Digital Sanskrit Buddhist Canon

अथ पञ्चपञ्चाशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Atha pañcapañcāśaḥ paṭalavisaraḥ

अथ पञ्चपञ्चाशः पटलविसरः।

आर्यमञ्जुश्रियः पटस्याग्रतः यस्योद्दिश्य श्वेतसर्षपाणामष्टशतं जुहोति ; स वशो भवति। स्त्रीवशीकरणे अष्टशतं जुहुयात् ; सा वशा भवति। कृष्णचतुर्दश्यां श्वेतपुष्पाणामष्टसहस्रेणार्यमञ्जुश्रीः ललाटे हन्तव्यः ; राजपत्नी वशा भवति। अपतितगोमयेन शिवलिङ्गं कृत्वा तस्याग्रतो गोमयेन त्रिशूलेन श्वेतसर्षपाणां दधिमधुघृताक्तानां सप्ताहुतिं जुहुयात्। दिवसत्रयं यस्योद्दिश्य स वशो भवति। कुमारीवश्यार्थं अरङ्गणपुष्पाणां अष्टसहस्रेणार्यमञ्जुश्रीर्हन्तव्यः। सा वशा भवति। मधूच्छिष्टमयीं पुत्तलिकां कृत्वा आत्मन ऊरू स्थाप्य अष्टसहस्रं। यस्योद्दिश्य स वशो भवति। पटस्याग्रतः शुक्लपुष्पाणां अष्टशतं निवेदयेत्। यमिच्छति स वशो भवति। शङ्खनाभिरोचनातगरुमेकीकृत्य पीषयेत्। अष्टसहस्राभिमन्त्रितं कृत्वा अन्नेन वा पानेन वा यस्य दीयते स वशो भवति। ब्राह्मणीवशीकरणे पटस्याग्रतः बिल्वकुसुमानामष्टसहस्रं जुहुयात्, सा वशा भवति। भस्मानां सप्तजप्तेन यां स्त्रियं चूर्णयति ; सा वशा भवति। स्त्रिया पुरुषस्य वाग्रतः स्थित्वाष्टसहस्रं जुहुयात् ; स वशो भवति। चतुरङ्गुलं काष्ठिकां अष्टसहस्राभिमन्त्रितां तया यमाकर्षति ; स वशो भवति। श्वेतपुष्पाणां अष्टशतं अष्टसहस्रं निवेदयेत्। तत्रैकं पुष्पं गृह्य स्त्रियं दृष्ट्वा आवर्त्तयेत्। आगच्छति स वशो भवति। क्षीरयावकाहारः पक्कमेकं वल्मीकमृत्तिकामयं वा प्रतिकृतिं कृत्वा ततोपविष्टस्तावज्जपेद् यावद् वासुकिचलितः सिद्धो भवति। आत्मद्वादशमस्य भक्तं ददाति। अतीतमनागतं प्रत्युत्पन्नं कथयति। क्षीरयावकाहारः शतसहस्रं जपेत्। भोगान् लभति। मासेन भिक्षाहारः शुक्लचतुर्दश्यामेकरात्रोषितः पटस्याग्रतो महतीं पूजां कृत्वा प्रतिमाया पादौ गृह्य तावज्जपेद् यावच्चलिताचलितेवादृश्यो भवति। सर्वसिद्धानां राजा भवति। मनसाहारमुत्पद्यते। पञ्चवर्षसहस्राणि जीवति। गङ्गानदीमवतीर्य लक्षमेकं जपेत्। पश्चात् तत्रैव पटे वालुकामयं चैत्यं कृत्वा मधु क्षीरं चैकतः कृत्वा जुहुयात्। सर्वनागा आगच्छन्ति। यद् ब्रवीति तत् सर्वं कुर्वन्ति। पर्वतशिखरमारुह्य पटं प्रतिष्ठाप्य तैलाक्तं चन्दशकलिकां जुहुयात्। यक्षा आगच्छन्ति। यद् ब्रवीति तत् सर्वं कुर्वन्ति। वने पटं प्रतिष्ठाप्य मधुपिप्पलीं चैकतः कृत्वाष्टसहस्रं जुहुयात्। सर्वविद्याधरा आगच्छन्ति। आज्ञाकरा भवन्ति। एकवृक्षे प्रतीत्य समुत्पादगर्भचैत्यप्रतिष्ठाप्य लक्षमेकं जपेत्। लक्षपरिसमाप्तौ पोषधिकेन रूपकारेणाश्वत्थकाष्ठमयं तृशूलं लक्षणोपेतं कृत्वा सपाताभिहूतं कृत्वा पौर्णमास्यां सुगन्धगन्धैः समुपलिप्य यथा विभवतः पटस्याग्रतः पूजां कृत्वा दक्षिणहस्ते कृत्वा सकलां रात्रिं साधयेत्। यावज्ज्वलतीति। ज्वलिते महादेवो भवति। भूताधिपतिर्भवति। दुर्दान्तदमकः अप्रतिहतः सर्वसत्त्वेषु। समुद्रमवतीर्य लक्षं जपेत्। सागरप्रभृति यमिच्छति नागराजनं तं पश्यति। मणिरत्नं वा ददाति। तेन गृहीतेन विद्याधरो भवति। सर्वनागविद्याधराणां राजा भवति। पोषधिकेन कर्मकारेण ताम्रघटकं कारयेत्। प्रातिहारकपक्षे पूर्णमास्यामुदारां पूजां कृत्वा पटस्याग्रतः प्रतिष्ठाप्य तावज्जपेद् यावज्ज्वलितः। ततः तस्मिं हस्तं प्रक्षिप्य यमिच्छति तत् सर्वं प्रादुर्भवति। भद्रघटसाधनम्। समुद्रगामिनीं नदीमवतीर्य लक्षं जपेत्। यस्यां मृण्मयं वालुकामयं वा पूर्णमास्यां चैत्यं कृत्वा, तत्रैव पटं प्रतिष्ठाप्य महतीं पूजां कृत्वा स्फटीकमणिमृण्मया वा दक्षिणहस्तेन गृहीत्वा पर्यङ्कोपविष्टः तावज्जपेद् यावज्ज्वलतीति। चिन्तामणिधारी विद्याधरो भवति। सधातुके चैत्ये पटं प्रतिष्ठाप्य लक्षं जपेत्। प्रातिहारकपक्षपूर्णमास्यां विधिवत् पूजां कृत्वा प्रदीपमालां च उदारां कृत्वा दक्षिणहस्तेन ध्वजं शुक्लवस्त्रावलम्बितं गृह्य तावज्जपेद् यावज्ज्वलति। ध्वजविद्याधरो भवति। सर्वत्राप्रतिहतः। प्रातिहारकपक्षे पूर्णमास्यां पटस्याग्रतः महतीं पूजां कृत्वा भगवत्या प्रज्ञापारमितापुस्तकं सुगन्धगन्धैः प्रलिप्य सुगन्धपुष्पमालाभिः वेष्टयित्वा वामहस्तेन गृह्य पर्यङ्कोपविष्टस्तावज्जपेद् यावज्ज्वलति। विद्याधरराजा भवति। यत्रेच्छति तत्र गच्छति। बोधिसत्त्वचर्याचारी भवति। कुमारीं प्रासादिकां सुस्नातालङ्कृतां कृत्वा पटस्याग्रतः यथाविभवतः पूजां कृत्वा वामहस्तेन गृह्य स्थितस्तावज्जपेद् यावत् तया सह ज्वलति। तयैव सार्धं विद्याधरो भवति। एकलिङ्गस्योपरि हस्तं दत्वा तावज्जपेद् यावत् सखाया न पश्यन्ति। अदृश्यः सर्वसिद्धानामगम्यः अन्तर्धानिकं भवति। त्रयोदश्यां चन्द्रग्रहे सूर्यग्रहे वा हरितालं बोधिवृक्षपत्रान्तरितं कृत्वा महेश्वरायतने सधातुके चैत्यै तावज्जपेद् यावद् धूमायति। तिलकं कृत्वा अन्तर्हितो भवति। क्षीरयावकाहारः समुद्रतटे वृक्षमूले सहस्रं जपेत् त्रिसन्ध्यं सप्तरात्रम्। समुद्रगानि रत्नानि पश्यति। यथेष्टं गृह्णीयात्। मुद्गाहारः पर्वतशिखरमारुह्य अष्टसहस्रं जपेद् विंशतिरात्रम्। पर्वतगतानि मणिरत्नानि दर्शनं भवति। ततो हस्तशिरसि कृतं तस्योपरि उपविष्ट अष्टसहस्रं जपेत्। एवं दिवसानि सप्त। स वशो भवति॥

