिनीनां क्रमन्यासमाह - अनुलोमेत्यादि।
अनुलोमस्यान्यथाभावो विलोमोऽननुक्रमस्तेन पूर्वं योगिन्यः संव्यवस्थिता दर्शिताः।
इदानीमनुलोमेन न्यासितव्या इति दर्शयन्नाह - अधोर्ध्वमिति। अध एवोर्ध्वं कार्य-
मित्यर्थः। प्रचण्डादयः ख्याता यास्ता ऊर्ध्वं चित्तचक्रादौ न्यसेदिति भावः। तत्कि-
मित्याह- सिद्धिदा नित्यमिति। तथाभाव्यमानाः सिध्यन्तीत्यर्थः। अत आह-
आत्मदूतीं तु सर्वगा इति। आत्मा चित्तं चित्तचक्रमित्यर्थः। तमात्मानमारभ्येत्यर्थः।
सर्वगास्त्रिचक्रगा भवन्ति। आरभ्येत्यस्य लोपः॥ २॥
तं दूती तु सत्त्वार्थसिद्धिदं दर्शनं स्पर्शनं तथा।
चुम्बनं गूहनं नित्यं योगपीठं विशेषतः॥ ३॥
दूतीमिति प्रथमा बहुवचनं द्वितीयैकवचनम्। तुरवधारणे। तं दूती सत्त्वार्थ-
सिद्धिदमिति। तमिति ताः दूती दूतयः। कथमित्याह - दर्शनं स्पर्शनं तथेति।
दर्शनमुपलम्भः साक्षात्क्रियेत्यर्थः। स्पर्शनं भावनाचित्तमित्यर्थः। यद्येतद्द्वयं स्यात्तदा
सर्वसिद्धिदा इत्यर्थः। चुम्बनेत्यादि। चुम्ब्यन्त इति चुम्बनाः। गुह्यन्त इति गूहनाः।
कर्मणि ल्युट्। योगिनीपीठादिकं योगपीठम्। विशेषत इति। कामशास्त्रविहितो
बन्धादिविशेषः॥ ३॥
यावन्तो योगसङ्घाताः सर्वसिद्धिकरं स्मृतम्।
सर्वसद्भावं देयं च नान्यथा तु कदाचन॥ ४॥
यावन्त इति निःशेषपीठादिगताः। केन इत्याह - योगसङ्घाता इति। योगिनी-
समूहा इत्यर्थः। किं कुर्वन्तीत्याह - सर्वसिद्धिकरं स्मृतमिति। सर्वसिद्धिकराः
स्मृताः। नपुंसकत्वमेकवचनान्तत्वं चार्थत्वात्। अथवा प्रथमाबहुवचनत्वेनाकारस्य
बिन्दोरेकस्य च ह्रस्वत्वं लोपश्च नैरुक्ताद्विधेः। [देयं] दातव्यं सर्वसद्भावमिति। सर्वथा
सद्भावो भवत्यनेनेति तथा चरुभोजनादिकं तत्तथा लक्षितायास्ताभ्यो देयम्। ततस्ताः
सिद्ध्यन्तीत्यत आह - नान्यथा तु कदाचनेति। तुरवधारणे॥ ४॥
माता भगिनी पुत्री वा भार्या वै दूतयः स्थिताः।
यस्य मन्त्रं ददेन्नित्यं तस्य सो हि विधिः स्मृतः॥ ५॥
अनेन मात्रादिवद् योगिन्यः स्निग्धाः स्युरियाह - माता भगिनी पुत्री वा भार्या
वै दूतयः स्थिता इति। भार्येत्येकपत्नी। यस्य मन्त्रं ददेन्नित्यं तस्य सो हि विधिः
स्मृत इति। यस्मै योगिने योगिनी मन्त्रमात्मानं दद्यात् सा गृहीत्वा सिद्धिं साधयेदिति
समर्पयेत् , तस्य मन्त्रनयविधिः स्मृतः, तस्य तदर्थत्वात्। मन्त्रमिति सम्भाषणं वा॥ ५॥
समयान्यतमं वक्ष्ये योगतन्त्रेषु दुर्लभम्।
वामेन याति नरः स्त्री वा सिद्धि(द्ध)श्चेष्टानि गच्छन्ति(ति)॥ ६॥
समयान्यतमं वक्ष्य इति। समयेति द्वितीयाबहुवचनलोपे। अन्यत्वं पञ्चामृतादेः।
बहुत्वे चैकत्वम्। समयान्यथ वक्ष्येऽहमिति पाठेऽपि तथैव। समयमन्यम्। विभक्ति-
लोपे त्वथशब्दस्याकारलोपः। समयानीति नपुंसकनिर्देशो वा। समयमाह - वामे-
नेत्यादि। नरः पुरुषः। वामेन नरं स्त्रियं वा स्थापयित्वाऽन्यः पुरुषः स्त्रियो (स्त्री)
वा याति स च श्रीचक्रसंवरे योगी योगिनी वेति ज्ञायते। अतश्च सिद्धिरिष्टानि
गच्छति नियता भवति॥ ६॥
विज्ञायते सुदूरेऽपि गृहे क्षेत्रे व्यवस्थितः।
श्रीहेरुकपरो योग आचार्यो योगमातरः॥ ७॥
अत आह - विज्ञायते सुदूरेऽपीति। पूर्वोक्तलक्षणादर्शनेऽपि वामावर्तगमना-
ल्लक्ष्यते दूतो दूती वा। कुत्र दूत इत्याह - गृह इत्यादिना। श्रीहेरुकपरो योग इति।
श्रीहेरुकः परः श्रेष्ठो यत्र स तथा। न तथा स्यात् श्रीहेरुकः परः स योगो न
भवत्येव। श्रीहेरुकपरो योगस्तु योग एवेति भावः। अनेन योगेनाचार्यो योगमातरश्च
योगिन्यः श्रेष्ठा इति योज्यम्॥ ७॥
अस्मिन् तन्त्रे साधकाः साधुमेव च नावमन्तव्याः।
नाप्यधिक्षेप्तव्याः पूजनीयाश्च शक्तितः॥ ८॥
कुत इत्याह - अस्मिंस्तन्त्रे साधकाः साधुमेव चेति। अस्मिन्निति नकारस्य
स्वरुपावस्थानम्। साधुशब्दात्प्रथमाबहुवचनस्य खण्डमध्ये नादेश इति। श्रीचक्र-
संवरतन्त्रेष्वतिसाधकाः साधव एव भवन्तीत्यर्थः। अतो नावमन्तव्या अल्पत्वेन न
बोद्धव्याः। नाप्यधिक्षेप्तव्याः। अतः पूजनीयाश्च शक्तितः। यथा विभवमित्यर्थः॥ ८॥
काकास्यादयोऽष्टौ ह्येते भक्तिश्रद्धाविवर्धिकाः।
सिद्धीनां कारणं नित्यं समयानां च पालनम्॥ ९॥
भक्तिरेव कथं तेषु जातस्येयाह - काकेत्यादि। काकास्यादयोऽष्टौ देव्यो भक्ति-
श्रद्धाविवर्धिका भवन्ति। ताश्च कारणं सिद्धीनाम्। तानि काकास्यादिरुपाणि
सिद्धिकारणानि। अष्टौ कानीत्याह - समयानामित्यादि। चोऽवधारणे। समयपालनं
प्रथमम्॥ ९॥
अन्यदैवतसंयोगान्न च कामविमोहितः।
अद्वैतमप्रतिहतं समयाचारचेष्टितम्॥ १०॥
अन्यदैवतसंयोगाद् न भक्षे(वे)न्निवर्तितः। किं भूतः सन्नित्याह- कामवि-
मोहित इति। कामो विषयस्तत्र विमोहात्प्रथमं प्रवृतः। पश्चान्निवर्तित इतिभावः।
तन्निवर्तनं द्वितीयम्। न विद्यते द्वैतं विकल्पो यत्र तदद्वैतम् , निर्विकल्पत्वं तृतीयम्।
तत्समुच्चये। प्रतिहतं प्रतिघातं स्वीकृतनिश्चितसिद्धान्तवृद्धिः। न प्रतिहतमप्रतिहतं
दृढाधिमोक्षत्वं चतुर्थम्। समयानां योगिनीनाम् , आचारः कामसेवादिः। तत्र चेष्टितं
व्यापारः पञ्चमम्॥ १०॥
नारीश्वर्या समन्थानं ब्रह्मचर्या तथा धानम्।
अक्रोधः श्रोत्रसञ्चार इत्यष्टौ समयाचाराः॥ ११॥
नारीश्वर्या समन्थानमिति। ईश्वर्यमित्यैश्वर्यम्। वृद्धिरनित्या। न तदनीश्वर्यम्। तन्न
भवतीति नारीश्वर्यं निर्विभक्तिकम्। क्व तदित्याह - समन्थान इति। योगिनी वज्र-
स्फालने। तत्रैश्वर्यमेव षष्ठम्। ब्रह्मचर्यनासङ्गः कुतेत्याह - तथाधान इति तथतासु
यस्य बोधिचित्तस्याधानमादानं तत्रानभिनिवेशः सप्तमम्। न क्रोधोऽक्रोधः। वैमुख्य-
मेवाभिप्रेतम्। श्रोत्राणीन्द्रियाणि तेषां सञ्चरन्त्यस्मिन्निति सञ्चारो विषयग्रामः। चो-
ऽवधारणे। विषयग्रामासङ्गतौ च वैमुख्यमष्टमं कारणम्। इति कारणान्यष्टौ। अष्टौ
सिद्धिकारणानि येषु सन्ति तेषु भक्तिः प्रवर्तते। त एव पूजनीयाश्च। कुत इत्याह-
समयाचारा इति। योगिनीव्यवहारात्॥ ११॥
ज्ञातव्या साधकैर्नित्यं सिद्धाः साधने स्थिताः।
सामान्यं सर्वतन्त्राणां न हन्तव्या निर्हेतुभिः॥ १२॥
समयपरिपालनादयोऽष्टौ समयाः सिद्धिकारणानीति ज्ञातव्याः साधकैः साधने
स्थिताः सिद्धाः निश्चिताः। सामान्यं सर्वतन्त्राणाम्। कथम् एषां सिद्धिकारण-
त्वमित्याह- न हन्तव्या न वध्याः। कैरित्याह - निर्हेतुभिर्हन्तृभिः। निर्हेतुभिः प्रत्य-
क्षादिभिः प्रमाणैः॥ १२॥
श्रद्धामात्रेण गृह्यन्ते न करेण न चक्षुषा।
अप्रकाश्यमिदं गुह्यं गोपनीयं प्रयत्नतः॥ १३॥
यतः श्रद्धामात्रेण गृह्यन्ते। अत आह- न करेण, न चक्षुषेति। अतश्च गोप्य-
मित्याह - अप्रकाश्यमित्यादि। समयाष्टकम्॥ १३॥
कनिष्ठां चालयेद्धीमान् दूतयः समवस्थिताः।
शुद्धाशुद्धाथ मिश्रं वै साधकस्त्रिविधा स्थितिः॥ १४॥
आराधको विशुद्धश्च दीपको गुणवान्नरः॥ १५
इति श्रीहेरुकाभिधाने शिष्यपरीक्षासंवरविधिपटलः
षड्विंशतिमः॥ २६॥
दूत्त्यनुरागणविधिमाह - कनिष्ठामित्यादि। खगमुखानाडीं बन्धूककुसुमसदृशीं
कुसुमसदृशेन किंबीजेनानामिकामध्यमाग्रसंपुटन्यस्तेन चालयेच्चोदयेत्। किमर्थ-
माह - दूतय इत्यादि। दूतीनां संव्यवस्थानं स्ववस्थानं स्त्रवन्मदत्वम्। शिष्यपरीक्षा-
माह- शुद्धेत्यादि। शुद्धो विशुद्धाशयः। अशुद्धो विपरीतः [मिश्रो] विमिश्रितश्च।
साधकास्त्रिविधाः। आराधक इति। गुणेषु गुणिषु कर्मफलसम्बन्धेनातिसंप्रत्यययुक्तः।
विशुद्धः शास्त्रोक्तानुव्यापी दीपको बिद्धिनाम्। अलोभाद्वेषामोहा[दि]गुणधरः। अत
एव नयो नीतिज्ञः॥ १४ -१५॥
शिष्यन्ते स्वशासने नियुज्यन्त इति शिष्याः। तेषां परीक्षा परित ईक्षणं गुणेन
दोषेण चालोकनं शिष्यपरीक्षा। संवरः समयः। सा विधीयते येन स चासौ पटल-
श्चेति स तथा। षड्विंशतितमः।
इति श्रीचक्रसंवरविवृत्तौ षड्विंशतितमः पटलः॥ २६॥
चर्याव्रतपूजाबलिविधिर्नाम पटलः सप्तविंशतिमः
अथ वीरचर्याव्रतं सर्वयोगिनीसाधकः।
लक्षणभेदं ज्ञात्वा तु आशुसिद्धिं प्रवर्तते॥ १॥
अथेति समयपरिपालनादिसिद्धिनिमित्तयोगिनीलक्षणमन्त्रसामर्थ्यानन्तरं चर्याव्रतं
भवतीति ज्ञेयम्। चर्या योगचर्या तस्यां व्रतमेकान्तेन प्रवृत्तेः। सा च किं कृत्वा केन
वा चरणीयेत्याह- वीर इत्यादि। तुरवधारणे। योगिनीनां लक्षणभेदं ज्ञात्वैव सर्व-
योगिनीसाधको वीरो भवति। कुतः किमित्याह- आशुसिद्धिं प्रवर्तते॥ १॥
ग्रामे ग्रामे व्रजन् तस्य दूतयो रुपलक्षणम्।
दूतयोऽसिधारं च पवित्र पुण्यवर्द्धनम्॥ २॥
ग्रामे ग्रामे व्रजन् तस्येति। जनानां सन्दोहे सन्दोहे तस्य योगिनो वज्रो गमनं ततो
दूतयः प्रवर्तन्त इति द्रष्टव्यम्। साक्षाद्भवन्तीति भावः। कथं ता ज्ञातव्या इत्याह-
रुपलक्षणमिति। रुपमेव लक्षणं प्रतीतिहेतुः। तच्च प्रागुक्तम्। दूतयोऽसिधारं चेति।
दूतयोऽसिधाराव्रतं च द्वयमिदं पवित्रम्। अतः पुण्यवर्द्धनम्। यस्य मते तदसिधाराव्रतं
पवित्रं तदाशयाभ्युपगमादुक्तं तत् पवित्रमिति। द्वयोर्मध्ये नवनिशितं खड्गं स्थाप-
यित्वा कमनीयकामिनी शय्याशयनमसिधाराव्रतम्। अथवा दूतयोऽसिधाराश्च द्वयं समं
दुरभ्यस(स्त)त्वात्। किं च दूतीनां दर्शनमतिपवित्रं पुण्यवर्द्धनमसिधारं चार्थसाधकं
भवति। चः समुच्चये॥ २॥
साधकः सिद्धिमाप्नोति सम्पर्काद् दूतयस्तथा।
अचिरादेव सिद्ध्यन्ति जपध्यानपूजनैर्विना॥ ३॥
अत आह- सिद्धिमाप्नोति सम्पर्कादिति। दूतीदर्शनादिसंपर्कात् साधकः सिद्धि-
माप्नोति। कुत इत्याह- दूतय इत्यादि। तथाभूतस्य योगिनो दर्शनादिना दूतयोऽपि
सिद्ध्यन्त्यामुखीभवन्ति , यतः बहिर्जापध्यानपूजनैर्विना अचिरादेव कल्पासंख्येय-
कोटिनिषेधात्। अथवा मन्त्रजापमण्डलचक्र भावनापञ्चोपचारदेवतापूजाभिर्विनापि
दूतयः सिद्ध्यन्तीति तथाभूतस्य योगिनोऽतिशयोक्तिरेषा। दूतय इति दूतीनां सम्पर्कात्
सिद्धिमाप्नोति। जपादिना विनाप्यविचारादेव सिध्यन्ति साधका इति। दूतिसम्पर्क-
माहात्म्यमुक्तमिति केचित्॥ ३॥
पूजाश्चैव प्रवर्तन्ते मन्त्रमुद्राश्च साधकाः।
एतत्पूजा परं नास्ति इति शास्त्रस्य निश्चयः॥ ४॥
दूतीमार्ग रता नित्यं साधकाः सिद्धितत्पराः।
चरुश्च भोजयेन्नित्यं मन्त्रविद्यासमन्वितः।
साधकः सुसमाहितः ॥ ५॥
दूतीदर्शनादेव पूजादयः प्रवर्तन्त इत्याह- पूजाश्चैवेत्यादि। मन्त्राश्च मुद्राश्चेति
मन्त्रमुद्राः। एतदिति दूतीदर्शनादिकम्। इति शास्त्रस्येति। श्रीसंवराख्यस्य योगिनी-
तन्त्रस्य। अत एव दूतीमार्गरता योगिन्युपदेशस्थिताः साधका भवन्ति। नित्यं सर्वदा
सिद्धौ तत्परास्तन्निष्ठाः। दूतीमार्गरतानां तु साधकाः सिद्धितत्परा इति पाठान्तरे तु-
र्यस्मात्। निर्धारणे षष्ठी। दूतीमार्गरतानां मध्ये यः कश्चित् सिद्धितत्परः स तत्साधको
भवति। आराधनविशेषमाह -चरुं चेत्यादि। चकार आराधनसमुच्चये। चरुमेकत्र-
भोजनं योगिनीभिर्भोजयेन्नित्यं सादरं निरन्तरं दिर्घकालं च। मन्त्रविद्यासमन्वित
इति। मन्त्रजापाद्यन्वित इत्यर्थः। साधकः सुसमाहित इति। सुसमे श्रीहेरुक आहितो
योगो येन स तथा। सर्वयोगप्रवृत्तस्येति पाठान्तरे प्रथमार्थे षष्ठी। स्थिरचलादिषु
शून्यतायोगप्रवृत्तेः। प्रमत्तस्यानधिकारात् सुसमाहित इति चार्थान्तरम्॥ ४-५॥
आचरेत् सर्ववर्णेभ्यो न च भक्ष्यं विचारयेत्।
अभेद्यं तत्त्वतस्तस्य दूतयो द्वौ च साधने॥ ६॥
आचरेत् सर्ववर्णेभ्य इति। सर्वैर्वर्णैः सहैकत्र भुञ्जीतेत्यर्थः। भक्षणीयं चाभक्ष्य-
मिदमिति न विभज्यते। कुत एवं सकलं कुर्वीतेत्याह- अभेद्यं तत्त्वतस्तस्येति।
अभेद्यं सकलं तस्य चर्यायोगिनः तत्त्वत एकस्वरुपतः। दूतयोऽप्यभेद्याः सर्वाभेदात्।
अत आह- दूतय इति। द्वौ च साधन इति। द्वे साधननिर्विकल्पता दूतयश्च॥ ६॥
द्विविधः साधयेच्चैव एक एव हि दूतयः।
प्रचोदिता सिद्धयस्तु साधनसन्निकर्षतः॥ ७॥
साध्ये च द्वे इत्याह- द्विविधः साधयेच्चैव। लौकिकं सुखं संक्लेशं लोकोत्तरं
निष्क्लेशम्। एक एव हि साधनभागः। हिरत्यन्तनिश्चये। कोऽसावित्याह- दूतय
इति। उभयसिद्ध्यर्थं दूत्य एव केवला नान्यदित्यर्थः। यतो निर्विकल्पता तत्प्रसादेन
सेत्स्यति। तासां प्रसादः कुत इत्याह- प्रचोदिता इति। प्रसादा यथोदितास्तदाशय-
साधनेनामुखीकृताः। उभयसिद्धिसाधने सान्निध्यार्थम्। अभेद्यं तत्त्वं तदा तस्येति।
तत्त्वं तत्स्वरुपत्वमभेद्यं तस्य दूतयोऽपि। द्वौ साधन इति। द्वे साधने। पुण्यसंभारो
योगिन्यश्च। चरमाणस्य सिद्धिद्वयं साधयतः। किञ्च एक एव हि दूतय इति। एक-
साधनभागो दूतयः। सिद्धेस्तासां सन्निकर्षकारणत्वादिति पाठान्तरव्याख्या। इह च
ग्रन्थाधिक्यमस्ति "क्षेत्रस्थानानि सिद्धानि डाकिन्योऽत्र च सङ्गताः। तत्र स्थितो
जपं कुर्यादेकत्र चरुमाहरेत्॥" क्रीडन्ते तत्रस्था इति। ग्रन्थोऽयमेवमवतारणीयः।
हृदयकृतेत्याह - क्षेत्रेत्यादीति। आहरेदाहारं कुर्यात्॥ ७॥
गुरुपर्वाभिषिक्तं च सुयन्त्रसमन्वितम्।
दूतयः सम्यगुक्तं च मुद्रासंयोगशीलश्च॥ ८॥
प्राप्ताभिषेक एव योगिनीप्रिय इत्याह - गुर्वित्यादि। गुरुपर्व गुरुपरम्परागते-
नायाताः क्रमादुदकादिरुपा विशेषाः। तैः प्राप्ताभिषिक्तम्। अभिषिक्तमभिषेकः।
युक्तान्युचितान्याचार्यादीन्यभिषिक्तानि यस्य तत्तथा। शैष्यकमित्यध्यार्हाम्। सुयन्त्रितं
सुसंवरम्। सुमन्त्रितमिति पाठे जप्तमन्त्रम्। समन्वितमिति च पाठान्तरे प्राप्तसम्प्र-
दायम्। दूतयः सम्यगुक्तमिति। दूति(ती)भिः शोभनमुक्तम्। शैष्यकेण धर्मेण शिष्यो
धर्माविशेषतः। अनयोरभेदात्। ततश्चैवंभूतो योगी योगिनीप्रिय ति भावः। कुत एव-
मित्याह- मुद्रासंयोगशीलश्चेति। मुद्रासंयोगेन प्राप्तसहजानन्दज्ञान इति तस्य भोक्त-
व्यम् (?)। अतश्चकारो यस्मादर्थे॥ ८॥
सम्पूर्ण ज्ञानदेहोऽत्र सम्पूर्णस्तत्र देहजा।
प्रातरुत्थाय चित्तात्मा स(श)कलीकृत्य विग्रहम्॥ ९॥
संपूर्णज्ञानदेहोऽत्र श्रीहेरुकस्तज्झो भवति। संपूर्णस्तत्र देहजा इति। निर्विभक्तिकं
प्लुतोच्चारणं च। श्रीहेरुकत्वाय भावनाक्रममाह - प्रातरित्यादि। प्रातः प्रभाते।
उत्थाय शय्योत्थाय। चित्तात्मा भवति। चित्तमात्रमेवात्मा स्वरुपं यस्य स तथा। किं
कृत्वैवमित्याह - स(श)कलीकृत्य विग्रहमिति। प्रज्ञाशस्त्रेण स्कन्धादिरुपं शरीरं
खण्डशो विभज्य शून्यतां भावयेदिति भावः॥ ९॥
अभ्यङ्गानि च शास्त्राणि देहस्थानि समाचरेत्।
पवित्रीकृत्य देहं तु स ततं मन्त्रमुच्चरेत्॥ १०॥
किंपूर्वकमेवमित्याह - अभ्यङ्गानि च शास्त्राणि देहस्थानि समाचरेदिति।
शिष्यते (क्ष्यन्ते) सत्त्वा एभिरिति शास्त्राणि तथागताः। तानि देहस्थानि चक्षुरादि-
न्यस्तानि कुर्यात्। अभ्यङ्गानि परमार्थतो निःस्वभावानि। अथवा शिक्षा कल्पो
व्याकरणं निरुक्तं छन्दोविचितिर्ज्योतिषश्चेति वेदाङ्गानि षट्। तानि अतिक्रान्तान्यभ्य-
ङ्गानीति तद्गम्यानि न भवन्तीत्यर्थः। पवित्रीत्यादि। स्कन्धादिविशुद्ध्यनन्तरं शून्यतया
पवित्रीकृत एव।ॐ स्वभावशुद्धाः सर्वधर्माः स्वभावशुद्धोऽहमिति मन्त्रमुच्चरेत्।
उच्चारयेत्। स इति योगी , ततं विततं नानातन्त्रोक्तत्वात्॥ १०॥
दर्शयेद् योगस्थानानि शास्त्राणि च न लङ्घयेत्।
नाक्रोशेत् समयी नर अभियुक्तान्नातिक्रमेत्॥ ११॥
योगस्थानानि समाधिस्थानानि कवचद्वयस्थानानीत्यर्थः। दर्शयेदिति। तन्मन्त्र-
स्तज्जाभिर्देवताभिर्वाऽधितिष्ठेदित्यर्थः। अतश्च भावनाया दिङ्मात्रं दर्शितम्। शास्त्राणि
च न लिङ्घयेदिति। योगिनीर्न लङ्घयेत्। अथवा देवताचिह्नानि वेदानीति केचित्।
चर्यायोगी कीडार्थं क्वचिदुपहासेन वेदार्थमपि पालयेदिति भावः। नाक्रोशेत् समयी
नर इति। समयी चर्यायोगी नाक्रोशेच्चित्तमुत्पादयेदिति भावः। अभियुक्तान्नातिक्रमे-
दिति। श्रीचक्रसंवराभियुक्तान्॥ ११॥
ताभिः सार्धं सुखं कुर्यात् समयाचारमाचरेत्।
मुक्त्यर्थी तदर्थी च वैभ्रमं युज्यते यदि॥ १२॥
ताभिरिति। योगिनीभिः। सुखं सुरतादिसुखम्। मुक्त्यर्थी तदर्थी चेति। मोक्षार्थी
सुखार्थी च। चेष्टितं कामशास्त्रोक्तं कृत्वा ताभिः सार्धं सुप्यादिति सम्बन्धः। वैभ्रमं
विलाससंभूतम्। युज्यतीति युज्यते। यदि चेष्टितं तत्कुर्यादित्यर्थः। यदि चेष्टिताय
स्पृहयन्ति तास्तदेति यावत्॥ १२॥
रात्रौ च सततं नग्नः कृष्णरक्तः सदा भवेत्।
प्राण्यङ्गवाससावासं कण्ठिका वलयं तथा॥ १३॥
कुण्डलं ब्रह्मसूत्रं च शिरोमाला विभूषितम्।
ग्रीवायां कण्ठिका चैव मेखला घुर्घुरारवैः॥ १४॥
जटामकुटपट्टाङ्कं मिथ्याकेशाद्यलङ्कृतम्।
सवज्रपद्यं खट्वाङ्गडमरुकध्वनिहूँकृते॥ १५॥
रात्रावित्यादि। कृष्णरक्तः कृष्णः पक्षः रक्तः। कण्ठिकादि नरकेशरचितं चूडेति।
वलयसंचयः। ब्रह्मसूत्रं मेखला च केशरचिते। घुर्घुरा नूपुरं तस्या रवास्तैः सह
कण्ठिकादिबिभृयादित्यर्थः। जटामकुटेति जटामुकुटम्। अङ्कपट्टश्चेति वीरपट्टः।
मिथ्याकेशाद्यलङ्कृतमिति। अन्यकेशचामरादिरचितमित्यर्थः। वज्रलाञ्छितं पद्यं
कपालं वज्रपद्यं सह वज्रखट्वाङ्गडमरुकध्वनिहूँकृते वर्तत इति स तथा॥ १३-१५॥
सर्ववीरयोगिन्यः कवचत्रयविभूषितम्।
प्राण्यङ्गवाससावासं सुखार्थी चालयेत् सुखम्॥ १६॥
सर्वे वीरा यत्र तत्सर्ववीरं चक्रत्रयं तस्य योगिन्यः प्रचण्डादयः। एतास्तेन
योगिना भावयितव्या इति भावः। अत एव स कवचत्रयभूषितम्। त्रिचक्रवर्तिन्यः
कवचत्रयं मारशस्त्रनिराकरणात्। षट्त्रिंशद्देवताभावयुक्त इत्याशयः। प्राण्यङ्ग-
वाससावासमिति। चर्माम्बरेण वासं कुर्यादिति ज्ञेयम्। वसनं वास आच्छादन-
मित्यर्थः। भावे घञ्। ताभिः सार्धं सुखं कुर्यादित्यस्य निर्देशमाह - सुखार्थी चाल-
येत् सुखमिति॥ १६॥
यज्ञोपवीतं च संत्यज्य शौचं श्रीहेरुकस्थितम्।
पञ्चमुद्राप्रतिबद्धं तु साधकः सिद्ध्यभियुक्तकः॥ १७॥
कण्ठिकावलयकुण्डलचूडामणिभूषितम्।
यज्ञोपवीतं भस्म च सर्वकालव्यवस्थितम्॥ १८॥
रात्रौ तु प्रकटं नित्यं दिवासु[गु]प्तं च कारयेत्।
क्रियाज्ञानं सुगुप्तं च प्रशान्तवर्जितश्रमः॥ १९॥
शौचं च त्रिविधं ज्ञेयं स्वस्त्रोतसि व्यवस्थितम्।
वर्णावर्णमुखाक्षेपशिखा[दि]बन्धनवर्जितम्॥ २०॥
यज्ञोपवीतं च संत्यज्य शौचं श्रीहेरुकस्थितमिति। चोऽनुक्तसमुच्चये। श्रुतिस्मृ-
त्यादिविहितयज्ञोपवीतादिजनितं शौचं त्यक्त्वा श्रीहेरुकयोगस्थितं शौचमित्याशयः।
पञ्चमुद्राप्रतिबद्धं साधकः सिद्ध्यभियुक्तकः।
कण्ठिकावलयकुण्डलचूडामणिभूषितम्॥
यज्ञोपवीतं भस्म च सर्वकालव्यवस्थितम्।
रात्रौ तु प्रकटं नित्यं दिवासु(गु)प्तं च कारयेत्॥ इति।
क्रियाज्ञानं सुगुप्तं च प्रशान्तवर्जितश्रमः।
शौचं च त्रिविधं ज्ञेयं स्वस्त्रोतसि व्यवस्थितम्॥ इति
अधिको ग्रन्थः। अस्यायमर्थः- वज्ररत्नपद्यकर्मतथागतकुलैः प्रतिबद्धं कार्यमि-
त्याशयः। रात्रौ पञ्चकुलप्रतिबद्धं प्रकटं निर्गतम्। तुरतिशयार्थः। दिने तत्सुगुप्तं
कारयेत्। वा नियमार्थः। प्रतिक्षेपात्सत्त्वानामवद्यं मा भूदिति। क्रियया सेवया ज्ञानं
सहजानन्दज्ञानं च सुगुप्तम्। प्रशान्तः कारुणिको वर्जितश्रमश्च। शौचं च तस्य
त्रिविधं तच्चानवग्रहेण रागादिप्रवर्तनम्। अथवा दूत्यमित्यादि वक्ष्यमाणम्। अतः
स्वस्त्रोतसि स्वचित्ते व्यवस्थितमिति। वर्णा ब्राह्मणादयः। अवर्णा अन्त्यजाः। मुखं
प्रधानम्। आक्षिप्यत इत्याक्षेपोऽप्रधानम्। शिखा चूडा आदिशब्दात् मौञ्जभस्म-
जटादि च। तेषां बन्धनं धारणं तेन वर्जितम्॥ १७-२०॥
दूत्यं तु प्रथमं शौचं द्वितीयं सोममिष्यते।
एकत्रप्राशनं चैव तृतीयं शौचमुच्यते॥ २१॥
एतच्छौचप्रपालनाच्छौचशुद्धिः प्रजायते।
योगिनश्च क्रमात् प्राप्य कस्य सिद्धर्न जायते॥ २२॥
शौचान्तरमाह- दूत्यं त्वित्यादि। दूत्यं दूत्यः। बिन्दोरेकस्य लोपः। सोममिति
सोमो बोधिचित्तम्। एकत्रप्राशनं यत् स चरुरित्यर्थः। चरुमिति। बिन्दोरेकस्य लोपे।
तच्च तृतीयं शौचम्। एतच्छौचप्रपालनाच्छौचशुद्धिः क्रमात्प्राप्य कस्य सिद्धिर्न
जायते इति। एतेषां शौचानां प्रपालनात् शौचशुद्धिं प्राप्य [कस्य] महामुद्रासिद्धिर्न
जायते॥ २१-२२॥
तत्त्वसंग्रहे यदुक्तं च तथोक्तं चक्रसंवरे।
गुह्यतन्त्रे समाख्यातं परमाद्ये तथैव च।
महावज्रभैरवे च जपव्रतादिसिद्धिदम्।
तदिदं ध्यानमात्रेण मन्त्री साधयेत् क्षणात्॥ २४॥
संवर इति। संवरोत्तरे। गुह्यतन्त्र इति गुह्यकोस(शा)दौ। तथेति निरवग्रहेण।
एवावधारणे। चकार आचारसमुच्चये। व्रतं च जपश्चेति नियमः। आदिशब्दादिन्द्रिय-
निग्रहादि, तेन सिद्धिं ददातीति जपव्रतादिसिद्धिदा देवता। तत्त्वसंग्रहादौ जपादिना
सिद्धिरिति समुदायार्थः। इह तु श्रीचक्रसंवरे तदिदं श्रीहेरुकध्यानमेव केवलं महा-
मुद्रासिद्धिसाधकमित्याशयः। अत एव योगी साधयेत् क्षणादिति॥ २३-२४॥
योगमार्गरतानां तु अयं शौचं समाचरेत्।
शौचानां यत्पुण्यं तदेकेन वक्तुं न शक्यते॥ २५॥
शौचमेवानुशंसयन्नाह - योगेत्यादि। चित्तमात्रसमापत्तिर्योगः। स एव संबोधि-
मार्गस्तद्रतानां मध्येऽयं श्रीहेरुकयोगं शौचं प्रागुक्तं समाचरेत्। शौचप्रयोजनमाह-
शौचानामित्यादि। दूत्यादयः शौचहेतुत्वाच्छौचानि। तेभ्यो यत्पुण्यं तदेकेन वक्त्रेण
वक्तुं न शक्यते॥ २५॥
साधको गुणविस्तरः मुखं त्वनेकशतसहस्त्राननम्।
श्रीहेरुकमहाज्ञानविशुद्धं सर्वलक्षणसाधनम्॥ २६॥
कुत इत्याह- साधको गुणविस्तर इति। साधको यतः शौचगुणविस्तीर्णः।
केन शक्यत इत्याह - मुखं त्वनेकमिति। अनेकानि मुखानि यदा पुनः स्युस्तदा
शक्यत इत्याह। जात्यैकवचनम्। द्वित्वादेरप्यनेकत्वमित्याह - सहस्त्राननमिति।
सहस्त्रसंख्यमाननं सहस्त्राननं सहस्त्रमाननानीत्यर्थः। कुतस्तादृशः साधक इत्याह-
श्रीत्यादि। श्रीहेरुक एव महाज्ञानं विशुद्धं निष्क्लेशम्। सर्वाणि दशबलादिगुण-
लक्षणानि यत्र तत् सर्वलक्षणम्। तद्योगोऽपि तथाभूत इति भावः॥ २६॥
साधकस्य च सौख्याम्बुप्राशनमद्वयमेव च।
तेन च अद्वययोगात्मा पवित्रं पापनाशनम्॥ २७
साधकस्य चेति। चो यस्मात्। साधकस्य सौख्याम्बु बोधिचित्तं तत्प्राशने।
अद्वययोगात्मा सौख्याम्बुप्राशनाद्वययोगात्मा सर्वपापविनिर्मुक्त इति योज्यम्। कुत
इत्याह - पवित्रं पापनाशनमिति। यतः सौख्याम्बु तदेवम्भूतमित्यर्थः॥ २७॥
सर्वपापविनिर्मुक्तः स्पर्शनाद्भाषणादपि।
समाचरति नरश्रेष्ठः शुद्धकायो निरामयः॥ २८॥
सर्वपापविशुद्धात्मा लभेत् ताथागतीं श्रियम्।
उत्पद्यते तथा जन्मैः तथागतकुलेषु च॥ २९॥