राजानं राजमात्रं वा वशीकर्तुकामः तस्य मधूच्छिष्टकेन प्रतिकृतिं कृत्वा निर्धूमाङ्गारेषु क्षिपेत् सप्तरात्रं स वशो भवति। वस्त्रकामः श्वेतपुष्पाणां अपरिमर्दितानां सकृत् परिजप्य उदके क्षिपेत् सप्तरात्रम्। अष्टसहस्रं वस्त्रयुगं प्रतिलभते। गोघृतं अष्टसहस्रं जप्त्वा स्त्रियामादद्यात्। विशल्या भवति। नवनीताष्टशतजप्तेनाभ्यक्त अग्निं प्रविशति। न च दद्यते। तेनैव चाभ्यक्तो जलं प्रविशति स्तम्भितो भवति। जपमानो यावदुत्साहं भिक्षं भक्षयति। आयसं प्रदेशमात्रं खड्गं कृत्वा सधातुके चैत्ये पटं प्रतिष्ठाप्य उदारां पूजां कृत्वा अश्वत्थपत्रैः प्रदक्षिणावर्त्तैः खड्गं प्रतिष्ठाप्य तावज्जपेद् यावज्ज्वलित इति। तेन गृहीत सपरिवारोत्पतति। विद्याधरसहस्रपरिवृतः अभेद्यः सर्वविद्याधराणां वर्षकोटिं जीवति। कृतपुरश्चरणः कृष्णाष्टम्यां कृष्णचतुर्दश्यां वा पटस्योदारां पूजां कृत्वा सङ्घोद्दिष्टकां भिक्षं भोज्य मनःशिलायां भूमौ पद्मं शतपत्रं लेख्य पद्मकर्णिकायां उपविश्य तावज्जपेद् यावद् भूमिं भित्वा पद्ममुत्तिष्ठति। पद्मपत्रेषु चोपविष्टाः विंशतिविद्याधराः प्रादुर्भवन्ति। तैः परिवृतः उत्पति। यावन्तः सत्वां पश्यति यैश्च दृश्यते तैः सार्धं गच्छति। स च पद्मः अनेकरत्नालङ्कृतो भवति। विमातुरकल्पं जीवति। भिन्नदेहे स्वेच्छया उपपति गृह्णाति। पानीये अष्टसहस्राभिमन्त्रितेन शुष्कवृक्षं सिञ्चेत्। पुष्प्यति फलति च। शुष्कनदीमवतीर्य जपेद् उदकं भवति। नदीप्रतरणे जपेत्। श्रान्तस्य स्थलो भवति। राजानं राजमात्रं वा वशीकर्तुकामेन पटस्याग्रतः कृष्णाष्टम्यामारभ्य पुष्पाणामष्टसहस्रं निवेदयेत्। लवणाहुतिं चाष्टसहस्रं जुहुयात्। नियतं राजा वशी भवति। तामेवाष्टमीमारभ्य गोरोचना त्रिसन्ध्यं अष्टशतिकेन जपेद् यावदेकादशी। तेन तिलकं कृत्वा यं वीक्ष्यति स वशो भवति। यदिच्छे दारकदारिकां वशीकर्तुकामः पटस्याग्रतः सिद्धार्थकानां अष्टसहस्रं जुहुयात्। तासां पादपासुं गृह्य पुत्तलिकां कृत्वा यस्य नामग्रहणं करोति स वशो भवति। मेघार्थिना गव्यघृतं गृह्य चन्द्रग्रहे सूर्यग्रहे वा ताम्रभाजने प्रक्षिप्य तावज्जपेद् यावत् त्रिविधा सिद्धिः। ऊष्मायमाने श्रुतिधरोऽयं यं शृणोति तं गृह्णाति। धूमायमाने रसरसायनम्। ज्वलितेन जातिस्मरो भवति। अर्कपुष्पाणां लक्षं जुहुयात्। दीनारलक्षं ददाति। पटस्याग्रतः अर्कपुष्पाणामष्टसहस्रं निवेदयेत्। दीनारशतं लभते। पटस्याग्रतः शालितन्दुलानां घृताभ्यक्तानां अष्टसहस्रं जुहुयात्। पञ्च दीनारां लभते। कृतपुरश्चरणः पटस्याग्रतः दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात्। दीनारशतत्रयं लभते। कृष्णतिलानामष्टसहस्रं जुहुयात्। दीनारशताधिकं लभते॥

कुलपतिं वशीकर्तुकामः पटस्याग्रतः अर्कसमिधानामष्टसहस्रं जुहुयात् त्रिसन्ध्यं सप्तरात्रम्। कुलपतिर्वशीभवति। लोकपत्यं वशीकर्तुकामः पटस्याग्रतः दूर्वाप्रवालानामष्टसहस्रं जुहुयात् सप्तरात्रं त्रिसन्ध्यम्। कौलपत्यं करोति यावज्जीवम्। आर्यसङ्घं वशीकर्तुकामेन अर्कपुष्पाणां पटस्याग्रतः अष्टसहस्रं निवेदयेत् सप्तरात्रम्। यदर्थं कुर्यात् तमन्विच्छति सततजपेनार्थं लभते। गुग्गुलुगुलिकानां पटस्याग्रतः अष्टसहस्रं जुहुयात्। सुवर्णसहस्रं लभते। पटस्याग्रतः कुन्दुरुधूपं अष्टसहस्रं जुहुयात् सप्तरात्रम्। निधानं लभते। पटस्याग्रतः अर्ककाष्ठसमिधानां दधिमधुघृताक्तानां त्रिसन्ध्य सहस्रं जुहुयात्। दीनारसहस्रं लभते। शत्रुवशीकरणे पोषधिकः पटस्याग्रतः त्रिसन्ध्यं राजसर्षपाणां अष्टसहस्रं जुहुयात् सप्ताहम्। सर्वशत्रवो वशा भवन्ति। लाक्षाहुतीनां अष्टसहस्रं जुहुयात् सप्ताहम्। सर्वजनप्रियो भवति। शालितन्दुलानां अष्टसहस्रं जुहुयात् त्रिसन्ध्यं सप्ताहम्। कार्षापणशतं लभति। कृतपुरश्चरणः कृष्णाष्टम्यां कृष्णचतुर्दश्यां वा मृतकपुरुषं अक्षताङ्गं गृह्य स्नानालङ्कृतं कृत्वा सुगन्धपुष्पधूपैरभ्यर्च्य वामपादेनोरसिमाक्रम्य मस्तके आहन्तव्यः। ततः उत्तिष्ठति। पुष्पलोहमये खड्गे आहन्तव्यः। जातरूपं सुवर्णं लभति। अथ नेच्छति वक्तव्यम् - ‘छर्दस्व’ इति। ततश्चिन्तामणि निर्गच्छति। तं शिरसि कण्ठे वा कृत्वा अन्यत्र वा बद्‍ध्वा यं चिन्तयति तं प्रादुर्भवति। शुक्लप्रतिपदमारभ्य अहोरात्रोषितः समुद्रगामिनिं नदीं अंसमात्रमुदकमवतीर्य जातीपुष्पाणां दशसहस्राणि प्रवाहयेत्। दशमाषकं लभते, सुवर्णसहस्रं वा। शुक्लप्रतिपदमारभ्य समुद्रगामिन्या नद्या पद्मानां दशसहस्राणि निवेदयेत् सप्तरात्रम्। निधानसङ्घाटकं लभते। कृतपुरश्चरणः तामेव नदीमवतीर्य पुष्पाणां दशसहस्राणि प्रवाहयेत् सप्ताहम्। दश ग्रामाण्यालभते। अशोकपुष्पैः चणकमात्रां गुटिकां कृत्वा पटस्याग्रतः दधिमधुघृताक्तानां त्रिसन्ध्यं अष्टसहस्रं जुहुयात् सप्तरात्रम्। यं मृगयति तं लभते। अपामार्गसमिधानामेष विधिः। सुवर्णसहस्रं लभते अशोकगुटिकाव्यतिमिश्रैः अपामार्गतन्दुलैः पटस्याग्रतः त्र्यक्तानां दशसहस्राणि जुहुयात्। नामग्रहणेन राजकन्यं लभति मासमात्रेण। राजानं समन्त्रिणं वशीकर्तुकामः पटस्याग्रतः अशोकसमिद्भिरग्निं प्रज्वाल्य अशोकपुष्पाणामेव दधिमधुघृताक्तानां दश सहस्राणि जुहुयात्। स मन्त्री वशमागच्छति। पटस्याग्रतः अग्निं प्रज्वाल्य अपामार्गसमिद्भिः शतपुष्पां दधिमधुघृताक्तां दशसहस्राणि जुहुयात्। स्वगृहे निधानं पश्यति। समुद्रगामिन्यां नद्यां कटीमात्रमुदकमवतीर्य दशसहस्राणि निवेदयेत्। ये तां जिघ्रन्ति। वामहस्तेन मुष्टिं बध्वा लक्षं जपेत्। ततः सिद्धो भवति। मुक्त्वा दृश्यति। सधातुके चैत्ये नदीतटे वा पर्वते वा पटं प्रतिष्ठाप्य पद्मानां लक्षं जुहुयात्। श्रियं पश्यति। एतेनैव विधिना नीलोत्पलानां लक्षं जुहुयात्। विधानां पश्यति। गुग्गुलुगुलिकानां लक्षं जुहुयात्। दीनारलक्षं लभते। सुगन्धपुष्पाणां लक्षं जुहुयात्। वस्त्राणां कोटिं लभते। गुग्गुलुधूपेन अष्टशतिकेन मनोभिलषितां च पूरयति। तिलसर्षपाणां पटस्याग्रतः प्रतिदिनमष्टसहस्रं जुहुयात् दिवसत्रयम्। पञ्चविंशतिदीनारां लभते। अनेनैव विधिना सप्तरात्रं जुहुयात्। दीनारशतं लभति। लवणमयीं प्रतिकृतिं छित्वा छित्वा जुहुयात् अष्टसहस्रम्। यमिच्छति स वशो भवति स्त्री वा पुरुषो वा। उभयार्द्रं हस्तसर्षपाणां घृताक्तानां अष्टसहस्रं जुहुयात् दिवसत्रयम्। सर्वविघ्नोपशमनम्। उदके एकपादं प्रक्षिप्य स्थले एक एव तावज्ज्पेद् यावदुदकस्थं पादं लघुर्भवति। ततः पापान्मुक्तो भवति। अर्ककाष्ठैरग्निं प्रज्वाल्य राजिकानामष्टसहस्रं जुहुयात् सप्ताहम्। कर्मावरणं क्षीयते। ब्राह्मी-गुडूची-पिप्पलीचूर्णं समभागानि कृत्वा मधुना सहार्यमञ्जुश्रियस्याग्रतः एकविंशतिवारान् परिजप्य लिहेत् सप्ताहम्। मेघावी भवति। द्विसप्तरात्रं परममेधावी भवति। द्विमासयोगेन श्रुतिधरो भवति। पटस्याग्रतः प्रतिमाया वा अष्टसहस्रं जपं कृत्वा पश्चात् पिबेत्। एवं दिनेदिने मौनी जपेत्। मेघावी भवति। बद्धो रुद्धो वा जपेनैव मुच्यति। चौरां दृष्ट्वा जपेत्। चोरैर्न मुष्यति। तैलमष्टसहस्राभिमन्त्रितं कृत्वा शिरं म्रक्षयेत्। सर्वजनप्रियो भवति। भगवतो बुद्धस्याग्रतः ये स्पृशन्ति ते सर्वे वश्या भवन्ति। अनेनैव मन्त्रेण शस्त्राहतस्य पुरुषस्य तैलमष्टसहस्राभिमन्त्रितेन म्रक्षयेद् व्रणो नश्यति। न वेदना भवति। अनेन लोष्टं परिजप्य सप्तवारां जले प्रक्षिपेत्। मकरकच्छपादीनां तुण्डबन्धः कृतो भवति। पूर्णमास्यां त्रिरात्रोषितो नाभिमात्रमुदकमवतीर्य शुक्लपुष्पाणामष्टशतं निवेदयेत्। पञ्चदीनारमूल्यं वस्त्रयुगं लभते। चन्द्रग्रहे सधातुके चैत्ये गुञ्जानां श्लक्ष्णचूर्णीकृतानां धृतमधुमिश्रा गुडिकां कारयेत्। सप्ताश्वत्थपत्रान्तरितां हस्तेनावच्छाद्य तावज्जपेद् यावज्ज्वलति। भक्षयेच्छ्रुतिधरो भवति। अनेन सर्वातुराणां कर्माणि कुर्यात्। शूलदाघवस्तस्त्रीमूत्रकृच्छ्राजरगृधभिदेय तैलं परिजप्य निरोगो भवति। शुक्लप्रतिपदमारभ्य त्रिरात्रोषितः अश्वत्थपत्रवृक्षस्याधस्ताद यूथिकाकलिकानां घृतदधिक्षीराभ्यक्तानां शतसहस्रं जुहुयात्। रूपकशतं लभते। अथ न सिद्ध्यति कर्मकुर्यात् रूपकशतं लभते पश्यति वा पिशाचज्वरभूतग्रहविनाशकं सूत्रेण मोक्षयति। नार्या अप्रसवमानाया तैलमष्टशतं परिजप्य नाभिं कटिप्रदेशं वा म्रक्षयेत्। विशल्या भवति। कुम्भीरधारणं लोष्टशताभिमन्त्रितेन अनन्ता - वेतसी - ब्राह्मी - वचा - बृहती- मधुसंयुक्ता सधातुके चैत्ये चन्द्रमपश्यता तावज्जपेद् यावन्मुक्त इति। फरफरायते। भक्षयित्वा श्रुतिधरो भवति। सङ्ग्रामे प्रतिसराष्टशताभिमन्त्रितं कृत्वा ग्रन्थिं हस्ते बध्वा अहतबलो भवति। अहोरात्रोषितेन भगवतोऽग्रतः साधयितव्यः। समुद्रगामिनीं नदीमवतीर्य गत्वा क्षीरयावकाहारेण पक्षमुपोष्य विकसितानां श्वेतपद्मानां उदके निवेदयेत्। निधानं पश्यति। पञ्चगव्येन कायशोधनं कृत्वा शुक्लप्रतिपदमारभ्य यावत् पूर्णमासीति कृतपुरश्चरणः अन्ते त्रिरात्रोषितः कुमारीकर्तितसूत्रं गृह्य सधातुके चैत्ये प्रतिमायां वा गृहे दशसहस्राभिमन्त्रितेन हस्ते बध्वा अदृश्यो भवति। सधातुके चैत्ये पटं प्रतिष्ठाप्य पद्मानां त्रिंशत्सहस्राणि जुहुयात्। खदिराङ्गारैरग्निं प्रज्वाल्य स्वरूपेण पश्यति। यं मृगयति तं लभते। प्रतिपदमारभ्य यावत् पञ्चदशीति। त्रिरात्रोषितः सधातुके चैत्ये उदारां पूजां कृत्वा उदुम्बरीभिः समिधाभिः अग्निं प्रज्वाल्य घृताहुतिं जुहुयात्। ग्रामं लभते। समुद्रगामिन्या नदीतीरे स्तूपसहस्रं कारयेत्। प्रतिदिनमेकैकस्य स्तूपस्य गन्धपुष्पधूपादीं दत्वा अष्टसहस्राभिमन्त्रितं कारयेत्। यावत् पश्चिमं स्तूपं ज्वलति। ततो ज्ञातव्यम् भगवां महाबोधिसत्त्वमागच्छति। आगच्छमानस्य पृथिवीप्रकम्पः सुगन्धगन्धवायवो वान्ति। तावज्जपेद्, यावत् स्वरूपेण तिष्ठति। स यं वरं याचते तं लभते। भगवतोऽग्रतः खदिरपत्रखण्डिकानां अष्टसहस्रं जुहुयात्। प्रतिदिनं दीनारमेकं लभते। अटवीं गत्वा भिक्षाहारः दधिमधुघृताक्तानां अरण्यगोमयानां विंशतिसहस्राणि जुहुयात्। यावद् वृक्षदेवता सिंहरूपं कृत्वा आगच्छति। स च निदानं ददाति। न गृहेतव्यम्। स्वयमेवमुपतिष्ठस्वेति। राज्यं धनं वान्यरत्नानि वा ददाति। नित्यं रत्नत्रयोपयोज्यं भोगं दातव्यम्। अरण्यं