स्पर्शनात्संभाषणादपीति साधकस्येत्यर्थः। पञ्चानन्तर्यादीनि सर्वाणि पापानि।
शुद्धकायो निरामय इति। निरामयत्वात् शुद्धकाय इति बोद्धव्यम्। समाचरतीति
सौख्याम्बु नर इति सुबोधम्। जन्मैर्जन्मनि जन्मनि तथागतकुल उत्पद्यते॥ २८-२९॥
एवं पूजां सदा कृत्वा दातव्यं भक्तितो बलिः।
योगी स्वेच्छानि कर्माणि राजा भवति धार्मिकः॥ ३०॥
एवं पूजमिति। योगिनीः पूजयेद् बलिं दद्यादित्यर्थः। स च कदा देय इत्याह-
दातव्यमिति। बलिविधानम्। स्वेच्छानि स्वेप्सितानि कर्माणि शान्तिकादीनि॥ ३०॥
यथाविधि च दातव्यं [बलिः पूजा तथैव च]।
कृष्णपक्षे तु शुक्ले वा या भवेद् दशमी तिथिः॥ ३१॥
आसु प्रयत्ना[त् परि]पूजनीया मद्यैश्च मांसैरपि वज्रदेव्यः।
ताः पूजिता भक्तिमतो जनस्य श्रीहेरुकस्याभिरतिं गतस्य।
सन्तुष्टचित्ता वरदा भवन्ति तासां करस्थानि यतो वराणाम्॥ ३२॥
रात्रौ व्रती बलिं दद्यात् मुक्तकेशश्च नग्नकः।
श्रीहेरुकात्मैव योगेन आराधयति मातरः॥ ३३॥
इति श्रीहेरुकाभिधाने चर्याव्रतपूजाबलिविधिर्नाम
पटलः सप्तविंशतिमः॥ २७॥
विधिरत्र तन्त्रान्तरोक्तः पूजाकालविशेषमाह - कृष्णेत्यादि। वा-शब्दान्नवमी-
चतुर्दश्यौ। तुर्विशेषार्थः समुच्चयार्थो वा। कृष्णपक्षे चतुर्दश्यां शुक्लपक्षे त्विति
पाठान्तरे। तुशब्दो दशमीनवम्यौ समुच्चिनोति। शेषं यदिति या दशमी नवमी वा
भवति। चतुर्दश्यां तावत्पूजा कार्या दशमीनवम्योरपि। किमन्यदित्याह-
आसु प्रयत्नात्परिपूजनीया मद्यैश्च मांसैरपि वज्रदेव्यः।
ताः पूजिता भक्तिमतो जनस्य श्रीहेरुकस्याभिरतिं गतस्य।
सन्तुष्टचित्ता वरदा भवन्ति तासां करस्थानि यतो वराणाम्॥ इति।
आसु तिथिषु पूजायां प्रयत्नः कार्यः करस्थानि करस्था वराणाः वराः ईप्सितानि।
शेषं सुबोधम्॥ ३१-३४॥
चर्याव्रतपूजाबलयो विधीयन्ते येनासौ पटलश्चेति स तथा। सप्तविंशतिमः
सप्तविंशतितमः॥
इति श्रीचक्रसंवरविवृत्तौ सप्तविंशतितमः पटलः॥ २७॥
अध्यात्महोमवर्णैकत्वविधिपटलोऽष्टाविंशतिमः
ततो-
पूजयेत् वरमात्मानं सुविशुद्धात्मा यः [साधकः]।
निर्वाणं निर्गतं वीरं सर्वबुद्धादि पूजितः॥ १॥
समतापटलमाह - ततो पूजेत्यादि। तत इत्यर्थे ततोशब्दोऽपि द्रष्टव्यः। आर्ष-
त्वादुत्वं वा। यतः समतां विना संबोधिर्न स्यात् तत आत्मानं पूजयेदित्यर्थः।
बाह्यगुह्यपूजाभ्यां विशुद्ध आत्मा चित्तमस्येति सुविशुद्धात्मा। किम्भूतमात्मान-
मित्याह- निर्वाणं निर्गतं वीरमिति। निर्वाणं विरमानन्दो बहिर्बुद्धिविषयानुपलम्भात्।
ततोऽनन्तरं निश्चयेन गतः। स्थितः तं पूजयेदिति प्रतिपत्तिपूजया आत्मानं चित्तं
सहजानन्दस्थितम्। अथवा निरुपमत्वेन सहजानन्दं गतो गतवाम् बुद्धवानात्मा।
उपदेशं विना विरमनन्दमनवबुद्ध्य विरमानन्दं सहजज्ञानात् पूर्वमुद्दिशन्तमुपहसन्त्य-
विदग्धबुद्धयः। ते हि विरमं बोधिचित्तच्यवनं बुद्ध्य आत्मानं विप्रलभन्ते। तैरिह
सहजानन्दो नोपलभ्यते। स्थाप्य तु स्वचित्तरक्षायै जाग्रियताम्। ततः किं स्यादि-
त्याह - सर्वेत्यादि। सर्वबुद्धादयः पूजितः पूजिता भवन्तीत्यर्थः। सर्वबुद्धादीति
प्रथमाबहुवचनलोपात्। पूजित इति आकारे ह्रस्वे सति। सहजानन्दज्ञानं बुद्ध-
वत्यात्मनि बुद्धा बुद्ध इति सिद्धम्। सर्वबुद्धादिपूजितमिति पाठे ततः सर्वबुद्धादिजातं
पूजितं स्यादिति॥ १॥
सर्ववीरस्य योगिन्यः स्थावरं जङ्गमं तथा।
पूजयेद् भ्रातृचारास्तु सोमसङ्गमसंस्थिताः॥ २॥
किं च सर्वमेव बुद्धमित्याह - सर्वेत्यादि। सर्ववीरस्येति। प्रथमबहुवचनस्य
भावः। स्थावरं वृक्षादि। जङ्गमं मनुष्यादि। इयं तत्त्वपूजा। पूजयेद् भ्रातृचारा-
स्त्विति। तुः समुच्चये। सहश्रावका भ्रातरः। चरति स्वागमस्थितिरेष्विति त एव
चाराः। सोमेन बोधिचित्तेन सङ्गमो योगस्तत्र समतया स्थिताः सोमसङ्गमसंस्थिताः।
द्वितीयार्थे प्रथमा। तानपि पूजयेदित्यर्थः॥ २॥
भ्रातृपुत्रैकसार्धं सुखदुःखसमुद्भवम्।
न तत्र प्रकाशयेज्ज्ञानं मन्त्रमुद्रा तथैव च॥ ३॥
भ्रातृपुत्रैकसार्धं सुखदःखसमुद्भवं न तत्र प्रकाशयेज्ज्ञानमिति। तेषु भ्रातृषु ज्ञानं
न प्रकाशयेदिति सम्बन्धः। भ्रातॄणां पुत्राणामेकेषां सुहृदां ज्ञानेन सार्धं समम्। किञ्चै-
तैरिदंतया ज्ञानं सुखं दुःखं च समुद्भवतो यतस्तत्तथा। तथापि ताभ्यामलिप्तं सुखस्य
प्रकृतस्य दुःखाङ्गिकत्वात्। साधारणमप्यसाधारणं निपुणैरेव वेद्यत्वात्। परमार्थ-
तोऽप्रकाशनं प्रकाशयितुमशक्यत्वात्। तैरपि आत्मग्रन्थमागमे प्रक्षिपतीति प्रक्षेपः।
सर्वकर्मफलादिदूषयतीति सर्वदूषकः। तदेतयोरपि न प्रकाशयेदिति भावः। एतेष्वति-
संवासात् प्रकृतिविरुद्धत्वाच्चावज्ञाकरणान्नरकं यान्ति। ततस्ते शिष्यभावमपि नार्ह-
न्तीति ज्ञातव्यम्। अर्थान्तरमुच्यते - भ्राता आनन्दः धर्मसङ्केतत्वात्। पुत्रः परमानन्दः।
एकसार्धो विरमाननदः। सुखदःखयोः समतयोद्भवः स्थितिरस्येति स तथा। अयं
सहजानन्दः। तत्र सहजज्ञानं कर्तृ न प्रकाशयेत् , प्रकाशाभावात्। न चात्मानं प्रका-
शयेत् , स्वात्मनि क्रियाविरोधात्। इदं कार्यमिदमकार्यमिति विवेकः प्रक्षेपः। सर्व-
दूषको रागादिक्लेशराशिः सर्वं कायादि न तत्र भवतीति सहजानन्दलक्षणमित्यर्थः।
इदमेव पुनः पुनर्निगद्यते। अस्यैव परमपुरुषार्थसाधनत्वात्॥ ३॥
चरुं च भक्षयेच्चैव समयाचारकृत् सदा।
न दद्यात् कस्यचिन्मन्त्रमुपदेशं न विनाशयेत्॥ ४॥
यथार्थमुपदेशं तु दद्यात् समयवर्तिनाम्।
दूतीं त्यक्त्वा न चान्यं तु गच्छेत् कामविमोहितः॥ ५॥
चरुं चेत्यादि। पवित्राणि पञ्चामृतानि। भक्षणे किमित्याह - समयाचारकृत्
इति। समयो गोकुदहनलक्षणः। केन हेतुनेत्याह - सदेति। सदनं सत् , विकल्पाद-
वसादः हेतौ तृतीया। अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः। मन्त्रं मन्त्रादि।
कस्यचिदिति महीपादेः। उपदेशं न विनाशयेदिति। सकृदुपयाचित्तो न तृष्णया
सेकादिकं दद्यात्। यथार्थमुपदेशं तु दद्यात्। अतस्तुशब्दो विशेषे। दूतीं समयिनीम्।
चः समुच्चये तुरवधारणे। कामविमोहितोऽयं किमिनीविशेषं न गच्छेत्॥ ४-५॥
दूतीरक्षा सदा मोक्ष अतिक्रम्यापि भोजयेत्।
सत्कारं न च वै कुर्यात् जन्महीनापि संस्थितः॥ ६॥
दूतीरक्षा सदा मोक्ष इति। दूत्या बाह्याङ्गनाया रक्षा कवचनम्। तया सर्वग्रहण-
प्रशमः। अथवा वशीकरणेन दूत्या अनन्यगामिता कार्येति दूतीरक्षा। ततो मोक्षः
सतततत्त्वानुसरणात्। " परोच्छिष्टं न भुञ्जीत" इतिवचनादिति केचित्। तथागतकु-
लोत्पन्नानां दूतीनां प्रकाशसेवा रक्षेत्यपरे। अतिक्रम्याऽपि भोजयेदिति। दूत्यो गौरव-
गृहीता इति ताभिः सह सुरते तासु न गौरवं कुर्यात्। कचग्रहणादिनापि ताः सुरत -
सुखं भोजयेत्। अत आह - सत्कारं नैव कुर्यादिति। "हठेनाक्रम्य भुञ्जीत न ताः
सत्कारभोजनम्" इति वचनाज्जन्महीनापि भोजयेत्सुखमिति॥ ६॥
माता च भगिनी पुत्री भार्या च दूतयः स्थिताः।
तपः संक्षीयतेऽवश्यं वक्रं वा सिद्धयस्तथा॥ ७॥
कदा सिद्धिरित्याह - मातेत्यादि। यदा मात्रादिवत् स्निग्धा भवेयुस्तदा सिद्धिरिति
भावः। यदा पुनर्वक्रीभवन्ति तदा सिद्धयोऽपि वक्रा इत्याह - तप इत्यादि। अनादि-
कालं कृतं तपः क्षयं याति। कुत इत्याह - वक्रं वेति। वा यस्मात्। यतो दूतीहृदयं
वक्रं तथा सिद्धयोऽपि वक्रीभवन्ति विमुखीभवन्तीत्यर्थः॥ ७॥
आकर्षयेच्चोत्तमसार्धमेवं द्रव्यस्य निश्चयः।
वामाचारः सदा लोके वामपादं पुरः क्रमेत्॥ ८॥
तथाभूतया दूत्या किमित्याह - आकर्षयेदित्यादि। उत्तमबोधिचित्तं रजोऽन्वितं
यत्। अतः सार्धमधिकम्। एवं द्रव्यस्य निश्चय इति। द्रव्यं बोधिचित्तं तस्य निरवद्य-
ग्रहणं निश्चयः। वामाचारः सदा लोके वामपादः पुरः क्रमेदिति सुबोधम्॥ ८॥
वामहस्तपरिवर्तनं वामोर्ध्वप्रतिपूजकाः।
वामग्रहणमात्रस्तु वामतर्पणभक्षणम्॥ ९॥
वामहस्तपरिवर्तनं वामहस्तेन स्थिरीभूय गात्रविपरिवर्तनम्। वामोर्ध्वप्रतिपूजका
इति। ऊर्ध्वशब्देन वज्रं तेन योगिनीनां प्रतीत्याशयं पूजका योगिनः। वामेत्यादि
सुबोधम्॥ ९॥
अव्रतघ्नो व्रतपूर्णः साधकः कृततत्परः।
समया कुलाचारेण एकत्र चरुभोजकः॥ १०॥
अव्रतघ्नो व्रतपूर्ण इति। ब्राह्मणादिव्रतमव्रतम्। समयाद्याचारनियमः कृते
देवताभावनादौ निघ्नः कृततत्परः। समया योगिन्यः कुलाचारो चारः। एकत्र
क्वचित् प्रदेशे चरुभोजकः॥ १०॥
पञ्चवर्णसमाचारो चतुर्वर्णश्च कीर्तितः।
एकवर्णसमाचारो योगसिद्धिः प्रपूजकः॥ ११॥
पञ्चसु वर्णेषु समाचरति भुंक्त इति पञ्चवर्णसमाचारः। कुतो यतः, अचतुर्वर्णश्च
कीर्तित इति। न विद्यन्ते चतुरो वर्णा एव यस्य स तथा योगी। लोके कल्पितत्वात्।
एवं भूतो योगिनीमध्ये कीर्तितो वर्णितः। अथवा चत्वारो वर्णा यस्य स तथा चतु-
र्वर्णश्चतुर्मुखश्रीहेरुकयोगित्वात्। आर्षत्वादुत्वम्। कुतोऽचतुर्वर्णत्वमित्याह - एकत्वेन
वर्णानां समाचारो निश्चयो यस्य स एकवर्णसमाचारः। श्रीहेरुकयोगित्वेऽपि एकत्वेन
वर्णसमाचारविशुद्ध्या चतुर्वर्णमुखत्वमिति भावः॥ ११॥
गोमांसं हयमांसं च श्वानमांसं च चित्रिणाम्।
त्रिकोणं मण्डलं कुर्यात् ध्रुवं बुद्धोऽपि नश्यति॥ १२॥
रत्नत्रयाद्यपकारिणां विनाशभयार्थं कर्मप्रसरमाह - गोमांसेत्यादि। होमोपयिका-
विहितेन विधानेन कुण्डादिकमनुष्ठेयम्। अभिचाराद्युपकरणेन कटुतैलादिभिः प्रज्वा-
ल्य वह्निं खण्डरोहां दक्षिणनासापुटेनान्तः प्रवेश्यापानमार्गनिर्गतां विचिन्त्य तया
गृहीतवज्रांकुशकर्तीचिह्नया नग्नं विह्वलीभूतं सार्ध(साध्य)माकृष्य तयैव खण्ड-
खण्डीकृतं तं विचिन्त्य गोमांसादिकं तन्मांसमिति बुद्धिस्थीकुर्वन् महाक्रोधाहङ्कारेण
मुक्तं मारयति। मूलमन्त्रेण जुहुयात्। चित्रिणां कुक्कुटादीनाम्॥ १२॥
मन्त्रमुद्रासमोपेतं वीराणां भोजनं तथा।
श्रीहेरुकस्य निर्माणमुपचारं शास्त्रवर्जितम्॥ १३॥
धारणं सततं कुर्यात् रक्षा च सर्वकर्मणा।
योगमद्वयज्ञानं च चेतश्चैकपदं स्थितम्॥ १४॥
मुद्रामन्त्रमयी बाह्याङ्गना, तया सह भोजनं तद्वीराणां प्रशस्तमित्याह - मन्त्रे-
त्यादि। मन्त्र[मुद्रा]समोपेतं मन्त्रेण समतया चोपेतम्। तत्र भोजने श्रीहेरुकस्य
निर्माण - मात्मनि देवीनां चोपचारं योगिनीषु कुर्यात्। एतच्च सर्वेषु योगिनीतन्त्रेषु
वक्तुमिष्टमित्याह - श्रीहेरुकेत्यादि। अन्यदा च सततं श्रीहेरुकयोगस्य धारणं कार्य-
मित्याह - धारणमित्यादि। योगमिति योगस्य। योगोऽस्यास्तीति योगं धारणविशे-
षणम्। अद्वयज्ञानेति। श्रीहेरुकाद्वयत्वं जानातीति तत्तथा। चेतश्चेति तत एक-
पदत्वम्॥ १३-१४॥
निर्विघ्नः स यथा सिद्धौ नात्र कश्चित् प्रसिद्ध्यते।
तस्य दूती वरा दिव्या उद्युक्ता च सहान्विता॥ १५॥
एष यथा निर्विघ्नः सिद्ध्यर्थं तथा नान्यत्रोपायः प्रतीयत इत्याह - निर्विघ्न
इत्यादि। तस्य च दूती वरा श्रेष्ठा एवंभूता दिव्या सिद्धौ योग्या भवति। सह
क्षान्तिस्तदन्विता॥ १५॥
अरक्तो रतिसंयोगाद्योगद्रव्यविभागता।
गुरुपदेशसंरक्ता तदर्थधनदसमाः॥ १६॥
इति श्रीहेरुकाभिधाने अध्यात्महोमवर्णैकत्वविधि-
पटलोऽष्टाविंशतिमः॥ २८॥
अरक्तो रतिसंयोगादिति। बहिः रतिसंयोगं प्राप्यारक्तो विरक्तः सदा योगी भवेत्।
योगः समाधिः द्रव्यं भक्ष्यं ताभ्यामन्ययोर्योगभक्षयोर्विभागोऽस्येति स तथा। तस्य भावो
योगद्रव्यविभागता कार्या। अथवा योगजस्य द्रव्यस्य बोधिचित्तस्य विभजनं
विभागता प्रज्ञया सह भोगभागित्यर्थः। विशेषे भागोऽस्येति विभागस्तस्य भावो
विभागता। योगिनो गुरुपदेशरागिणो भवेयुरित्याह - गुर्वित्यादि। श्रीहेरुकयोगिपदेशे
गुरुभिर्दत्ते संरज्यन्तामिति भावः। अतस्तदर्थयन्तीति तदर्थाः। इतश्च धनं श्रद्धादि।
तथा चाह - "श्रद्धाधनं प्रज्ञाधनं श्रुतधनं वीर्यधनं प्रीतिधनं समाधिधनं स्मृतिधनं
चेति।" तद्ददाति कामिनामर्थसम्पादनान्नियतमिति धनदः श्रीहेरुकस्तत्समाः॥ १६॥
अध्यात्महोमात् लौकिकहोमबहिर्भावात् वर्णैकत्वं चैते विधीयन्ते येनासौ
पटलश्चेति सोऽध्यात्महोवर्णैकविधिपटलोऽष्टाविंशतिमोऽष्टाविंशतितमः।
इति श्रीचक्रसंवरविवृतावष्टाविंशतितमः पटलः॥ २८॥
दूतीलक्षणशक्त्यवस्थाविधिपटल एकोनत्रिंशतिमः
अथापरं समुद्दिष्टं दूतीलक्षणज्ञायते।
येन सम्यग्विजानाति डाकिन्यः समयस्थिताः॥ १॥
ऊष्मक्रियया विना न चर्येति तदर्थकथनार्थं पटलमाह - अथेत्यादि। अथेत्या-
ध्यात्मिकहोमादिकथनानन्तरम्। अपरमित्यन्यन्निष्पादनम्। किं तदित्याह - समु-
द्दिष्टमिति। अपरः समुद्देशः कृत इत्यर्थः। किमर्थमित्याह - दूतीलक्षणज्ञायत इति।
तल्लक्षणज्ञानाय। येन सम्यग्विजानाति डाकिन्यः समयस्थिता इति। द्वितीयार्थे
प्रथमा॥ १॥
भ्रातरं पितरं वापि स्वामिनं पश्यति क्षणात्।
स्थूलजिह्वा पिङ्गलाक्षा कर्कशी पिङ्गशिरोरुहा॥ २॥
भ्रातरं वीरं पितरं श्रीहेरुकं स्वामिनं यस्य ते पश्यति स्वाम्येव स्वामित्वम्।
क्षणान्मन्त्रसामर्थ्यात्। स्थूलेत्यादि। पिङ्गलेऽक्षिणी यस्याः सा तथा। कर्क्कशी
स्पर्शने। पिङ्गलाः शिरोरुहाः केशा यस्याः सा तथा॥ २॥
सामान्या सर्वसिद्धीनां जपव्रतरता सदा।
स्मरणेन समायुक्तं दूत्यादिपदान्वितम्॥ ३॥
सर्वसिद्धिसाधारणीत्याह - सामान्या सर्वसिद्धीनामिति। स्मरणं चिन्ता तेन
समायुक्तं समनुयोगः। कस्य चिन्तेत्याह - दूत्येत्यादि। पदान्वितमिति। आदिशब्दात्
समयरक्षणम्। पदं ज्ञानं तेनान्वितं स्मरणसमायुक्तम् एतेनैतदुक्तं समयपरेण
दूतीभावना कार्येति॥ ३॥
चतुर्विंशपरा डाकिन्यो भुक्तिमुक्तिफलप्रदा।
मूलमन्त्रं जपेन्नित्यं सर्वकामार्थसाधकः॥ ४॥
अस्माच्च जयते मन्त्रः योगक्रीडाफलप्रदम्।
सर्वमारप्रशमनं त्रैलोक्यं सचराचरम्॥ ५॥
दूत्य एव कियत्य इत्याह - चतुर्विंशपरा डाकिन्यो भुक्तिमुक्तिफलप्रदा इति।
प्रचण्डादयश्चतुर्विंशतिडाकिन्य इत्युपलक्षणत्वात्। द्वादशापीह ज्ञेयाः। किमर्थं ता
भाव्या इत्याह - भुक्तिः स्वर्गादिः। [मुक्तिः] क्लेशादिबन्धनापगमः। ते फले
प्रकर्षेण ददतीति तास्तथा। तासां श्रीहेरुकनायकमण्डलस्थानां भावनया मूलमन्त्रं
जपेदित्याह - मूलेत्यादि सुबोधम्। त्रैलोक्यं जयते सम्पद्यते वशतया। अत एव ततो
भुक्तिमुक्तिफलप्रदाः॥ ४-५॥
मन्त्रमुद्रासमोपेतं सिद्ध्यभियुक्तश्च साधकः।
मुद्राहीनं न सान्निध्यं मन्त्रं भवति देहिनाम्॥ ६॥
कुत एवमित्याह - मन्त्रेत्यादि। मन्त्रस्तत्त्वचोदनं भाषणम्। मुद्रा देवता ताभ्यां
साध्यतयोपेतः सिद्धितत्परः स साधको भवति। मन्त्र एव केवलः कुतो न जप्यत
इत्याह - मुद्रेत्यादि। देवभावनामुक्तं सान्निध्यं साक्षात्करणं कर्तृ मन्त्रं कर्म। न
भवति न प्राप्नोतीत्यर्थः। देहिनो योगिनो विशिष्टदेहयोगात्॥ ६॥
अभियोगेन बोद्धव्यं यथा ऊष्मक्रियात्मनि।
ये द्विषन्ति महायोगं सर्वकामार्थसाधकम्॥ ७॥
श्वानयोनिशतं गत्वा चण्डालेष्वपि जायते।
यथा क्वचित् घृतार्थी सलिलं मथ्नाति श्रद्धया॥ ८॥
न च सम्पद्यते सर्पिः कायक्लेशस्तु केवलम्।
अन्यथा च वृथा भद्रधारणं पूजनमपि॥ ९॥
जीवनोपायहेतुत्वादन्ययोगसमाश्रितः ।
महायोग धरा वीरा यस्मिन् देशे वसन्ति वा॥ १०॥
चण्डालम्लेच्छसत्त्वेऽपि तद्देशं परिकल्पयेत्।
तस्याहं नित्यं तिष्ठामि सत्त्वानु ] ग्रहहेतुना॥ ११॥
इति श्रीहेरुकाभिधाने दूतीलक्षणशक्त्यवस्थाविधि-
पटल एकोनत्रिंशतिमः॥ २९॥
तच्च मन्त्रसान्निध्यमभियोगेन सादरनिरन्तरदीर्घकालाभ्यासेन बोद्धव्यमधि-
गन्तव्यम्। तदेव किं तदित्याह - यथा ऊष्मक्रियात्मनीति। सत्त्वो वज्रनार्थं शान्तिक-
पौष्टिकाभिचारादिकमूष्मा तस्य क्रिया निष्पादनम्। सा यथात्मनि भवति तथा सामर्थ्यं
तदेव सामर्थ्यमिति यावत्। ये रत्नत्रयापकारिणस्तेष्विहैव दुःखादिदानात् सामर्थ्यं
दर्शितव्यम्। किञ्च परत्रापि मन्त्रसामर्थ्यमित्याह - य इत्यादि। महायोगं श्रीहेरुक-
योगम्। शेषं सुबोधम्। महायोगान्नान्यः सम्बोधिसाधक इत्याह - यथेत्यादि। श्रद्ध-
याऽभिसंप्रत्ययेन यथैवं तथान्ययोगाभ्यासान्न किञ्चित् फलमितिभावः। अन्यस्य
योगस्य भद्रहेतुत्वेन धारणम्। पूजनमिवेति पूजनमपि वा। तद्यथा अन्ययोगधारणं न
परलोकार्थमित्याह - योगमन्यमिति। श्रीहेरुकयोगिनां निवासस्थानमपि पुण्यजनक-
मित्याह - ते महायोगधरा इत्यादि। चण्डलादेशोऽपि वीरैरध्यासितो यस्तं देशमपि
सद्देशमेव परिकल्पयेत्। तस्येति श्रीहेरुकयोग्यधिष्ठितस्य देशस्य सम्बन्धिनो ये
सत्त्वास्तेषाम् अनुग्रहार्थं नित्यं तिष्ठामि॥ ७-११॥
शक्तिर्मन्त्रशक्तिः। अवस्था श्रीहेरुकयोग्यध्युषिते देशे सत्त्वानामर्थायावस्थितिः
दूतीलक्षणशक्त्यवस्था विधीयन्ते ज्ञानार्थं येन स चासौ पटलश्चेति स तथा। ऊन-
त्रिंशतिम ऊनत्रिंशत्तमः।
इति श्रीचक्रसंवरविवृतावेकोनत्रिंशतिमः पटलः॥ २९॥
मुरबन्धमन्त्रोद्धारविधिपटलस्त्रिंशतिमः
अथान्यतमं वक्ष्ये प्रस्तारं तु सुदुर्लभम्।
येन विज्ञातमात्रेणाशुसिद्धिः प्रसाधकः॥ १॥
अथेति मूलमन्त्रोद्धारप्रस्तारादनन्तरमन्यतमं प्रस्तारं वक्ष्ये। आस्तीर्यन्ते वर्णा
मन्त्रा(मात्रा) श्चास्मिन्निति प्रस्तारः। एकोनपञ्चाशत्कोष्ठकरेखासन्तानः। किं भूतो-
ऽयमित्याह - सुदुर्लभमिति। यतोऽस्माच्चतुर्मुखो मन्त्र उद्ध्रियन्ते ततः स तथा।
मन्त्रस्यैवोद्धरणीयस्य को विशेष इत्याह - येनेत्यादि। येनेति मन्त्रेण। आशुसिद्धिः
प्रसाधक इति। तेन विघ्नप्रशान्ति॥ १॥
भूमिभागे समे रम्ये चन्दनेनोपलिप्य च।
सुगन्धगन्धमृदिते पुष्पप्रकरसङ्कुले॥ २॥
दीपमालासमाकीर्णे धूपामोदमनोरमे।
सकलीकृत्य चात्मानं दिशाबन्धं तु कारयेत्॥ ३॥
मुरजबन्धं ततः कृत्वा नवरेखा तु वर्तुलम्।
वर्णमात्रं समालिख्य प्रस्तरेत् सुसमाहितः॥ ४॥
कुत्र प्रस्तृणीयादित्याह - भूमीत्यादि। चन्दनपञ्चामृतमभिप्रेतं तत्स्वरुपज्ञस्या-
ह्लादकत्वात्। सुगन्धगन्धश्चन्दनादिः। पञ्चामृतमिश्रेण सुगन्धेन गन्धेन लेप्यो भूमिभाग
इत्यर्थः। पुष्पसुगन्धं चम्पकादि। धूपः पिण्डधूपादिः। एवंभूते स्थाने शून्ये शून्यतां
विभाव्य दिग्बन्धादिकपूर्वकं वर्णमात्रं प्रस्तरेत् प्रस्तृणीयात्। वर्णा अकारादयः कका-
रादयश्च, वर्णा एव वर्णमात्रम्। किंकृत्वेत्याह - समालिख्येति। समत्वेनाकारादि-
ककारादिक्रमेणारोप्य। लिखनमेव किंपूर्वकमित्याह - मुरजेत्यादि। मुरजस्येव बन्धः
संस्थानां(नं) यस्य स तथा प्रस्तारः। अनुलोमविलोमाभ्यां ततः स्वरवर्णाग्रह-
णाद्विमुखत्वेन मुरजसाम्यम्॥ २-४॥
तत्रस्थमुद्धरेद्वीरं सर्वकामार्थसाधकम्।
अनुलोमविलोमेन स्वरवर्णांश्च साधकः॥ ५॥
वीरो मन्त्रः। सर्वकामार्थसाधकमित्यि मन्त्रविशेषणम्। कुतस्ततो वीरमुद्धरे-
दित्याह - अनुलोमविलोमेन स्वरवर्णांश्च साधक इति। स्वरा अकारादयः। वर्णाः
ककारादयश्च ध्वनिरुपत्वात्। यतस्तानुद्धरेत्॥ ५॥
एतत्संख्यान्तर्गतं [कारयेत् कुशलं] मुनेः।
कोष्ठद्वात्रिंशति संगृह्य पञ्चमेन तु भेदितम्॥ ६॥
एतत्संख्यान्तर्गतमिति। कोष्ठकसंख्यान्तर्गतं यथा भवति तथा समुद्धरेदित्यर्थः।
कस्य वचनादेतदित्याशङ्क्याह - मुनेरिति। कोष्ठद्वात्रिंशति संगृह्येति। कोष्ठेति निर्वि-
भक्तिम्। ककाराधिष्ठितं कोष्ठकमारभ्य द्वात्रिंशत्तमं कोष्ठकं सकाराधिष्ठितं गृह्यते।
ककारात्प्रभृतिगणनया सकारास्यैव ग्रहणम्। सर्वत्रैवं कोष्ठकग्रहणेन कोष्ठकस्थाने
चाक्षरं गृह्यते। अस्यैवोपयोगित्वात्। कोष्ठतृतीयमिति पाठे तालव्यशकाराधिष्ठित-
मारभ्य दन्त्यसकाराधिष्ठितं तृतीयं गुह्यते। पञ्चमेन तु भेदितमिति। उकारेण विशे-
षितम्॥ ६॥
शतार्धार्धं समादाय चतुर्विंशतिभेदितम्।
कोष्ठषट्त्रिंशतिमं कोष्ठत्रयेण भेदितम्॥ ७॥
शतार्धार्धं समादायेति। ककाराधिष्ठितं कोष्ठकमारभ्य गणनया मकारम्। तथा
चतुर्विंशतिभेदितमिति। तथा ककाराधिष्ठितमारभ्येत्यर्थः। चतुर्विंशतिभेदितम्। चतु-
र्विंशतितमं भकारम्। तेनाधोभागे शतार्धार्धं भेदितम्। कोष्ठषट् त्रिंशतिमं कोष्ठत्रयेण
भेदितम्। अकाराधिष्ठितमारभ्य नकाराधिष्ठितं षट्त्रिंशतिमं षट्त्रिंशत्तमम्। कोष्ठत्रयं
तृतीयम्। कोष्ठमकाराधिष्ठितमारभ्येकारस्तेन भेदितम्॥ ७॥
द्वात्रिंशत्ततो गृह्य पञ्चमेन तु भेदितम्।
पञ्चविंशत्ततो गृह्य चतुर्विंशति योजयेत्॥ ८॥
द्वात्रिंशत्ततो गृह्य कोष्ठपञ्चमेन तु भेदितमिति। तत इति ककाराधिष्ठितमारभ्य।
तुरेवार्थे समुच्चये वा। एवं पूर्वत्रापि पञ्चविंशत्ततो गृह्य चतुर्विंशतियोजयेदिति।
पञ्चविंशं पञ्चविंशतितमं मकाराधिष्ठितम्। तत इति ककाराधिष्ठितात्। चतुर्विंशतीति
चतुर्विंशतितमं भकारं तच्च तृतीयान्तम्। मकारमधोभागे भकारेण योजयेदित्यर्थः॥ ८॥
त्रयस्त्रिंशसमादाय कोष्ठपञ्चदशा र्चितम्।
पञ्चमेन समायुक्तं शोभनं परमं मतम्॥ ९॥
त्रयस्त्रिंशसमादाय कोष्ठपञ्चदशार्चितमिति। तत इति वर्तने। ककाराधिष्ठित-
मारभ्य त्रयस्त्रिंशत्तमं हकाराधिष्ठितम्। पञ्चदशमनुस्वाराधिष्ठितमकाराधिष्ठितमारभ्य।
पञ्चमेन समायुक्तं शोभनं परमं मतमिति। अकाराधिष्ठितमारभ्य पञ्चमत्वम्। पञ्च-
मेन उकारेण बीजमिदं शोभनं सर्वार्थकारित्वात्॥ ९॥
[ द्वाविंशतिसमायुक्तं सप्तविंशतिमेव च।
एतत्सर्वं समादाय ] प्रथमं पदममुच्यते॥ १०॥
द्वाविंशतिसमायुक्तं तथा सप्तविंशतिमेव चेति। द्वाविंशतीति द्वाविंशतितमं
फकाराधिष्ठितम्। अकाराधिष्ठितात्सप्तविंशतितमं टकाराधिष्ठितम्। एतत्सर्वमादाय
प्रथमं पदम्। प्रथमं मन्त्रवाक्यमुच्यत इति प्रथमं पदम्॥ १०॥
कोष्ठकादेकोनविंशतिमं वह्निपुत्रेण समायुक्तम्।
कोष्ठत्रितयेन भेदितं साक्षरं भवेत्॥ ११॥
यवर्गाच्चाष्टमं बीजं कोष्ठषट्त्रिंशेन समायुतम्।
पुनरेवं पदञ्चैव सर्वकामार्थसाधकः॥ १२॥
कोष्ठकाकोनविंशतिमं वह्निपुत्रेण समायुक्तं कोष्ठत्रियतभेदितमिति। अकारा-
धिष्ठितात्कोष्ठादेकोनविंशतितमं गकाराधिष्ठितम्। वह्निः पुत्रो यस्य स रेफः। अका-
राधिष्ठितात्कोष्ठत्रितयभेदितम(इ)काराधिष्ठितम्। यवर्गाच्चाष्टमं बीजं षट्त्रिंशति-
समायुतं पुनरेवं पदं चैवेति। यकारश्चासौ वर्गश्चेति यवर्गो यकारः ततो अष्टमं बीजं
हकारः कोष्ठषट्त्रिंशतीति अकाराधिष्ठितात् षट्त्रिंशत्तमं कोष्ठं नकाराधिष्ठितम् पुन-
रेवम्भूतं पदम्। चकार एवकारश्च समुच्चयावधारणयोः॥ ११-१२॥
स्वयम्भूं ततो गृह्य कोष्ठात् पञ्चमसंयुतम्।
बिन्दुना ऊर्ध्वभूषितम् ॥ १३॥
सर्वार्थसाधकं नाम द्वितीयं पदमुच्यते।
एकोनविंशतिकोष्ठं तु सप्तविंशेन भेदितम्॥ १४॥