प्रतिविशित्वा दशसहस्रं जपेत्। शतसहस्रं जपेत्। पुनरपि शतसहस्रं जपेत्। अगरुकाष्ठप्रतिमाग्रतः भगवतः वत्सलण्डकानां मधुघृताक्तानां सप्तसहस्राणि जुहुयात्। कपिला कामधेनुरागच्छति। यदि नागच्छति पुनरपि वत्सलण्डं विंशतिसहस्राणि जुहुयात्। आगता च सिद्धा भवति। पुरुषसहस्रस्य क्षीरं ददाति। पटस्याग्रतः घृतमध्वाक्तानां जातीपुष्पाणां अष्टसहस्रं जुहुयात्। षण्मासां दीनारसहस्रं लभते पणसहस्रं वा। विकसितपद्मानां दधिमधुघृताक्तानां शतसहस्रं जुहुयात् सधातुके चैत्ये बुद्धाभिप्रसन्ना देवता वरदा भवति। आर्यमञ्जुश्रियस्य पूजां कृत्वा गौरसर्षपाणां सप्ताभिमन्त्रितानां सङ्ग्रामे प्रकिरे। शान्तिर्भवति। प्रतिहारकपक्षे शुक्लत्रयोदश्यां गन्धपुष्पैः पूजां कृत्वा विकसितानां पद्मानां घृताक्तानां अष्टसहस्रं जुहुयात्। भस्मं च गृहीत्वात्मनः ललाटे तिलकं कृत्वा ग्रामं नगरं प्रविशेत्। सर्वे वशा भवन्ति। कृष्णचतुर्दश्यां प्रभृति यावत् पञ्चदशीति एकरात्रोषितेन वृक्ष स्याधस्ताच्चतुर्हस्तमात्रं मण्डलकमुपलिप्य, गन्धपुष्पधूपं दत्वा आर्यमञ्जुश्रियस्य पूजां कृत्वा यक्षाणां बलिं दत्वा मानुषास्थिं गृहीत्वा त्रिशूलं कारयेत्। वामहस्तेन प्रक्षिप्य सप्तरात्रत्रिरात्रोषितेन वा जातीपुष्पाणामष्टसहस्रं जुहुयात्। तेन शूलं ज्वलति। ततः सिद्धो भवति। इच्छया यं निर्मिणोति तं लभति। दिव्यं गृहं चन्द्रसूर्यग्रहे सधातुके चैत्ये प्रतिमायां वा गृहे कपिलायाः समानवत्सायाः गोघृतपलं गृह्य सौवर्णभाजने स्थाप्य भगवतः पूजां कृत्वा चन्द्रमपश्यता दर्शनोपरिच्छाद्य तावज्जपेद् यावदूष्मायति। फेनायति। ज्वलति। ऊष्मायमानं पीत्वा सर्वसत्त्ववशीकरणम्। फेनायमानं पीत्वान्तर्धानं भवति। ज्वलमानं पीत्वाकाशेन गच्छति। षण्मासकृतपुरश्चरणगोमूत्रयावलाहारिणा मौनव्रतिना नित्यजापेनायाचितं सुवर्णशतं लभते। प्रतिहारकपक्षमारभ्य संवत्सरं भगवतो आर्यमञ्जुश्रियस्याग्रतः पूजां कृत्वा गन्धपुष्पादीनां ददता अष्टाङ्गपोषधसमन्वागतेन पूर्णे संवत्सरे सिद्धो भवति। भगवानस्य पट्टबन्धं करोति। आर्यमञ्जुश्रियस्य पूजां कृत्वा प्रतिपदमारभ्य यावत् पौर्णमासी दिने दिनेऽधिकपूजा कार्या। भिक्षवश्च भोजयितव्याः। सिद्धोऽस्मीति वाङ्निस्सरति। घृताहुतीनां शतसहस्रं जुहुयात्। परस्य शान्तिर्भवति। प्रातिहारकपक्षे भगवतो बुद्धस्य पूजां कृत्वा उदारां आर्यमञ्जुश्रियस्य गन्धपुष्पदीपधूपादीन् दत्वा शङ्खपुष्पीपुष्पाणां इङ्गुदतैलाक्तानां शतसहस्रं जुहुयात्।ग्रामनगरहस्त्यश्चरथगोमहिषाश्च भवति। सप्तरात्रं क्षीरयावकाहारः पोषधिकेन आमलितघृतेन पात्रं पूरयित्वा शुक्लवर्त्तिना दीपं प्रज्वाल्य कुमारकुमारिकानां दर्शापयेत्। तत्रैवाल्पज्ञानं सम्पन्नं पश्यति। सर्वोपद्रवेभ्यः भयं न भवति। नित्यजापिना बोधिवृक्षसमिधानां नवनीक्तानामष्टसहस्रं जुहुयात्। पटस्याग्रतः तथैव कुशसंस्तरे स्वपेत्। स्वप्ने विंशतिसाहस्रिकं द्रव्यं पश्यति। अर्थभागं रत्नत्रयोपयोज्यम्। पटस्याग्रतः शुक्लप्रतिपदमारभ्य यावत् पौर्णमासीति। अत्रान्तरे दिने दिनेऽष्टमसहस्रं जपेत्। गन्धपुष्पधूपादिभिः पूजां कृत्वा अन्ते त्रिरात्रोषितेन मौनव्रतं कुरुता मन्त्रं जपता प्रातिचारकेभ्यो बलिं हस्ते दत्वा महापथं गत्वा भूतं क्रूरं निवेदयेत्। प्रतीच्छेति वक्तव्यः। गौरसर्षपाणां द्रोणं गृहीत्वा दश दिशोऽधस्ताच्च क्षिपेत्। एकविंशतिवारानभिमन्त्र्य परं आत्मानं प्रकाशयेत्। तथैव कृष्णाष्टम्यां गन्धकुटिं प्रविश्य भगवतोऽग्रतः सहस्रं जपेत्। गन्धपुष्पादिभिर्बलिविधानं कृत्वा ततः स्वप्ने पश्यति भगवानार्यमञ्जुश्रीः। वसिशाखमासे कृष्णपक्षे पोषधिकेन क्षीरयावकाहारः सधातुके चैत्ये गन्धपुष्पदीपादिभिः पूजां कृत्वा भिक्षवश्च दिने दिने भोजयितव्याः। भिक्षवः अकालमूलकलशश्चत्वारः सलिलपूर्णाः स्थापयितव्याः। सर्वौषधिबीजानि प्रक्षिप्य रात्रौ एकैकमष्टसहस्राभिमन्त्रितं कृत्वा अकाकोलीने पुत्रदारदारिकां स्थापयेत्। राज्यम्। पक्षाभ्यन्तरयोः कृष्णाष्टम्यां भगवतः आर्यमञ्जुश्रियस्य च पूजां कृत्वा श्मशानाग्निं प्रज्वाल्य शतपुष्पाणां अष्टसहस्रं जुहुयात्। अन्नपानं अक्षयं भवति। तमेव भस्मं ग्रहाय आत्मनः परस्य वा ललाटे पुण्ड्रकं कृत्वा सङ्गामेऽवतरेत् सर्वे वशा भवन्ति। बन्धनाच्च निगडात् प्रमोचयेत्। अग्निगतां नाशयति। मालतीपुष्पाणां दधिमधुघृताक्तानां शतसहस्रं जुहुयात्। षण्मासं गोमूत्राहारः। दीनारसहस्रं लभते। शुक्लप्रतिपदमारभ्य नीलोत्पलानां अष्टसहस्रं जुहुयात्। यस्य नाम्ना जुहोति स वशो भवति। पञ्चकालकानां त्रिसन्ध्यं अष्टसहस्रं यस्य नाम्ना जुहोति स वशो भवति। प्रातिहारकपक्षे पटस्याग्रतः क्षीरयावकाहारः त्रिसन्ध्यं पञ्चदश्यां तावज्जपेद् यावद् भगवानागच्छति। दीपशिखा वर्द्धते। पृथिवी कम्पते। पटं वा प्रचलति। सिद्धेति वाङ् निश्चरति। दीनारसहस्रं लभति। विषयपतिर्भवति। षण्मासकृतपुरश्चरणो सधातुके चैत्ये भगवतः आर्यमञ्जुश्रियस्याग्रतः षण्मासाभ्यन्तरेण दीनाराणां पञ्चसहस्राणि लभति। सधातुके चैत्ये पूजां कृत्वा शतसहस्रं जपेत्। रूपकससहस्रं प्रतिलभति। सधातुके चैत्ये शतसहस्रं