तृतीयेन तु संयुक्तं त्रयस्त्रिंशत्समदाय कोष्ठद्वितीयेन तु।
विंशकेन समायुक्तं शोभनं परमं हितम्॥ १५॥
स्वयम्भूं ततो गृह्येति। स्वयम्भूर्हकारः। तत इति ग्रिह्ण ग्रिह्ण पदात्। कोष्ठात्
पञ्चमसंयुतमिति। अकाराधिष्ठितात् पञ्चममुकाराधिष्ठितम्। बिन्दुना ऊर्ध्वभूषित-
मिति। नेह सर्वत्रैवार्धचन्द्रः बिन्दुमात्रेण भूषितत्वात्। सर्वकामार्थसाधकं नामेति।
अनया संज्ञया प्रसिद्धमित्यर्थः। फट्कारः पूर्वतोऽनुवर्तनीयो बिन्दुना ऊर्ध्वयोजितमि-
त्यतः द्वाविंशतितमं ततो गृह्य तथैकादशमेव चेति क्वचित्पाठे ककाराधिष्ठिताद्
द्वाविंशतितमं फकाराधिष्ठितम् एकादशं टकाराधिष्ठितम्। इति फट्कारः सुबोधः।
इत् द्वितीयपदम्। एकोनविंशतिकोष्ठं तु सप्तविंशेन भेदितम्। तृतीयेन समायुक्त-
मिति। अकाराधिष्ठितादेकोनविंशतितमं गकाराधिष्ठितम्। तुः समुच्चये। सप्तविंशतितमं
रेफाधिष्ठितम्। त्रयस्त्रिंशत्समादाय कोष्ठद्वितीयेन तु विंशकेन समायुक्तं शोभनं परमं
हितमिति। त्रयस्त्रिंशत् त्रयस्त्रिंशत्तमं ककाराधिष्ठितात् अकाराधिष्ठिताद् द्वितीयमा -
काराधिष्ठितम्। ककाराधिष्ठितात् विंशतितमं नकाराधिष्ठितम्॥ १३-१५॥
एकविंशतिकोष्ठं तु तथा षड्विंशसंयुतम्।
द्विरभ्यासपदं चैव उद्धरेत्सुसमाहितः॥ १६॥
एकविंशतिकोष्ठं तु तथा षड्विंशसंयुतमिति। एकविंशतितमं ककाराधिष्ठितात्
पकारो ग्राह्य इत्यर्थः। तुः समुच्चये। तथेति ककाराधिष्ठितात् षड्विंशतितमं यकाराधि-
ष्ठितम्। द्विरभ्यासपदं चैवेति। द्वितीयं समीपे तादृशं पदम्। नियमेनापीत्यर्थः॥ १६॥
विलोमेन ततो गृह्य कोष्ठकात्प्रथमं च वै।
चतुर्थान्तेन संयुक्तं तथा पञ्चदशार्चितम्॥ १७॥
विलोमेन ततो गृह्य कोष्ठकात्प्रथमं च वै। चतुर्थान्तेन संयुक्तं तथा पञ्चदशा-
र्चितमिति। विपरीतत्वेन ततः प्रस्तारात् प्रथमाद्धकाराधिष्ठिताद्धकारमेव प्रथमं गृहीत्वा
तृतीयं पदमुच्यत इति सम्बन्धः। अकाराधिष्ठिताच्चतुर्थमीकाराधिष्ठितं तस्यान्तम्
उकाराधिष्ठितम्। अन्यत् सुबोधम्॥ १७॥
धर्मार्थमोक्षकामानां तृतीयं पदमुच्यते।
कोष्ठकाद् द्वितीयं बीजं तु षड्त्रिंशतिकोष्ठकात्॥ १८॥
तृतीयं पदं धर्मादीनां पदमित्यपरं पदमध्याहार्यम्। इहापि फट्कारोऽनुवर्तनीयः।
इति तृतीयपदम्। कोष्ठात् द्वितीयं बीजं त्विति। अकाराधिष्ठितात्। आकाराधिष्ठितं
द्वितीयं बीजं देवतानाम्। तुरवधारणे। षट्त्रिंशतिकोष्ठकादिति। षट्त्रिंशत्तमात्कोष्ठ-
कादकाराधिष्ठितं कोष्ठमारभ्य नकाराधिष्ठितान्नकार एव ग्राह्य इति भावः॥ १८॥
तथा द्वा(षड्)विंशमेव च [ चतुर्थं पदमुच्यते ]।
त्रयस्त्रिंशं समादाय कोष्ठत्रयोदशार्चितम्॥ १९॥
नकारामादाय चतुर्थं पदमुच्यत इति ज्ञेयम्। शेषं सुबोधम्। त्रयस्त्रिंशमिति
हकारम्। कोष्ठत्रयोदशेति अकाराधिष्ठितात्॥ १९॥
कोष्ठकाद्दशमं चैव विलोमेन तु साधकः।
[ अकाराधिष्ठितात् ] कोष्ठादेकोनविंशतिमं तथा॥ २०॥
[ ककाराधिष्ठितात् कोष्ठात् ] त्रयोविंशति कोष्ठकात्।
द्वितीयकोष्ठसंयुक्तं बिन्दुना ऊर्ध्वभूषितम्॥ २१॥
पार्थिवं तु ततो गृह्य अष्टमं तु पुनस्तथा।
अग्निना भेदयेद् धीमान् हूँफट्कारान्तयोजिता॥ २२॥
कोष्ठकाद्दशमं चैव विलोमेन तु साधक इति। हकाराधिष्ठिताद् दशमं भका-
राधिष्ठितम्। कोष्ठकादेकोनविंशतिममिति। अकाराधिष्ठितात्। एकोनविंशतिमं गका-
राधिष्ठितम्। त्रयोविंशतिकोष्ठादिति। ककाराधिष्ठितात् त्रयोविंशतितमं कोष्ठं बकारा-
धिष्ठितं ततो व(ब)कार एव ग्राह्य इत्यर्थः। अकाराधिष्ठिताद् द्वितीयमाकाराधिष्ठितम्।
बिन्दुना ऊर्ध्वभूषितमिति। बिन्दुमात्रं बिन्दुः। पार्थिवं वकारबीजम्। तत इति
प्रस्तारात्। अष्टमं ककाराधिष्ठितात्। अग्निनेत्यादि सुबोधम्। इहापि फट्कारश्चानु-
वर्तनीयः। हूँफट्कारान्तयोजितेति। हूँफट्कारावन्ते योजितावस्येति हूँफट्कारा-
न्तयोजितेति। निष्ठान्तस्य परनिपातः। निर्विभक्तिकं पदम्। प्लुतोच्चारणं च॥ २०-२२॥
एतत्त्रैलोक्यविजयं नाम मन्त्रं पदैश्चतुर्भिर्भूषितम्।
ॐकारदीपकाः सर्वे हुँफट्कारान्तयोजिता॥ २३॥
एतदिति मन्त्रवाक्यं समयम्। त्रैलोक्यं हरिहरहरिण्यगर्भान्निःशेषेण जयतीति
त्रैलोक्यविजयम्। शेषं सुबोधम्। ॐ इत्यादि। चत्वारि मन्त्रपदानि प्रणवदीपकानि,
ततः प्रणवस्वरुपमुक्तम्। हूँफट्कारौ पूर्वं हूँकारफट्कारावन्ते योजितौ येषां
मन्त्राणां ते तथा। ततोऽयं मन्त्रः- ॐ सुम्भ निसुम्भ हुँ हुँ फट् फट्। ॐ ग्रिह्ण
ग्रिह्ण हुँ हुँ फट् फट्। ॐ ग्रिह्णापय ग्रिह्णापय हुँ हुँ फट् फट्। ॐ आनय हो
भगवान् वज्र हुँ हुँ फट् फडिति॥ २३॥
विद्याराजचक्रवर्तिमन्त्रोऽयं न भूतो न भविष्यति।
तत्त्वसंग्रहे परमाद्ये संवरे वज्रभैरवे॥ २४॥
चतुःक्रोधसमायुक्तमष्टमूर्तिसमन्वितम्।
मण्डलं तस्य रक्षार्थं सर्वदुष्टविशेषतः॥ २५॥
अनेन लब्धमात्रेण म्रियते ह्यविचारणात्।
चक्रयोगात्समुच्चार्य सर्वसिद्धिफलोदयम्॥ २६॥
विद्याराजचक्रवर्तीति। विद्याभिर्देवताभी राजन्त इति विद्याराजाः, विद्याराजाना-
मन्येषां मध्ये चक्रवर्ती तत्त्वसंग्रहादौ यन्मण्डलं तस्य रक्षार्थं मन्त्रोऽयम्। एतदे-
वाह-
तत्त्वसंग्रहे परमाद्ये संवरे वज्रभैरवे।
चतुःक्रोधसमायुक्तमष्टमूर्तिसमन्वित्॥
मण्डलं तस्य रक्षार्थं सर्वदुष्टविशेषतः॥ इति।
अष्टमूर्तयो अष्टौ लोकपालाः। सर्वदुष्टेति। सर्वदुष्टेभ्यो मण्डलरक्षार्थम्। अनेनेति
मन्त्रेण म्रियत इति दुष्टो यः कश्चित्। चक्रयोगादिति। आत्मसकाशात् प्रज्ञायां तत
आत्मनि प्रवेशेन जपात् सर्वसिद्धिफलोदयम्॥ २४-२६॥
ॐ सुम्भ निसुम्भ हुँ हुँ फट् फट्। ॐ ग्रिह्ण ग्रिह्ण हुँ हुँ फट्। ॐ
ग्रिह्णापय ग्रिह्णापय हुँ हुँ फट्। ॐ आनय हो भगबाँ(वाँ) वज्र हुँ हुँ फट्॥ २७॥
इति श्रीहेरुकाभिधाने मुरजबन्धमन्त्रोद्धारविधि-
पटलस्त्रिंशतिमः॥ ३०॥
मन्त्रपदचतुष्टयं भवतीति मन्त्रसमुदायमाह - ॐ इत्यादि। अत्रापरौ हुँफट्कारौ
गोपितौ। मुरजबन्धमन्त्रोद्धारो विधीयते येन स चासौ पटलश्चेति स तथा। त्रिंशतिमं
त्रिंशत्तमः॥
इति श्रीचक्रसंवरविवृतौ त्रिंशतिमः पटलः॥ ३०॥
भक्ष्यहोमबलिक्रियाहस्तछोमाविधिपटल एकत्रिंशतिमः
ततः
महामांसेन सर्वेषां नाशनं वज्रजं स्मृतम्।
एतत्सर्वक्रूराणां नाशको दारुणस्तथा॥ १॥
एवं श्वानशूकरमांसानां ताम्रचूडानां तथैव च।
भक्ष्यहोमबलिक्रिया कर्तव्याऽविचारतः॥ २॥
सप्तविंशतितम उद्दिष्टा पूजा बलिक्रिया च , अष्टाविंशतितमे होमक्रिया, तन्नि-
र्देशार्थमिदानीं पटलमाह - तत इति। होमात्। सर्वेषामिति। गुरुबुद्धबोधिसत्त्वाद्यप-
कारिणाम्। वज्रजं कायवक्त्रादिकम्। श्रीसमाजेऽप्युक्तम् - "महामांसेन सर्वेषां
नाशनं वज्रजं स्मृतम्" इति। अभेद्यज्ञानजं वा वज्रजम्। कुत एव-
मित्याह - एतदित्यादि। एतदित्येष इत्यर्थः। स च मांसहोमो यतः सर्वक्रूराणां
नाशको दारुणस्तथा। तेन महामांसेन कृत इत्यर्थः। इतो होमान्तरेभ्योऽतिशय
उक्तः। "अत्यन्तक्रूररौद्रेषु सौम्यता नोपयुज्यते" इति वचनात् तेषामपायगमनं निषे-
धार्थम्। त एवं ततो निर्वतनीयाः। एवमिति। नाशको दारुणः। पश्वादि(श्वादि) -
मांसहोमोऽपि। भक्ष्येति भक्षणं पूजार्थम्। तेषामेव मांसेन पूजादिक्रिया कार्येत्यर्थः।
किमनेनाभिमतं स्यादिति [न वा विकल्पविचारस्]तद्विपरीतोऽविचारः॥ १-२॥
सिद्ध्यत्यशेषनिःशेषसर्वराज्यं प्रसिद्ध्यति।
शङ्खशुक्तिकमुक्तानां त्रयो निमित्तसम्भवाः॥ ३॥
धर्मज्ञानशरीराणां कपालं केन दूष्यते।
कपालमालिनं वीरं चन्द्रार्धकृतभूषणम्॥ ४॥
ततः किमित्याह - सिद्ध्यतीत्यादि। अशेषं सकलं खड्गादिनिकृष्टाः [ सिद्धयः
शेषाः पश्चान्निःशेषं बुद्धत्वम्। सर्वराज्यं चक्रवर्तित्वम् ] एषां स्वयमव्यापादितानां
ग्रहणम्। पात्रं च कपालमेव चर्यायोगिना कार्यमित्याह - [ शङ्खेत्यादि। मुक्ता इति
मुक्ताजनको जन्तुविशेषः, तस्यास्थिविशेषमपि मुक्ताशब्देने ]त्युच्यते। यथा शङ्खादयो
वैदिकानां पवित्रास्तथा कपालमपि [ प्राण्यङ्गविशेषेणान्तरमिति दर्शयितुमाह- ]
त्रयो निमित्तसंभवा इति। निमित्तं कर्मक्लेशाः स्कन्धादयश्च। एते शङ्खादयस्त्रयो
निमित्तात् [ संभवन्ति। मनुष्योऽपि तथा , तत्कथं वेदवादी कपालं दूषयेत्। ननु ]
भैषज्यादिषु तदुपयोगेन शङ्खादिभ्यः पवित्रतया [ क्रियते चेत् किमन्यजनप्रयोजनं न
दृष्टं ] भगवतापि नोपलब्धं कपालात् कार्यम्। न हि रत्नं सर्वजनसाधारणं स्वरुप-
ज्ञानम्। केषु दूषणमित्याह - धर्मज्ञानशरीराणामिति। धर्माणां स्कन्धादीनां स्कन्धादीनां शून्यता-
दिना ज्ञानं बोधस्तदेव शरीरं स्वरुपं येषां ते तथा योगिनाम्। तेषु सप्तम्यर्थे षष्ठी। अत
एव श्रीहेरुकमपि तद्धारिणं केन दूषयेदित्याह - कपालेत्यादि। कपालं मेलितुं
शीलमस्येति कपालमाली। शिखादित्वाद्वा कपालमालाऽस्यास्तीति मत्वर्थीयः। पञ्च -
कपालशिरोमालाधारित्वात्। वीरः निःसङ्गत्वात्। चन्द्रर्धमेव कृतं संस्कृतं भूषणं यस्य
स चन्द्रार्धकृतभूषणः। निष्कलङ्कनिर्माणग्रहणविशुद्धया चन्द्रार्धधारणम्॥ ३-४॥
[ एवमेव हि ] वीराणां वीरजं स्मृतम्।
छोम्मकान् दर्शयेत् पञ्चवामहस्तं तु साधकः॥ ५॥
स वीराणामपि मध्ये ये वीरा हरिहरादयस्ते जायन्ते यतस्तं स्मृतं प्रसिद्धं केन
दूषयेत्। छोम्मकान् दर्श्येत् पञ्चेति। वज्रवाराह्यादयः पञ्चदेव्यः कथिताः। जटा-
मकुटस्थेषु पञ्चसु कपालेषु तान् दर्शयेत् ध्यायात्। वामहस्तं तु साधक इति।
दर्शयेदिति सम्बन्धः। तुर्विशेषे। वामहस्तस्थं समयादि दद्यादिति भावः॥ ५॥
वीराणामालयो ह्येष छोम्मकानां प्रवर्तनम्।
वामोद्भवं जगत् सर्वं त्रैलोक्यं सचराचरम्॥ ६॥
कुत इत्याह - वीराणामित्यादि। वीराणां वज्रसत्त्वादीनाम्। आलय एष वामो
हस्तः। हिर्यस्मात्। कुतो यतो वामाद्धस्ताच्छोम्मकानां सङ्केतितानां वीरवीरेश्वरीणां
प्रवर्तनम्। तया विशुद्ध्येदमित्याह - वामेत्यादि। वामा शून्यता। " शून्येभ्यो धर्मेभ्यः
शून्या एव धर्माः प्रजायन्ते " इति वचनात्। वामा प्रज्ञा च तदुद्भवं जगत्सर्वं
स्कन्धादि। न ह्युपायमात्र्ण किञ्चिदर्थक्रियाकारित्रैलोक्यमित्यादिना बहिरपि तथेति
प्रतिपादयति॥ ६॥
वज्रसत्त्वस्तनवे स्थितः लतायां वैरोचनस्तथा।
[ एवमेव भवेत्तत्र ] गुरवे पद्यनर्तकः॥ ७॥
धारायां स्थितो वीरः सर्वसिद्धिप्रदायकः।
कनिष्ठायामाकास्गगर्भ तनुरव्ययः॥ ८॥
नखेषु च हयग्रीव[ स्तथा चैवोक्त ]मालयम्।
एते सर्ववीराणां वामसम्भवकारणम्॥ ९॥
हस्तपूजामाह - वज्रसत्त्व इति। वज्रसत्त्वस्तनवेऽङ्गुष्ठे भावनीयः लतायां
तर्ज्जन्यां वैरोचनः। गुरवे मध्याङ्गुलौ पद्यनर्त्तकः पद्यनर्त्तेश्वरः। धारायामनामिकायां,
वीरः श्रीहेरुकः। कनिष्ठायामाकाशगर्भेति निर्विभक्तिकं स च तनुः सूक्ष्मः दुरव-
बोधरुपत्वात्। न व्येतीत्यव्ययः। आकाशगर्भो वज्रसुर्यः। सर्वाङ्गुलिनखेषु च हय-
ग्रीवः। चः समुच्चये। वामोद्भवत्वमेषामपीत्याह - आलयमिति। आत्मग्राहादिस्व-
भावो लीयते न दृश्यते यत्र विचाराद् वज्रसत्त्वादिदेवता जायते तदालयम्। एत इति।
षष्ठ्यर्थे प्रथमा। एषां सर्ववीराणां वामसंभवः करः कारनम्॥ ७-९॥
हस्ततले श्रीहेरुकवज्रवाराहीसमागमोत्सुकः।
पृष्ठे तु सर्वडाकिन्यो [ दर्शयेदात्मपञ्चकम् ]॥ १०॥
करन्यासं भवेदेतत् सर्वप्रियसमागमम्।
एवं विधिविधानेन पूजयेद्वीरमुत्तमम्॥ ११॥
पृथिवी लोचना ख्याता अब्धातुर्मामकी स्मृता।
तेजः पाण्डरा ख्याता वायुस्तारा प्रकीर्तिता॥ १२॥
हस्ततल इति हस्तमध्ये। श्रीहेरुकवज्रवाराहीति। श्रीहेरुकसमापन्ना वज्रवारा-
हीत्यर्थः। अतः समागमोत्सुकः। पृष्ठे तु सर्वडाकिन्य इति। पार्श्वादिषु सर्वा डाकि-
न्यः। तुशब्दस्य पृष्ठोपलक्षणत्वाभिधायकत्वात्। एतदुक्तम् - करमध्ये साष्टदलं पद्यं
तस्य किञ्जल्के श्रीहेरुकसमापन्ना वज्रवाराही। पूर्वदले डाकिनी। उत्तरे लामा।
पश्चिमे खण्डरोहा। दक्षिणे रुपिणी। ऐशाने यामिनी। आग्नेये मोहनी। नैरृते
सञ्चाल(रि)णी। वायव्ये त्रासनीति विभाव्यम्। करन्यासं भवेदेतत्सर्वप्रियसमागम-
मिति। करे देवतान्यासो यत्र विधिविधाने तत्करन्यासम्। सर्वाणि प्रियाणि समा-
गच्छन्त्यनेनेति तत्तथा। एवमनेन क्रमेण वीरं पूजयेत्। डाकिन्यादीनां संज्ञानान्तर-
माह- पृथिवीत्यादि॥ १०-१२॥
चुम्बिका शून्ये तु [एवं] पारमितास्तथा।
मध्ये तु सववीरालयं पृष्ठे तु विसर्जयेद् बुधः॥ १३॥
चुम्बिकेति वज्रवाराह्या अपरं नाम। सैव शून्ये शून्यतायाम्। शून्यताविशुद्ध्ये-
त्यर्थः। अतः पारमिता इति। या दानशीलक्षान्तिवीर्यध्यानपारमिताडाकिन्यादयो वज्र-
वाराह्यन्ताः क्रमेण ज्ञेयाः। तथाशब्दः प्रज्ञापारमिता पञ्चभिः पारमिताभिः सङ्गच्छत
इति सूत्र(च)यति। मध्ये तु सर्ववीरालयमिति। मध्ये सर्ववीराणां वज्रपदादीना-
मालयं क्रीडनं पश्येदिति ज्ञेयम्। सर्ववीरक्रीडास्थानविशुद्ध्या करमध्यमिति भावः।
पृष्ठे तस्य विसर्जयेद् बुध इति। करपृष्ठे वा सर्वदेवता दर्पणप्रतिबिम्बे तत्पश्येदित्यर्थः।
तेन करस्योपरि पृष्ठे च भावयेदिति विशेषार्थं तुशब्देन दर्शयति। अतो य एव द्रष्टा स
बुधः॥ १३॥
अप्रकाश्यमिदं गुह्यं गोपनीयं प्रयत्नतः।
एवं छोम्मयेद् वीरं एकमेव चरुमारभेत्।
सर्ववीरसमायोगडाकिनीजालसंवरम्॥ १४॥
इति श्रीहेरुकाभिधाने भक्ष्यहोमबलिक्रियाहस्तछोमा-
विधिपटल एकत्रिंशतिमः॥ ३१॥
" छोम्मकान् दर्शयेत् पञ्च " इति। पञ्चामृतमपि छोम्मकाभिधानमिति
ज्ञेयम्। ततश्च करन्यासविषयम्। तत्रैव पञ्चामृतम्। वुँ आँ ज्रीँ खँ हूँ बीजोत्पन्नं
वैरोचनाद्यात्मकं त्र्यक्षराधिष्ठितं सम्पाद्य प्रचण्डादीनाम्। ॐ प्रचण्डे हूँ हूँ फट्
फडिति। ॐ खण्डकपालिन् हूँ हूँ फट् फडिति सर्वनामग्रहणपूर्वकमनामाङ्गुष्ठ-
वक्त्राभ्यां चतुर्विंशतिवारांस्तर्पणानि दत्त्वा जिह्वायामेकं दद्यादिति पञ्चामृतोपभोग
इत्यर्थान्तरं ज्ञेयम्। ततः पूजा स्यात्। छोम्मकमपि करन्यासपूर्वकं दद्यादिति च ज्ञेयम्।
कपालादौ च तथैव पञ्चामृतं करन्यासपूर्वकमास्वादयेदिति बोद्धव्यं तन्त्रस्यार्थ-
बहुलत्वादेव। छोम्मयेद्वीरमिति पूजयेदित्यर्थः। तत्रैकस्मिन् भवेदिति। अनेन पञ्चा-
मृतादिविधिना चरुकमभक्षमेकपात्रगतं भुञ्जीतेत्यर्थः। चरुभोगफलमाह- सर्ववीर-
समायोगडाकिनीजालसंवरमिति। हेरुकत्वं भवतीत्यर्थः॥ १४॥
भक्ष्यहोमबलिक्रिया अन्यछोम्मका विधीयन्ते येनासौ पटलश्चेति स तथा।
एकत्रिंशतिम एकत्रिंशत्तमः।
इति श्रीचक्रसंवरविवृतावेकत्रिंशत्तमः पटलः॥ ३१॥

तिर्यक्पशुवेतालसाधनोत्पत्तिक्रमविधिपटलो द्वात्रिंशतिमः
अतः परं समाख्यातं भक्ष्यभोजनमेलकम्।
येन सम्यग्विधानेन आशु सिद्धिः प्रवर्तते॥ १॥
इदानीं पूजादिसाधनपदार्थपटलमाह - अतः परमित्यादि। अतः पूजादिकथ-
नात्परं समाख्यातं नियतं समाख्यास्यमानत्वात्। किं तदित्याह- भक्ष्यभोजनमेलक-
मिति। भक्ष्याणां पश्वादीनां भोजनं भोगो मिलति येन तत्तथा, मन्त्रसामर्थ्यम्। येन
भक्ष्यभोजनमेलकेन सम्यक् शोभनं विधानं देवतायोगादि यत्र भक्ष्यभोजनमेलकेन
तत्तथा। सिद्धिर्महामुद्रासिद्धिः। आशु इहैव जन्मनि॥ १॥
पशूनां कर्षणं चैव पूर्वोक्तक्रमसाधकः।
पशवश्च तथा पञ्च खरमानुषकूर्मोष्ट्रश्रृगालहयादिभिः॥ २॥
पूजादिद्रव्यमाह - पशूनामित्यादि। कर्षणं सामान्यतः सिद्धानां पशूनां मध्ये
श्रेष्ठतया निष्कर्षणं पृथक्करणम्। चैवेति। यतः पशवः श्रेष्ठा एव ग्राह्या इत्यर्थः।
तत्साधकश्च कीदृगित्याह - पूर्वोक्तेन क्रमेण देवतायोगेन पशुभिः पूजां साधयतीति
स तथोक्तः पूर्वोक्तक्रमसाधकः। के ते कर्षणीयाः पशव इत्याह - पशव इत्यादि।
चोऽपिशब्दर्थः। तथेति यथा पशवस्तथा प्रतिपाद्यन्त इत्यर्थः। खरो गर्दभः। मानुषः
प्रसिद्धः। वनमानुष इति केचित्। कूर्मः कच्छपः। उष्ट्रो दीर्घकन्धरः। श्रृगालः
प्रसिद्धः। खरमानुषकूर्मोष्ट्र श्रृगालेति प्रथमाबहुवचनलोपे सति पञ्च तावदेते श्रेष्ठाः।
हयादिभिरिति सहार्थे तृतीया। आदिशब्दात् श्वा गौश्च॥ २॥
एते पशुप्रसिद्ध्यङ्गा सिद्धिसाधन मेव च।
वर्णानां ब्राह्मणः पशुश्चतुष्पदानां हस्तिरुच्यते॥ ३॥
एते पशुप्रसिद्ध्यङ्गा इति। प्रकृष्टा सिद्धिरेवाङ्गं स्वरुपं येषां ते तथा। सामान्य-
सिद्धिरपि तेभ्य आप्यत इत्याह - सिद्धिसाधनमेव चेति। आकर्षणवेताडादिसिद्धि-
रपि साधननिष्पत्तिः। एव नियमार्थः। चः सिद्धिसमुच्चये। पुनः पशुकर्षणमाह-
वर्णानामित्यादि। वृण्वन्ति सिद्धिमिति वर्णा मनुष्याः। मनुष्याणां मध्ये वर्णतो वर्णे-
भ्यो ब्राह्मणः पशुः। चतूष्पदानां खरादीनां हस्ती। अत आह - चतुष्पदानां हस्ति-
रुच्यत इति। इकारान्तोऽपि हस्तिशब्दोऽस्ति॥ ३॥
पक्षिणां हंस एव च तिर्यगाणां कच्छप निर्जितः।
देवानां मुखचालनं [ नानारुपेण कथ्यते ]॥ ४॥
पक्षिणां हंस एव चेति। कर्षणप्रस्तावायातं पक्षिकर्षणमप्याह - काकादीनां
मध्ये हंस एव श्रेष्थ इत्यर्थः। स च राजहंस इति चकारात्। तिर्यगाणां कच्छपनिर्जित
इति। जलजानां तिरश्चां कच्छपनिर्जितः। कच्छपः श्रेष्ठः स च निरंकुरिति यस्य
प्रसिद्धिः। देवानां मुखचालनमिति। छागलो महिषः कुक्कुटाश्चेति मुखं चालयतीति
मुखचालनं छागलादयः। केषां मुखचालनमित्याह - दीव्यन्ति नानारुपेणेति देवा
दानवादयः॥ ४॥
एते पशुसमाख्याताः सिद्धिसाधनमण्डलम्।
काकवकजम्बुकद्विजमहामन्त्रिक्रौञ्चसारसकादम्बकाः॥ ५॥
एते पशुसमाख्याताः सिद्धिसाधनमण्डलमिति। एते पशवः पक्षी चायं समै-
र्बुद्धैराख्याताः। सिद्धिसाधनं चैतन्मण्डलं चेति तत्तथा। तत्र पूजार्थं पक्षिकर्षणमाह-
काकेत्यादि। जम्बुकः पुण्डरीति यस्य प्रसिद्धिः। द्विजमहामन्त्री शुकः। क्रौञ्चो रव-
विशेषः। काकवकजम्बुकद्विजमहामन्त्रिक्रौञ्चसारसकादम्बकाः श्रेष्ठा इत्याकूतम्।
एषामपि श्रेष्ठो हंस इति प्रागुक्तम्। तत्र यदि हंसशब्देन क्षत्रियो योगविशेषो वा
कैश्चिदिष्यते तदा नेयं व्याख्या॥ ५॥
भक्ष्यहोमबलिक्रियासिद्धिर्भवति कामिनी।
कृष्णशुनीपयसा कृष्णमाषतण्डुलान्वितम्॥ ६॥
शववक्त्रे तु मन्त्रेण जुहुयादविशङ्कितः।
शतमष्टोत्तरं यावत् होतव्यं साधकोत्तमैः॥ ७॥
एभिः किमित्याह - भक्ष्यहोमबलिक्रियेति। भक्षणं भक्ष्यम्। अनया किमि-
त्याह - सिद्धिर्भवतिकामिनीति। काकादिभिः कादम्बकान्तैर्भक्ष्यहोमबलिक्रिया
तस्याः सिद्धिः। काकवकजम्बुकद्विजमहामन्त्रिक्रौञ्चसारसकादम्बकभक्ष्यहोमबलि-
क्रियासिद्धिरिति समग्रं पदम्। महाप्रेतसाधनमाह - कृष्णेत्यादि। सुम्भमन्त्रेण मूल-
मन्त्रेण च पूर्वसेवां कुर्वत्(न्) लब्धनिमित्तोऽक्षतमपूतिकं शवमादाय श्मशानेऽर्धरात्रे
कृष्णशुनीदुग्धम्रक्षितैः साखण्डतण्डुलैः कृष्णैर्माषैः तस्य वक्त्रे तेनैव मन्त्रेण होमं
कुर्यात्। एतदेवाह - कृष्णेत्यादि। कृष्णशुनीपयः होतव्यं साधकोत्तमैरिति॥ ६-७॥
तत उत्तिष्ठते प्रेतः किङ्करोऽहमिति चाब्रवीत्।
पातालोत्तिष्ठखड्गं च ग्रहनिग्रहमेव च॥ ८॥
उत्तमत्वेन कृतपूर्वसेवत्वं दर्शयति - पातालेति पातालसिद्धिः। बिले प्रवेश-
सिद्धिरिति यावत्। उत्तिष्ठेत्यन्तरीक्षगमनम्। खड्गं चेति खड्गसिद्धिः। वाशब्दा-
च्चक्रादिसिद्धिः। ग्रहेत्यवग्रहम्। निग्रहमिति दुष्टमर्दनम्॥ ८॥
गुलिकाञ्जननिधानं वा पादलेपो रसायनम्।
दत्त्वा चैकां [ तथा सिद्धिं ततो ] गच्छति नान्यथा॥ ९॥
गुलिकाञ्जननिधानं वा पादलेपो रसायनमिति। वा समुच्चये। अन्यत्सुबोधम्।
आसां सिद्धीनामेकां काञ्चित्सिद्धिं दत्त्वा गच्छति नान्यथा नियतत्वात्॥ ९॥
अधोर्ध्वदूतयः सिद्धा अस्मिंस्तन्त्रे न संशयः।
गोष्ठोपलिकाश्चैव शेषाः शुष्कशिरास्ततः॥ १०॥
अधोर्ध्वदूतयः सिद्धा अस्मिंस्तन्त्रे न संशयः इति। अधोयोगिन्यः पृथ्वीगताः।
ऊर्ध्वयोगिन्योऽन्तरीक्षगताः। ततः सिद्धेः स्युरिति भावः। गोष्ठोपलिकाश्चै-
वेति। गोष्ठशुष्कगोमयाः। शेषाः शुष्कशिरास्तत इति। शेषाः कपर्द्दकाः। शुष्कशिरा
रिष्ठकाः। तत इति तदर्थमक्षसूत्रम्॥ १०॥
महा शङ्खमयं कुर्याद् अभेद्यं कच्छपस्य तु।
[ एतच्चैवाक्षसूत्रं ] तु सिद्धिं यच्छत्यनुत्तमाम्॥ ११॥
कच्छपेति कच्छपस्यास्थ्नाऽक्षसूत्रं कार्यम्। वेताडसाधने नियतमेतत्। शान्ति-
पुष्टिवश्यानामभिचारस्य पुत्रञ्जीवस्य सर्वकर्मिकेति चतुष्पीठोक्तकर्मान्तरेषु गुलिका
द्रष्टव्या॥ ११॥
चतुर्भुजं चतुर्वक्त्रं यावल्लभक्षभुजं तथा।
सितदेहं [ महोग्रं च ] भैरवाकर[ मेव च। ]॥ १२॥
निरीक्षयन् तु वज्रवाराहीं तद्वर्णायुधधरारिणीम्।
कपालमालिनं वीरं भस्मगात्रावलेपनम्॥ १३॥
चतुर्भुजमित्यादि। वेताडसाधने वज्रशूलकपालखड्ग(खट्वाङ्ग) धारिचतुर्भुजं
भावयेदिति सम्बन्धः। शुक्लश्यामरक्तपीतपूर्वोत्तरादिचतुर्मुखो भगवान्। यावल्लक्ष-
भुजमिति मुखे भुजे वा नियमो नास्तीति भावः। किञ्चोपदेशोऽपेक्षणीयः। अथवा
शुक्लचतुर्मुखत्वमेव। चिह्नान्युपदेशात्। अतोऽन्यत्राप्येवं ज्ञेयमुपदेशात्। तथेति।
उपदेशो यथेत्यर्थः। निरीक्षयन् तु वज्रवाराहीं तद्वर्णायुधधारिणीमिति। वज्रकपाला-
दिधारिणीम्। इतश्चतुर्मुखत्वमस्याः। भगवान् शुक्लो भगवत्यपि शुक्ला॥ १२-१३॥
मुद्रादि[ भूषित ]गात्रं तु जटामकुटाङ्कशूलिनम्।
ईष्द्दंष्ट्राकरालास्यं महाप्रेतकृ[ तासनम् ]॥ १४॥
ततो ज्ञात्वा विधिवद्योगी भावयेत् सर्वदेवताम्।
सदा कालं तु साधकः।
एवंगुणविशिष्टानां सिद्धिर्भवति कामिनी॥ १५॥
इति श्रीहेरुकाभिधाने तिर्यक्पशुवेतालसाधनोत्पत्ति-
क्रमविधिपटलो द्वात्रिंशतिमः॥ ३२॥
इमं भावनाक्रमं ज्ञात्वा सर्वदेवताः षट्त्रिंशत्संख्या इत्यर्थः। सदाकालं संख्या-
त्रयं भावयेत्। लक्षभुजमुखादित्वे दक्षिणेषु सर्वेषु वज्रं वामेषु शूलं तथा। खट्वाङ्गं
कपालं वा। सर्वाणि मुखानि शुक्लानि। अन्यत् सर्वं साधनक्रमेण ज्ञेयम्॥ १४-१५॥
तिर्यञ्चाः पक्षिणः। पशवः खरादयः। वेतालः प्रेतः। एषां साधनोत्पत्तिक्रमो
विधीयते येन स चासौ पटलश्चेति द्वात्रिंशतिमो द्वात्रिंशत्तमः।
इति श्रीचक्रसंवरविवृतौ द्वात्रिंशतिमः पटलः॥ ३२॥
गुह्यपूजासत्कारविधिपटलस्त्रयस्त्रिंशतिमः
अतः परं नास्ति सर्वः सर्वयोगेषु साधकः।
भक्ष्यभोज्यमत्स्यमांसादिभिः कर्तव्यो यथाशक्तितः॥ १॥
इदानीं सत्कारपूर्वकं पूजाद्यनुष्ठेयमिति दर्शयन्नाह - अत इत्यादि। ततः पूजा-
द्यनुष्ठातुः परमपरं यथा भवति तथा - तथा साधक इति सम्बन्धः। सर्वेषां साध्यानां
योगाः प्राप्तयस्तेषु। निमित्तसप्तमीयम्। सत्कारं प्रतिपादयन्नाह - भक्ष्येत्यादि। भक्ष्यं
गोकुदहनादि। भोज्यं दधिघृतखण्डलड्डुकादि। बहुभक्ष्यत्वात् भोज्यं दध्याद्येव।
मत्स्या रोहितादयः। मांसानि छागलादीनि। आदिशब्दादन्येऽपि यथालाभं भक्ष्यादि-
विशेषाः। एभिः कर्तव्यः करिष्यते साधकः पूजामिति ज्ञेयं प्रकृतत्वात्। एवं पूजां
करिष्यन्नसाधारणः साधक इति भावः। यथाशक्तित इति। यादृशी शक्तिर्भवति सा
तत्र व्यापारयितव्येति भावः। एवं शक्त्यानतिक्रमः॥ १॥
अविद्यमानेऽपि कर्तव्यं पञ्चखाद्यादियत्नतः।
रात्रौ तु सदा कुर्यात् भक्ष्यभोजनविस्तरम्॥ २॥
पञ्चामृतोत्पादनसामर्थ्ये तु अविद्यमाने पञ्चखाद्यादि पञ्चामृतं भावनयापि कर्तव्यं
सेवितव्यम्। यत्नतो नियमात्। रात्रौ तु सदा कुर्यादिति। दिवा तावद् भक्ष्यादि कुर्यात्
सेवयेत्। रात्रौ नियमेन। तुशब्दस्य तदर्थत्वात्॥ २॥
दूती च ततो ऽद्यात् [ विशेषेण तु साधकः ]।
स्वाङ्गे शिरः कृत्वा वीराद्वयप्रपूजितम्॥ ३॥
दूती च ततोऽद्यादिति। अद्यत इति अत् (=अन्नं) भक्ष्यादि। अद्यात् भक्षयेत्।
स्वाङ्गे शिरः कृत्वेति। स्वहस्ते कपालमादाय ततो भक्ष्यानद्यात्। दूत्या सह पूजां
कुर्यादिति समुदायार्थः। वीराद्वयप्रपूजितमिति। समापत्तिपूजाऽपि वीरेण तया सह
साध्येत्यर्थः। स्वोत्सङ्गं इति क्वचित् पाठे। तत्र वीरेण स्वोत्सङ्गे कमलधर्मोदयं कृत्वा
वीराद्वयपूजितं साधयितव्यमिति व्याख्येयम्॥ ३॥
माता वा यदि वा भगिनी पुत्री वा बान्धवी भार्या वै।
एवं विधिविधानेन कुर्याद् बन्धबन्धनमुक्तकम्॥ ४॥
माता वा यदि वा भगिनी पुत्री वा बान्धवी भार्या वै इति पञ्च योगिन्यो
मात्रादिवत्स्निग्धत्वात्। आभिः सार्धं बद्धान्सुष्ठु मुक्तकं मोक्षं कुर्यात्॥ ४॥
ततः सिद्ध्यन्ते मन्त्रा यावदाहूतसंप्लवः।
आचार्यमूर्तिमा धाय पूजां गृह्णामि साधकः॥ ५॥
ततः सिध्यन्ति मन्त्रा इति देवताः। कियता कालेनेत्याह - यावदाहूतसंप्लव
इति। यावदाहूतानां क्लेशानां संप्लवोऽन्यथाभावः। तादृशो योगिनीसत्कारः कार्य
इत्याह - आचार्येत्यादि। आचार्ये तादृशीं निजां मूर्तिमाधाय पूजां गृह्णामि तत्
सिद्धिसाधकः सन्निति। भगवानाह - ' तादृशो ह्याचार्ये पूजिते वज्रधरः पूजितः
स्यात् ' , तत्पूजया सर्वतथागथाः पूजिता स्युरिति भावः॥ ५॥
वीराणामासनं चैव मुद्रामेव न संशयः।
गीतनृत्यादि कर्तव्यं साधकः सुसमाहितः॥ ६॥
यावद् भ्रमन्ति संसारे दुःखशोकपरिप्लुताः।
न भवन्ति च योगज्ञा तावत् सर्वेऽपि देहिनः॥ ७॥
पूजयेत्ततो मुद्रां सर्वभावेन साधकः।
पूजिताः पूज्यमिच्छन्ति निर्दहन्त्यपमानिताः॥ ८॥
वीराणामासनं स्थानं मुद्रां चिह्नं गृह्णामि। गीतं वज्रपदान्वितम्। नृत्यमालीढादि-
पदेन। एवञ्च साधकः सुसमाहितो देवतायोगात्मा। श्रीहेरुकयोगमाहात्म्यमाह -
यावदित्यादि। संसारे यावद् भ्रमन्ति तावच्छ्रीहेरुकयोगज्ञा न भव्नति। चकारस्य
तावदर्थत्वात्। न रताश्च तत्रैव के त इत्याह - यावत् सर्वेऽपि देहिन इति। यावन्तः
सर्व एव देहिन इत्यर्थः। मुद्रां देवतां पूजयेत्। तत्किमित्याह - पूजिता इत्यादि। पूज-
यतीति पूज्यः। पूजक इत्यर्थः॥ ६-८॥
आदिसिद्धा महामुद्रा योगतन्त्रेषु मानवः।
सुयत्नतः पूजनीयाः पश्चाद्वीर वीरत्वमाचरेत्॥ ९॥
आदिसिद्धा प्रकृतिसिद्धा महामुद्रा देवता। कथमेतादृशीं तां लोको न जाना-
तीत्याह - मानव इति। मानादिक्लेशान् वाति प्राप्नोतीतिमानवः। मानवत्वात् तदज्ञ
इत्यर्थः। तथा पूजनीया पूर्वविधिना सत्कार्येत्यर्थः। पश्चाद् वीरवीरत्वमाचरेदिति।
पूर्वं विकल्पं विहाय ततो वीरस्य चित्तस्य निर्विकल्पत्वमाचरेत्॥ ९॥
एवं पूजां ततः कृत्वा पातालोत्तिष्ठसाधकः।
शान्तिपुष्टिवश्याकर्षणमारणोचहाटनादिकम्॥ १०॥
जम्भनं स्तम्भनं चैव विद्वेषे निग्रहे तथा।
[ पूजयेद् कर्मसिद्धिं तु ] अक्लेशेन तु सिद्ध्यति॥ ११॥
सर्वकर्मेषु यत्किञ्चित् साधकस्य न संशयः॥ १२॥
इति श्रीहेरुकाभिधाने गुह्यपूजासत्कारविधि-
पटलस्त्रयस्त्रिंशत्तमं॥ ३३॥
एवं पूजा तावद् भवति। ततस्तया पातालादिसर्वसिद्धिसाधको भवति। शान्ती-
त्यादि। सुबोधम्॥ १०-१२॥
गुह्यपूजा भक्ष्यादिकृता सत्कारो गौरवं वन्दनादि। तौ विधीयते येनासौ पटल-
श्चेति स तथा। त्रयस्त्रिंशतिमस्त्रयस्त्रिंशत्तमः।
इति श्रीचक्रसंवरविवृतौ त्रयस्त्रिंशत्तमः पटलः॥ ३३॥
अद्वयदूतीहोमाकर्षणविधिपटलश्चतुस्त्रिंशतिमः
अथ डाकिन्यजालस्य चक्राख्यं विधिविस्तरम्।
यस्मिन् कर्मणि सा क्षिप्रं साधकस्य न संशयः॥ १॥
अथेति पूजासत्कारकथनानन्तरम्। डाकिन्यजालचक्राख्यविधिविस्तरं वक्ष्य
इति द्रष्टव्यम्। डाकिनीनां भावो डाकिन्यं तदेव जालवज्जालं क्लेशमकारादिबन्धनात्
तस्य चक्रम् मण्डलं तदाख्याति(यते) येनासौ , विधिविस्तरो भवति यत्र कर्मणि
तत्तथा। विधिविस्तरो डाकिनीन्यासादिः। किं तदित्याह - यस्मिन्नित्यादि। सेति
खण्डरोहा। सिद्ध्यतीति ज्ञेयम्॥ १॥
सर्ववीरडाकिन्यः पुष्करेषु नियोजयेत्।
निक्षिपेत भ्रुवोर्मध्ये अवधूतीपदं तथा॥ २॥
वीरोच्छुष्ममुखेनाग्नौ नान्यं जुहुयात्ततः।
गोमांसरुधिरेणाशु पञ्चाहुतय[ स्तथा ]॥ ३॥
सर्ववीरस्य मण्डलस्य पुष्करेषु चतुर्विंशत्सु चतुर्विंशतिवीरान्विता डाकिन्यो
न्यसितव्याः। अत आह - नियोजयेदिति। ता नियोजयेदिति। नियोजिता इति पाठे-
ऽप्येवमेव। पुष्करशब्दोऽत्र पत्राभिधायी। अतो बहुवचनम्। निक्षिपेत भ्रुवोर्मध्येऽ -
वधूतीपदं तथा इति [ वीरादिसर्वदेवानां तृतीयं नेत्रमनेन सूचितम्। यस्माद्
भ्रुवोर्मध्ये नासानुरुपे ललाटे। पापनाशकत्वात् अवधूती चित्तमात्रम्। तत्पदं तस्य
चिह्नं तृतीयं नेत्रम्। ललाटमपि वीरस्थानम्। अनेन देवतान्यासं दर्शितम्। एवंभूता
योगिन्यः जुहुयात्। वीरोच्छुष्ममुखेनान्गनौ नान्यं जुहुयात्ततः इति। ] वीरोच्छुष्मं मुखं
क्रोधाविष्टं मुखम् , तेन लक्षितः सन् जुहुयात्। नान्यं पदार्थं गोमांसमेवेति भावः।
गवित्यादि सुबोधम्। प्रथमं पञ्चाहुतयो देयाः॥ २-३॥
ततो नवाहुतीर्दद्यात् ज्वलिते च हुताशने।
ज्वालामालार्णवं पश्येच्च्करं [ वै ] सर्वतोमुखम्॥ ४॥
चतुर्वक्त्रं तु वीरेशं वीरवीरालयं तथा।
दले दूत्यश्च चत्वारि चक्रवीराद्वयं सुखम्॥ ५॥
ततो नवाहितीर्दद्याज्ज्वलिते च हुताशन इति सुबोधम्। अग्निमुखे हुत्वा ततो
देवतामुखे जुहुत्यादित्याह - ज्वालेत्यादि। कुण्डमध्ये चक्रं पश्येत्। सर्वतोमुखम्।
चतुर्द्वारत्वाच्चतुर्मुखं श्रीहेरुकम्। वीरैर्लक्षितं वीरलयं चक्रम्। वीरान्वितयोगिनीयुक्तं
पश्येदितिभावः। दले दूत्यश्च चत्वारीति। दल इति जातिक्रमेण। पूर्वादिदलेषु
चतस्त्रो डाकिन्यः। " डाकिनी च तथा लामा खण्डरोहा च र्पिणी " इति। चक्र -
वीरेति त्रिचक्रगता वीराद्वयसत्सुखानुभवेन स्थिता इति भावः। त्रिचक्रगताभिर्योगिनी-
भिरद्वयवीरसआपन्नाभिरस्तीति तत्तथाऽद्वयसुखमिति योज्यम्॥ ४-५॥
[ यथा विध्याकारेण ] खण्डरोहां बाह्यतो दद्यात्।
स्वरुपैर्विनिविष्टां तु चक्रमध्ये तु दर्शयेत्॥ ६॥
खन्डरोहां बाह्यतो दद्यादिति। पृष्ठदलस्थां खण्डरोहा कुर्यात्। स्वरुपैर्वि-
निविष्टां तु चक्रमध्ये तु दर्शयेदिति। एकस्तुशब्द्सो विशेषार्थः , द्वितीय एवार्थः।
स्वरुपैः कर्मानुरुपैः शान्तिकादौ शुज्लादिरुपर्दर्शयेद् भावयेत्। खण्डरोहां बाह्यतो
दद्यादिति यदुक्तं न्यासविधौ तत्तस्याः सर्वेषु कर्मसु प्राधान्यसूचनाय। आकर्षणादौ तां
प्रयोजयेदिति ज्ञेयम्॥ ६॥
एष ते चक्रनिर्दिष्टं सर्वसिद्धिप्रदायकम्।
चक्रोद्भासं तथा कुर्याद् यथाकर्मानुरुपतः॥ ७॥
एष ते चक्रनिर्दिष्टं सर्वसिद्धिप्रदायकमिति। चक्रे निर्दिष्टं देवतासन्दोहम् सर्व-
सिद्धिप्रदायकमेष ते मृगयते साधकः। कर्मानुरुपत इति ज्ञेयमेतदुक्तं कर्मानुरुपवर्ण-
वद्भाविताया देवतायाः मुखे पूर्णाहुतीर्दद्यादिति। न च होमाधिकरण एव कर्मानु-
रुपवर्णता किन्त्वन्यत्रापि। सर्वसिद्धिप्रसाधक इति पाठे साधको विशिष्यते॥ ७॥
विद्यार्णवे यथा वीर समासात्परिभाषितम्।
दूत्याद्वययोगेन सिद्ध्यन्ते नात्र संशयः॥ ८॥
इति श्रीहेरुकाभिधाने अद्वय दूत्यहोमाकर्षणविधि-
पटलश्चतुस्त्रिंशतिमः॥ ३४॥
कथं चक्रनिर्दिष्टो देवतासन्दोह इत्याह - विद्यार्णव इत्यादि। वीरेति वीरेण
वज्रधरेण दूत्या समापन्नो जुहुयादित्यर्थः॥ ८॥
अद्वयदूत्युपलक्षितो होमस्तेनाकर्षणं तद्विधीयते येन स तथा पटलः। चतुस्त्रिं-
शतिमश्चतुस्त्रिंशत्तमः।
इति श्रीचक्रसंवरविवृतौ चतुस्त्रिंशत्तमः पटलः॥ ३४॥
अद्वयकर्मकालमृत्युवञ्चनविधिपटलः पञ्चत्रिंशतिमः
अथ कर्मवरं श्रेष्ठं यथानुक्रम लक्षितम्।
पूजाऽद्वययोगात्मा प्रतिकर्मसुयोजिता॥ १॥
अथेति देवतान्यासकथनान्तरम्। कर्मवरं भवतीति ज्ञेयम् , तच्च शान्तिकादि-
विधौ मन्त्रजापलक्षणं श्रेष्ठमभिमतार्थकारित्वात्। यथा[ नु ]क्रमलक्षितमिति। यथा-
क्रमेण क्रूरकर्मादिक्रमेण लक्षितं प्रतीतम्। कथं जपितव्यो मन्त्र इत्याह - पूजा
कार्या, किंभूताऽद्वयोऽभेदो योगः समापत्तिर्वज्रवाराह्यालिङ्गनमसौ आत्मा स्वरुपं
यस्याः सा तथा पूजा प्रतिकर्मसुयोजिता॥ १॥
ये प्रसिद्धिकरा मन्त्रा भेदास्तेषां यथाक्रमम्।
वर्णदूत्यादि तन्मन्त्रं शरवेग परिभ्रमेत्॥ २॥
ये प्रसिद्धिकरा मन्त्रा भेदास्तेषां यथाक्रममिति। प्रतिपत्तिसिद्धिं कर्तुं शीलं येषां
ते तथा मूलमन्त्रादयः। प्रतिपत्तिशान्तिकादिकर्मसु योजितास्ते भेदाद् द्रष्टव्याः।
क्रमानतिक्रमात् भेदमाह - वर्णेत्यादि। दूत्य आदिभूता येषां वीराणां ते दूत्यादयो
वर्ण्यन्त इव वर्णाः खण्डकपाल्यादयः। वर्णा दूत्यादयश्च यत्र स तथा तन्मन्त्रस्तस्य
श्रीहेरुकस्याष्टपदादिमन्त्रः। स तन्मन्त्रस्तं जपेदिति ज्ञेयम्। कथमित्याह - शरवेग
परिभ्रमेदिति। शरवेगेति तृतीयालोपे। शरवेगेन परितो भ्रमेत्तन्मन्त्रः॥ २॥
अन्योन्यघटिता मन्त्राः प्रवेशेन तु भेदिताः।
बीजमालां ततो ग्रस्तां हूँकारान्तः प्रतिष्ठिताम्॥ ३॥
तदेवाह- अन्योन्येत्यादि। तुर्विशेषे। शान्तिकविधौ तु शिथिलं करमध्य-
वल्यमानरज्जुवदन्योन्यस्थाने घटितानि पुनः पुनर्गतान्यक्षराणि येषां तेऽन्योन्यघटिता
मन्त्रा इति संक्षेपार्थः। प्रवेशेन तु भेदिता इति। स्वमुखादन्तः प्रविष्टाः पुनर्वज्रमार्गे-
णोत्सृष्टाः पद्यमार्गेण देवीहृदयप्रविष्टास्ततस्तन्मुखगतास्ततोऽपि स्वमुखप्रविष्टा इति
प्रवेशभेदस्यार्थः। क्रूरविधौ स्वमुखाद्देवीमुखं प्रविशन्तस्ततोऽपि पद्यमार्गेण निर्गत्य
वज्रं प्रविशन्तस्ततः स्वमुखमासाद्य देवीमुखमिति क्रमः। एवं विधि पूरयन्नाह-
बीजमालां ततो ग्रस्तामिति। निविडं परस्पर लग्नाक्षरां मन्त्रमालां भावयेदिति
ज्ञेयम्। हूँकारन्तःप्रतिष्ठितामिति। हूँकारयोरन्तःप्रतिष्ठितः साध्यो यस्यां सा तथा। हूँ
देवदत्तं मारय हूँ इति जप्यमन्त्रावसाने। हूँ हूँ फट् फट्कारपूर्वस्थानविदर्भणम्॥ ३॥
निरोधात्तु भवेत्साध्यः पदमेकं न गच्छति।
सम्पुटं सम्पुटीभावेन वज्रश्रृङ्खलबन्धेन॥ ४॥
वज्रेण भेदयेच्चैव पिच्छकं भ्रामयेत् ततः।
आकर्षयेदङ्कुशेनेव क्षोभणे मुषलं तथा॥ ५॥
अत आह - निरोधात्तु भवेत्साध्यः पदमेकं न गच्छतीति। तुरवधारणे। हूँका-
राभ्यां निरोधात्। संपुटं संपुटीभावेनेति। शान्तिकविधौ। ॐ देवदत्ताय स्वाहा ॐ।
इति पूर्ववद्विदर्भणं संपुटीविदर्भणं संपुटीभावः। पूर्वोपरयोः ॐकाराभ्यां निरोधः।
वज्रेत्यादि। हूँकारान्तःप्रतिष्ठितामित्यस्य निर्देश उक्तः। क्रूरविधौ वज्रेण हूँकार-
संज्ञकेन भेदयेत्। पूर्वापरयोः साध्यस्य हूँकारादानं भेदनम्। किंभूतेनेत्याह - वज्रश्रृङ्ख-
लबन्धेनेति। वज्रश्रृङ्खला बद्धा यस्य तत्तथा। वज्रं पिच्छकवद् भ्रामयेत् तत इति।
भ्रामयेन्मन्त्रमिति ज्ञेयम्। प्रज्ञोपायर्मुखादिषु मन्त्रेण प्रवेशनिर्गमयोः शीघ्रत्वं दर्शि-
तम्। क्रूरविधौ कृष्णा वज्रहस्ता खण्डरोहा, शान्तौ शुक्ला वाम[ हस्त ]खट्वाङ्गा।
आकर्षयेदङ्कुशेनेवेति। यदा आकर्षणं तदा जः देवदत्तमाकर्षय जः। इति विदर्भणं
पूर्ववत्। अङ्कुशशब्देन जःकारः। मूलमन्त्रं जपन् मन्त्रप्रभासतयाऽङ्कु शहस्तया
रक्तया खण्डरोहया साध्यं हृदि विद्ध्वाऽऽकर्षति। क्षोभणे मुषलं तथेति। सैन्यादि-
क्षोभणे हूँ देवदत्तादीन् क्षोभय हूँ इति विदर्भणम्। खण्डरोहा च स्ववर्णयुक्ता
मुषलहस्तेति तथाशब्दार्थः॥ ४-५॥
अशने वज्रमेवोक्तं वेधने शरयोजितम्।
कालमृत्युवञ्चनं चैव अङ्गे खट्वाङ्गयोजितम्॥ ६॥
कपालार्घपात्रं तु वक्त्रे अस्त्रनियोजितम्॥ ७॥
इति श्रीहेरुकाभिधाने अद्वयकर्मकालमृत्युवञ्चन-
विधिपटलः पञ्चत्रिंशतिमः॥ ३५॥
अशने भक्षणे वज्रमेव खण्डरोहा स्वरुपधारिणी। फट् देवदत्तं भक्षय फडिति
विदर्भणम्। वेधने वेधे शरहस्ता खण्डरोहा फट् देवदत्तं वेधय फडिति विदर्भणम्।
कालमृत्युवञ्चनं चैव अङ्गे खट्वाङ्गयोजितमिति। कालमृत्युवञ्जने वामे खट्वाङ्ग-
धारिणी खण्डरोहा। हूँकारः शुक्लः स्त्रवदमृतधारासहस्त्रः। हूँ देवदत्तं जीवय हूँ इति
विदर्भणम्। सर्वत्र कर्मसु मन्त्रप्रभासं यातायाः खण्डरोहाया वक्त्रे कपालेनार्घो देय
इत्याह - कपालार्घपात्रं तु वक्त्र इति। तु-शब्दार्थः। अस्त्रनियोजितमिति। अर्घदाना-
नन्तरं अङ्कुशाद्यस्त्रनियोजनं साध्यास्याङ्गे कुर्वतीं खण्डरोहां भावयेदिति भाव॥ ६-७॥
अद्वयकर्मेति समापत्त्या शान्तिकादिकर्मकालमृत्युवञ्चनं च विधीयते येनासौ
पटलश्चेति स तथा। पञ्चत्रिंशतिमः पञ्चत्रिंशत्तमः।
इति श्रीचक्रसंवरविवृतौ पञ्चत्रिंशत्तमः पटलः॥ ३५॥
तत्त्वपूजाकर्षणविधिपटलः षट्त्रिंशतिमः
अथ मुद्रा महापूजा मन्त्रन्यासप्रकीर्तिता।
आशुसिद्धिकरा ह्येते मुद्रा पूजा न संशयः॥ १॥
अथेत्यद्वयकर्मानन्तरम्। मुद्रा बहिर्मुद्रायाः पूजा भवति। कीदृशीत्याह - मन्त्रस्य
त्र्यक्षरस्य न्यासेन प्रकीर्तिता मन्त्रन्यासप्रकीर्तिता मुद्रा, तत्पूजा। मन्त्रश्च त्र्यक्षरः।
आशुसिद्धिकरा ह्येते। हिर्यस्मात्॥ १॥
मन्त्रं संयोज्य द्वौ लिङ्गे डाकिन्य वीरमद्वयम्।
डाकिनीनां योजनं मन्त्री हृदयाभिस्तथैव च॥ २॥
योगिनीं मन्थयेद्धीमान् शुद्धकायो यथेप्सितम्।
वीरपूजाऽद्वयं ज्ञात्वा कर्म कुर्वीत यत्नतः॥ ३॥
मन्त्रसंयोगमाह - मन्त्रेत्यादि। मन्त्रेति मन्त्रं त्र्यक्षरं संयोज्य मन्थयेद् योगिनीमिति
सम्बन्धः। द्वौ लिङ्ग इति। द्वयोः प्रज्ञोपाययोर्लिङ्गम्। एतदेवाह - डाकिन्य वीरम-
द्वयमिति। डाकिन्येव डाकिन्यं वीरश्च विद्यते यस्य तदद्वयं तस्य लिङ्ग इति भावः।
हूँकारेण वज्रं पद्यं च प्रणवेन वज्रमणिमाः कारेण पद्यकिञ्जल्कं निष्पाद्य कायादौ
त्र्यक्षरं विन्यस्य योगिनीर्मथ्नीयात्। शुद्धकायो यथेप्सितमिति। इत्थं शुद्धकायः।
अद्वयसमापत्तिपूजा प्रोक्ता। वीरपूजा मत्स्यमांसादिकृता, इति अद्वयं ज्ञात्वा कृत्वा।
कर्म शान्तिकादिकं कुर्वीत यत्नतः समाधानतः॥ २-३॥
विभज्य स्वेच्छया मन्त्री विपरीतां तु योजयेत्।
निग्रहानुग्रहार्थेषु कर्मभावं प्रभावयेत्॥ ४॥
विभज्य पृथक् पृथक् कृत्वा शान्तिकादीनि कर्माणि विपरीतानि परस्परतो
भिन्नानि योजयेत्। साध्येन तमेवार्थमाह - निग्रहेत्यादि। निग्रहानुग्रहाश्चार्थाः प्रयोज-
नानि तेष्विति निमित्तसप्तमी॥ ४॥
भेदिता तत्त्वभेदेन नाडिमार्गेषु योजिताः।
प्रसाधयेत् प्रयोगार्थं [ बाह्याभ्यन्तरं तथा ]॥ ५॥
अनेन साधयेत् क्षिप्रं सदेवासुरमानुषान्॥ ६॥
इति श्रीहेरुकाभिधाने तत्त्वपूजा कर्षणविधि-
पटलः षट्त्रिंशतिमः॥ ३६॥
अन्योन्यघटिता इत्याद्युद्दिष्टस्य निर्देशमाह - भेदिता इत्यादि। नाडीमार्गेषु पद्य-
मार्गेषु पूर्वोक्तानि क्रमेण योजिता मन्त्राः। तेषां प्रकृत्वात्। तत्त्वभेदेन कर्मप्रसरभेदेन।
प्रसाधयेत् प्रयोगार्थमिति उदाहरणार्थं शान्तिकादि प्रसाधयेत्। अनेन सिद्धिर्नान्यत्र
सिद्धारम्भः सर्वं साधयेत्॥ ५-६॥
तत्त्वानां कर्मप्रसारणां सिद्ध्यर्थं पूजा तस्याः कर्षणं निश्चयः, तद् विधीयते
येनासौ पटलश्चेति स तथा। षट्त्रिंशतिमः षट्त्रिंशत्तमः पटलः।
इति श्रीचक्रसंवरविवृतौ षट्त्रिंशत्तमः पटलः॥ ३६॥
अध्यात्मवश्याधिकारविधिपटलः सप्तत्रिंशतिमः
अथान्यतमं प्रवक्ष्यामि विग्रहाक्रान्तसाधनम्।
अन्योन्यवलिता मन्त्रा डाकिन्यश्चैकत्र योजिताः॥ १॥
इदानीमथेत्यादिना वशीकरणं वक्तुं प्रक्रमते। जपसाध्यकर्मानन्तर्येऽथशब्दः।
अन्यतममित्युपायम्। सम्यक् प्रतिपत्तिं विभज्य वक्ष्यामि संप्रवक्ष्यामि। विग्रहं शरीरं
तदाक्रान्ता सत्त्वास्तान् साधयतीति विग्रहाक्रान्तसाधक उपायस्तमित्यर्थः। एत-
दाह - अन्योन्यवलिता मन्त्रा डाकिन्यश्चैकत्र योजिता इति। मूलमन्त्रो विद्याराजो
डाकिनीमन्त्रश्च त्रयमेलत्रीकृत्य भैषज्यं साधयेदित्यर्थः॥ १॥
भुक्तमुग्दीर्णं भोज्यं तु जपान्तेन तु छर्दयेत्।
ततः पूर्णसप्तरात्रेण खादनादिषु योजयेत्॥ २॥
अनेन वशमायान्ति यावज्जीवं न संशयः।
कपिलाया घृतं पीत्वा जपान्तेन तु छर्दयेत्॥ ३॥
ततस्तेनात्मानं मुखमभ्यङ्गयेत्ततः।
यदि क्रुद्धो भवेन्नित्यं दर्शनाद् वशमानयेत्॥ ४॥
अभ्यङ्ग्य तिलतैलैस्तु शालिपिष्टकसमन्वितम्।
कृत्वा शंकुलिकां मन्त्री भक्षणेन प्रयोजयेत्॥ ५॥
एतदेवाह - भुक्तमित्यादि। जपान्तेन तु छर्दयेदिति। भुक्तमुद्गीर्णं प्रक्षाल्य पुन-
स्तद्भक्षयित्वा वमेत्। अपक्वकर्पूरमिश्रं कृत्वा मन्त्रत्रयेण सप्तरात्रीस्त्रिसन्ध्यं जपेत्।
ततः खादनादिषु दद्याद् यथोक्तं भवति। कपिलाया गोर्घृतं कपिलाघृतं सप्तजप्तं पीत्वा
वमेत्। तेनात्मानं मुखं चाभ्यजनीयम्। तत इति। अभ्यङ्गानन्तरम्। अभ्यङ्ग्येत्यादि।
अभ्यङ्गयाङ्गं ततस्तिलतैलं ग्राह्यम्। तुः प्रयोगसमुच्चये। शालिपिष्टकसमन्वितमिति।
शालिपिष्टकमयीं शंकुलिकां कृत्वा तेन तैलेन पक्त्वा भक्षणेन एवं दद्यात्। तुरेवार्थे।
सर्वत्रैव मन्त्रजपो ज्ञेयः॥ २-५॥
यावज्जीवं सदा वश्यं यदि कर्म न मुञ्चति।
भक्षयित्वा तिलान् कृष्णांश्छर्दितान् राजिकैः सह॥ ६॥
कुष्ठं चापान युक्तं तु करजोदरकीटकम्।
पीषयेदात्मरक्तेन शुक्रेणैव तु भावयेत्॥ ७॥
खानपानाञ्जनैर्वस्त्रैर्लेपं चैव प्रयोजयेत्।
वशीकरणमेवं तु यावज्जीवं न संशयः॥ ८॥
यदि कर्म न मुञ्चति यदि मुक्तो न स्यात्। भक्षयित्वा तिलान् कृष्णांश्छर्दितान्
राजिकैः सह। कुष्ठञ्चापानयुक्तं तु करजोदरकीटकम्। इति। चः प्रयोगसमुच्चये
तुर्विशेषे। कृष्णास्तिला राजिकाभिः सह भक्षयित्वा छर्दनीयाः। कुष्ठं सप्तवारापान-
निर्गतं कार्यम्। करजो नखः। उदरकीटक उदरनिर्गतः किञ्चूलकः। खानं खाद्यम्।
लोपो गात्रे॥ ६-८॥
गोमांसाहु तयो होमस्तद्रक्ताभ्यक्तदेवताः।
तत्क्षणाद्वशमायाति म्रियते यदि नागच्छति॥ ९॥
मांसं तस्याग्रतो ध्यात्वा होमये[ च्च ] विचक्षणः।
होमान्ते च बलिं दत्त्वा त्रैलोक्यमाकर्षयेत् क्षणात्।
सप्तरात्रेण सिद्धिः स्यात्॥ १०॥
गोमांसाहुत्या होमरक्ताभ्यक्तास्त्विति। गोमांसाहुतयो होमार्थं तद्रक्ताभ्यक्ताः।
गोरुधिराक्तेन गोमांसेन होमाद् देवतासाध्यस्य विज्ञानं वशीभवति। अथवा देवता
लौकिकीदेवता मांसं गोरेव। अत आह - तस्येति। अग्रत इति। श्रीहेरुकपटस्य
तत्प्रतिमाया वा तन्मुखे वा पूर्वापरयोः सार्वकर्मिकं कुण्डम्। सप्तरात्रेण सिद्धिः
स्यादिति। सप्तसु रात्रिषु त्रिसन्ध्यं होमात् सिद्धिः॥ ९-१०॥
दुर्लभं त्रिषु लोकेषु समयाचारलक्षणम्।
गोपनीयं प्रयत्नेन गूढमन्त्रैः सदा स्वयम्॥ ११॥
न च लभते गूढार्थं मन्दभाग्यो न सिद्ध्यति।
साधकैरल्पपुण्यैश्च मया तुष्टेन लभ्यते॥ १२॥
इति श्रीहेरुकाभिधाने अध्यात्मवश्याधिकारविधि-
पटलः सप्तत्रिंशतिमः॥ ३७॥
दुर्लभमिति वश(श्य)विधानम्। समयाचारैर्योगिभिर्लक्ष्यत इति समयाचार-
लक्षणं वश(श्य)विधानम्। मन्दभाग्यः स्तोकप्राक्तनपुण्यः। अल्पपुण्यैरिति। अल्प-
वर्तमानपुण्यैरेभिः साधकैर्न लभ्यते मया तुष्टेन पुनर्लभ्यते॥ ११-१२॥
वशेऽपि कृतं वश्यं कर्म तदधिक्रियते येन वश्याधिकारो भैषज्यादिहोमप्रकारः।
स विधीयते येनासौ पटलश्चेति स सप्तत्रिंशतिमः सप्तत्रिंशत्तमः।
इति श्रीहक्रसंवरविवृतौ सप्तत्रिंशत्तमः पटलः॥ ३७॥
योगिनीस्थानप्रदेशगुह्यवीरालयविधिपटलोऽष्टत्रिंशत्तमः
ततः छोम्मकानि तु डाकिनीनां शरीरस्य तु लक्षणम्।
वीराङ्गभेदं तथैव च [ यत्साध्यं सिद्धमेव तत् ]॥ १॥
एतत्तन्त्रोक्तं सर्वगोप्यमित्यत आह - तत इत्यादि। छोम्मकानि डा इति पुरुष
इत्यादि ग्रन्थोक्ताः छोम्मकाः। तुर्विशेषे। डाकिन्यः प्रचण्डादयः शरीरं हस्तादि-
छोम्मकदानार्थं तस्य लक्षणं डाकिनीजातस्य चिह्नवर्गगन्धादि। वीराङ्गभेदं वर्णमुख-
भुजादि। तथैव चेति गोपनीयः॥ १॥
न च लिखति वीरेश्वरो न पठेत् कस्यचिदग्रतः।
[ गोपयेत् सर्वाकारेण ] वामाचार सुगोपितम्॥ २॥
छोम्मकादिकं वीराङ्गभेदञ्च वीरेश्वरो योगी न लिखति न वदतीत्याद्यपि द्रष्ट-
व्यम्। कस्यचिदग्रत इति। अन्यतन्त्रीयादेः पुरतः। न पठेदिति। तन्त्रम्। वामाचार-
सुगोपितमिति। वामाचारैः श्रीचक्रसंवरयोगिभिः सुष्ठुगोपितं छोम्मकादि॥ २॥
प्रमादात् पठते मन्त्री गुह्यलक्षणडाकिनीः।
नाहं तस्य पश्यामि डाकिनीसहस्त्रमनेकधा॥
भक्ष्यं न सो दुरात्मकः॥ ३॥
प्रमादात् पठते मन्त्री गुह्यलक्षणडाकिनीरिति। पुस्तकगता डाकिनी यदि प्रमा-
दात् स्वव्यापारानवधानात् पठति लिखति वदति च। नाहं तस्य पश्यामि। सिद्ध्या-
दिकं न पश्यामीत्यर्थः। किञ्चान्यदपीत्याह - डाकिनीसहस्त्रमनेकधा भक्ष्यं भक्ष्यकं
तस्य भवतीत्यर्थः। न - शब्दः शिरश्चाले। कुत इत्याह - सो दुरात्मक इत्यादि। सो
दुरात्मक इति स्वार्थेऽण्। स(सु)दुरात्मक इत्यर्थः। आत्मा विशिष्टं चित्तम्॥ ३॥
समयघ्नो दुराचारो ब्रह्मघ्नश्च न संशयः।
पापाचारो मूढो वञ्चितोऽसौ दुरात्मकः॥ ४॥
समयो मन्त्रमुद्रासिद्धान्ताः ब्रह्माणो बुद्धाः। पापमेवाचरतीति पापाचारः। अतो
दुष्ट आचारोऽधार्मिकव्यवस्थाऽस्येति दुराचारः। मूढ इत्यतिमुग्धः। वञ्चितोऽभिमत-
वियोगात्। असाविति यः पाठादिकर्ता॥ ४॥
नाहं तस्य परित्राता भक्ष्यमाणस्य योगिनीभिः।
गुह्यकानां मध्ये तु पशुरेव स साधकः॥ ५॥
तस्य च नाहं परित्राता दुरात्मनो दुष्टस्वरुपस्य योगिनीभिर्भक्ष्यमाणस्य। कुत
इदमित्याह - गूहन्ति संवृण्वन्ति रक्षन्तीति गुह्यका योगिन्यः। तुरप्यर्थः। रक्षिकाणा-
मपि तासां मध्ये पशुरेव छगल एव यतो वध्यः, महापराधत्वात्। साधकस्तादृशः।