जपेत्। सर्वकामप्रदो भवति। सर्वव्याधिषु प्रशमनं कर्तुकामेनाष्टशतसहस्राभिमन्त्रितं कृत्वा, कन्याकर्त्रितसूत्रकं बन्धितव्यम्। सौभाग्यं प्रतिलभते। व्याधिश्च प्रशमति। समुद्रगामिनीं नदीमवतीर्य कृष्णतिलानां अष्टसहस्रं निवेदयेत्। धनधान्यं प्रतिलभते। सधातुके चैत्ये शुक्लप्रतिपदमारभ्य पञ्चदश्यां त्रिरात्रोषितेन उदुम्बरकाष्ठैरग्निं प्रज्वाल्य राजसर्षपाणां दधिमधुघृताक्तानां शतसहस्रं जुहुयात्। पञ्चग्रामाणि प्रतिलभते। राजवृक्षसमिद्भिरग्निं प्रज्वाल्य श्वेततिलानां दधिमधुघृताक्तानां शतसहस्रं जुहुयात्। पञ्चदश्यां त्रिरात्रोषितः यदि ते तिला दिशि विदिशं गच्छन्ति। ततः सिद्धो भवति। सर्वसत्त्वा वशीकरोति। आर्यमञ्जुश्रियस्याग्रतः पूर्वं शतसहस्रं जपेत्। ततः चन्द्रग्रहे घृतमष्टपलानि दत्वा तावज्जपेद् यावत् फेनायति पीत्वा श्रुतिधरो भवति। कुन्दुरुकं शतसहस्रं जुहुयात्। अयाचितं पुराणमेकं लभते। आर्यमञ्जुश्रियस्याग्रतः प्रतिदिनमष्टशतं सुगन्धपुष्पाणां निवेदयेत्। श्रीमां भवति। अपामार्गसमिधानां दधिमधुघृताक्तानां प्रतिदिनं अष्टमसहस्रं जुहुयात्। ग्रामं लभते। बहुपुत्रिकासमिद्भिरग्निं प्रज्वाल्य, वचाष्टसहस्रं जुहुयात्। तेन भस्मना तिलकं कुर्याद् अन्तर्हितो भवति। यदि न भवति त्रिरपि साधयेत्। चन्द्रग्रहे नदीतीरं गत्वा बिल्वसमिद्भिरग्निं प्रज्वाल्य बिल्वपुष्पाणां घृताक्तानां शतसहस्रं जुहुयात्। यक्षकुमारी आगच्छति। अर्धरात्रे पुनरपि अष्टसहस्रं जपित्वा तत एका आगच्छति। यां वाचां उच्यते तं करोति। निधिस्थाने मन्त्रमष्टसहस्रं जपेत् पुष्पधूपगन्धादिभिः पूजां कृत्वा ततः कृष्णचतुर्दश्यां बलिविधानं कृत्वा जपेत्। पिशाचा आगछन्ति। ततः खनेत्। निधान उत्तिष्ठति। गृहीत्वात्मना त्रयाणां रत्नानां दातव्यम्। एवं पट्टबन्धमपि कर्म। भगवतोऽग्रतः विभीतककाष्ठैरग्निं प्रज्वाल्य तिलतण्डुलानां प्रतिदिवसं अष्टसहस्रं जुहुयात्। रण्डा वशा भवति। अमात्यवशीकरणा गौरसर्षपां जुहुयात् वशो भवति। राजवशीकरणे सर्जरसं जुहुयात्। वशो भवति। पुरुषस्त्रीवशीकरणे एवमेव जुहुयात्। अगस्तिकाष्ठैरग्निं प्रज्वाल्य दीपवर्तीनां पटस्याग्रतः दीनारशतं लभते। क्षीराहारेण पलाशसमिधानां जुहुयात्। प्रतिदिनं त्रिः कालम्। सुवर्णशतं लभति। समुद्रगामिनीं नदीं गत्वा शतशतसहस्रं जुहुयात्। यावद् रत्नानि प्रतिलभते ग्रहेतव्यम्। रत्नत्रयोपयोज्यं भागो देयः। वैशाखपूर्णमास्यांसकलां रात्रिं जपेत्। आनन्तर्यान्मुच्यति। बोधिवृक्षमूले भगवतः आर्यमञ्जुश्रियस्य पूजां कृत्वा अपामार्गसमिधानां दधिमधुघृताक्तानां जुहुयात्। आत्मानमुद्दिश्य। सर्वपापैर्मुक्तो भवति। सप्त सप्त मरिचानि अभिमन्त्र्य अकाकोलीने भक्षयेत्। पञ्चाशच्छलोकशतानि गृह्णाति। तच्च यावज्जीवं धारयति भगवतो बुद्धस्याग्रतः शतसहस्रं जपं कृत्वा पन्नगबन्धं करोति। जले वैकङ्कतसमिधानां दधिमधुघृताक्तानामार्यमञ्जुश्रियस्याग्रतः शतसहस्रं जुहुयात्। अर्धरात्रे पञ्च दीनारशतानि प्रतिलभते अर्धं रत्नत्रयोपयोज्यम्। कुमुदानि दिने दिनेऽष्टसहस्रं जुहुयात्। विनायकैर्मुक्तो भवति। कार्त्तिकशुक्लपक्षे क्षीरयावकाहारः शाकाहारो वा पोषधिकः पञ्चदश्यां त्रिरात्रोषितो वैकङ्कतफलानां घृताक्तानां लक्षं जुहुयात्। रूपकसहस्रं प्रतिलभते। ग्रामस्वामी भवति। अर्धं रत्नत्रयोपयोगम्। शुचौ भूप्रदेशे गोचर्ममात्रं मण्डलमुपलिप्य तन्मध्ये पद्माकारां वेदिं कृत्वा गन्धपुष्पधूपविचित्रबलिं कृत्वा वैकङ्कतसमिधाना सुगतवितस्तिप्रमाणानां लक्षं जुहुयात्। अग्न्याकारा नीलवर्णा अर्चिषो निश्चरन्ति। साधकं प्रदक्षिणीकृत्य पुनरप्यग्निकुण्डे प्रविशन्ति। एवं सिद्धो भवति। सर्वसाधनेषु अग्निरावाहितव्यम्। एवं सिद्धो भवति। गङ्गायामंसमात्रमुदकमवतीर्य लक्षं जपेत् यावदाकाशादित्यमण्डलं दृश्यति। ततः भगवां सिद्धो भवति। यदि न पश्यति न सिध्यति एकवाराहिं गत्वा गन्धपुष्पधूपबलिविधानं कृत्वा सकलां रात्रिं जपेत्। यावदुश्वशतिं। ततः सिद्धो भवति। सर्वसाधनेषु सा च वक्तव्या। रूपकशतं मे दिने दिने ददाति। सर्वं व्ययीकर्तश्यम्। अन्यथा न ददाति। पलाशकाष्ठैरग्निं प्रज्वाल्य अरण्यगोमयानां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात्। गोशतं लभति। मातुलङ्गफलानां अष्टसहस्रं जुहुयात् पलाशाग्नौ। यावद् गणपतिरागच्छति। स वक्तव्यः - ‘मम दिने दिने दीनारमेकं देहि’। ददाति। सर्वः व्ययीकर्तव्यः। भगवतः पादौ स्पृशेति वक्तव्यः ततः सिद्धो भवति। अथवा न ददादि बिल्वफलानां दधिमधुघृताक्तानां सधातुके चैत्ये पटस्याग्रतः एकरात्रोषितः वैकङ्कतसमिधाग्निं प्रज्वाल्य अष्टसहस्रं जुहुयात्। अनेन कर्मणा श्रीमां भवति। विषयाधिपतिर्भवति। किङ्किराटपुष्पाणि दिने दिने अष्टसहस्रं जुहुयात्। दिनानि सप्त। अष्टौ पणं प्रतिलभते। शान्तिकं कर्तुकामो लाजाहुतीनां अष्टसहस्रं जुहुयात्। शान्तिर्भवति। पुष्टिमिच्छता क्षीरवृक्षसमिधानामग्निं प्रज्वाल्य त्रिसन्ध्यं तिलतण्डुलानामष्टसहस्रं जुहुयात्। दिवसानि त्रीणि। पुष्टिर्भवति। आम्रकाष्ठैरग्निं प्रज्वाल्य दूर्वाङ्कुराणां अष्टसहस्रं जुहुयात्। विवादे उत्तर वादी भवति। अस्तमिते