अतस्तुशब्दो विशेषे॥ ५॥
पतितोऽसौ बुद्धलोकाद् गुरुद्रोहः समयद्रोहकः।
यस्तु पालयते तन्त्रं श्रीहेरुकघोरदर्शनम्॥ ६॥
पतित इत्यादि। बुद्धस्य लोके दर्शनं बुद्धलोकः। ततोऽपि पतितो भवेदिति
भावः। स च गुरुद्रोहः समयद्रोहकश्च। यस्तु यः पुनः पालयते रक्षति तन्त्रं श्रीहेरु-
कघोरदर्शनम् , अनधिगततत्त्वानां भयजनकत्वात्॥ ६॥
तस्याहमनुग्राही डाकिनीसार्द्धं शुभाननम्।
गुरवश्चानुमन्यति गूहयन्ति च साधकाः॥ ७॥
तस्याहमनुग्राही। अनुग्रहः स्नेहविशेषः। डाकिनीति तृतीयालोपे। शुभे कल्याणे
आननं यस्य तद्यथा भवति तथानुग्राही। अनुमन्यन्ति। तमनुमन्यन्ते गुरवोऽपि।
गूह्यन्ति गूहन्ति। आलिङ्गन्ति तमालोक्यापरे साधकाः। अस्य पक्षनिक्षेपोऽयमिति
लोकेषु साधुषु प्रतिपादनं गूहनमित्ययमर्थो वा॥ ७॥
योगिनीनां प्रियो नित्यं सिद्धिस्तस्य न संशयः।
साधको वीरतां याति त्रैलोक्ये खेचराधिपः॥ ८॥
पूज्यो भवति सर्वत्र साधको वीरकाङ्क्षिणः।
योगस्तस्य प्रवर्तते सम्प्रदायं च विन्दति॥ ९॥
वीरकाङ्क्षिण इति। वीरत्वकाङ्क्षी। योगस्तस्य प्रवर्तते। प्रबन्धनयोगः समाधिः
प्रवर्तते। संप्रदायं शिष्यसम्पन्नज्ञेयाकारानुमतिं विन्दति गुरुसकाशात् लभते॥ ८-९॥
आचार्यं तु वीरं दृष्ट्वा श्रीहेरुकव्रतधारिणम्।
दृष्ट्वा दृष्ट्वैव संहृष्य मन्त्रेणानेन साधकः॥ १०॥
वीरेति। लोकयात्रानिर्भयत्वात्। श्रीहेरुकव्रतधारिणमिति। स्वशास्त्राभिहित-
परिपालकत्वात्। वीरतां दृष्ट्वा हृष्येदन्यः साधक इति सम्बन्धः। दृष्ट्वा दृष्ट्वैव
मन्त्रेणानेनेति। श्रीहेरुकयोगलक्षितेन लक्षितः साधकोऽन्यांस्तादृशान् दृष्ट्वा दृष्ट्वैव
हृष्येदिति भावः॥ १०॥
मूलमन्त्रपरं वीरं सप्तवारानुच्चारेत्।
प्रणवहूँकारभेदितम् + + + + + + + +॥ ११॥
तेषां प्रणम्य यत्नेन सर्वबुद्धादिपूजितम्।
नित्यमेव महावीरं क्रीडायुक्तो न संशयः॥ १२॥
यथोक्तं मूलमन्त्रमुच्चारयंस्तेषां श्रीहेरुकव्रतधारिणां प्रणम्य प्रयत्नेन संहृष्येदिति
सम्बन्धः। ततः किमित्याह - सर्वबुद्धादिपूजितमिति। वज्रधरादिपूजा स्यात्। तत्र
प्रणामे कथमेवमित्याह - यतः स योगी महावीरस्य श्रीहेरुकस्य क्रीडायुक्तः , तान्
योगिनो विलोकयतामेतत् स्यात्॥ ११-१२॥
तेषां हृदिस्था वाराही वीरयोगिन्यद्वयस्थितम्।
तेन तस्य सुजन्मनः प्राणिनः पुण्यदर्शनात्॥ १३॥
स्मरतां तु किमित्याह - तेषामित्यादि। हृदिस्था वीराः श्रीहेरुकव्रतधारिणो येषां
ते हृदिस्थवीराः। प्रथमाबहुवचनार्थे षष्ट्येकवचनम्। योगिन्यमद्वयस्थितमिति। बहु-
वचने अमादेशो निरुक्तविधिना। ततोऽयमर्थः। कुत ईदृशास्त इति। यतस्तेषां योगि-
न्यो देव्योऽद्वयरुपेण स्थिता इति। तेन यस्मात् सुजन्मनः। प्राणिनः पुण्यदर्शनादिति।
कथं तस्यैतदिति। यतस्तस्य श्रीहेरुकव्रतधारिणः पुण्यदर्शनात् प्राणिनः शोभनोत्पादा
भवन्ति॥ १३॥
नदीतटसमुद्रेषु प [ र्वतेषु चतुष्पथे।
तडागकूपपुष्करिणीशून्यालयप्रतोलिषु॥ १४॥
एवं संरक्तनयना स्थिता सर्वत्र डाकिन्यः।
महाभैरवश्मशाने च पाताले खेचरी तथा॥ १५॥
वेतालैरप्यनेकैस्तैर्भीषणैश्च महाबलैः।
एतैः सार्धं महावीरः क्रीडते च यथासुखम्॥ १६॥
कुहरे गह्वरे गुह्ये गूढमानुष्ययोगिनी।
तत्तत्स्थानप्रदेशेषु क्रीडते साधकेन तु॥ १७॥
इति श्रीहेरुकाभिधाने योगिनीसाध्य( स्थान )प्रदेशगुह्यवीरालय-
विधिपटलोऽष्टत्रिंशतिमः॥ ३८॥
क्रीडास्थानमाह - नदीत्यादि। संरक्तनयनाः। श्रीहेरुकव्रतधारिदर्शनानुरागादिति।
च - शब्दो हर्षे। कुहरे विले। गह्वरे पर्वतोदरे। गुह्ये गहने वने। गूढा मानुष्यो योगि-
न्यो यत्र तद् गूढमानुष्ययोगिनीस्थानम्। सर्वेषां नद्यादीनां विशेषणमेतत्॥ १४-१७॥
योगिनीस्थानान्येव गुह्यवीरालयो विधीयन्ते येनासौ पटलश्चेति स तथा। अष्ट-
त्रिंशतिमोऽष्टत्रिंशत्तमः।
इति श्रीचक्रसंवरविवृतावष्टत्रिंशत्तमः पटलः॥ ३८॥
दर्शनाट्टहासविधिपटल ऊनचालीशतिमः
अथ महासिद्धियोगी हासमन्त्रमष्टविधम्।
ततः संदर्शयन् तस्मै प्रददाति न संशयः॥ १॥
अथेति योगिनीस्थानानन्तरं क्रमेण हासात्। अष्टविधं यथा भवति तथा महा-
सिद्धियोगी महासिद्धौ महामुद्रासिद्धौ श्रीहेरुकयोगी। मन्त्रश्चात्र - किलि किलि
चिलि चिलि सिलि सिलि धिलि धिलि इति विद्याराजस्य शेषो मन्त्रस्तेनाष्टविधो
हासः। हा हा हे हे हो हो हूँ हूँ इति देवीमन्त्रेणाप्यष्टविधौ हासः। तत इत्यादि
सुबोधम्॥ १॥
घोरेण बहुशब्देन डाकिन्यश्च भयङ्कराः।
तेन श्रुतेन तं वीरं त्रसन्ति विद्रवन्ति च॥ २॥
न भीयते यदि वीरः डाकिनीसार्धमेव च
ताभिर्वामकरे गृह्य नीयते स्वपुरं ततः॥ ३॥
योगिनीवेष्टिते भयावहेऽपि भेतव्यमित्याह - तं वीरभीतं विद्रवन्ति चेति। चो
यस्मात्। तत इति वेष्टितात्। न भीयते वीर इति। यदि वीरो न बिभेति तदा ताभि-
र्वामकरे गृहीत्वा नीयते स्वपुरं स वीर इत्युभयकार्यमित्येतदाह - वामकरे ततो गृह्य
स्वपुरं नीयते ताभिरिति। डाकिनीसार्द्धमिति तृतीयालोपे॥ २-३॥
श्रीहेरुक शक्तिकामेन नीयते खेचरीपदम्।
तत्राभिरतो नित्यं गमिष्याति सुखावतीम्॥ ४॥
न जरामृत्युः सर्वत्र साधको मन्त्रविग्रहः॥ ५॥
इति श्रीहेरुकाभिधाने दर्शनाट्टहासविधिपटल
ऊनचालीशतिमः॥ ३९॥
श्रीहेरुक शक्तिकामेनेति। श्रीहेरुकसङ्गाभिलाषेण खेचरीपदं सुखावतीम्।
एतदेव स्वपुरमिति विवृतम्। न जरामृत्युसर्वत्रेति तयोर्विकल्पजत्वात्। तद्धानौ
तद्धानिरितिभावः। विकल्पहानिरेव कुत इत्याह - साधको मन्त्रविग्रह इति। मन्त्रः
सर्वधर्मस्वरुपसाक्षात्करणम्। तदात्मकत्वादिति भावः॥ ४-५॥
दर्शनं डाकिन्युपलम्भोऽट्टहासश्च तौ विधीयते येनासौ पटलश्चेति स तथा।
ऊनचालीशतिम ऊनचत्वारिंशत्तमः।
इति श्रीचक्रसंवरविवृतावूनचत्वारिंशत्तमः पटलः॥ ३९॥
पञ्चवर्णवशीकरणमहामुद्रासेवनविधिपटलः चालीशतिमः
ततः संप्रवक्ष्यामि येन मर्त्यं वशं नयेत्।
मासेन सिध्यते वीरं मन्त्रयोगविधिस्थितम्॥ १॥
इदानीं केवलं वशीकरणहोमपटलमाह - तत इत्यादि। यतो वशीकृताः सत्त्वाः
स्वशासने नियोजितुं शक्याः। ततः संप्रवक्ष्यामि। किं तदित्याह - येन मर्त्यं वशं
नयेदिति। येन होमेनावशं सत्त्वं वशं नयेत् तमित्यर्थः। तच्च कियता कालेन सिध्य-
तीत्याह - मासेन सिध्यत इति। किंभूतं वीरं मन्त्रयोगविधिस्थितमिति। मन्त्रादि-
पूर्वकमित्यर्थः॥ १॥
पिशितं सोन्मत्तकेन मत्स्यमांसेन संयुतम्।
सर्वावस्थोऽपि वीरेशः सप्ताहात् साधकस्य च॥ २॥
महासिद्धिं प्रददाति निशिहोमपरायणः।
अष्टोत्तरशतेनैव त्रिसन्ध्यं साधयेद् यदि॥ ३॥
ससैन्यं नृपतिं वश्यं अर्धेन तु वीरमन्त्रिणम्।
मंत्रिणं च तदर्धेन सप्ताहाद्वशमानयेत्॥ ४॥
कस्य योगेन सिध्यतीत्याहक़् - पिशितं प्रागुक्तं मत्स्याश्च। पिशितेन बाह्यो होमः।
तेन मत्स्यैश्चाभ्यन्तर इति ज्ञेयम्। सर्वावस्थोऽपि चतुर्भुजादिरपि वीरेशः श्रीहेरुकः।
सप्ताहादिति। मासत्रयं त्रिसन्ध्यमष्टोत्तरशताहुतिदानं विधाय ततः सप्राहहोमेन साध्य-
सिद्धिं ददाति साधकाय। निशिहोमपरायण इति। निशा प्रज्ञा सांकेतिकत्वात्। प्रज्ञा-
युक्तो जुहुयादिति भावः। एतदेवाह - शतेत्यादि सर्वतन्त्रः ( सर्वत्र ) समुच्चये। अर्द्धेन
त्विति। चतुःपञ्चाशताहुतिभिः। तदर्धेन त्विति। सप्तविंशत्या। मन्त्रिणं सन्धिविग्रहा-
दिकं( करं ) वशमानयेदिति सम्बन्धः॥ २-४॥
सामन्तानां द्वात्रिंशद् होमदाहुतिक्रमात्।
ब्राह्मणं विंशतिरेव सप्ताहेन तु होमयेत्॥ ५॥
एवं क्षत्रियं तु सप्त वैश्यं च पञ्च होमयेत्।
शूद्रे तु त्रयमेव स्यादेकं जुहुयात्तु अन्त्यजे॥ ६॥
एकमासनमाश्रित्यैवं वीरः कुलक्रमात्।
आकर्षयेत् सर्वसत्त्वान् मन्त्रशक्त्या तु साधकः॥ ७॥
सामान्तादिषु सायन्तने योगिकाद्यर्थं द्वात्रिंशदाहुतयो देयाः। होमयेदाहुतिक्रमा-
दिति। वर्णक्रमेणाहुतयो देया इति प्रतिपादयति। एतदेवाह - विंशतिमित्यादि।
ब्राह्मणं प्रति विंशतिमाहुतिर्दद्यात्। शूद्रे त्रयमेवेति। आहुतित्रयम्। एकं जुहुयात्तु
अन्त्यज इति। एकं एकवारं जुहुयादेकाहुतिं दद्यादित्यर्थः। चण्डालाद्यर्थम्। एकमा-
सनमाश्रित्य इति। श्रीहेरुकमाश्रितः॥ ५-७॥
एवं कुर्वन् मर्त्यवीरः कामं तु विधिपूर्वकम्।
सेवयन् देवतायोगं भद्रकल्पमवाप्नुयात्॥ ८॥
डाकिनीनां मनोज्ञः स्यात् साधको नात्र संशयः॥ ९॥
इति श्रीहेरुकाभिधाने पञ्चवर्णवशीकरणमहामुद्रासेवन-
विधिपटलः चालीशतिमः॥ ४०॥
होमो नियमव्रतादिशून्य इति दर्शयन्नाह - कामं तु इत्यादि। रुपशब्दादिकं कामं
विधिपूर्वकं देवतायोगविधिपूर्वकं सेवते। पञ्चकामगुणाभ्यासी होमं कुर्यादित्याकूतम्।
ततः किमित्याह - अवाप्नुयादिति। वशीकरणसिद्धिमिति शेषः॥ ८-९॥
पञ्चवर्णवशीकरणं तत्पूर्वकं महामुद्रासाधनं विधीयते येनासौ पटलश्चेति स
तथा। चालीशतिमश्चत्वारिंशत्तमः।
इति श्रीचक्रसंवरविवृतौ चत्वारिंशत्तमः पटलः॥ ४०॥
चतुर्विंशत्यक्षरमण्डलविन्यासविधिपटल एकचालीशतिमः
अथ कर्मवरं श्रेष्ठं येन जानन्ति साधकाः।
वश्याकर्षणविद्वेषमारणोच्चाटनादिकम्॥ १॥
जृम्भणं स्तम्भनं चैव मोहनं कीलनं च वै।
वाचोपहरणं मूकबधिरमन्धता तथा॥ २॥
षण्ढत्वकरणं चापि रुप[ स्य ] परिवर्तनम्।
द्वादशैतन्महाकर्म साधकः साधयेत् सदा॥ ३॥
सिद्धिः स्मरणमात्रेण साधकस्य न संशयः।
सर्वोत्तरेषु डाकिन्य पीठादि तु सर्वव्यापिनी॥ ४॥
उत्पन्नसामर्थ्यस्य योगिनः कीदृक् कर्मसिद्धिरिति पृच्छायामथ शब्दः। ततश्च
भगवानाह - कर्मवरं श्रेष्ठमिति। अतिशयेनाभिमतार्थवाहकत्वाद् भवतीति ज्ञेयम्।
कथमित्याह - येन जानन्ति साधका इति। यथा साधकज्ञानं श्रेष्ठम्। तत्किमि-
त्याह - वश्येत्यादि। अथ कर्मवरं वक्ष्य इति। क्वचित्पाठः सुबोधः। वश्याकर्षण-
योरेकत्वं मारणोच्चाटनयोश्चैवेति द्वादशैते कर्मप्रसराः। एतेषां महाकर्मणां स्मरणं
चिन्तामात्रं ततो जायते तेषां सिद्धिः साधकसम्बन्धि। चतुर्विंशतेर्योगिनीनां स्था-
नान्याह - सर्वोत्तरेष्विति। सर्वश्रेष्ठेषु पीठादिषु। पीठादीति सप्तमीलोपे। सर्वव्या-
पिनीति प्रथमाबहुवचनलोपात्। चतुर्विंशतिरेव पीठादौ डाकिन्य इति तु-शब्दो
विशेषयति॥ १-४॥
स्वयोनिषु ज्ञानयुक्ता देशे देशेऽभिजातकाः।
डाकिन्यः कथितास्तास्तु वज्रमण्डलनायिकाः॥ ५॥
कुलतायां विविक्ते च सिन्धौ च नगरे तथा।
सुवर्णद्वीपे सौराष्ट्रे तथा च गृहदेवता॥ ६॥
प्रेतपुर्यां हिमस्थाने काञ्च्यां लम्पाकदेशके।
कलिङ्गे कोशले चैव त्रिशकुनिरोड्रके तथा॥ ७॥
कामरुपे मालवे च देवीकोट्टे रामेश्वरे।
गोदावर्यामुर्बदे चोड्डियाने जालन्धरे तथा॥ ८॥
पुल्लीरमलयादीनां कन्या वीराद्वय व्यापिनी।
ताः सर्वाः कामरुपिण्यो मनोवेग निवृतये॥ ९॥
स्वयोनिषु स्वजातिषु। वज्रमण्डलनायिकाः श्रीहेरुकमण्डलोपनायिकाः।
कुलतायामित्यादिना स्थानान्याह - पीठादिशब्देनोद्दिश्य कुलतायामित्यादिनिर्देशे
क्रियमाणे श्मशानादय एव पीठान्ता बोद्धव्याः। एतच्चोपदेशार्थम्। पुल्लीरमलयादि-
शब्दैः पीठादयो बोद्धव्याः। गृहदेवतेति सप्तमीलोपात्। त्रिशकुनिरिति सप्तम्यर्थे
प्रथमेति तथाशब्दार्थः। वज्रमण्डलनायिका अपि कुत्र कुत्र प्रदेशे तत्र सन्तीति प्रश्ने
कुलतायामित्याद्युक्तम्। एतेष्वर्बुदादिषु देशेष्वित्याह - ओडियानजालन्धरपुल्लीर-
मलया आदिभूता येषां ते ओडियानजालन्धरपुल्लीरमलयादयोऽर्बुदादयः कुलता-
न्ताः। भावश्चायं पुल्लीरमलयादिं कृत्वा जालन्धरौडियानार्बुदादिषु सन्तीत्युपदेशार्थं
व्यक्तिक्रमनिर्देशः। एतेन मण्डले शरीरे च पुल्लीरमलयादिषु योगिनीन्यासः कथितः।
पुत्रिणी कन्या वीराद्वयव्यापिनीति। कन्याः सर्वदा तथैवावस्थितत्वाद् वीरैः खण्ड-
कपाल्यादिभिरद्वयत्वं व्याप्तं शीलं यासां तस्तथा विभक्तिलोपश्च। पुँ जाँ ओँ अँ गोँ राँ
देँ माँ काँ ओँ त्रिँ कोँ कँ लँ काँ हिँ प्रेँ गृँ साँ सुँ नँ सिँ मँ कुँ। इति
चतुर्विंशतिरक्षराणि मन्त्रभूतानि गोपितानि। एतेभ्यः सार्द्धचन्द्रबिन्दु नादेभ्यो यथा-
क्रममुत्पन्नेषु शरीरस्थेषु पुल्लीरमलयादिषु प्रचण्डादय ॐ कर कर प्रचण्डे हूँ हूँ
फट् फडित्यादि मन्त्रजा भाव्याः। कामरुपिण्य इति। इच्छामात्रप्रतिबद्धरुपाः।
किमर्थमित्याह - मनोवेगनिवृत्तय इति। यत्र प्रयोजने मनः प्रवृत्तं तत्सिद्धौ ततो
मनोवेगनिवृत्तिः॥ ५-९॥
षड्योगिन्यः कुलतायां मरुदेशे षड्मातराः।
सिन्धुदेशे लामा च नगरे कुलनायिकाः॥ १०॥
लम्पा[ का ]यां सौराष्ट्रे च कुलदेवता स्थिताः।
प्रेतपुर्यां महाकन्या डाकिनी सहरुपिणी॥ ११॥
हिमाद्रौ चैव काञ्च्यां च कथिता सबालिका इति।
पञ्चालविषये गृहदेवता कलिङ्गे च व्रतधारिण्यः॥ १२॥
पिशिताशना कोशले तु प्रेतपुर्यां वज्रडाकिन्यः।
स्थूलेश्वरे त्रिशकुनौ खण्डरोहाकुलोद्भवाः॥ १३॥
पुल्लीरमलये कनकाद्रौ च चण्डालकुलजाः स्त्रियः।
सहस्त्राण्येकविंशतिः ॥ १४॥
बहिर्देशेषु या विचरन्ति तज्जातीयास्ताः प्रतिपाद्यन्त इत्याह - षड्योगिन्य
इत्यादि। शरीरस्थेषु मण्डलस्थेषु वा पुल्लीरमलयादिषु प्रचण्डादयः क्रमेण ज्ञेयाः।
बहिर्देशेषु तु तज्जातीया यथा तथा वा। वज्रवाराही यामिन्यादयः षड्मातरा इति।
सप्तमातृरुपाः मरुदेशे। लामाजातीयाः कुलनायिका ति। श्रीहेरुककुलोद्भूताः।
लम्पा[ का ]यां सौराष्ट्रे च कुलदेवता इति। कुलदेवतारुपाः पूज्या इत्यर्थः। प्रेतपुर्यां
महाकन्या डाकिनी सहरुपिणीति। कन्यारुपा डाकिनी रुपिणीजातीयाः। हिमाद्रौ
काञ्च्यां च सबालिका इति। सबालिकाजातीयाः। पञ्चालविषये गृहदेवता गृह-
देवतायाम् , कलिङ्गे च व्रतधारिण्यः। कोशले पिशिताशना महामंसाशनाः। प्रेत-
पुर्यां वज्रडाकिन्य इति। प्रेतपुरीसंभूता योगिन्योऽद्वयज्ञानाः। स्थूलेश्वरादिषु खण्ड-
रोहाकुलोद्भूताः। पुल्लीरमलये कनकगिराविति। इहान्त्यजाः स्त्रियः सहस्त्राण्येक-
विंशतिरिति बाहुल्यसूचनार्थम्॥ १०-१४॥
शेषान्येषु हि यावन्त्यः श्रीहेरुकस्य योगिनी।
श्रीहेरुकमहायोगः तस्य मण्डलनायिकाः॥ १५॥
शेषान्येषु हि यावन्त्य इति। अन्येष्वपि देशेषु तादृशः इत्यर्थः। यावन्त्यो यावत्यः।
श्रीहेरुकस्य योगिनीति प्रथमाबहुवचनलोपे। षट्त्रिंशद् योगिन्यः श्रीहेरुकस्य
माण्डलेयाः। महामन्थानं प्रज्ञोपायस्वरुपत्वम्। उपायो वा तेनान्वितः। श्रीहेरुकः
प्रज्ञारुपः तस्य संबन्धिनीनां तासां मध्ये मण्डलनायिका वज्रवाराही समापन्नेति
भावः। महामन्थानं निर्माणं निर्विभक्तिम्। तासां निर्माणं श्रीहेरुकेण सम्पाद्यं यतः
श्रीहेरुकमहामुद्रामण्डलनायिकेति केचित्॥ १५॥
चतुर्विंशति डाकिन्या व्याप्तं त्रैलोक्यं सचराचरम्।
समयो ह्येष डाकिनीनां निर्मितो भावितः स च॥ १६॥
चतुर्विंशतीति। चतुर्विंशत्या व्याप्तं सचराचरं कायवाक्चित्तस्वरुपम्। कुत
एवमित्याह - समयो ह्येष डाकिनीनामिति। समय उपदेशः। कियानेश इत्याह -
निर्मित इति। निर्गतं मितं मानं परिमाणं यतः स तथा। किमासामेष साक्षात्फल
इत्याह - भावितः स चेति। संजातविभूतिक इत्यर्थः॥ १६॥
ध्यानादि यद् भवेत् किञ्चित् पूर्णायां च महीतले।
वामाचारश्च नग्नश्च सदा रात्रौ समाहितः॥ १७॥
ध्यानादि यद् भवेत्किञ्चित् पूर्णायां च महीतल इति। ध्यानादि यानि कानिचि-
न्मन्त्रमुद्रादिसम्बद्धानि तानि डाकिनीनामेव। महीति मह्यां पूर्णायां सकलायां तले
स्वरुपे सति। नग्न इति निरावरणः। रात्राविति समतायाम्॥ १७॥
तुष्यन्ति वीरयोगिन्य वीराश्च( सर्वे च ? )वीरसम्भवाः।
मुद्रानृत्योपहारेण पूजा कार्या स्वयंभुवाः।
निःशेषाऽशेषकार्याणि सिद्ध्यन्ति वामपूजया॥ १८॥
इति श्रीहेरुकाभिधाने चतुर्विंशत्यक्षरमण्डलन्यासविधि-
पटल एकचालीशतिमः॥
तेन किमित्याह - सर्व इत्यादि। वीराच्छ्रीहेरुकात् सम्भवन्तीति वीरसम्भवाः
खण्डकपालादयो वीराः। योगिन्यश्च प्रचण्डादयस्तुष्यन्ति। मुद्रा देवतायोगस्तेन
नृत्योपहारः। न पुनः प्राकृतत्वेन। तेन नित्यं पूजा कार्या स्वयंभुवा च रजोन्वितेन
बोधिचित्तेन। इति पूजाविशुद्धिरुक्ता वामपूजायाः श्रेष्ठत्वात्॥ १८॥
चतुर्विंशति गोप्यान्यक्षराणि पुकारादीनि मण्डलं तावत्संख्यानां योगिनीनां समूह-
स्तस्य न्यासश्च तानि विधीयन्ते येनासौ पटलश्चेति स तथा। एकचालीशतिम एक-
चत्वारिंशत्तमः।
इति श्रीचक्रसंवरविवृतावेकचत्वारिंशत्तमः पटल॥ ४१॥
हासमन्त्रयोगिनीरुपमायाविधिपटलः द्वाचालीशतिमः
ततो वीरः कुसुमोदकं पीत्वा इमं मन्त्रमनुस्मरेत्।
कुर्या न्नृत्यं तथैवात्र साधको मुद्रया सह॥ १॥
मन्त्रेण त्रिम( य )न्त्रितं कुर्याद् रात्रौ पिशितभोजनम्।
अनेन पीत्वा तथा दत्त्वा इद मस्तु सुखावहम्॥ २॥
स्पृष्ट्वा हसते महाकुली सत्येन ब्रह्मचारिणी।
साध्यमन्ते हासमुद्राभिर्दृष्टिगर्वा भवेत्तदा॥ ३॥
ऊनचत्वारिंशत्तमे पटले उद्दिष्टं हासं निर्दिशन् तन्मन्त्रादिपटलमाह - तत इत्यादि।
यतो मन्त्रादिना विना नैतद्धसेत् [ त ]तो वीरो वीररसान्वित इति। इमं मन्त्रमष्टपदं
सप्ताक्षरं वाऽनुस्मरेत्। पठेत्। किंकृत्वा। कुसुमोदकं रजोन्वितं बोधिचित्तं पीत्वा।
ततो नृत्यं वज्रपदेन कुर्यात्। मुद्रया प्रज्ञया सह। रात्रौ पिशितभोजनं कुर्यादिति
सम्बन्धः। किंभूतम् ? त्रियन्त्रितम्। त्रिभिः कायादिभिर्यन्त्रितम्। तथापि केनेत्याह -
अनेनेति। इदमामन्त्रः परामृष्टः। मन्त्रमाह - अस्तु सुखावहमिति। ॐ अस्तु सुखा-
वहं हूँ इति मन्त्रोऽयम्। ॐ सुखावह हूँ इति क्वचित्। पञ्चामृतादिकं चानेनैवाभि-
मन्त्र्य प्रयोक्तव्यम्। अन्यस्यापि दद्यादित्याह - पीत्वा तथा दत्त्वेति। समयिभ्यः स्पृष्ट्वा
सुखी भूत्वा तथा मन्त्रपूर्वकं दत्त्वा हसेत्।
अत आह - हसत इति। पृष्ट्वेति पाठे सुखिताः स्थेति पृष्ट्वा हसेदिति योज्यम्।
महाकुली महाव्रती चर्यायोगित्यर्थः। सत्येन ब्रह्मचारिणीति। सत्यं ब्रह्म तपो ब्रह्मेति
ज्ञेयम्। तपश्चेहोक्तम्। एवंभूता तु बहिर्मुद्रा हासं कुर्यात्। किं कृत्वेत्याह - साध्य-
मित्यादि। साधयतीति साध्यः साधकः। तत्पञ्चामृतास्वादान्ते हासमुद्रालक्षितं दृष्ट्वा
हास्यं कुर्यात्। किंभूता। दृष्टिगर्वा। तस्या दृष्ट्या दर्शनेन गर्वो यस्याः सा तथा। एवं-
भूता या संविती भवति। अनेनेति। किलि किलीत्यादिना हाहेत्यादिना च। हसनं
हास्यं ण्यता सिद्धिः। पञ्चामृतास्वादेन पूर्वसाधको हास्यं कुर्यादिति सम्बन्धः। सा च
तस्य बहिर्मुद्रेति तथैव योज्यमिति प्रज्ञोपाययोरपि हास इति सिद्धम्। सत्येनेत्यादिना
काचिदन्यैव योगिनी तथाभूतं साधकं दृष्ट्वा हसेदिति केचित्॥ १-३॥
रात्रावहनि वाऽनेन हासं कुर्यात् तथैव हि।
रुपकर्म च यच्छुण्डं श्रृणु वीरयथास्थितम्॥ ४॥
नृत्यं ततोऽश्रुभव भक्त्या आत्मोद्यमस्तथा।
वज्रस्य लंघनं चैव तथा नग्नाश्च पूजनम्॥ ५॥
वामेश्वरीणां तु सर्वेषामेष मुद्रागणक्रमः।
रेचकं प्रेरणं हासं श्रृङ्गारनृत्यमद्भुतम्॥ ६॥
यद् विश्वपुरतः कुर्यात् मुद्रामन्त्रमनुस्मरेत्।
हा हा हे हेऽष्टविधं हासं विश्वेश्वर्याः परं प्रियाः॥ ७॥
रात्राविति बहिर्विषयविकल्परसास्तङ्गमस्वरुपे विरमानन्दे। अहनि स्वसंविन्मा-
त्रतास्वरुपे सहजे वा आनन्दपरमानन्दयोः समुच्चयार्थः। तथा तथतार्थं सूचयति तच्च
सर्वधर्मपरिज्ञानम्। सहजावबोधे यत्क्रियते तदेव तत्त्वदशामापद्यत इति भावः। बहि-
रर्थः स्पष्ट एव। तं योगिनं दृष्ट्वा पीठादिस्था योगिन्योऽपूर्वां रुपक्रियां दर्शयन्तीत्याह -
रुपेत्यादि। रुपस्य स्वरुपस्य कर्म क्रिया यत्तच्छुण्डं गुह्यं तथाभूतमेव प्रकाश्यत्वात्
वीरैस्तथागतैर्यथा स्थितम्।
तदेवाह - नृत्यमित्यादि। प्रथमं नृत्यं ततो नेत्रयोरश्रुपातैर्भवतीति निर्विभक्तिकं
भक्त्याभिनयः। आत्मोद्यम आत्मनाभ्युत्थानम्। तथाशब्दादर्घादि। भक्त्या रोमोद्गम-
स्तथेति पाठे स्नेहेन रोमाञ्चः। तदन्तर्भूतां साधकक्रियामाह - वज्रस्येत्यादि। लङ्घ-
नमतिशयः। वज्रोत्थानमित्यर्थः। अलङ्घनमिति पाठे अशेषेण अहं पूर्वो वा लंघ्यति-
रतिशयार्थ एव। आलम्बनमिति पाठे प्रापणं तत्क्रिया, योगिन्या च वज्रप्रापणम्। अत
आह - तथा नग्नाश्च पूजनमिति। तथा निरवग्रहत्वेन। वामेश्वरीणां योगिनीनां सर्वेषां
योगिनामत एव। तुर्विशेषे। एष मुद्रागणक्रमो नृत्यादिवज्रलङ्घनादिश्च। रेचकादिभि-
र्विशेषेण स्वयं दर्शनं पुरतः पूर्वक्रियाकारिणीनां योगिनीनामग्रतः कुर्यात्। मुद्रामन्त्रो
हासमुद्रामन्त्रः। तमेवाह - हा हा हे हे इत्यादि। हा हा हे हे इत्यष्टविधं हास्यम्।
हासमुद्रामनुस्मरेदिति सम्बन्धः। हो हो हूँ हूँ इत्यपरेषामितिशब्देन ग्रहणम्। इत्यादि
बहुवचनान्ता गणस्य संसूचका भवन्तीति वचनात्। अस्य मन्त्रस्यापरार्द्धम्। किलि
किलीत्यादि च गृह्यते। विश्वेश्वर्याः परं प्रिया इति। एते वर्णा योगिन्या अतिशयेन
प्रियाः। विशेषचर्याः परं प्रिया इति पाठे नृत्यादिक्रियाविशेषचर्याः॥ ४-७॥
हाहाकारो ह्यत्र सन्निधौ रोदनाश्रु प्रपद्यते।
तेनैव प्रियो भवेत्तासां ध्यानमन्त्रसुयोजिता॥ ८॥
भवेद् योगिन्य वीराणां रोमाञ्चादि सुखं सह।
वज्रस्य लङ्घनं कुर्याद् या वामा परिकल्पिताः॥ ९॥
इति श्रीहेरुकाभिधाने हासमन्त्रयोगिनीरुपमाया-
विधिपटलः द्वाचालीशतिमः॥
ततो हाहाकारान्ताः कुर्वन्ति। अत आह - हाहाकारो ह्यत्र सन्निधाविति। नित्यं
रोदानाश्रु प्रवर्तयन्ति वेत्याह - रोदानाश्रु प्रपद्यत इति। तेनैवाश्रुपातेन सह हाहाकारोऽपि
प्रियो भवेत्तासाम्। कुत एवमित्याह - ध्यानमन्त्रसुयोजिता इति। ध्यानेन मन्त्रेण च
सुष्ठुयोजिता यन्त्रितास्ता योगिन्यः सजातीयमालोक्य प्रीतिमत्यो भवेयुरिति भावः।
योगिनीनां योगिनां चोभयप्रीत्योभयरोमाञ्चादिः। कासामग्रतो वज्रलङ्घनमित्याह -
वज्रस्येत्यादि। या वामा योगिन्यः परिकल्पिताः। संकेतादिदर्शनाल्लक्षितास्तासामग्रत
इत्यादि बोद्धव्यम्॥ ८-९॥
हासमन्त्रश्च योगिनीरुपमाया च ते विधीयते येनासौ पटलश्चेति स तथा। द्वा-
चालिशतिमो द्वाचत्वारिंशत्तमः।
इति श्रीचक्रसंवरविवृतौ द्वाचत्वारिंशत्तमः पटलः॥ ४२॥
उपहृदयकर्मसिद्धिविधिपटलः त्रिचालीशतिमः
अथावलोकनं वक्ष्ये वीराद्वयनरस्य च।
स्थानभेदविधिज्ञस्य भावना सदा अभिप्रिया॥ १॥
इदानीं योगिन्यवलोकननग्नपूजाः। सप्ताक्षरकर्मविधिपटलमाह - अथेत्यादि।
अथेति हासादिकथनानन्तरम् , अवलोकनादि वक्ष्य इति सम्बन्धः। नर इति नरोत्त-
मत्वात्। ज्ञात्वा विनेयानामाशयम्। आधारनिष्ठत्वादाधेयस्थितेः॥ १॥
चतुष्पथे गृहे वाऽथ वीरस्थाने च पर्वते।
डाकिन्यः समय स्थानं दूरेऽप्यवलोकयन्ति॥ २॥
चतुष्पथेत्यादिना स्थानभेदमाह - इहैव भावना कार्येतिभावः। गृहे वेति। गृह
एव तावदित्यर्थः। अवलोकनमाह - अवलोकयन्तीत्यादि। समयार्थं समयाद्यर्थ-
स्थिताः॥ २॥
नग्नपूजनमुद्रायाः कर्मतः परमुच्यते।
प्रक्षिप्यान्यदम्बरं मुद्रां कामयेत्तेन संस्पृशेत्॥ ३॥
नग्नपूजनमुद्रायाः कर्मतः परमुच्यते इति नग्नपूजानिर्देशः। कर्माह - प्रक्षिप्ये-
त्यादि। नग्नोऽन्यदम्बरं वा चर्मादि प्रक्षिप्य परिधाय कामयेत् मुद्राम्। तेन संस्पृ-
शेदिति। तेन कर्मणा सुखी स्यादित्यर्थः॥ ३॥
एवमेव मुख्यभूतो सर्वकर्माणि कारयेत्।
मूलमन्त्रैस्तथा चान्यैर्दिग्बन्धाश्चतुर्भिस्तथा कुरु॥ ४॥
एवमिति। नग्नता चर्माम्बरता चाकृष्यते। सर्वकर्म भोजनादि। मूलमन्त्रोऽष्ट-
पद। [ क्रूरकर्मिण आक्रम्य हननेऽन्यः ] चतुष्पदः सुम्भमन्त्रः। एतौ योगिन्या दर्शना-
ज्जपेदिति निर्देशः। आक्षेपेण दिग्बन्धादि कार्यो भावनादिकाले। अत आह -
दिग्बन्धाश्चतुर्भिस्तथेति। दिग्बन्धावर्तयंस्तथेति पाठान्तरम्। दिग्बन्धावर्तनानि।
दिग्बन्धावर्तयंस्तथात्मनैव मन्त्रेणेति व्याख्येयम्। कुर्विति। पूजादि सर्वं कर्म। मूल-
मन्त्रैस्तथा चान्यैर्दिग्बन्धाश्चतुर्भिस्तथा कुर्विति पाठान्तरे मूलमन्त्रैः सर्वकर्म कुरु,
अन्यैश्चतुर्भिश्चतुष्पदैर्दिग्बन्धं कुर्विति योज्यम्। दिग्बन्धेति द्वितीयालोपे। तथाशब्द-
द्वयम्। तथा तथा प्रकारभेदेनेत्यर्थ इति व्याख्येयम्॥ ४॥
पूजने [ नैव ] दृश्येत दिवि दैवगणैरपि।
कुसुमाञ्जलिमुत्क्षिप्यात् संपूर्णामूर्ध्वं खेचरी॥ ५॥
न तत्र दृश्यते चोक्तपतितं कुसुमं भुवि।
वशीकुर्यात्तु तत्रस्थं खेचरीणां सहस्त्रकम्॥ ६॥
गोप्येत्याह - पूजने [ नैव ] दृश्येत दिवि देवगणैरपीति। सप्ताक्षरस्य सामर्थ्य-
माह - कुसुमाञ्जलिं सम्पूर्णामूर्ध्वमुत्क्षिप्यात् खेचरीति। कुसुमाञ्जलिं सप्ताक्षरजप्तं
सम्पूर्णमुत्क्षिप्यादुत्क्षिपेदित्यर्थः। स च खेचरी खेचरोऽन्तरीक्षस्थः स्यात्। अञ्जलेः
स्त्रीत्वमार्षत्वात्। अत आह - न तत्रेत्यादि। तत्रैव दृश्यते न पतति यतः कुसुमं
भुवि। सहस्त्रमित्यादि सुबोधम्॥ ५-६॥
वागीशं मातरं चाप्याकृष्य जानाति च यथाक्रमम्।
दिव्यं दिव्यकथां चैव सञ्चारं ज्योतिषां तथा॥ ७॥
पातालग्रामारण्येषु नगरेषु च चतुष्पथे।
एकवृक्षे वीरगृहे शिखरे व्योम्नि वा तथा॥ ८॥
वागीशं बृहस्पतिं तस्य मातरं वाणीं दिव्यं दिविभवं वृत्तान्तं जानाति। दिव्यानां
योगिनीनां कथा दिव्यकथा। ज्योतिषां ग्रहाणां सञ्चारं जानाति। पाताल इति।
सप्तसु पातालेषु यद् वृत्तं तज्जानाति। ग्राम इत्यादि। नन्दिग्रामादौ। अरण्ये महारण्ये।
नगरेषु वर्द्धमानादिषु। वीरगृहे क्षेत्रपालाद्यधिष्ठाने। व्योम्न्याकाशे। शिखरे पर्वत-
शिखरे॥ ७-८॥
स्मरन्ति हृदयोपहृदयं न दृश्यन्ते देवमानुषैः।
तस्मादेषु प्रदेशेषु नित्यं तिष्ठन्ति साधकाः॥ ९॥
एषु स्थानेषु हृदयोपहृदयं सप्ताक्षरं ये स्मरन्ति जपन्ति। ते न दृश्यन्ते देवमानुषैः।
एषु स्थानेषु तज्जापाददृश्यसिद्धिरिति भावः। तस्मादेषु प्रदेशेषु नित्यं तिष्ठन्ति साधका
इत्युपसंहारः एष्वेव स्थानेषु जपितव्योऽयं मन्त्र इति भावः॥ ९॥
रक्तवर्णं तु वृक्षाग्रे ध्यात्वा सप्तात्मकाक्षरम्।
नामयेदाश्वभग्नभूधरानिति चान्यथा॥ १०॥
आत्मकाये तु विन्यस्य भूमौ दर्भासने शयेत्।
सप्तात्मकाक्षरं मन्त्रं जपेदष्टोत्तरं शतम्॥ ११॥
स्वप्ने प्रदर्शयेत् सर्वं कार्यं यच्च मनेप्सितम्।
अपमृत्युहतं नष्टं अन्यत्कार्यं च यद् भवेत्॥ १२॥
मन्त्रजापेन खड्गेऽङ्गुष्ठे जले दीपेऽथ दर्पणे।
मन्त्री सदाऽऽत्मयोगेन प्रसेनमवतारयेत्॥ १३॥
सप्तात्मकाक्षरमिति। सप्तसंख्यात्मकान्यक्षराणि यस्य स तथा। तं वृक्षाग्रे ध्यात्वा
वृक्षं नामयेत्। अभग्नमभिन्नम्। इति इच्छाप्रतिबद्धता दर्शिता। भूधरान् शिला-
शैलान्। आत्मकाय इति आत्मकार्यार्थम्। आत्मकाम इति पाठः। सुबोधः। आत्म-
काये त्विति। चक्षुःश्रोत्रघ्राणजिह्वाकायमनस्सु षडक्षराणि मनसि [ च ] फट्कारं
विन्यस्य दर्भासने शयेय् शयीत। शेषं सुबोधम्। आयुरियद्वर्षावधीति कथयति मन्त्रः।
श्रीहेरुको वा। मृत्युहतो। मृत्युहतो मृत्युसकाशाद् गत इत्यर्थः। नष्टमदर्शनीभूतं देशा-
न्तरस्थं अन्यान्यपि कार्याणि सर्वमित्युपसंहारः। तामिति देवता कथयति। खड्गादौ
चाष्टोत्तरशतं जप्त्वा प्रसेनं ज्योतिषमवतारयेत्॥ १०-१३॥
विभाव्य सप्तधा जप्त्वा दर्शयेच्च शुभाशुभम्।
अथ वीरः सप्ताक्षरं मन्त्रं विन्यस्य भेदतः॥ १४॥
विचिन्त्य व्याधितं सूर्यमध्ये जपेत् सहस्त्रकम्।
[ क्षणादङ्गुष्ठमात्रं तु विज्ञानं च विभावयेत् ]।
स्फटिकाकारसदृशं दर्शयेद् व्याधिपीडितम्॥ १५॥
भवेद् दर्शनमात्रेण व्याधिभङ्गो न संशयः।
रोगी रोगविनिर्मुक्तो भवेच्च शरदिन्दुवत्॥ १६॥
दारिके दारिकायां वा खड्गादि दर्शयेत्। तौ शुभमशुभं वा कथयतः। अथेत्या-
दिना व्याधिशान्तिमाह - सूर्यमध्ये सप्ताक्षरं मन्त्रं साक्षाद् गोरोचनादिना विन्यस्य
लिखित्वा ध्यात्वा वा तस्य मध्ये व्याधितं विचिन्त्य सहस्त्रं वारान् जपेत्। भेदतो
विदर्भणतः। स्फटिकाकारसदृशं निर्मलत्वात्। तं व्याधिपीडितं दर्शयेत्। पश्येद्
ध्यायेदिति यावत्। स्फटिकाक्षरसदृशमिति पाठान्तरे स्फटिकवच्छुक्लान्यक्षराणि
सदृशानि शोभनानि यस्य स तथा मन्त्रः। विभावयेत् तादृशं मन्त्रं करं व्याधि-
पीडिताय दर्शयेत्। चतुर्थ्यर्थे द्वितीया इति व्याख्येयम्। क्षणादङ्गुष्ठमात्रमिति। तस्य
हृदि चाङ्गुष्ठपरिमाणं विमलस्फटिकसमं विज्ञानं ध्यायात्। किम्भूतं सर्वस्मिन्नाना
व्याधयो यतस्तत्सर्वव्याधिनिर्मुक्तं कायं विज्ञानं चाय भावयेन्मन्त्रं जपेदिति
समुदायार्थः॥ १४-१६॥
शशिमध्ये वामहस्ते विन्यस्यैवं हि चक्रकम्।
स्फटिकाक्षरसंकाशं विन्यस्तः सर्वव्याधितः॥ १७॥
योगान्तरमाह - शशीत्यादि। वामो हस्तो यस्य तद् वामहस्तं चक्रकम्।
वामहस्ते शशिबिम्बं विचिन्त्य तत्र नवकोष्ठं चक्रं तस्य मध्ये ॐ। पूर्वे ह्रीः। दक्षिणे
ह। पश्चिमे हृ। उत्तरे ह्लँ। पुनर्मध्ये हूँ। कोणचतुष्टये फट्। इति सप्ताक्षरो मन्त्रः।
टकारं विहाय सप्ताक्षरत्वम्। ॐकारमिति केचित्। अत आह - स्फटिकाक्षरसं -
काशमिति। स्फटिकवच्छुक्लत्वादक्षराणां सप्तानां संविभागेन काशः प्रकाशो यत्र
तत्तथा चक्रम्। पुनः कीदृशं विन्यस्तः सर्वव्याधितो यत्र तत्तथा। मध्यस्थसाध्यचक्र-
वामहस्तं भावयेदित्युपदेशतः॥ १७॥
ज्वरो ग्रहाद्यपस्मारं शूलं कुष्टं तथैव च।
विषजन्या व्याधयश्च सर्वा एव न संशयः॥ १८॥
ज्वरेत्यादि। सहार्थे तृतीया। दष्टविषादीनां रोगो भङ्गो यतः। चक्रान्तर्दष्टविषादि -
रोगम्। आदिशब्दात् स्थावरादिविषम्। तुरवधारणे। सर्वे विगता आधयो यत-
स्तत्सर्वव्याधिः॥ १८॥

शशिबिम्बाक्षरं ध्यात्वा विद्रवन्ति दिशो दशम्।
रात्रौ गुह्ये च गोमांसं पिष्ट्वा त्रिमधुरेण हि॥ १९॥
ज्ञात्वा सप्ताक्षरं मन्त्रमष्टसहस्त्रेण होमयेत्।
अपरेऽह्नि लभेन्मन्त्री स्वर्णं पलसहस्त्रकम्॥ २०॥
दशसहस्त्रहोमेन लभेच्चापि सुराष्ट्रकम्।
अथवा मन्त्रराजं तु यत्र कुत्रापि चिन्तयेत्॥ २१॥
स तु तत्रैव च तदा जायते नात्र संशयः।
शुक्लेन जायते शान्तिः कृष्णेन मारयेत् क्षणात्॥ २२॥
रक्तेन च वशीभूय सद्य आकर्षणं भवेद्।
पीतेन सर्वाभिभवनमिति शास्त्रस्य निश्चयः॥ २३॥
पीतेनैव तु नौयन्त्रगजसैन्यपराक्रमम्।
शुक्लचिन्तनमात्रेण मृत्योर्मोचयते ध्रुवम्॥ २४॥
महाव्यालशतग्रस्तोऽप्याशु दंष्ट्रात् प्रबुध्यते।
विषेण मूर्च्छितो दृष्ट्वा तथैव प्रतिबुध्यते॥ २५॥
ज्वरग्रहापस्मारगृहीतस्तु करं दृष्ट्वा बिभेष्यति।
मुष्टिं बद्ध्वा जनो युद्धे मनसा च जपेत् सदा॥ २६॥
यावन्न मुच्यते मुष्टिस्तावत्सर्वं हि सिद्ध्यति।
उदायुधोऽपि वै शत्रुर्यावन्मुष्टिर्हि बन्धिता॥ २७॥
इच्छन्नप्यायुधं तावत् प्रक्षेप्तुं नैव शक्यते।
अथवा सर्वकर्येष्वेवमेव हि सिद्ध्यति॥ २८॥
शशिबिम्बाक्षरमिति। पूर्ववच्छाशिबिम्बविन्यस्तसप्ताक्षरं वामहस्तं दृष्ट्वा ध्यात्वा
व्याधिपीडिताय दर्शयेत् तेन वाऽपमार्जयेत्। विद्रवन्ति दिशो दशमिति। तेषामक्षराणां
रश्मयः। क्षरदमृतस्वभावा दिशः पूर्वादिदिशो दश। विद्रवन्ति व्याप्नुवन्ति। ईदृशस्व-
रुपाक्षरं वामं हस्तं दर्शयेत्तेनापमार्जयेदिति भावः।
होममाह - गोमांसमित्यादि। त्रिमधुरं गुडमधुशर्कराः। अथवा मन्त्रराजमिति।
यत्र शान्त्याद्यर्थं चिन्तयेत्तत्र शान्त्यादि जायते इत्याह - तदा तस्मिन् जायते नात्र
संशय इति। जापमानमाह - शुक्लेनेत्यादि सद्य आकर्षयेदिति रक्तवर्णमेव दृष्ट्वेति
वामं करं सप्ताक्षरम्। अथवेत्यादिना। मन्त्रजापिन एवमेव सर्वं सिद्ध्यतीति सिद्धि-
लिङ्गं दर्शयति॥ १९-२८॥
पत्रैः पुष्पैः फलैश्चैव ताम्बूलैर्भोजनैस्तथा।
शरीरयोगः प्रथमः द्वितीयः शक्तिकस्तथा॥ २९॥
तृतीयं वाक्यतश्चैव चतुर्थं नोपलभ्यते।
समुद्रमेखलायां च वृक्षाच्छादिते भुवि॥ ३०॥
अनेन मन्त्रराजेनात्र सिद्धिर्न संशयः।
चराचरे त्रैधातुके शक्यमेव हिताहितम्॥ ३१॥
इति श्रीहेरुकाभिधाने उपहृदयकर्मसिद्धिविधि-
पटलः त्रिचालीशतिमः॥ ४३॥
पत्रैरित्युपयोगिभिः ताम्बूलैर्विचित्रैः शरीरयोगः शरीरसन्धारणम्। द्वितीयः
शक्तितः शक्तिमान्। अमनुष्या अपि तस्य किङ्करा भवन्तीति भावः। तृतीयं वाक्य-
तश्चैवेति। वाक्सिद्धिरिति भावः। मन्त्रराजं चिन्तितमित्यर्थः। " मन्त्रं मन्त्रमिति प्रोक्तं
तत्त्वचोदनभाषणम् ' इति। वाचा कायेन चित्तेन शापानुग्रहकर्ता योगी॥ २९-३१॥
हृदयोपहृदस्य कर्मक्रिया तत्साध्यं कुसुमपातनादिकार्यं तद् विधीयते येनासौ
पटलश्चेति स तथा। त्रिचालीशतिमस्त्रयश्चत्वारिंशत्तमः।
इति श्रीचक्रसंवरविवृतौ त्रिचत्वारिंशत्तमः पटलः॥ ४३॥
षड्योगिनीनां सप्ताक्षारकर्मविधिपटलः चतुश्चालीशतिमः
अथ दूतीं समासाध्य सप्ताक्षरसंयुतैः।
यत्र कर्म समारभ्य तत्क्षणादाशु सिद्ध्यति॥ १॥
सप्ताक्षरविधानेन विन्यस्य षड्योगिनीम्।
[ करे ] षट्संस्थितं चक्रं प्रकुर्यात् तादृशं विधिम्॥ २॥
येन रुपधरं ध्यात्वा वामेन चोदनान्वितम्।
दर्शयते करं यस्य मुखेनोच्चार्य मन्त्रराट्॥ ३॥
अथेति। षड्योगिनीमन्त्रकर्मप्रसरः प्रस्तूयते। यत्र दूती सिध्यति साक्षाद् भवति स
कर्मप्रसरः। किंकृत्वा प्रस्तूयत इत्याह - कर्म समारभ्येति। आकर्षणकर्मादि कृत्वा
कर्मप्रसरः प्रस्तूयत इति योज्यम्। कैरित्याह - समासाध्य सप्ताक्षरसंयुतैरिति। संवि-
भज्यात्मना साध्यः साधनीयः षड्योगिनीमन्त्रः। तस्य संयुतानि संयोगध्यानानि।
कर्माह - करेत्यादि। ॐ हाँ ह्रीँ ह्रेँ हुँ हूँ फट् सप्ताक्षरो मन्त्रः। षड्योगिन्यः
ताः सप्ताक्षरषड्योगिनीः करमध्ये विन्यस्य साध्यमाकर्षयेदिति सम्बन्धः। विन्यासं
वक्तुमाह - षडित्यादि। षण्णामाराणां संस्थानेन स्थितं चक्रं यत्राकर्षणे तत् षट्-
संस्थितं चक्रं क्रियाविशेषणम्। अतस्तु विशेषे। वाम इति करमध्यविशेषणम् षट् -
संस्थितं चक्रं यथा भवति तथा तमाकर्षेत् करं यस्मै दर्शयति। अत आह - दर्शयते
करं यस्येति। किंकृत्वा करं कस्मै दर्शयतीत्याह - यस्याक्रष्टव्यस्य रुपं धरतीति
चक्रं ध्यात्वा। पुनः किंकृत्वेत्याह - मुखेनोच्चार्य मन्त्रराडिति द्वितीयालोपे। षड् -
योगिनी सम्बन्धिनं सप्ताक्षरमुच्चार्य मुखेनेति विशेषितं भावनीयत्वात्। किंभूतं मन्त्र-
राजमित्याह - चोदनान्वितम्। षडारचक्रं वामकरे विचिन्त्य तत्र मध्ये ॐ।
पञ्चारेषु हाँ ह्रीँ ह्रेँ हूँ फडिति षडक्षराणि विन्यसेत्। तत्किरणजालेनाङ्कुशाकारेण
नीयमानं विभाव्य साध्यं तस्मै करं चक्रान्वितम्। ॐ हाँ ह्रीँ ह्रेँ हूँ फट्
देवदत्तमाकर्षयेति चोदनान्वितं मन्त्रमावर्तयन् साक्षात्करं दर्शयँस्तमाकर्षयतीति समु-
दायार्थः॥ १-३॥
ध्रुवमाकर्षयेत् तस्य रक्तचन्दनराजिका।
साध्यपादस्य धूलीं च लवणं हि तथैव च॥ ४॥
एकीकृत्य परीक्ष्याथ मन्थयेच्च करद्वये।
योगिन्यै जुहुयाद् रात्रौ चण्डालाग्नौ यठाविधि॥ ५॥
चिताग्नौ वा हुनेच्चूर्ण साध्यस्याभिमुखी भवेत्।
एतत्प्रयोगमारभ्य शतं यावज्जपेत्तथा॥ ६॥
ध्रुवमाकृष्यते तेन साध्यात्मक एव हि।
एतत्प्रयोगे सिद्धे तु वशीकुर्याद्धनं नरम्॥ ७॥
नान्यथा वच्म्यहं तस्य गृहीत्वा पादधूलिकाम्।
लोहचूर्णेन संमिश्र्य वेष्ट्यं श्मशानकर्पटे॥ ८॥
चतुष्पथे सप्तजप्त्वा खनेदष्टाङ्गुलां क्षितिम्।
तच्चूर्णं गोपयेत्तत्र रिपुनामसमन्वितम्॥ ९॥
भविष्यति पराभूतः गोक्षीरेण जपेद्यदि।
तदेव चूर्णं यत्नेन पुनः प्रत्यानयनं भवेत्॥ १०॥
तच्चूर्णग्रहणाच्चापि सिद्धिरेव न संशयः।
पञ्चोन्मत्तकं संयोज्य वेष्ट्यं श्मशानकर्पटे॥ ११॥
रिपुनाम् लिखेत्तत्र शतोच्चारेण जापयेत्।
श्मशाने तद्गोपनेन साध्य उन्मत्तको भवेत्॥ १२॥
उत्खन्य गोक्षीरेण स्नापयित्वा प्रयत्नतः।
मुक्तश्च प्रत्यानयनं याति सिद्धिं न संशयः॥ १३॥
इति श्रीहेरुकाभिधाने षड्योगिनीनां सप्ताक्षरकर्मविधि-
पटलः ] श्चतुश्चालीशतिमः॥ ४४॥
रक्तचन्दनादि योगिना मन्त्रेण करद्वयेन निर्मथ्य चित्यग्नौ चण्डालाग्नौ वा तथैव
चोदनान्वितं जुहुयात्। यथाविधीति। रक्तचन्दनादिसंविधानादिकरणं विधिः। प्रकृष्टो
योगि यत्र तत्प्रयोगं हवनमिदम् , श्रीहेरुकाश्रयात्। तान्येव रक्तचन्दनादीनि धूलीं साध्य
पादसंबन्धिनीं च। रिपुनामसमन्वितमिति चोदनान्वितम्। शुचिक्षीरेण गव्येन क्षीरेण
प्रत्यानयनमिति भावः। शेषं सुबोधम्॥ ४-१३॥
सप्ताक्षरस्वरुपाः षड्योगिन्यस्तासां कर्माकर्षणादि विधीयन्ते येनासौ पटल-
श्चेति स तथा। चतुश्चालीशतिमश्चतुश्चत्वारिंशत्तमः।
इति श्रीचक्रसंवरविवृतौ चतुश्चत्वारिंशत्तमः पटलः॥ ४४॥
षड्योगिनीकर्मवाक्सिद्ध्याकर्षणविधिपटलः
पञ्चचालीशतिमः
अथ कर्मवरं श्रेष्ठं वाक्सिद्धिप्रसाधकम्।
करवीररक्तपुष्पाणि शतमष्टोत्तराणि च।
संगृह्य गावीक्षीरेण शतजप्तं तु कारयेत्॥ १॥
इदानीं षड्योगिनीकवचमन्त्रेण शेषाक्षरषट्कात्मकमन्त्रकर्मप्रसरपटलमाह -
अथेत्यादि। अथेति षड्योगिनीकवचमत्राक्षरसप्तकात्मकमन्त्रकर्मप्रसरकथनानन्तरम् ,
कर्मवरं षडक्षरमन्त्रसम्बन्धि भवतीति ज्ञेयम्। ॐ वँ योँ मोँ ह्रीँ हूँ हूँ फडिति
मन्त्रस्तस्य कर्म तत्सिद्धिप्रसाधकम्। वाचा साधस्य सिद्धिः साक्षात्क्रिया। एतदे-
वाह - करवीरेत्यादि। अष्टोत्तरं शतं रक्तकरवीरकुसुमानि। गव्यक्षीरेण यत्नतः
संस्कारतः सेकात् अष्टोत्तरशतजप्तानि कुर्यात्॥ १॥
सकृज्जप्तेन पुष्पेण लिङ्गमूर्ध्नि तु ताडयेत्।
एवं दिने दिने कुर्यात् सप्ताहं सुसमाहितः॥ २॥
ततस्त्वेकादशे दिवसे गृह्यतां कुसुमानि तु।
महानद्यां तु वै गत्वा एकैकं तु प्रवाहयेत्॥ ३॥
ततः सकृज्जप्तेन एकैकेन पुष्पेण लिङ्गमूर्ध्नि ताडयेत्। एवं सप्तदिनानि कुर्यात्।
सुसमाहितो देवतायोगी। ततस्त्वेकादशे दिवसे त्विति। सप्ताहानन्तरम्। तुरेवार्थे।
यावदेकादशं दिवसं स्यात् तावत् चत्वारि दिनानि न तानि संगृहीतव्यानि। किन्तु
तावत्सु दिनेषु तत्र मन्त्रोऽपि त्रिसन्ध्यं जपितव्यः। अत एव तुर्विशेषे। एकादशे
दिवसे सद्गृह्यतां सम्यगविपरीतमालोक्य गृह्यताम्। ग्रन्थतामिति सामान्यकर्मणि।
ग्रन्थनसूत्रञ्च करवीरवल्कलस्येत्युपदेशः। विशेषमाह - कुसुमानि त्विति। तुरेवार्थे।
तान्येव कुसुमानीत्यर्थः। महानदी शोषरहिता। तुः समुच्चये वैस्तदात्वार्थे तुरवधारणे।
न कदाचिद् वै॥ २-३॥
सर्वांस्ताननुपूर्वेण सकृज्जप्तं प्रयोजयेत्।
नद्यां पश्चिमपुष्पं तु प्रतिस्त्रोतं प्रवाहितम्॥ ४॥
तं गृह्योदकेन संयुक्तं दन्तैर्न संस्पृशेत् पिबेत्।
वाचासिद्धि( द्ध )स्तु साधको गुह्यतन्त्रे विनिर्गतम्॥ ५॥
कथं प्रवाहणमित्याह - सर्वांस्ताननुपूर्वेणेति। ताडनकाले पंक्तिशः प्रथमादि -
कुसुमस्थापनं ज्ञात्वा कुर्यात्। तथैव ग्रन्थनं तदानुपूर्व्या प्रवाहणम्। ग्रन्थनकालानुपूर्वी
चेति केचित्। पश्चिमपुष्पं ताडनकालस्य पश्चिमपुष्पं ग्रन्थनकालस्येति केचित्।
प्रतिस्त्रोतं प्रपाति( वाहि )तम्। स्त्रोतोवेगमतिक्रम्य मन्त्रसामर्थ्येन प्रतीपं याति तत्।
शेषं सुबोधम्। वाचासिद्धिर्यस्य स तथा साधकः। गुह्यतन्त्रविनिर्गतं प्रकरणमिति
भावः॥ ४-५॥
योगिनीयोगमुद्रां बद्ध्वा शतमष्टोत्तरं जपेत्।
साध्यस्याभिमुखो मन्त्री साध्यस्यैवोदरे स्थितम्॥ ६॥
कनिष्ठिकां चालयेद्धीमान् त्रिसन्ध्यं तन्मनःस्थितः।
ब्रह्मघ्नोऽपि सप्ताहात् शक्रादिवशमा नयेत्॥ ७॥
साध्यप्रतिकृतिं कृत्वा रक्तचन्दनधूलिना।
त्रिकटुकेन लिप्ताङ्गं सिक्थकेन प्रलेपितम्॥ ८॥
ताम्रसूच्या तु तां बिद्ध्वा गुह्यस्थाने तु साधकः।
निर्धूमैर्खदिराङ्गारैस्तापयेत् सप्ताहाद् बुधः॥ ९॥
जप्तेन शतान्तेभिः नृपतिः सामन्तः सपुरोहितः।
अन्तःपुरं सपरिवारं द्रुतमाकर्षयेत्ततः॥ १०॥
नृपतेः सपरिवारं भूर्जपत्रे तु लेखयेत्।
प्रेतालक्तकरोचनया लिखेन्नाम विदर्भितम्॥ ११॥
यस्याभिमुखो जपेत् खदिरानलेन [ प्रतापयेत् ]।
प्रेतालये प्रसिद्ध्यर्थं तापयेद् यावत् सिक्थकं न लीयेत॥ १२॥
ताप्यमानं तु राजानं स चक्रवर्तिनमाकर्षयति।
पादधूलिं ति साध्यस्य रक्तचन्दनमेव च॥ १३॥
योगिनीयोगमुद्रां पर्यङ्कं बद्ध्वा वज्रबन्धं कृत्वा मध्यमाद्वयमुखेनाङ्गुष्ठद्वयमुखे
योजयित्वा तर्जनीद्वयमुत्थाप्य परस्पराग्राभ्यां योजयेदिति योगिनीयोगमुद्रेति केचित्।
योनिमुद्रामिति क्वचित्पाठेऽपीयमेव सा मुद्रा। अनन्तरं जप इति च ज्ञेयम्। कथं
जपेदित्याह - साध्यस्येत्यादि। कनिष्ठां षड्योगिनीषड्क्षरमालां सविदर्भां यन्त्रगतां
कृत्वा साध्यपादधूल्यादिकृतायाः साध्यप्रतिकृतेरुदरे निक्षिप्ताम्। चालयेज्जपेत्। किं -
भूतो जपेदित्याह - साध्यस्य प्रतिकृतिगतस्याभिमुखः। त्रिसन्ध्यं तन्मनःस्थितः
शक्रादिवशमानयेत्। अष्टोत्तराष्टोत्तरशतसप्ताहजापात्। षट्पञ्चाशदुत्तरसप्तशतान्ताः।
तैः शतान्तेभिः शतान्तैराकर्षेत्। तत इति सामग्र्याः। शेषं सुबोधम्॥ ६-१३॥
श्मशानोत्सृष्टं भस्म एकीकृत्य तु साधकः।
[ निर्धूमैः खदिराङ्गारैः तापयेच्च प्रयत्नतः॥ १४॥
करद्वयेन तां धूलिं निर्मथ्य होमयेत्।
सिद्धिं यावद् होमित्वं गृहीत्वा धूलिमेव हि॥ १५॥
श्वासं निरुध्य वि( नि )क्षिप्तां तां तत्र निखनेद् ध्रुवम्। ]
मूर्च्छिता चेतनरहिता क्लीना( क्लिष्टा ) चैव विमोहिता॥ १६॥
ताप्यमानं प्रतिकृतिं श्मशानोत्सृष्टं भस्म वा शोषितम्। निखनेत् तस्य धूलि-
मिति। होमधूलिम्। शेषं सुबोधम्॥ १४-१६॥
आगच्छति वायुवेगेन निपतति साधकोपरि।
पशुं वा यदि वा दूतीं कारयेद् [ विभजेद् बुधः ]॥ १७॥
ततो वै कारयेत् कर्म दूतीग्रहणमेव च।
करवीरलतां गृह्य सार्द्रां बाहुप्रमाणतः॥ १८॥
यस्य मन्त्राभिसंलिख्य कर्मकस्य तु साधकः।
ज्वलमानेऽपि चिन्त्यग्नौ क्षिपेत् [ चैव लतां पुनः ]॥ १९॥
स त्वरि[ तं त ]तो गृह्य यावत्सा न दह्यते।
विद्यया सप्तजप्तं तु यमनुस्मृत्य भ्रामयेत्॥ २०॥
पशुमित्यादिना प्रयोगान्तरमाह - पुरुषं स्त्रियं वा कारयेत् स्वाभिमतं कर्म।
ततः कारणादेव दूतीग्रहणम्। दूतीनिग्रहः। सार्द्रां बाहुप्रमाणत इति। आर्द्रां
बाहुप्रमाणाम्। करवीरलतां गृहीत्वा यस्य मन्त्राभिसंलिख्येति। यस्य नामविदर्भणेन
मन्त्रं तमेवाभिलिख्येत्यर्थः। कर्मकस्य त्विति। पुरुषस्य स्त्रियो वा विपर्यये षड्-
योगिनीकवचापराक्षरमन्त्रेण। स इति पुरुषः। सा वा स्त्री॥ १७-२०॥
तत्क्षणात् वायुवेगोनागच्छति वरस्त्रियां स्वरुपिणी।
करवीररक्तपुष्पं तु शतजप्तं पुष्ययोगेन साधकः॥ २१॥
गोरोचनया विलिप्तं पुष्पं उदकेन संस्थितम्।
अवतीर्य महानद्यां नाभिमात्रजले स्थितम्॥ २२॥
करसम्पुटमध्यस्थं सहस्त्रजप्तं च विद्यया।
करद्वयेन सम्पूर्णजलेन सहितं पिबेत्॥ २३॥
अत आह - वरस्त्रियां वा स्वरुपिणीति। वरस्त्रियामिति वरस्त्रियम्। वाक्-
सिद्धिप्रयोगान्तरमाह - करवीररक्तपुष्पमित्यादि। पुष्यनक्षत्रेणाष्टोत्तरशतजप्तं कृत्वा
ग्रहीतव्यम्। ततो गोरोचनया विलिप्तं तमिति तत्पुष्पं उदकेन मदनेन संस्थितम्।
तत्राष्टोत्तरशतजप्तं कुर्वीत। ततो महानद्यां नाभिमात्रे जलेऽवतीर्य सहस्त्रं जपेत्।
करद्वयेनेति। सहस्त्रजापानन्तरमुत्तरसाधकेन साधकस्याञ्जलौ निक्षिप्तं सम्पूर्णम-
भग्नकेशरादि। जलेनेति। यत्र तत्पुष्पमुत्तरसाधककरसंपुटस्थं भूतं करद्वयेन स्व-
कीयेन॥ २१-१३॥
ततस्तस्य भवेत्सिद्धिर्वाचासिद्धिस्तु साधकः।
राजानं राजपत्नीं वा मनसाकर्षयेद् ध्रुवम्॥ २४॥
वशं च कुरुते क्षिप्रं स देवासुरमानुषान्।
वाचया मारयेत् क्रुद्धो अस्योच्चाटनमेव च॥ २५॥
निग्रहं कुरुते वाचा एवमेवेति साधकः।
स्तम्भयेन्नदीं शकटं यन्त्रं वाचामात्रेण सागरम्॥ २६॥
गजवाजितथामेघान् पुरुषं वाथ पक्षिणम्।
वाचया कुरुते सर्वा मनसा यन्मनेप्सितम्॥ २७॥
वाक्सिद्धेः प्रयोजनमाह - राजानमित्यादि। वाचया मारयेत् क्रुद्धो स्योच्चाट-
नमेव चेति। असमानस्योच्चाटनमस्योच्चाटनम्। गजश्च वाजी च तथाभूतो मेघस्तथा-
मेघः गजवाजितथामेघाः तान्। यन्मने च्छत इति। यत्र मनस इच्छा तत्कर्षणादि
कुरुते॥ २४-२७॥
आकर्षणप्रयोगं तु सर्वस्त्रीमोहकारकाम्।
रक्तकुसुमं तु संगृह्य करवीरस्य संहरेत्॥ २८॥
विद्यया सप्तजप्तस्य योनिमध्ये निधापयेत्।
सम्पुटीकृत्य तं पुष्पं गुह्यस्थाने नियोजयेत्॥ २९॥
शतमेकं जपेन्मन्त्री अद्वयज्ञानयोगवान्।
तैः पुष्पैर्योनिमध्यस्थैर्गृह्यमेकं तु साधकः॥ ३०॥
यं ताडयति पुष्पेण तत्क्षणात् स वशी भवेत्।
विह्वलाचेतनरहिता परवशा सर्वाङ्गसन्धिषु॥ ३१॥
वशं च कुरुते क्षिप्रं प्रत्ययश्चेन्निवर्तते।
एतत्प्रत्ययसिद्धिस्तु अमोघवशकारकः॥ ३२॥
इति श्रीहेरुकाभिधाने षड्योगिनीनां कर्मवाक्सिद्ध्याकर्षण-
विधिपटलः पञ्चचालीशतिमः॥ ४५॥
आकर्षणेत्यादिना प्रयोगान्तरमाह - तच्च सुबोधम्। प्रत्ययश्चेत् निवर्तत इति।
चेतनावति प्रत्ययो न तु काष्ठपाषाणादौ॥ २८-३२॥
षड्योगिनीकवचमन्त्रापरषडक्षरात्मको मन्त्रः, तस्य कर्म षड्योगिनीकर्म , तच्च
वाक्सिद्ध्या वाङ्निष्पत्त्या आकर्षणं तद् विधीयते येनासौ पटलश्चेति स तथा।
पञ्चाचालीशतिमः पञ्चचत्वारिंशत्तमः।
इति श्रीचक्रसंवरविवृतौ पञ्चचत्वारिंशत्तमः पटलः॥ ४५॥
पञ्चहकारकर्मविधिपटलः षट्चालीशतिमः
अथ हकारपञ्चकस्य सर्वकर्मप्रसाधकः।