व्रीहितुषाणां नाम गृहीत्वा वामहस्तेन जुहुयात्। सप्तरात्रं वशो भवति। राजसमिद्भिरग्निं प्रज्वाल्य तिलतण्डुलानां अष्टसहस्रं त्रिसन्ध्यं जुहुयात्। दिवसानि त्रीणि अर्थं ददाति। गङ्गायामुसलशब्दरहिते शुचौ प्रदेशे उभयकूलमृत्तिकां गृह्य सचतुरस्रां सप्तहस्तां वेदिकां कृत्वा मध्ये सहस्रपत्रं पद्मं कृत्वा तस्योपरि सुगतवितस्तिप्रमाणं पञ्चलोहितकं चक्रं प्रतिष्ठाप्य मण्डलमध्ये पटस्याग्रतः साधयितव्य गन्धपुष्पैः श्वेतचन्दनैरर्चयित्वा मन्दारकरक्तपुष्पमालां दत्वा ततो गन्धादिभिः पूजां कृत्वा घृतप्रदीपमाला सप्त देया चतुर्दिशं चत्वारो घृतकुम्भाः प्रज्वालयितव्याः। चतुर्दिशं चत्वारः कलशाः सर्वबीजपूर्णका रत्नानि च प्रक्षिप्य स्थापयितव्या। कुन्दुरु - अ- गरुश्रीपिष्टक-गुग्गुलु- धूपो देयः। बलिविधानं कृत्वा चतुर्दिशं पूर्वोक्तेन दधिभक्तोऽपूपकं देयम्। दक्षिणभूतक्रूरं उदकमिश्रं देयम्। पश्चिमायां दिशि कुरङ्गुडक्षीरपूर्णकं देयम्। उत्तरायां दिशि पायसपूर्णकं बलिमुपहरेत्। ततः पलाशसमिद्भिरग्निं प्रज्वाल्य अपामार्गसमिधानां सप्ताभिमन्त्रितानां घृतानामष्टसहस्रं जुहुयात्। नामं ग्रहाय। वशो भवति। राजवृक्षसमिद्भिरिग्निं प्रज्वाल्य लवणमयीं प्रतिकृतिं कृत्वा शिरादारभ्य एकैकामाहुतिं सप्ताभिमन्त्रितां यावच्चरणाविति नामं ग्रहाय अष्टसहस्रं जुहुयात्। राजा वशो भवति। शुक्लपञ्चदश्यामष्टम्यां वा पोषधिकोऽहोरात्रोषितोऽपतितगोमयं गृह्य गोचर्ममात्रस्थण्डिलमुपलिप्य सधातुके चैत्ये आर्यमञ्जुश्रियस्य रजतमये वा भाजने कपिलायाः गोः समानवत्सायाः कुमारीमथितं नवनीतं गृह्य कुशविण्डकोपविष्टः वामहस्तेन भाजनं गृह्यं दक्षिणहस्तेनानामिकायामङ्गुह्या आलोडयं तावज्जपेद् यावदूष्मायति। तत् पातव्यम्। मेधावी भवति। सकृदुक्तं गृह्णाति। अथ धूमायति वशीकरणम्। अथ ज्वलति अन्तर्धानं भवति। बहुपुत्रिकां अष्टसहस्रं जुहुयात्। तेन भस्मना उदककुम्भांश्चात्वारः। समिश्रीकृत्वा कारयितव्या। अष्टशताभिमन्त्रितां वाचां दक्षिणहस्ते बध्वा यावत् सर्वत्रोत्तरवादी भवति। अपराजितपुष्पाणामष्टसहस्रं जुहुयात्। सङ्ग्रामेऽपराजितो भवति। कुमारीकर्तितसूत्रेण सप्ताभिमन्त्रितेन ग्रन्थयः कर्तव्याः बन्धितव्याः। स्थावरजङ्गमा विषा नात्र प्रभवन्ति। दारुणेन सर्पेण दष्टस्य नामं ग्रहाय सप्ताभिमन्त्रितमुदकचूर्णकं पानाय देयम्। मृतोऽप्युत्तिष्ठति। तथैव चतुर्दिशाभिमन्त्रितं कृत्वा पानाय देयम्। तक्षकेनापि दष्टो जीवति। स्तनगण्डिकायां सप्ताभिमन्त्रितया मृत्तिकया लेपयेत्। मुच्यति। वेदना न भवति। मार्युपद्रवे नगरमध्ये वा अर्धरात्रौ स्थण्डिलकमुपलिप्य शुक्लं बलिं कृत्वा क्षीरवृक्षसमिद्भिरग्निं प्रज्वाल्य क्षीराहुतिसहस्रं जुहुयात्। मार्युपशमयति। अथनोपशमयति। ततोऽन्यतमस्मिन् दिवसे मध्याह्नवेलायां श्लेष्मातकसमिद्भिरग्निं प्रज्वाल्य सिद्धार्थानामष्टसहस्रं जुहुयात्। सद्यो मारिं प्रशमयति। अनेन विधिना कृतेन विषमबन्धः यावन्तः सत्त्वा ते तस्य वशा भवन्ति। कूष्माण्डवशीकरणे कूष्माण्डसमिधानामष्टसहस्रं जुहुयात्। मा(रि)मुपशमयति। प्रेतवशीकरणे तिलपिष्टकानामष्टसहस्रं जुहुयात्। प्रेता वश्या भवन्ति। पिशाचवशीकरणे श्मशानचेलकानामष्टसहस्रं जुहुयात्। पिशाचा वशा भवन्ति। यक्षवशीकरणे वटवृक्षसमिधानां दधिमधुघृताक्तानामष्टसहस्रं जुहुयात्। यक्षा वशा भवन्ति। अपस्मारोजेहारवशीकरणे ऊर्णाहुतीनामष्टसहस्रं जुहुयात्। वशा भवन्ति। घृताक्तानां गुग्गुलुगुलिकानामष्टसहस्रं जुहुयात्। महादेवानुचरा ग्रहा वशा भवन्ति। वीरक्रयक्रीतां मनःशिलां गृहीत्वाराजवृक्षसमिद्भिरग्निं प्रज्वाल्यं तावज्जपेद् यावदग्निवर्णा भवति। ततः समानवत्सायाः गोः कपिलायाः कन्यामथितेन नवनीतेन कृत्वा तस्मिं घृते निर्वापयेत्। एवं दधिपूर्णभाजने मधुपूर्णे च। ततः अनेनैव रक्षां कृत्वा समुद्गके स्थाप्य चन्द्रग्रहे त्रिरात्रोषितेन सधातुके चैत्ये आर्यमञ्जुश्रियस्याग्रतः पूजां कृत्वा उत्तरामुखेनाश्वत्थपत्रचतुष्टये स्थाप्य तावज्जपेद् यावदूष्मायति। धूमायति प्रज्वलति। वशीकरणान्तर्धानमाकाशगमनमिति। एवं अञ्जनहरितालरोचनां चेति। रोचनया अयं विशेषः – शुक्लपञ्चदश्यां पद्मपत्रे स्थाप्य आर्यमञ्जुश्रियस्याग्रतः करसम्पुटेन गृहीत्वा तावज्जपेद् यावत् त्रिविधा सिद्धिः। एते च कर्मा मूलपटस्याग्रतः कर्तव्यानि। सप्तरात्रं पञ्चलोहेन पद्मं कृत्वा कुङ्कुमरोचनकर्पूरमुदके पिष्ट्वा पद्मं म्रक्षयित्वा ततः शुक्लाष्टम्यामुपोषधिकेन त्रिःकालस्नायिना शुचिवस्त्रप्रावृतेन सधातुके चैत्ये आर्यमञ्जुश्रियस्याग्रतः दक्षिणेन हस्तेन गृहीतेन तावज्जपेद् यावत् प्रज्वलति।ततस्तेन गृहीतेन विद्याधरो भवति। दशवर्षसहस्राणि जीवति। एवं कटकमकुटशृङ्खला चेति। एवं शैलरक्तचन्दनं गुग्गुलं नन्द्यावर्तमूलं गिरिकर्णिकातुषं व्रीहिकुष्ठतगरं मधु पिप्पली तुरुष्कं चैकतः कृत्वा समभागानि कारयेत्। ततः कपिलायाः समानवत्सायाः गोः क्षीरं गृह्य कन्यामथितेन नवनीतेन मोदयित्वा गुलिकां कारयेत्। अक्षतैलेन दीपो दातव्यः। तत उपोषधिकेन शुक्लचतुर्दश्यामहोरात्रोपितः अश्वत्थपत्रान्तरिता गुलिकां कृत्वा आर्यमञ्जुश्रियस्याग्रतस्तावज्जपेद् यावद् धूमायति। सखायानां दत्वा आत्मना मुखे प्रक्षिपेत्। अन्तर्हितो भवति। अथ ज्वलति आकाशगामी भवति। अपरो विधिः। सधातुके चैत्ये पटस्याग्रतः पोषधिकेनोदारां पूजां कृत्वा अर्कसमिद्भिरग्निं प्रज्वाल्य दधिमधुघृताक्तानां खदिरसमिधानामष्टसहस्रं जुहुयात्। शुक्लचतुर्दश्यामारभ्य यावत् पञ्चदशीभि। सिद्धा एव सिद्धो भवति। एवं पोषधिकेन लक्षं जप्तव्यम्। परतः कर्माणि भवन्ति। अनया पूर्वसेवया सिद्धो भवति। अथ राजानं राजमात्रं वा वशीकर्तुकामो भगवतः पूजां कृत्वा राजवृक्षसमिधानां इङ्गुदतैलाक्तानां अष्टसहस्रं जुहुयात्। चतुर्दशीमारभ्य यावत् पञ्चदशीति। अनेन कर्मणा दुःशीलस्यापि सिद्धिर्भवति। चतुर्वर्णं वशीकर्तुकामः पायसं हविष्यान्नमानीय पेयक्रसरा चेति जुहुयात्। वश्या भवन्ति। रात्रौ शुचिरष्टशतं जपेत्। सर्वाबन्धनान्मोचयति। क्रोधमुपशमनं पिण्डकतुषहोमेन वा कन्यावशीकरणे तिलां जुहुयात्। वस्त्रकामेन कर्प्पण जुहुयात्। अष्टसहस्रं सप्तरात्रं वचां अष्टसहस्राभिमन्त्रितां कृत्वा हस्ते बध्वा यं याचयति तं लभते। नित्यजापेन प्रत्यङ्गिरा पद्मसूत्रादिना अष्टसहस्राभिमन्त्रितेन यस्य हस्ते बध्नाति तस्य रक्षा कृता भवति। धनमिच्छं गुग्गुलुगुलिकानामष्टसहस्रं जुहुयात्। सप्तरात्रम् कुलपतिकामः गन्धां जुहुयात् सप्तरातम् धृताक्तां। ग्रामं लभति। पुष्पमष्टशताभिमन्त्रितं यस्य ददाति स वशो भवति। कुङ्कुमतगरतालीसपत्रं समृणालशतपुष्पश्रीवेष्टसमायुक्तं विधिनाभिमन्त्रितं राजद्वारे वस्त्रय मालभं स्त्रीपुरुषप्रयुक्तवशीकरणं युद्धविजयकरणम् ध्वजमष्टसहस्रवारां परिजप्य गन्धपुष्पधूपं चाभिमन्त्रयित्वा सप्त दधिकुण्डेषु अर्ध्यं विसजयेत्। परसैन्यं दर्शनादेव च नश्यति। कृष्णतिलां पटस्याग्रतः अष्टसहस्राभिमन्त्रितं कृत्वा यस्य नामं ग्रहाय भक्षयति सवशो भवति। अष्टसहस्रजप्ता सर्वबीजानि सर्वौषध्यः सर्वगन्धानि च सुरभिपुष्पाणि पद्मं वा सर्वाणि अकालमूलकलशे प्रक्षिप्य, बोधिवृक्षे अष्टसहस्रं जपेत्। स्वयं वा स्नापयेत्। अन्यं वा स्नापयेत्। सर्वोपद्रवेभ्यो मुक्तो भवति। पद्मं वा पद्मपत्रं वा निर्धूमेषु अङ्गारेषु यस्य नाम्ना जुहोति स वश्यो भवति। बिल्वपत्रं मधुसंयुक्तं अष्टसहस्रं जुहुयात्। राजपत्नी वा राजमहिषी वा वशीकरोति। सर्वसत्त्ववशीकरणे प्रियङ्गुं जुहुयात्। यस्य नामं ग्रहाय रक्तशालयः जुहोति। स वशो भवति। कुमारीवशीकरणे केसरपुष्पां जुहुयात्। पटस्याग्रतः क्षीरपायसं अष्टसहस्रां जुहुयात्। यस्य नाम्ना स वशो भवति। सधातुके चैत्ये पूर्वाभिमुखं पटं प्रतिष्ठाप्य, शुक्लप्रतिपदमारभ्य वेदिः पूर्वोत्तराग्रैर्दर्भैर्विस्तार्य, बिल्वसमिधाभिरग्निं प्रज्वाल्य, विकसितानां पद्मानां दधिमधुघृताक्तानां त्रिसन्ध्यमष्टसहस्रं जुहुयात्। अगरुतुरुष्क-कुन्दुरुक-श्रीपिष्टकेन च धूपो देयः। क्षीरदधिभक्तं बलिं दद्यात्। विघ्नानां सर्वभौतिकं बलिं देया। ततोऽष्टम्यां प्रभृति विकसितानां श्वेतपद्मानां दधिमधुघृताक्तानां त्रिसन्ध्यमष्टसहस्रं जुहुयात्। महानिधानं विषयं वा लभते। दधिमधुघृताक्तानां पीतपुष्पाणां दिने दिनेऽष्टसहस्रं जुहुयात्। देशं लभति। त्रिरात्रोषितः सक्तवाहारेण वा होमः कर्तव्यः। एवं सप्ततिः शतसहस्रैरानन्तर्यकारिणस्यापि सिद्ध्यति। तदेव समिधानां दधिमधुघृताक्तानां लक्षं जुहुयात्। सुवर्णकोटिं लभते। प्रातरुत्थाय प्रयतः स्नातो ब्रह्मचार्यग्निं प्रज्वाल्य, नागकेसरप्रियङ्गुराजानं राजमात्रं वा वशीकर्तुकामोऽष्टसहस्रं जुहुयात्। त्रिसन्ध्यम्। त्रिमासाभ्यन्तरेण विशिष्टफलं प्राप्नोति। द्रव्यं प्रभूतं च। गोवत्सलण्डानां शतसहस्रं जुहुयात्। गोशतं लभते। प्रियङ्गुनागकेसरसमिधानां यस्य नाम्ना जुहोति; स वश्यो भवति। खदिरसमिधानां दधिमधुघृताक्तानां पटस्याग्रतोऽष्टसहस्रं त्रिसन्ध्यं जुहुयात्। महानिधानं लभति। तद् दीयमानमक्षयं भवति। समुद्रगामिनीं नदीमवतीर्य, पद्मानां रक्तचन्दनाक्तानां शतसहस्रं प्रवाहयेत्। पद्मराशितुल्यं निधानं पश्यति। पटस्याग्रतो बिल्वाहुतीनामष्टसहस्रं जुहुयात् त्रिसन्ध्यम्। भोगानुत्पादयति। तिलतण्डुलानेकीकृत्य पटस्याग्रतोऽष्टसहस्रं त्रिसन्ध्यं जुहुयात् सप्तरात्रम्। अक्षयमन्नमुत्पद्यते। नागानां नागपुष्पाणि जुहुयात्। वशा भवन्ति। यक्षाणां पटस्याग्रतो गुग्गुलुगुलिकानामष्टसहस्रं जुहुयात्। त्रिसन्ध्यं सप्तरात्रमशोकसमिद्भिः। यक्षिणी वशा भवति। श्रीवासकं पटस्याग्रतो जुहुयात्। किन्नरा वशा भवन्ति। देवानां वशीकर्तुकामः, मूलपटस्याग्रतोऽगरुसमिधानां घृताक्तानामष्टसहस्रं जुहुयात् त्रिसन्ध्यमेकविंशतिरात्रम्। वशा भवन्ति। पटस्याग्रतः कुन्दुरुकं जुहुयात्। प्रेता वशा भवन्ति। सर्जरसं जुहुयात्। विनायका वशा भवन्ति। पिण्याकहोमेन सर्वां वशीकरोति। राजानं राजमात्रं वा वशीकर्तुकामः, पटस्याग्रतो राजसर्षपां तैलाक्तामष्टसहस्रं जुहुयात्। सप्तरात्रम्। वशा भवन्ति। यदुच्यन्ति तत् करोति। राजकन्यावश्यार्थे पटस्याग्रतो राजिकां जुहुयात्। पुरोहितं वशीकर्तुकामः पटस्याग्रत घृतं जुहुयात्। क्षत्रियं बाहुतिभिः। वैश्यवशीकरणे क्षिरं