येन विज्ञातमात्रेणाशुसिद्धिः प्रवर्तते॥ १॥
इदानीं हकारपञ्चकस्य कर्माह - अथेत्यादि। अथ हकारपञ्चककर्म प्रक्रियते।
हकारपञ्चकस्येति। हकारपञ्चकस्य कर्म कार्यं तत्प्रसाधको योगी हकारविस्तरस्येति
वा॥ १॥
हा ही है हौ हः पञ्चहकारहस्तौ तु संमर्द्दयेत्। चोदनान्वितस्य मुखेनापि रुधिरं
वहति तत्क्षणादेव मारयेद्रिपुम्॥ २॥
स्व( श्व )शोणितं कपालस्थमनामिकारुधिरेण मर्द्दयेत्।
यावत् शोषमायाति ततः साध्यो विनश्यति॥ ३॥
यदि क्रुद्धो दीप्तेन जपेत्संरक्तलोचनः।
राजानं मारयत्याशु ससैन्यबलवाहनम्॥ ४॥
हकारपञ्चकमाह - हा ही है हौ हः इति हकारपञ्चकम्। षष्ठं स्वरं विना
षड्वीरकवचमन्त्रोद्धारशेषपञ्चस्वरविशेषतो हकारः। पञ्चहकारेण पञ्चबाणयुक्तौ
हस्तौ सम्मर्द्दयेदिति सम्बन्धः। अत आह - पञ्चहकारा( रौ ) यौ [ ह ]स्तौ चेति
पञ्चहकारहस्तौ। पञ्चारं चक्रं हस्तयोर्विचिन्त्य साक्षाद्वा विलिख्य तत्र पञ्चाक्षराणि
विचिन्त्य विलिख्य वा तौ मृद्रीयादिति समुदायार्थः। पञ्चशब्दस्य व्यक्त्यर्थत्वादुकार-
स्यापि ग्रहणे हा ही हू है हौ हः इति षड् हकार एव। पञ्चहकारो मन्त्रश्च
षडक्षरमिति केचित्। मुखेनापि रुधिरमिति। पञ्चसु शिरासु सूच्याकारेण मुखेन
विद्ध्वा रुधिरमाकृष्यमाणं कपालस्थं चिन्तयेदिति ततस्तत्क्षणादेव स रिपुं मार-
यति। प्रयोगान्तरमाह - श्वशोणितमित्यादि। अनामिका अनपत्या। तस्या रुधिरं
रजः शोषमायाति। ऊष्मायत इत्यर्थः। पञ्चहकारजपादेवं कार्यम्। यदि क्रुद्ध
इत्यादिना जपमानसिद्धिमाह - विषराजिकादिना हस्ततलद्वयं विलिप्य तदुपरि हरि-
तालस्फटिकादिना काकपक्षलेखनीगृहीतेन पञ्चहकारान् पूर्ववद् विलिख्य ध्यानेनापि
तथा दृष्ट्वा खदिराङ्गारवह्नौ वा साध्यपादधूलीः करद्वयेन संमर्द्य जुहुयान्नामप्रकरण-
पूर्वकम्। तेनैव मन्त्रेण ततो मुखेन रुधिरमुद्वम्य म्रियते रिपुरिति केचित्॥ २-४॥
मार्जार नकुलेभ्यश्वानकाकवकजम्बुकडाकिनीबलि होमयेत्।
आशुसिद्धिकरा ह्येते अस्मिन् तन्त्रे न संशयः॥ ५॥
होमप्रयोगमाह - मार्जारित्यादि। इभ्य ईश्वरः। जम्बुक आर्षत्वात्। एतेषां मांसेन
डाकिनीनां बलिपूर्वको होमः। तं डाकिनीबलिहोममाचरितव्य इति। डाकिनीबलि-
होमयेत्। तन्मांसमनेन मन्त्रेण विदर्भणपूर्वकं जुहुयादिति भावः। आशुसिद्धिकरा
राज्यादिसिद्धिकराः। एत इति मार्जारादयः॥ ५॥
शशकादीनां रोमाणि रज्जुं कृत्वा सहस्त्राभिमन्त्र्य।
यस्य गले बध्नानि स तादृशो भवति॥ ६॥
हस्तं सहस्त्राभिमन्त्रितं कृत्वा करवीरकुसुमैरे कैकाक्षरं संयोज्य गुर्विणीं संस्पृ-
शेत्। गर्भः संक्रामयति मुक्ते मोक्षः। यं तर्जयति तं मारयति पुनर्जीवापयति॥ ७॥
इति श्रीहेरुकाभिधाने पञ्चहकारकर्मविधिपटलः
षट्चालीशतिमः॥ ४६॥
शशकादीनामिति। आदिशब्दाच्छृगालादेर्ग्रहणम्। सहस्त्रेति निर्विभक्तिकम्। हस्तं
च सहस्त्राभिमन्त्रितं कृत्वा गर्भवतीं करवीरकुसुमैः सह तेन संस्पृशेत्। तेन किमि-
त्याह - गर्भमित्यादि। एकैकाक्षरं संयोज्येति। पञ्चलक्षजापादनन्तरं ततः कर्मयोग
इति भावः। मुक्ते मोक्षः इति। करेण तस्याः शरीरे मुक्ते गर्भ [ स्त्रावो ] मोक्षः॥ ६-७॥
षड्योगिनीकवचमन्त्रप्रयोगेषु वज्रवाराहीयोगः। अन्यत्र श्रीहेरुकयोगः। हकार-
पञ्चककर्महस्तसम्मर्द्दनासिद्धिर्विधीयते येनासौ पटलश्चेति स तथा। षट्चाली-
शतिमः षट्चत्वारिंशत्तमः।
इति श्रीचक्रसंवरविवृतौ षट्चत्वारिंशत्तमः पटलः॥ ४६॥
सर्वबुद्धडाकिनीमन्त्रस्य सर्वकर्मविधिटलः सप्तचालीशतिमः
अथातः संप्रवक्ष्यामि सर्वडाकिनी तद्धृदि।
अनेनोच्चारितेनापि सर्वसिद्धिफलोदयम्॥ १॥
इदानीं वज्रवाराह्युपहृदय मन्त्रकर्मप्रसरमाह - अथात इत्यादि। अथेति हकार -
पञ्चककर्मप्रसरकथनानन्तरम्। सर्वडाकिनी तद्धृदि सम्प्रवक्ष्यामीति सम्बन्धः। सर्व -
डाकिनीवज्रवाराहीहृदयमन्त्रः, तस्य हृदि हृदयम्। वज्रवाराह्या उपहृदयमन्त्र इत्यर्थः।
ॐ वज्रवैरोचनीये स्वाहेति। अतः सम्प्रवक्ष्यामि। यतः सर्वसिद्धिफलोदयो भवति।
अत आह - अनेनेत्यादि। जप्तेनानेन सर्वसिद्धिफलोदयं च संप्रवक्ष्यामि। तस्या
उपहृदयस्य कथयिष्यमाणत्वात्। कथं सर्वडाकिनी तद्धृदिमिति चेत् , तत्कर्मप्रसरस्य
नियतभावितत्वात्॥ १॥
ततो डाकिनीमहाविद्याजप्यमानया सर्ववर्णानां वशमानयति। सततजप्तेन महतीं
श्रीमुत्पादयति। नरास्थिमयं कीलकं षडङ्गुलाष्टशताभिमन्त्रितं कृत्वा यस्य द्वारे
निखनेत् तस्य गोत्रोच्छादो भवति। क्षेत्रे गोष्ठे महिषहस्त्यश्वस्थाने निखनेत् तस्य
विनाशो भवति॥ २॥
तत इति फलहतोः। डाकिनीमहाविद्या चासौ जप्यमाना चेति सा तथा तया।
षडङ्गुलेति निर्विभक्तिकम्। गोत्रोच्छाद इति तस्य जातयोऽपि समुच्छिन्ना भवन्तीति
भावः॥ २॥
अथ राजानं राजमन्त्रिणं वा वशीकर्तुकामो राहद्वारे मृण्मयेन प्रतिकृतिं कृत्वा
अष्टाङ्गुलं स्थापयेद् बुधः। प्रथमे दिने त्रीणि मातुलुङ्ग फलानि कुसुममिश्राणि
शतसहस्त्रं जुहुयात् वश्यो भवति। अनेनैव मन्त्रेणा कर्षणस्तम्भन शोषणमोहन-
जम्भनवाचापहारीकरणा न्धत्वमूकत्वं विसर्जनं च करोति॥ ३॥
मृण्मयीं प्रतिकृतिमिति। तस्य हृदि भूर्जादिगतं तन्नाम तन्मन्त्रविदिर्भितम्। राज-
द्वारे गोपयेत्। अष्टाङ्गुलमिति। तन्मानमधः खात्वा गोपयेदित्यर्थः। ततोऽन्यत्र मातु-
लुङ्गकुसुमानि त्रीणि होतव्यानि। ततोऽन्यद् द्विरष्टसहस्त्राणि तान्येव जुहुयात्॥ ३॥
अथ पुरुषं स्त्रीकर्तुकामेन मृतनरपुष्पाणि काकाण्डीफलानि बुभुक्षितस्य
पादौ चर्मनखादिसंगृह्य समभागानि कारयेत्। शशकरुधिरेण पिषयेत्। एकादश-
गुडिकां छायाशुष्कां कारयेत्। एवं सुदिवसे हस्ते बद्ध्वा द्वादशमे दिवसे यस्य
शिरसि चूर्णं ददाति स स्त्री भवति॥ ४॥
अथ पुरुषं श्वानं कर्तुकामः पुष्पलोहो नकुलमस्तके स्थाप्य सप्तरात्र्याष्टसहस्त्रं
जपेत्। अष्टमे दिवसे कुङ्कुमेन समं कृत्वा अष्टशताभिमन्त्र्य चूर्णं जुहुयात्। तद्
भस्म यस्य शिरसि ददाति स श्वानो भवति। प्रत्यानयने रात्रौ सन्ध्या[ यां वा ]
डाकिनीं महतीं पूजां कृत्वा बलिं दद्यात्ततः स्वाभाविको भवति॥ ५॥
द्रव्यमद्रव्यं कर्तुकामः कनकफलानि अष्टशतं जुहुयाद् द्रव्यमद्रव्यं भवति।
हरीतकीं जुहुयात् स्वाभाविको भवति। अथोन्मादं कर्तुकामः महाशकुनिवासं
जुहुयात् सप्तमे दिवसे अन्मादं भवति। प्रत्यानयने तुषान् जुहुयात् प्रशमयति।
विडालिरोमाणि सोमग्रहे संगृह्य यस्य नाम्ना मन्त्रेण जुहोति स भस्म गृह्य यस्य
शिरसि दापयति स विडालो भवति। पुनर्जयेत् स्वाभाविको भवति॥ ६॥
काकस्नायुरज्जुं गृग्याभिमन्त्र्य यस्य गले बध्नाति स काको भवति। एवं
काककपोतकमयूरवकोलूकश( श्ये )नकगृध्ररुपधारी भवति। गोवालं रज्जुं
कृत्वा अष्टशताभिमन्त्र्य यस्य गले बध्नाति स गो भवति। यस्य यस्य सत्त्वस्य
स्नायुरज्जुं गृह्याभिमन्त्र्य गले बध्नाति स तादृशो भवति। यस्य कस्य चतुष्पदः रज्जुं
कृत्वाभिमन्त्र्य गले बध्नाति तद्रूपधारी भवति। मुक्ते मोक्षः। धान्यमभिमन्त्र्य
महाधनपतिगृहे क्षिपेत्। शेषेणात्मानमभिषिञ्च्य सप्तरात्रौ सर्वधनान्याकर्ष-
यति॥ ७॥
इति श्रीहेरुकाभिधाने सर्वबुद्धाडाकिनीमन्त्रस्य सर्वकर्म-
विधिपटलः सप्तचालीशतिमः॥ ४७॥
काकाण्डीफलानि महाकालफलानि। बुभुक्षितः काकः। पुष्पलोहो लोह-
कीट। कनको धुत्तूरकः। महाशकुनिः। पेचकः। काकस्नायुः काकशिरा। शेषे-
णेति पश्चात्। एतदुक्तं स्यात्। धान्यप्रक्षेपानन्तरं तन्मन्त्राभिमन्त्रितेन जलेनात्माभि-
षेकात् सप्तरात्रजापी धनान्याकर्षति॥ ४-७॥
सर्वबुद्धडाकिनीमन्त्रकर्माणि विधीयन्ते येनासौ पटलश्चेति स तथा। सप्त-
चालीशतिमः सप्तचत्वारिंशत्तमः।
इति श्रीचक्रसंवरविवृतौ सप्तचत्वारिंशत्तमः पटलः॥ ४७॥
सर्ववीरडाकिन्यालयगोप्यमण्डलविधिपटलोऽष्टचालीशतिमः
अथान्यत्संओप्रवक्ष्यामि सर्वडाकिनी यच्छुभम्।
हृदयं सर्वयोगिन्यः सर्वकामार्थसाधकम्॥ १॥
अथेत्युपहृदयमन्त्रकर्मप्रसरकथनानन्तरम्। अन्यमन्त्रं सम्प्रवक्ष्यामि तच्च हृदयम्।
अत आह - सर्वडाकिनीति। सर्वडाकिन्यो यत्र तत्तथा हृदयम्। यच्छुभमिति।
यस्मादर्थे यतः शुभं यतश्च डाकिन्यो जायन्ते यज्जापात्साक्षाद् भवन्ति। अशेषाणां
सत्त्वानां सर्वकामार्थसाधकत्वात् सर्वकामार्थसाधको योगी यतो भवति॥ १॥
यस्य स्मरणमात्रेण त्रैलोक्यमपि कम्पते।
अनुस्मरणमात्रेण सम्यक्सिद्धिः क्रमेण तु॥ २॥
यस्य स्मरणमात्रेण त्रैलोक्यमपि कम्पते। यस्याश्च स्मरणमात्रेण त्रैलोक्यमपि
कम्पते यतश्च सम्यक्सिद्धिः संबोधिरिति। क्रमेण भवति। तद्धृदयं मन्त्रं संप्रवक्ष्या-
मीति योज्यम्॥ २॥
हास्वा ट्फ हूँ हूँ येनीर्णवज्रव येनीकिडाद्धबुर्वस ॐ॥ ३॥
तं हृदयमन्त्रमाह - हास्वेत्यादि। गोपितो मन्त्रः। ॐ सर्वबुद्धडाकिनीये वज्र-
वर्णनीये हूँ हूँ फट् स्वाहेति पाठनीयम्॥ ३॥
अयं मन्त्रः पठितसिद्धः सर्वकर्मकराः शुभाः।
डाकिनीनां योगिनीनां तु खण्डरोहा लामयस्तथा॥ ४॥
अयं मन्त्रः पठितसिद्ध इति। लिखनादिरहितः। ततश्च सर्वकर्माणि प्रागुक्तानि
कर्तुं शीलं येषां ते सर्वकर्मकरा योगिनः। शुभा विशुद्धाः। सर्वकर्माकरः शुभ इति
पाठे मन्त्रविशेषणम्। कस्यायं मन्त्र इत्याह - डाकिनीनामिति डाकिन्याः। योगि -
नीनामिति रुपिण्याः। तुः समुच्चये। खण्डरोहा लामयस्तथेति। खण्डरोहा लामयो-
रपीति भावः॥ ४॥
योगिनीनां तु सर्वेषामेवम्मन्त्रः प्रकीर्तितः।
पाताले यदि वा स्वर्गे मर्त्ये वापि तथा पुनः॥ ५॥
यत्किञ्चित् वर्तते कर्म [ सर्वसिद्धिकरः शुभः ]।
तत्सर्वं साधयेन्मन्त्रः सर्वसिद्धिप्रसाधकः॥ ६॥
नातः परतरं किञ्चित् त्रिषु लोकेषु विद्यते।
अनुत्तरमिदं यस्माद् दिव्योपायप्रदेशकम्॥ ७॥
तथा सर्वेषामिति। सर्वासामेव वज्रवाराह्यादीनाम्। एवम्मन्त्र ईदृशो मन्त्रः।
सर्वकर्मकरत्वमुद्दिष्टं निर्दिशति - पातालेत्यादि। वर्तत इति। लोकत्रये ज्ञायते। सर्व-
सिद्धिप्रसाधकः। नातः परं किमपि साधनमस्तीत्यर्थः। कुतो मन्त्रोऽय सर्वसाधक
इत्याह - अनुत्तरमित्यादि। इदमिति हृदयम्। दिव्यानुपायान् प्रदिशतीति दिव्योपाय-
प्रदेशकम्॥ ५-७॥
सर्वडाकिन्यालयं वक्ष्ये समासान्न तु विस्तरात्।
लिखित्वा पर्वतं दिव्यं नानापुष्पफलोदयम्॥ ८॥
तस्योपरि भावयेन्नित्यं डाकिन्यो लामयस्तथा।
योगिन्यः खण्डरोहा वै वीराणां वीरमेव च॥ ९॥
उद्दिष्टं योगिनीन्यासं निर्दिशन्नाह - सर्वेत्यादि। भावयित्वेति वक्तव्ये लिकित्वेति
यदुक्तं तल्लिखनेऽप्येवमपि साधनाय। पर्वतमिति सुमेरुम्। तस्योपरि भावयेन्नित्य-
मिति। प्रबन्धनित्यं कूटागारमित्यर्थः। तथेति कूटागारोपरि डाकिन्यादयो भाव्या साध-
नक्रमेण। अत आह - डाकिन्य इत्यादि। वीराणामिति। वीरैः खण्डकपाल्यादिभिः
सह चतुर्विंशतियोगिन्यः प्रचण्डादयो भाव्या इति ज्ञेयम्। डाकिन्य इत्यादिषु बहुत्वात्
काकास्यादयोऽपि। वीरमेव च श्रीहेरुकमेवापि भावयेदिति योज्यम्॥ ८-९॥
हा हा हे हेति चतुर्विंशतिवीराणां डाकिनीजालसंवरम्।
वज्रसत्त्वं वैरोचनं पद्यनर्तेश्वरं तथा॥ १०॥
श्रीवज्रहेरुकं चैव आकाशगर्भं हयग्रीवमेव च।
रत्नवज्रं महाबलं विरुपाक्षं भैरवं तथा॥ ११॥
वज्रभद्रं सुभद्रं वै वज्रहूँकारमेव च।
महावीरं वज्रजटिलं तु अङ्कुरिं वज्रदेहकम्॥ १२॥
वज्रप्रभममिताभं सुरावैरिणं विकटदंष्ट्रिणमेव च।
कङ्कालं महाकङ्कालं खण्डकपालिनमादि तु॥ १३॥
चतुर्विंशतिवीराणां सर्वं व्याप्तमखिलं जगत्।
वीराणां डाकिनीश्चैव योगिन्यः प्रचण्डादयस्तथा॥ १४॥
चक्रस्थास्तु द्रष्टव्याः सर्वकार्येषु च साधकः।
चक्रात्मं भावयेन्नित्यं सिद्धिकामः सुसमाहितः॥ १५॥
कीदृशाः कियन्तस्ते वीरा इत्याह - हा हा हे हे इत्यादि। हासोपलक्षितांश्चतु-
र्विंशतिवीराणां वीरानित्यर्थः। डाकिनीजालसंवरं विभावयेदिति पूर्वोद्देशनिर्द्देशः।
वीराणां व्यतिक्रमेण प्रतिनिर्देशमाह - वज्रसत्त्वमित्यादि। भावयेदितिसम्बन्धे सर्वत्र
द्वितीया। खण्डकपालिना( नमादि ) त्विति। आदीत्यादौ। आदौ स्थितेन खण्ड-
कपालिना सह महाकङ्कालादीन् भावयेदित्यर्थः। संख्याद्वारेणोपसंहारमाह - चतु-
र्विंशतिवीराणामिति। चतुर्विंशत्या वीरैः सर्वमाण्डलं शरीरं च। अत आह-
जगदिति। अस्य शरीरवाचकत्वात्। खण्डकपाली महाकङ्कालः कङ्कालो विक-
टदंष्ट्री सुरावैरी अमिताभो वज्रप्रभो वज्रदेहः। अङ्कुरिको वज्रजटिलः महावीरो
वज्रहूँकारः सुभद्रो वज्रभद्रो भैरवो विरुपाक्षः। महाबलो रत्नवज्रो हयग्रीव
आकाशगर्भः श्रीहेरुकः पद्यनर्तेश्वरो वैरोचनो वज्रसत्त्वः। इत्येभिरष्टभिः खण्ड-
कपालादिभिर्वज्रदेहान्तैः कृष्णश्चित्तचक्रं कृष्णम्। अङ्कुरादिभिर्विरुपाक्षान्तै रक्तै रक्तं
वाक्चक्रम्। महाबलादिभिर्वज्रसत्त्वान्तैः श्वेतैः श्वेतं कायचक्रम्। एतेषां द्विभुजत्वं
चतुर्भुजत्वं वा आचार्यमतेन। शिरः शिखा दक्षिणकर्णशिरः पृष्ठवामकर्णभ्रूमध्यनेत्र-
द्वयबाहुमूलद्वयकक्षद्वयस्तनयुगलनाभिनासिकामुखकण्ठहृदयमेढ्रलिङ्गगुदोरुजङ्घाम-
ङ्गुलिपादपृष्ठतदङ्गुष्ठजानुद्वयेषु खण्डकपालादयः प्रचण्डायुक्ता भाव्याः। इत्थमेभिः
शरीरव्याप्तिः।
पिण्डार्थमाह - वीराणां वीराः डाकिनी डाकिन्यः। ता एव योगिन्यः। ताश्च
प्रचण्डादयः। चक्रस्थास्तु द्रष्टव्या इति। चक्रव्याप्तिरनेन सूचिता। सर्वकार्येषु
शान्त्यादिषु केनेत्याह - साधक इति। यदि साधको भवति तदानेनेत्याहतम्। एतदु-
पसंहरन्नाह - चक्रात्मं भावयेन्नित्यमिति। वीरवीरिणीजातं चक्रात्मकं भावये-
दित्यर्थः॥ १०-१५॥
पूर्वोक्तेन विधानेन जपेद् डाकिनीजालसंवरम्।
महाचक्रं सर्वसिद्धिस्थानं सर्वसिद्ध्यालयं तथा॥ १६॥
पूजोपसंहारमाह - पूर्वोक्तेनेत्यादि। बाह्यगुह्यमनोमयतत्स्वरुपाभिः पूजाभिरित्यर्थः।
पूज्यमाह - डाकिनीजालसंवरमिति। महाचक्रं महासिद्ध्यालां तथेति पर्याय -
कथा॥ १६॥
सुभाषितं बुद्धकोटीनां वीराणां कोटिमेव च।
एकैकस्य तु योगिन्यः कोटिसंख्या तु परिवृताः॥ १७॥
अतीतादीनां तथागतानामित्थं मतमाह - सुभाषितमित्यादि। बुद्धकोटीनां
सुभाषितं तन्त्रमिदम्। कर्तरि षष्ठी। वीराणां कोटिमेव चेति। कोट्यैव योगिनीनां
बहुत्वमाह - एकैकस्य तु योगिन्यः कोटिसंख्या तु परिवृता इति। एकैका योगिन्यः
कोटिसंख्याभिर्योगिनीभिः परिवृताः॥ १७॥
योगिनीनां डाकिनीश्चैव खण्डरोहा च रुपिणी।
लामादयस्तथा [ चापि ] सर्वसिद्धिकराः शुभाः॥ १८॥
इति श्रीहेरुकाभिधाने सर्ववीराडाकिन्यालयगोप्यमण्डल-
विधिपटलः अष्टचालीशतिमः॥ ४८॥
ता डाकिन्यादयो द्वादश प्रचण्डादयश्चतुर्विंशति वज्रवाराही च। ता एवाह-
योगिनीत्यादि। तथाशब्देन सर्वासामेव ग्रहणम्। एताः कुतः पूज्या इत्याह -
सर्वसिद्धिकराः शुभाः इति॥ १८॥
सर्वडाकिन्यालयो वज्रवाराहीहृदयमन्त्रः। गोप्यञ्च तन्मण्डलं चेति द्वे विधी-
येते येनासौ पटलश्चेति स तथा। अष्टचालीशतिमोऽष्टचत्वारिंशत्तमः।
इति श्रीचक्रसंवरविवृतावष्टचत्वारिंशत्तमः पटलः॥ ४८॥
सप्तजन्मसाध्यरुपपरिवर्तनविधिपटल ऊनपञ्चाशतिमः
अथान्यतमं वक्ष्ये पशुकर्म यथाविधि।
येन विज्ञातमात्रेणाशुसिद्धिः प्रवर्तते॥ १॥
शालिपिष्टकमयं मन्त्री पशुं कृत्वा यथाक्रमम्।
खरमानुषकूर्मोष्ट्रश्रृगालहयादिभिः॥ २॥
तत्र विश्ववराहश्च एते वै पशवः स्मृताः।
एभ्यः कर्म प्रवक्ष्यामि लक्षणं यथा भवेत्॥ ३॥
इदानीं श्रीहेरुकीकरणं स्पष्टयन्नाह - अथेत्यादि। अथेति वज्रवाराहीहृदय -
मन्त्रादिकथनानन्तरमाह - पशुकर्मेति। पशुभिः कर्म पशुकर्म सप्तजन्मोपलम्भ-
लक्षणम्। शालिपिष्टकमयमिति। शालिर्हेमन्तजो व्रीहिविशेषः। तत्तण्डुलपिष्टकं
विकारो यस्य स तथा पशुः।
पशुमाह - खरेत्यादि। तत्रेति सप्तजन्म। विश्ववराहो नानावर्णो मृगविशेषः। स
संस्कार्यः खरादिभिः सह। एषां मध्ये कश्चिदेक इत्यर्थः। एभिश्च कर्म प्रागेव
विशदीकृतम्। खरादिर्मनुष्योष्ट्रकजन्मादिर्यावत् सप्तजन्म लक्ष्यते। तच्चैभिरेव। एभ्य
इत्यादि। एभ्यः सप्तमनुष्यजन्मभ्यः कर्म तल्लक्षणं च यथा भवति तद् वक्ष्यामीति
योज्यम्॥ १-३॥
एकजन्मद्विजन्मश्च त्रिचतुःपञ्चमेव च।
षट्सप्तजन्म[ त ]श्चापि पशवस्ते न संशयः॥ ४॥
यस्य सुस्वनी वाणी अनिमिषं चापि वीक्ष्यते।
सत्यवाक् प्रियदर्शी च सद्धर्मरतः सदा भवेत्॥ ५॥
विन्दते ह्यात्मनो जन्म सुगन्धिततनुः सदा।
एभिस्तु लक्षणैर्युक्तं सप्तजन्मभवोद्भवः॥ ६॥
तेन प्राशितमात्रेण दिव्यरुपधरो भवेत्।
आघ्रातं स्पृष्टमात्रं वा तिलकं यः करिष्यति॥ ७॥
सिद्धो भवत्यसौ सद्यः स्वेच्छा रुपधरो भवेत्।
रोचना हृदये त [ स्य गृहीत्वा तु बुधेन [ वाम् ]॥ ८॥
एतदेव स्पष्टयन्नाह - एकजन्मद्विजन्मश्च त्रिचतुःपञ्चमेव च। षट् सप्त जन्म-
तश्चापि पशवस्ते न संशयः इति आर्षत्वात् पशुसाधर्म्यात् पशवः। लक्षणमाह -
सुगन्धीत्यादि। कर्माह - तेनेत्यादि। आघ्राते स्पृष्टमात्रे वा दिव्यरुपधरो भवेदित्यर्थः।
तिलकं यः करिष्यति सिद्धो भवत्यसौ सद्यः। स्वेच्छारुपं धरत्यसौ। स्वेच्छा-
रुपधरो ह्यसाविति पाठान्तरम्। केन तिलकः कार्य इत्याह - रोचनेत्यादि। गृही-
त्वेति वामिति विभक्तिविपरिणामात्॥ ४-८॥
जप्त्वा हृदयमन्त्रेण तिलकं तस्य कारयेत्।
यस्य यस्य च सत्त्वस्य धर्तुकामः स्वरुपकम्॥ ९॥
तत्तद्रूपो तिलकेन भवति नात्र संशयः।
वृक्षपर्णीरसं गृह्य रोचनया बुधेन च॥ १०॥
ललाटे तिलकं कृत्वा तद्रूपः स्यान्न संशयः।
पशोरेव हि रोमाणां करमूर्ध्नि च बन्धयेत्॥ ११॥
पञ्चाङ्गं वा तरोर्मिश्र्य तस्य रोम्णा युतं तथा।
करमूर्ध्नि बन्धयेच्चेत् तद्रूपः स्यान्न संशयः॥ १२॥
योगाभ्यासितजापी च नासमर्थः नरोऽथ हि।
कष्टक्लेशप्रसादादिसिद्धिमार्गं निरोधयेत्॥ १३॥
हृदयमन्त्रेणेति। श्रीहेरुकवज्रवाराह्याः कीदृशः स्वेच्छारुपत्वमित्याह - यस्ये-
त्यादि। करमूर्ध्नि बाहुमूले। करशब्देन बाहुसमेतः करः। तत्पञ्चाङ्गेति। यस्य पशो-
र्वृक्षस्य च रुपमिच्छति तस्य वैरोचनादीनि पञ्चाङ्गानि पत्रपुष्पादीनि च योगाभ्या-
सितजापी भावीजापीत्यर्थः। नासमर्थः समर्थ एव। मुक्ते मोक्ष इति। प्रयोजनमिहापि
पश्वादिरुपेणैव कुतो न स्थीयत इत्याह - कष्टेत्यादि। तिर्यग्गतिरित्यर्थः॥ ९-१३॥
हस्त्यश्वखरकूर्मोष्ट्रवराहजम्बूकेन वा।
काकोलूकादिगृध्रश्च क्रौञ्चः श्येनश्च सारसः॥१४॥
अभिरुपो विरुपश्च दिव्यरुपो भवेद्धि सः।
कामरुपो महावीरयोगी स्यान्नात्र संशयः॥ १५॥
नातः परतरा सिद्धिस्त्रिषु लोकेषु विद्यते॥ १६॥
इति श्रीहेरुकाभिधाने सप्तजन्मसाध्यरुपपरिवर्तन-
विधिपटल ऊनपञ्चाशतिमः॥ ४९॥
केषां रुपधारीत्याह - हस्त्यश्वेत्यादि। षष्ट्यर्थे तृतीया। एषां रुपधारीत्यर्थः,
अभिरुपादि च धारीत्यर्थः। [ तेषामपि निर्देशः। ] एतत्क्रियायां हस्त्यादिभिर्बलि-
र्भोगश्च कार्यः। ततोऽभिरुपत्वादि लभते। इहाप्युभयहृदयव्यापारः। नातः परमिति।
सप्तजन्मनः सिद्धं प्रकृतिसिद्धं सामर्थ्यम्॥ १४-१६॥
सप्तजन्मना साध्यं रुपपरिवर्तनं पश्वादिरुपत्वं विधीयते येनासौ पटलश्चेति स
तथा। ऊनपञ्चाशतिम ऊनपञ्चाशत्तमः।
इति श्रीचक्रसंवरविवृतावूनपञ्चाशत्तमः पटलः॥ ४९॥
वश्यहोमपीठादिभूमिनिर्देशविधिपटलः पञ्चाशतिमः
अथ होमविधिं वक्ष्ये ध्रुवं वश्यस्य जायते।
येन सन्यग्विधानेनाशुसिद्धिः प्रवर्तते॥ १॥
अथेति। सप्तजन्मसाध्यरुपपरिवर्तनकथनानन्तरम्। हा हा हे हे इत्याद्यष्टविधस्य
हासमन्त्रस्य होमविधिं वक्ष्ये। येन गोमांसहोमेन विधानस्य वश्यस्य कर्मण आशु-
सिद्धिः प्रवर्तते तमित्यर्थः॥ १॥
गोमांसं सुरयाऽऽलोड्य वामकरेण होमयेत्।
बुद्धोऽपि वशमायाति किं पुनः क्षुद्रमानुषाः॥ २॥
निष्ठीवनं दन्तकाष्ठं स्वदेहोद्वर्तनं तथा।
सनामसुरया होमात् त्रैलोक्यं वशमानयेत्॥ ३॥
रजोरक्तं भुक्तोद्गीर्णं श्वकेशसंयुतम्।
एतेन कृतहोमेन सद्यमाकर्षणं भवेत्॥ ४॥
श्वकायोद्गीर्णकेशेन यदि वा होमयेत् सुधीः।
निम्बवृक्षप्रयोगे तु सद्यो विद्वेषमाप्नुयात्॥ ५॥
समाहितो धुतूराग्नौ यन्नाम्ना कटुतैलकम्।
होमयेत् काकपक्षैस्तु सद्योच्चाटनमारणम्॥ ६॥
होममाह - गवित्यादि। निष्ठीवनं गलनिर्गतः श्लेष्मा। शुनः केशाः श्वकेशाः।
सद्यमाकर्षणमिति। सीदति गच्छत्यागच्छतीति सत् यँकारबीजम्। तदेवाकर्षयति
येन तदाकर्षणम्। यँकारजवायुमण्डलस्थसाध्यमागच्छन्तं पश्यन् रजस्वलारक्तादि-
भिर्होमं कुर्यादिति संक्षेपः। शुनः कायः श्वकायः। सद्यातीति सद्यो जीवन् तस्यो-
च्चाटनमारणम्॥ २-६॥
जाग्रतसुप्तकृतोत्तिष्ठभुञ्जानो मिथुनोऽपि वा।
सदा काले जपेन्मन्त्री तस्य मारं न जायते॥ ७॥
सम्यग्जम्बूकमांसेन जुहुयादाहुतीशतम्।
तस्य मासत्रयेणैव कुलदारिद्रयनाशनम्॥ ८॥
[ यदि ] कश्चित् समदनमहामांसेन होमयेत्।
अष्टोत्तरशतावृत्त्या साधकः प्रहरत्रयम्॥ ९॥
अशेषभूमिचर्यावान् षण्मासेन वशीकृता।
तुष्टा च डाकिनी तस्मै राज्यं दद्यान्न संशयः॥ १०॥
ध्यायेच्च देवताः सर्वा होमयेत् प्रहरद्वयम्।
तेनैव च स्वकायेन खेचरत्वमवाप्नुयात्॥ ११॥
गोमायुद्यमांसेन होतव्योऽध्यात्मबाह्यतः।
भवेदाशु करे तस्य सर्वसिद्धिप्रवर्तकम्॥ १२॥
सततजापिनः फलमाह - जाग्रतो जागरितः। सुप्तेति सुप्तः शयनगतः। कृतेति
कार्यं कुर्वन्। उत्तिष्ठेति सुप्तोपविश्य चोत्थितः। मैथनुमस्यास्तीति मिथुनः। मारमिति
स्कन्धादयो माराः सन्त्यस्येति मारं चित्तम्। " चित्तमेव महामारम् " इति वचनात्।
महाकालो जपेन्मन्त्री सन्यग्वेला न विद्यते इति पाठान्तरम्। तत्र जपाय सम्यक्
कालनिरीक्षणं न कार्यमिति भावः। हासमन्त्रश्च - ॐ हा हा हे हे हो हो हं हं फट्
स्वाहेति। ॐ किलि किलि सिलि सिलि चिलि चिलि धिलि धिलि फट् स्वाहेति
च। आहुतीशतमिति। अर्कत्वगादिषु( भीः ) नित्यं शतमाहुतीर्वारत्रयं दद्यात्। ध्याये-
च्च देवताः सर्वा होमयेत् प्रहरद्वयमिति। तदा देवताध्यानं सर्वगोमांसमद्यसंयुतम्।
गोमायुमद्यमांसेनेति। श्रृगालस्य शीर्णं मांसम्। होतव्येति देवता। आध्यात्मबाह्यत
इति। उपयोगात्। कुण्डाग्नौ होमार्थी। सर्वसिद्धिप्रवर्तकमिति॥ ७-१२॥
रात्रौ मन्त्रजपं कुर्यात् राष्ट्रकानि निपातयेत्।
एवं प्रतिदिनं कृत्वा स्वयं राजा भविष्यति॥ १३॥
नातः परतरं किञ्चित् त्रिषु लोकेषु विद्यते।
नानारुपधरो योगी म्रियते स्वेच्छया तथा॥ १४॥
बिल्वस्य च पलाशस्य तथैवो ] दुम्बरस्य च।
लक्षं होमयत्याशु महाधनपतिर्भवति॥ १५॥
गोमांसं सुरयालोड्य होतव्यं राजकांक्षिणा।
योगेश्वरीं समासाद्य को हि नाम दरिद्रता॥ १६॥
मन्त्रजपम्। जपो ध्यानं मन्त्रकृतं मन्त्रसेवा नेह। रत्रौ एकत इत्याह - राष्ट्रकानि
निपातयेत्। युक्तिमाह - योगीश्वरीं समासाद्य को हि नाम द्ररिद्रतेति। योगीश्वर्यो
देवता ईशा यत्र स तथा हासमन्त्रः। दरिद्र एव दरिद्रता॥ १३-१६॥
यथासुखेन सिद्ध्यन्ति गोमायुहोमकारणात्।
गोमायुहोमयत्याशु धनदेन समो भवति॥ १७॥
अव्रताचारशौचोऽपि आविष्टां सिद्धिमाप्नुयात्।
अधिकायुकूष्माण्डं मुद्गमाषचणकम्॥ १८॥
मधुच्छर्दिराजिकागृहतमालपत्रैर्मुखबन्धनम्।
स्वेच्छाकारी भवेद्योगी यत्र तत्र व्यवस्थितः॥ १९॥
यथासुखेनेति नियमाभावात्। अव्रताचारेत्यादिना यथासुखत्वमेव निर्दिशति।
आविष्टां देवतानुज्ञाताम्। स्वप्नेन निमित्तदर्शनात्। अधिकायुर्दूर्वामधुच्छर्दिर्मधू-
त्सिष्टम्। गृहतमालपत्रमवलम्बो धूमः। तत्सर्वं यस्य गृहैकदेशे। जप्तमन्त्रं गोपयेत्
तस्य यथोक्तं भवति॥ १७-१९॥
अथापरं प्रवक्ष्यामि भूमिपीठादियोगिनी।
श्रीहेरुकस्याङ्गाङ्गं स्थिरचलात्मकम्॥ २०॥
पीठं [ प्र ]मुदिताभूमौ पपीठं विमला तथा।
क्षेत्रं प्रभाकरी ज्ञेया अर्चिष्मत्युपक्षेत्रकम्॥ २१॥
छन्दोहमभिमुखं( खी ) चैव उपच्छन्दोहं सुदुर्जया।
दूरङ्गमेति मेलायां अचलस्योपमेलकम्॥ २२॥
श्मशानं साधुमतिश्चैव धर्ममेघोपश्मशानकम्।
श्रीहेरुकमभिश्चार्य एषा अध्यात्मभूमयः॥ २३॥
अथेति। सर्वप्रयोगकथनानन्तरम्। अपरं प्रवक्ष्यामि। किं तदित्याह - भूमि-
पीठादियोगिनीति। पीठमादिर्येषां तानि पीठादीन्युपपीठादीनि स्थानानि। भूमय एव
पीठादीनि। द्वितीयालोपात्। योगिनीति योगिनीनाम्। अङ्गाङ्गमिति। अङ्गं करादि
तस्याङ्गं पर्वादि। शिरो रुपस्कन्धः। बला वेदनादयः। भूमिपीठादिस्कन्धाद्यात्मकं
श्रीहेरुकस्याङ्गाङ्गम्। सर्वाङ्गमुपायभूतं प्रवक्ष्यामीति सम्बन्धः। उपपीठमेव पपीठ-
मुकारलोपात्। श्रीहेरुकमवधार्य निश्चित्य। भूमय एता तदङ्गे न्यसनीया इत्याह -
एषा अध्यात्मभूमय इति। एता अध्यात्मभूमय इत्यर्थः॥ २०-२३॥
दशपारमिता भूमौ म्लेच्छा भाषन्तु योगिनी।
स्वर्गे मर्त्त्येषु पाताले वीराङ्गस्थिरचलात्मकः॥ २४॥
पुल्लीरादिषु यथोद्दिष्टं बाह्याध्यात्मे संस्थितम्।
श्रीहेरुक महायोगं सर्वकामेश्वरं प्रभुम्॥ २५॥
सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम्।
सर्वत्र श्रूयते लोके सर्वमावृत्य तिष्ठति॥ २६॥
ततस्तु साधयेत् सिद्धिं ध्यानयुक्तेन चेतसा।
साधकानां हितार्थाय गुह्यतत्त्वमुदाहृतम्॥ २७॥
इति श्रीहेरुकाभिधाने वश्यहोमपीठादिभूमिनिर्देश-
विधिपटलः पञ्चाशतिमः॥ ५०॥
दशपारमिता भूमाविति। प्रमुदितादयो दशभूमयो दानशीलक्षान्तिवीर्यध्यानप्रज्ञा-
प्रणिधिबलोपायज्ञानानि दशपारमिताः। म्लेच्छा भाषन्त्विति। योगिनीनां म्लेच्छ-
भाषया। स्वर्गेत्यादिना चक्रत्रयम्। श्रीहेरुकमहायोगमवधार्य सिद्धिं साधयेदिति
योज्यम्। सर्वत इत्यादिविशेषणमस्यैवानेन सिंहविक्रीडितामुद्रेति केचित्। तत्र पाणि -
र्वज्रं पादः पायुः॥ २४-२७॥
वश्यहोमः पीठादिभूमयश्च निर्दिश्यन्ते येन ग्रन्थेन स वश्यहोमपीठादिभूमिनिर्देशः।
स एव विविधेन प्रकारेणार्थतत्त्वं विधीयतेऽनेनेति विधिः। तदात्मकः पटलः।
पञ्चाशतिमः पञ्चाशत्तमः।
इति श्रीचक्रसंवरविवृतौ पञ्चाशत्तमः पटलः॥ ५०॥
[ भावनापिण्डार्थादि ] एकपञ्चाशतिमः पटलः
अथातः संप्रवक्ष्यामि आम्नायं सुदुर्लभम्।
गोपनीयं मया तन्त्रे वीरसङ्केतभाषितः॥ १॥
इदानीं भावनापीण्डार्थादिपटलमाह - अथेत्यादि। अथेति देशनोपसंहारे। अत
इति। यतो देवतानिष्पत्तिं विना किञ्चिन्न सिद्ध्यति , अत आम्नायं प्रवक्ष्यामीति
सम्बन्धः। आम्नाय आप्तोपदेशनापरम्परा। सुदुर्लभमिति शोभनाः परिज्ञातारो दुर्लभा
यत्र स तथा आम्नायः। गोपनीयं विहेठकावद्यनिरासार्थम्। मया मयैव। कुत
इत्याह - तन्त्र इति। तन्त्र्यन्ते संस्क्रियन्ते येन तत्तथा, श्रीचक्रसंवराख्यम्। सङ्केतेन
भाषितः सङ्केतभाषितः। वीरैस्तथागतैः सङ्केतभाषितः। अपूर्व एवात्र सङ्केत इति
भावः। अतश्च शब्दापशब्दौ नाशङ्कनीयौ, न हि शब्दश्च केवलोऽर्थप्रतिपादकः। किं
तर्हि सङ्केतसहायः। स च वीरैरपि कृत इति वीरसङ्केतभाषितमिति सूक्तः॥ १॥
निवसनं पञ्चमुद्रादि प्रज्ञाङ्गं कीलपञ्जरम्।
आलिकालीति [ स ]मुच्चार्य हेत्वादिशून्यपूर्वकम्॥ २॥
ततः सङ्केतेनापि शब्देन किमित्याकूतम् ? निवसनं व्याघ्रचर्म गजचर्म च।
पञ्चमुद्रादीति। कण्ट्ःइकाचूडकेयूरकुण्डलब्रह्मसूत्राणीति पञ्चमुद्रा आदुभूता यस्य
तत्कण्ठालङ्कृतशिरोमालामेखलादि। [ प्रज्ञाङ्गं ] वज्रवज्रघण्टाभ्यामालिङ्गनम्।
कीलेति। कीलनम्। पञ्जरं वज्रमयम्। अस्योपलक्षणत्वाद् वज्रप्राकारादि॥ २॥
प्रवृत्तिनादमादीनि यावत्संहारयोगतः।
अमृताप्यायननिर्वृतिं तु हस्ताभिषेचनम्॥ ३॥
महाकवचेन संरक्ष्यो सर्वमन्त्रेणार्च्चनम्।
एतच्चतुर्दशं तत्त्वं संक्षेपेण तु भाषितम्॥ ४॥
प्रवृतिनादमादीनीति। प्रवृत्ती रुपस्कन्धादिविशुद्धिः। नादो बिन्दुय( र्यः ) पूर्व-
रेखाकारः। हूँकारमूर्ध्नि मकारोऽ जहितोऽत्र ग्राह्यः। स च बिन्दुरुप एव बोद्धव्याः।
नादश्चह् मकारश्च नादमौ। तावादी येषामर्द्धचन्द्रादीनां तानि नादमादीनि। प्रवृतिश्च
नादमादीनि च प्रवृत्तिनादमादीनि। यावत्संहारयोगत इति। स्फरणपूर्वकः संहारः,
अस्य तन्निष्ठत्वात्। अमृताप्यायननिर्वृतिः। पञ्चामृताप्यायननिष्पत्तिः। निवसनं पञ्च-
मुद्रादिकीलं पञ्जरम् आलिकाल्युच्चारणहेत्वादिशून्यताप्रवृतिर्नादो बिन्दुः संहार-
योगोऽमृताप्यायननिर्वृतिः। हस्तपूजाऽभिषेचनं महाकवचरक्षापूर्वकं मन्त्रार्चनमिति
चतुर्दशतत्त्वानि प्राधान्येनोक्तानि ऽत आह - एतच्चतुर्दशं तत्त्वमिति। चत्वरो दश
चावयवा यस्य स तत्तहा। तन्त्राभिधेयं संक्षिप्तम्। अत आह - संक्षेपेणेति॥ ३-४॥
यः समाचरति नरश्रेष्ठः सर्वपापविशुद्धात्मा।
ताथागतीं च लभते भूमिं जन्मनि जन्मनि॥ ५॥
तथागतकुलोत्पद्य राजा भवति धार्मिकः।
यथापूर्वादि पापस्य हीनो [ हि ] सर्वलक्षणः॥ ६॥
एतेन यः समाचरति व्यवहरति। एत्देव शिक्षत इति यावत्। स सर्वपाप-
विशिद्धात्मा भवतीति यत्तदोर्नित्यमभिसम्बन्धात्। सर्वाणि पञ्चानन्तर्यादीनि पापानि
विशुद्धानि यस्य स तथा आत्मा चित्तं यस्य निष्ठान्तरनिपातात् स तथा योगी।
न कर्माणि प्रणश्यन्ति कल्पलोटिशतैरपि।
सामग्रीं प्राप्य कालं नो( च ) फलन्ति खलु देहिनाम्॥ इति।
कर्मणः फलं विना विनाशाभाव उपायेनापि विशुद्धिरेव। न तद्विनाशे कश्चि-
दुपायः। " नाफलित्वा विनश्यन्ति " इति वचनात्। खलुशब्दस्य निश्चितार्थत्वात् ,
फलमेव हि तद्विनाशोपायः। किं च कर्मस्वभावमेवोपायान्तरमपि तेन पूर्वस्य
कर्मणो विनाशलक्षणे फले जनिते फलान्तरजननशक्त्यभावादुच्छेद एव स्यात्।
अथेदृशो यद्युपायविशेषस्तद्विनाशं जनयन् परमानास्त्रवमहासुखस्वभावं समकालं
जनयति यथा प्रदीपस्तिमिरमपनयन् प्रकाशं जनयतीति चेत् , न हि स तिमिरमपहरति
किंतर्हि प्रकाशत एव केवलम्। तत्र प्रकाशमाने स्वयं तिमिरमपगच्छति। उपाय-
मा[ हा ]त्म्यमपि कुतो नाङ्गीकार्यं येन तद्विफलमपि स्यात् ऽ नुपायज्ञं प्रति न
कर्माणीत्यादि न विरुध्यते। ताथागतीं च लभते भूमिमिति। सर्वास्त्रवक्षयरुपां
ताथागतीं ज्ञानभूमिं लभते। भावनाप्रकर्षपर्यन्तगमनाभावाद्यदीदं न स्यात्तदा किमि-
त्याह - जन्मनि जन्मनि तथागतकुलोत्पद्य इति। तथागतः कुले यस्य स तथा
जनकस्तस्माज्जायते। इतश्च पञ्चमीलोप्ः। जन्मनि जन्मनि देवजन्मनि मनुष्यजन्मनि।
राजा भवति धार्मिक इति सुमतिकोशलादिवत्। यस्यत्यन्तपापिष्ठोऽपि कथमपि
चतुर्दशतत्त्वाभ्यासी स्यात्तदा किं स्यादित्याह - यथेत्यादि। यथावत्कायवाङ्मनो-
व्यापारात् कृतमुपचितं पूर्वमध्यान्तप्रतिबद्धं पापकर्म यस्य स यथापूर्वादिपापः, स
यथापूर्वादिपापस्येति प्रथमार्थे षष्ठी। सर्वैश्च पुरुषलक्षणैर्हीनो यः॥ ५-६॥
य इयं ध्यायते नित्यं सर्वकामेश्वरः क्षितौ।
घृतपूर्णं यथा भाण्डं स्थापितमग्निमध्यके॥ ७॥
द्रवन्तं द्रवते सर्पिः कालं नश्यति भाण्डयोः।
तथा पापं च नश्यति श्रीहेरुकेति नामतः॥ ८॥
अथ चेमं चतुर्दशतत्त्वरुपं श्रीहेरुकं ध्यायते स सर्फ़्वकामेश्वरः क्षितौ। तस्य
पापराशेरकिञ्चित्करत्वे कृते ध्यानजमेव कर्म फलति। अथवा यथापूर्वादिपापस्य
ध्यानेन क्षितौ क्षये कृतायां सत्यां सर्वकामेशव्रो भवति। कथं भुजमुखाद्याकारवता
श्रीहेरिकेण भाव्यमानेन प्राक्तनं पापकर्म क्षीयत इत्याह - घृतेत्यादि। यथा घृतपूर्णं
भाण्डं स्थापितमग्निमध्यले। एवं किं स्यादित्याह - द्रवन्तं द्रवते सर्पिरिति। तद्यदि
भाण्डे सर्पिर्द्रवन्तं जललक्षणं पदार्थं द्रवते द्रवति( त्वं ) प्राप्नोति जलमिश्रीभूतं
भवतीत्यर्थह्। तदा किमित्याह - कालं नश्यतीत्यि। कालं चिरका[ लं ] प्राप्य जलं
नश्यति। यावज्जलं न नश्यति तावन्न सर्पिर्नश्यति वस्तुशक्तिरेषेति भ्वह्। भाण्डयो-
रपि भाण्डाधारत्वादग्निरपि भाण्डमुच्यते। तथा कर्न्म क्षीयत इत्येतदेवाह - तथा पापं
विनश्यतीति। पातयति संसारसागरे सत्त्वानभिनिविष्टानिति पापं सामान्यं कर्म।
शून्यताज्ञानवह्नौ श्रीहेरुकाकृतिभाण्डे च भाव्यमाने स्कन्धादेर्निवेशितस्य ग्राह्याद्यभि-
निवेशलक्षितस्य कर्मणश्च क्ष्यात् स्कन्धादिकं निर्द्वे( र्दो )षी भवति। अथ च शून्यता -
हिनिवेशात्तदेव सदोषं यथावदर्थक्रियाविरहात्। तथा चाह -
भावेनैव विमुच्यन्ते वज्रगर्भ महाकृप।
वध्यन्ते [ चैव ] भावेन मुच्यन्ते तत्परिज्ञया॥ इति।
न बोधिं निष्क्लेशः क्षतगतिरवाप्नोति परमा-
मुदीर्णक्लेशस्तु स्वहितमपि कर्तुं न लभते।
इति प्राप्तुं बोधिं स्थिरविहितवीर्येण भवता
न निर्दग्धाः क्लेशास्तृणलवलघुत्वं तु गमिताः॥ इति च।
श्रीहेरुकेति - श्रीकारमद्वयं ज्ञानं हेति हेत्वादिशून्यता।
रुकारापगतं व्यूहं क इति न क्वचित्स्थितम्॥
इति प्रज्ञोपायात्मकः। तस्य नामतो नामात्। अत एव इतिशब्दः षष्ट्यर्थे। नमनं
नामः प्रभुत्वमायत्तीभावज़्॥ ७-८॥
ध्याने चिन्तितमात्रं वा पाठः स्वाध्यायलेखनात्।
स्वर्गभोगमनाप्नोति अथवा चक्रवर्तिनम्॥ ९॥
च्युतिकाले तु योगी ना श्रीहेरुकादिवीरयोगिनी।
नानापुष्पकरव्यग्रा नानाध्वजपताकिनम्॥ १०॥
नानातूर्यनिर्घोषैर्नानागीतोपहारतः।
मृत्युर्नाम विक्लपस्य नीयते खेचरीपदे। ११॥
कस्मिन्सतीत्याह - ध्यान इति। ध्यानं चिन्ता। पाठः सामान्यः स्वाध्याय एकाग्र-
चिन्ता लिखनम्। स्वयं चक्रवर्तिनं चक्रवर्तित्वम्। श्रीहेरुकयोगिन्याः योगेऽप्यसिद्धे
पाठादिकरणे वाऽसमग्रीभूते यदि मृत्युः स्यात्तदा किमित्याह - च्य्तीत्यादि। योगी
ना योगीपुरुषः। श्रीहेरुकादिवीरयोगिनीति। तृतीयाबहुवचनलोपात्। नाना इति।
तूर्यादिष्वधिष्ठानाच्छ्रीहेरुकादिक्रिया लेशतो लक्षय्ते॥ ९-११॥
एवं देवमहावीरयोगिन्यो भुवि दुर्लभम्।
श्रीचक्रसंवरमहातन्तं यो ज्ञात्वा[ प्य ]भक्तितः॥ १२॥
दारुद्र्यं दुःखसन्तापं तस्य नित्यं सदा भवेत्।
कण्ठिचूडकेयूरं कुण्डलं ब्रह्मसूत्रकम्॥ १३॥
कण्ठालङ्कृतशिरोमालामेखलाघुर्घुरारवैः।
गिरिमस्तककिञ्जल्के विश्वपद्यलिकाल्यं च॥ १४॥
एतदेवाह - एवमित्यादि। देवः श्रीहेरुकः। महावीराः खण्डकपाल्यादयः।
योगिन्यो वज्रवाराह्यादयः। मांसचक्षुभिर्दुर्दर्शाः। श्रीचक्रसंवरं महातन्त्रं यो ज्ञात्वा
बुध्वाऽपि अभक्तितोऽभक्तिर्भवति पुरुषः। तस्य दारिद्र्यं जायते दुःखैः संतापो
यतस्तत्तथा व्। कण्ठिकेत्यादि देशनोपसंहारे दर्शयति। कण्ठिकाचूडकेयूरमिति समा-
हारादेकत्वम्। कण्ठेत्यादि पूर्ववदिति भूषणोपसंहारः। गिरिमस्तककिञ्जल्के विश्व-
पद्येति स्थानोपसंहारः। आलिकाल्यं चेति पञ्चाकारोपसंहारः। आलिकालीत्यर्थः।
चकारः शेषाकारमुच्चये॥ १२-१४॥
गौर्यापतिं समक्रम्य वज्रघण्टाङ्गलिङ्गितम्।
चतुर्विंशार्धसंयुक्तं वीरयोगिनिवृन्दकैः॥ १५॥
गौर्येति सहार्थे तृतीया। आसनोपसंहारः। वज्रघण्टाङ्गलिङ्गितमिति चिह्नालि-
ङ्गनोपसंहारः। अन्यचिह्नोपलक्षणमिदं चिह्नद्वयम्। चतुर्विंशार्धेति काकास्यादयो
द्वादशचतुर्विंशतेरर्द्धम्। वीरयुक्ता योगिन्यो वीरयोगिन्यश्चतुर्विंशति। तासां वृन्दानि
वीरयोगिनिवृन्दानि। ह्रस्वत्वमार्षत्वात्। संयुक्तमिति षट्त्रिंशयोगिन्युपसंहारः॥ १५॥
श्रीहेरुकमहाराजं भावयेत् परमं पदम्।
सर्ववीरस्य योगिन्यः सपर्षन्म थ्ययोगवान्॥ १६॥
सर्वे तुष्टाद्वयीभूता सृष्टिसंहारकारकाः।
नानाधिमुक्तिकाः सत्त्वा नानाचर्याविबोधिताः॥ १७॥
श्रीहेरुको महाराजो यत्र तच्छ्रीहेरुकमहाराजमिति नायकोपसंहारः। पदमिति
विशेष्यम्। एतच्चाधाराधेयरुपसमग्रमण्डलोपसंहरणम्। संक्षेपमुक्त्वा पुनरतिसंक्षेप-
माह - सर्वेत्यादि। सर्वे वीरा इत्यर्थे षष्ट्येकवचनम्। योगिन्यः। इत्थं सपर्षत् सह
पर्षदा वर्तत इति सपर्षत्। मथ्या वज्रवाराही तया योगवान्। ह्रस्वत्वमार्षत्वात्।
मध्ययोगवानिति पाठे मध्यमनास्त्रवं सुखम्। " अथातो रहस्यम् " इत्यादि
" मथ्ययोगवान् " इत्यन्तं धर्मं श्रुत्वा प्रागुक्ताः सर्वे वीरवीरेश्वर्यश्च तुष्टा
लब्धधर्मसारत्वात्। द्वयीभूतास्तोषेण द्विगुणीभूताः। सृष्टिः स्फरणं संहारः स्फारितानां
संक्ःइप्तीकरणम्। वीरा योगिन्यश्च परार्थार्थं धर्मं श्रृण्वन्ति। श्रीहेरुकविनेयानामर्थाय
भगवानपि वज्रवाराह्याध्येषितस्तादृशीं पर्र्थां धर्मश्रवणप्रवृतां गोष्टीमभिनिर्माय धर्मं
[ दि ]देश। श्रीहेरुकाधिमुक्तिरेव कुत इत्याह - नानेत्यादि। नानार्थावधारकाः। चर्या-
श्चरित्राणि नानारुपा गृहस्थत्वादिलक्षणाः। नानाचर्याभिर्विबोधिता बोधं नीता इदं
कुरुतेति स्थिरीकृताः॥ १६-१७॥
नानानयविनेयानां नानोपायेन देशिता।
गम्भीरधर्मनिर्देशेनाधिमुक्तिर्भवेद्यदि॥ १८॥
अधिक्षेपो न कर्तव्यः स्मर्तव्याऽचिन्त्यधर्मता।
नात्र मे विषयो ह्येष नाहं जानामि धर्मताम्॥ १९॥
कुत एवमित्याह - नानानयविनेयानां नानोपायेन देशिता। गम्भीरधर्मनिर्देशेना-
धिमुक्तिर्भवेद्यदीति। श्रावकादिनयविनेयानामधिमुक्तिर्यदि या काचिद् भवेत्तदा नानो-
पायेन नानाविधेन मार्गेण देशिताऽधिमुक्तिः। किमभिसन्धायामुक्तिस्तादृशीत्याह -
गम्भीरधर्मनिर्देशेनेति। गम्भीरधर्मस्य प्रज्ञोपायाद्वयरुपस्य निर्देशो देशना तेन हेतुना
नानानयैरधुमुक्तिर्देशिता येन। या धर्माधिमुक्तिः सा तस्मै देशिता इत्यर्थः। नानाधि-
मुक्तिता किमर्थमिति अधिक्षेपो न कर्तव्यः। यतः स्मर्तव्याऽचिन्त्यधर्मता अथवा
नानोपायेन नानादेवतारुपेण देशिताः। सत्त्वा एव देवतारुपेण देश्यीकृता इति भावः।
प्रज्ञोपायात्मके मन्त्रमहायाने यथारुचितचेष्टितत्वादधिमोक्षो युज्यते तावत् तथापि न
स्याच्चेत् किं स्यादित्याह - गम्भीरेत्यादि। गम्भीरशून्यतास्वभावः प्रज्ञाङ्गः। धर्मो
भुजमुखाकाराद्या उपायाङ्गः। गम्भीरश्चासौ धर्मश्चेति गम्भीरधर्मः। स निर्दिश्यते
येनानुत्तरेण स्रीचक्रसंवराख्येन तन्त्रेण तद् गम्भीरधर्मनिर्देशः। इह यद्यधिमुक्तिर्न
भवेत् विनेयानां तदा प्रतिक्षेपो न कर्यः तेषुः। किन्नाम कार्यमित्याह - स्मर्तव्याऽ-
चिन्त्यधर्मतेति। अचिन्त्यानां धर्माणां भावनानां प्रकृतिः स्मर्तव्या देशितव्या। भाव-
नानामचिन्त्यरुपतैव सर्वदेति भावः। नात्र धर्मेषु स्कन्धादिषु मम विषयो ग्राह्यादि-रुपोऽस्ति।
केन कारणेनेत्याह - येनेत्यादि। धर्मतातथताशून्यतानां न जानामि धर्मतारुप-
त्वेन स्वात्मनि क्रियाविरोधात्। तथा चाह - " न हि चित्तं चित्तं जानाति " इति।
ग्राह्यादिविविक्तज्ञानं चित्तमात्रं शून्यता। तदुक्तम् -
विज्ञानाच्छून्यतानाम काचिदन्या न विद्यते।
वुतिरिक्ता व्यतिरेकित्वं विवेकस्य यतो मतम्॥ इति॥ १८-१९॥
जानन्ति ते महात्मानः संबुद्धा तत्सुता अपि।
उत्पादादपि बुद्धानामनुत्पादेऽपि वा स्थितः॥ २०॥
धर्मता सर्वदाऽचिन्त्या हानिवृद्धिविवर्जिता।
इत्येवं तुलयित्वा तु न निन्द्याः सर्वलौकिकाः॥ २१॥
के तर्हि जानन्तीत्याह - जानन्तीत्यादि। ते सम्यग्बुद्धाः सम्यग्बुद्धिवन्तः। महा-
त्मानो विस्तीर्णबुद्धयः। ते बुद्धाः सुता येषां ते तत्सुता बोधिसत्त्वाः। यतो बोधि-
सत्त्वीभूय बुद्धीभवन्ति। तेषां बुद्धानां वा सुतास्तत्सुतास्तदात्मजत्वात्। बुद्धानामात्मा
धर्मः। धर्मताबोधाद् बुद्धास्तामभिसम्भोत्स्यन्त इति। बोधिसत्त्वा अपि बुध्यन्त इति
व्यपदेशो नियुताभावितो बोधात् धर्मतां जानन्ति। धर्मता कदा संभवेदित्याह -
उत्पादादित्यादि। बुद्धानामुत्पादमागम्य स्थिता अनुबध्यावस्थिता ऽ नुत्पादेऽपि वा
प्राकृतावस्थायामपीति भावः। सर्वदेति। प्रकृतिप्रवाहप्रबन्धरुपेण सदावस्थापयि-
त्वात्। अचिन्त्या किमेवंभूते विचिन्तयितुमशक्या। इयन्तं कालं च वर्द्धत इति
हानिवृद्धिभ्यां वर्जिता इत्येवं तुलयित्वा बुद्धाबुद्धौ समीकृत्य न निन्द्याः सर्व-
लौकिकाः॥ २०-२१॥
अचिन्त्या [ हि ] गतिस्तेषामचिन्त्यं बुद्धनाटकम्।
सूत्रक्रियाभिचर्त्याणां योगगुह्यं तु भेदतः।
सत्त्वावतारशीलं तु तत्र तत्र रता इव॥ २२॥
इति श्रीहेरुकाभिधाने महातन्त्रराजं लक्षान्तआःपाति चोत्तरोत्तरं राजा
सर्व शास्त्राणां श्रीहेरुकमहावीरपठितसिद्धिसर्वज्ञापराजित - आदिसिद्धि
चोत्तरतन्त्रं श्रीचक्रसंवरं नाम महायोगिनीतन्त्रराज एकपञ्चाशतिमः
पटलः समाप्तः॥ ५१॥
ये धर्मा हेतुप्रभवा हेतुस्तेषां तथागतो ह्यवदत्।
तेषां च यो निरोध एवंवादी महाश्रमणः॥
देयधर्मोऽयं प्रवरमहा[ या ]नयायिनः॥
तेषां लौकिकानामपि गतिव्यवस्थितिरचिन्त्या कुत इत्याह - अचिन्त्यं बुद्ध-
नाटकमिति। बुद्धा एव नानारुपा व्यवस्थिता इति नाटकम् , एतदेवाह - सूत्रेत्यादि।
सूत्रं सूत्रान्तम्। क्रियते क्रियातन्त्रम्। अभीत्यभिधर्मः। प्रथमार्थे षष्ठी। चर्येति चर्या-
तन्त्रम्। योगतन्त्रं गुह्यतन्त्रम्। तुः समुच्चये। सत्त्वावतारेति चतुर्थीलोपे। मुक्तिः
क्लेशबन्धनापगमः। तुरित्यर्थे इति सर्वभेदभिन्नमचिन्त्यसत्त्वावतारार्थम्। सत्त्वावतारं
चाचिन्त्यम्। सम्बुद्धा जनन्तीति पूर्वेण सम्बन्दह्ः। तत्र तत्र च लौकिकादौ रता इव
रतवत्संबुद्धाः। रतसमता चाचिन्त्येति भावः। अथ सूत्रं सूत्रान्ताः। क्रिया विभाषा।
अभिधर्मो मध्यमा। योगगुह्यं योगाचारः। " अथातो रहस्यं वक्ष्ये " इत्यादिना
रहस्यं प्रतिज्ञातम्। " मध्यमोत्तमश्वासेन " इत्यादिना ग्रन्थेन भगवान् देशित-
वान्। सर्वेति कर्त्री तु " सर्वे तुष्टा " इत्यादिना " तत्र तत्र रता "
इत्यन्तेन विनेयसन्तोषादिकं प्रतिपादितवतीति भगवतैव दर्शितं यन्महातन्त्रराजमित्या-
दिविशेषणविशिष्टं तत्रैकपञ्चाशतिम एकपञ्चाशत्तमः पटलः समाप्तः इति सम्बन्धः॥ २२॥
तत्र किम्भूते श्रीहेरुकाभिधाने तत्र शब्दस्याध्याहृततच्छब्दविशिष्टानि प्रथमान्त-
विशेषपदानि दर्शयन्नाह - महेत्यादि। महच्च तन्त्रयति पुष्णाति बुद्धधर्माननेनेति
तत्तन्त्रं चेति परमानास्त्रवं महासुखं तद्राजते यत्र तन्महातन्त्रराजमित्यादिविशेषण-
विशिष्टं स्यात्। लक्षात्मकं खसमं तन्मध्यातः पातो निर्गमनं सोऽस्यास्तीति लक्षान्तः -पाति। चकारात्तन्त्रान्तरार्थसमुच्चायकम्। उत्तरोत्तरं व्याख्यातम्। राजेव राजा सर्व-
शास्त्राणां सर्वतन्त्राणामुपरिभुतत्वात् प्रकाशकत्वाच्च। अत एव भगवतश्चन्द्रधारित्वम्।
इतश्च चन्द्रोऽभिधेय[ मेकाशं ] उक्तः। वाराह्या सह श्रीहेरुकः महतीति महायोगिन्यो
डाकिन्यादयः षट्त्रिंशद्। वीराः खण्डकपालादयश्चतुर्विंशति। पठितसिद्धा मन्त्राः।
सर्वज्ञं योगिनीनां लक्षणादिज्ञानं प्रत्यक्षादिज्ञानम् च। अपराजितो दुर्गासहितः शङ्करः
आदिभूताः सिद्ध्यश्च्घादिसिद्धयः। श्रीहेरुकमहावीरपठितसिद्धसर्वज्ञापरजितासि-
द्ध्यभिधायकत्वात्तथोक्ततन्त्रम्। चकाराद्भूम्यादिविशुद्ध्याद्यभिधायि। उत्तरन्ति भवो-
दधिमनेनेत्युत्तरम्। पचआद्यच्। तन्त्रं। श्रीपुण्यज्ञानसंभारः। चक्रं धर्मचक्रम्।
श्रीमच्चक्रं श्रीचक्रं तेन कापथात् सत्त्वानां मनः संवृणोतीति श्रीचक्रसंवर।
श्रीहेरुकः तदभिधायित्वात्तन्त्रमपि तथोच्यते। नाम प्रकाश्ये महच्च तद् योगिनीतन्त्र-
राजं चेति महायोगिनीतन्त्रराजेति निर्विभक्तिकं पदम्। योगिन्युपदेशबहुत्वात्।
श्रीहेरुकाभिधाने महातन्त्रराजे लक्षान्तः पातिनि चोतरोत्तरे राज्ञि सर्वशास्त्राणाम्।
श्रीहेरुकमहावीरपठितसिद्धसर्वज्ञापरातमिति चोत्तम( र )तन्त्रे श्रीचकर्सम्वरनाम्नि
महागिनीतन्त्रराजे तत्रैकपञ्चाशतिम एकपञ्चाशत्तमः सम्यगाप्तः समाप्त इत्यर्थः।
महातन्त्रराज इत्यादिर्महायोगिनीतन्त्रराज इत्यन्तः सुप्ति[ ङ्न्तः ] पदसमुच्च्यः। समाप्त
इति पदमेकपञ्चाशतपटलेषु श्रीहेरुकाभिधान इत्यन्ते योज्य इति।
यथा स्मरणतोऽलेखि गुरोर्व्याख्यापदं मया।
अर्थग्रहणतो वाक्यमेति तद्वक्य मम॥
हेयोपादेयभागेऽस्मिन्निश्चितेऽपि प्रमाणतः।
न संकुचति सन्देह उपदेशं विना गुरोः॥
मालामिव गुरोराज्ञां नानावाङ्मनोहरीम्।
तत्सम्बन्धिनीं मूर्ध्ना दधामि भ्रमनोदनीम्॥
स्वचित्तविस्पन्दितसंज्ञया जगत्-
स्वचित्तमेवावधृतं विभाव्यताम्।
स्वचित्ततो नान्यदिहास्ति मण्ड-
ग्रहं विना [ भाव ] यताशु मण्डलम्॥
श्रियः पदं भावय देवतापदं
पदं यतो यास्यसि निर्मलं स्थितम्।
भवं विना नास्ति शमः शमं विना
भवो विशुद्धावनय्रभिन्नता॥
श्रीचक्रसंवरसरोरुहसंभवेषु
गूढोपदेशमकरन्दरसाकरेषु।
तत्त्वेष्वभूद्गदयिता इव सांप्रतेषु
श्रद्धां वहन्त्यमलपुण्यमनोमनीषाः॥
वीक्ष्यापरान् कविवरान् हि वृहन्तिकारान्
बुद्धिर्ममापि रमति स्म तदर्थसिद्धौ।
पर्वक्षणे नटति गायति यत्र योग्य
औत्सुक्यतो न किमु तत्र जनोऽप्ययोग्यः॥
विशदपदार्थं रविवि भुवनं श्रीचक्रसंवरं कृत्वा।
अध्यगमं यत्सुकृतं तेन जनास्तद्गुणान्वहन्तु॥
इति श्रीचक्रसंवरविवृतावे कपञ्चाशत्तमः पटलः समाप्तः॥ ५१॥
पण्डिताचार्य भव भट्टकृता श्रीचक्रसंवरपञ्जिका समाप्तेति।
यथा दीपो घटान्तःस्थो बाह्ये नैवावभासते।
भिन्ने तु तद्घटे पश्चाद् दीपज्वालाभिभासते॥
स्वकाय एव हि घटो दीप एव हि तत्त्वकम्।
गुरुवक्त्रेण संभिन्ने बुद्धज्ञानं स्फुटं भवेत्॥
गगनं गगनोद्भूतमाकाशाकाशं स पश्यति।
तथैव हि गुरिर्वक्त्रात्प्रयोप्गोऽयं प्रदर्शितः॥

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project