जुहुयात्। शूद्रवशीकरणे कृसरां जुहुयात्। सर्वस्त्रियो वशीकरणे लवणहोमेन। रण्डा माषहोमेन। सर्वसत्त्वां तिलतैलाक्ते वशीकरोति। सर्वेषामष्टसहस्रिको होमः सप्तरात्रम्। शुचिर्भूत्वा चतुर्भक्तोषितः बिल्वसमिधाभिरग्निं प्रज्वाल्य, बिल्वानां जुहुयात्। शतसहस्रं निधानं पश्यति। विंशतिरात्रं क्षीरयावकाहारेण श्वेतसर्षपाणां लक्षं जुहुयात्। अर्थं लभते। कृतपुरश्चरणः गौरसर्षपाणां घृताक्तानां पटस्याग्रतः रात्रौ दिवसं जुहुयात्। मासेन व सुवृष्टिर्यत्रेच्छति। चतुर्भक्तोषितो दशसहस्राणि एतदेव जुहुयात्। अर्थं लभते। सधातुके चैत्ये पटं प्रतिष्ठाप्य, पलाशकाष्ठैरग्निं प्रज्वाल्य, उत्पलानां लक्षं जुहुयात्। ग्रामं लभति। पटस्याग्रतः गन्धपुष्पधूपं वा क्षीरयावकाहारः पद्मं जुहुयात्। सुवर्णसहस्रं प्रतिलभते। कुमुदानां पटस्याग्रतो लक्षं जुहुयात्। यं मनसा चिन्तयति; तं लभते। पटस्याग्रतो बिल्वानां सहस्रं जुहुयात्। निधानं पश्यति। पटस्याग्रतो दधिमधुघृताक्तानां पद्मानां शतसहस्रं जुहुयात् क्षीरयावकाहारः। सुवर्णसहस्रं प्रतिलभे। त्रिरात्रोषितोऽगरुसमिधानामष्टसहस्रं जुहुयात्। ततः सर्वरात्रिको जापो देयः। पटः प्रकम्पते। स्रग्दामचलनं वा। ततः सिद्धो भवति। यं मनसा चिन्तयति, तं ददाति। महापुरुषवशीकरणे पटस्याग्रतः जातीपुष्पाणि जुहुयात्। विषमार्थं करवीरपुष्पाणां जुहुयात्। कर्णिकारपुष्पाणां जुहुयात्। दीनारशतं लभते। सेनापतिकामः कुन्दपुष्पाणि जुहुयात्। सैनापत्यं लभते। तारावर्त्तपुष्पं जुहुयात्। दीनारसहस्रं लभते। मुचिलिन्दलक्षं जुहुयात्। सुवर्णसहस्रं लभति। श्वेतकरवीरपुष्पहोमेन त्रिपट्टे बद्धो भवति। विषयमपि लभते पटस्याग्रत आधारकोऽग्निमुपसमाधाय प्रतिदिनं वर्द्धमाना पूजा कार्या। गन्धतैलाक्तानां कनकस्य तुटिमात्रं सहस्रं जुहुयात्। यावद् भगवां वरदः। ततः विद्याधरचक्रवर्ती भवति। यं प्रार्थयति। रजतचूर्णं जुहुयात्। राज्यं ददाति। आयसं चूर्णं जुहुयात्। दीनारसहस्रं लभति। कुङ्कुमाहुतिं गन्धतैलाक्तां शतसहस्रं जुहुयात्। यावतः प्रार्थयति, तं लभति। सर्वगन्धाहुतीनां लक्षं जुहुयात्। यथाभिप्रेतं विषयं लभति। कर्पूराहुतीनां लक्षं जुहुयात्। दीनारलक्षं लभति। चन्दनसमिधानां गन्धतैलाक्तानां लक्षं जुहुयात्। दीनारसहस्रं लभति। सुवर्णचेलाहुतिलक्षं जुहुयात्। दीनारसहस्रं लभति। अगरुसमिधानां लक्षं जुहुयात्। श्रुतिधरो भवति। धासकसमिधानां गन्धतैलाक्तानां लक्षं जुहुयात्। महाव्याध्युपशमो भवति। निम्बफलानां गन्धतैलाक्तानां लक्षं जुहुयात् सर्वबन्धनान्मोचयति। समानवत्साया गोः घृतं गृह्य, लक्षाभिमन्त्रितं पिबेत्। मेधावी भवति। अर्कपुष्पाणां लक्षं जुहुयात्। सर्वसत्त्ववल्लभो भवति। पुष्पफलं सप्ताभिमन्त्रितं कृत्वा यस्य दीयते; स वशो भवति। पोषधिकः शुक्लपञ्चदश्यां सधातुके चैत्येऽपतितगोमयेन मण्डलकमुपलिप्य, गन्धपुष्पघृतप्रदीपाभिः पूजां कृत्वा, उदुम्बरकाष्ठैरग्निं प्रज्वाल्य, ब्रह्मीसमिधानामष्टसहस्रं जुहुयात्। हविष्याहारो मेधावी भवति। ब्राह्मणवशीकरणे क्षीरं जुहुयात्। स वशो भवति। क्षत्रियस्य हविष्यं जुहुयात्। वशो भवति। वैश्यवशीकरणे यवदधिमिश्रं हविष्यं चैकीकृत्य जुहुयात्। वशो भवति। शत्रुं दृष्ट्वा जपेत्। स्तम्भितो भवति। उदकेन सप्ताभिमन्त्रितेन सर्वाशा पूरयति। सर्वरोगेषु उमार्जनम्। लोघ्रगुलिकाया सप्ताभिमन्त्रितयाक्षीण्यञ्जयेत्। अक्षिरोगमपनयति। ग्लानस्य सूत्रकं सप्ताभिमन्त्रितं बन्धितव्यम्। सर्वग्रहा न प्रभवन्ति। भस्मना सप्तजप्तेन मण्डलबन्धः शिखाबन्धेनात्मरक्षा भवति। सप्तजप्तेन लोष्टकेन दिशाबन्धः। दुःप्रसवाया तैलं परिजप्य दातव्यम्। सुखं प्रसवति। मूढगर्भया ऋतुकालसमये क्रान्तस्नाताया गोक्षीरमष्टशताभिमन्त्रितं कृत्वा, सर्वबुद्धबोधिसत्त्वानां प्रणामं कारयित्वा, पानाय देयम्। परमान्नं च घृतमिश्रं भोजयितव्यः। ततः पुत्रं प्रसवति। प्रासादिकं शुक्लप्रतिपदमारभ्य पूर्वाभिमुखं पटं प्रतिष्ठाप्यः, प्रतिदिनं गुग्गुलुगुडिकानामष्टसहस्रं जुहुयात्। त्रिसन्ध्यम्। यमिच्छति तं ददाति। कृतपुरश्चरणः सधातुके चैत्ये पटं प्रतिष्ठाप्य, गन्धपुष्पधूपबलिं दत्वा, पटस्याग्रतोऽगरुसमिधानामङ्गुष्ठपर्वमात्राणां तुरुष्कतैलाक्तानां जुहुयात् सप्तरात्रं त्रिसन्ध्यम्। राज्यं ददाति। विद्याधरमन्तर्धानं वा पादप्रचारिकं वा श्रुतिधरत्वं ददाति। अथ गुलिकां साधयितुकामेन कर्णिकारकेसरं नागकेसरं श्वेतचन्दनं गजमदं चेकीकृत्य, छायाशुष्कां गुडिकां कृत्वा, शुचिवस्त्रायाः कन्यायाः पीषयेत्। पुष्यनक्षत्रे करणीयम्। शुचिर्भूत्वा सप्तगुटिकां त्रिलोहवेष्टितां कृष्णागरुसमुद्गके प्रक्षिप्य, पटस्याग्रतो जपेद्; यावत् खटखटायति। तां गृह्य, भगवतो एकं दत्वा, मुखे प्रक्षिप्यान्तर्हितो भवति। पटस्याग्रतः लक्षानां दधिमधुघृताक्तानामष्टसहस्रं जुहुयात्। निधानं लभति। कदम्बपुष्पाणां दधिमधुघृताक्तानामष्टसहस्रं जुहुयात्। सर्वसत्त्वा वशाः। समुद्रगामिनीं नदीमवतीर्य, उपवसित केसरपुष्पाणामष्टसहस्रं जुहुयात्। दशवस्त्रयुगानि लभति। पटस्याग्रतः जातीपुष्पाणां दधिमधुघृताक्तानां त्रिसन्ध्यमष्टसहस्रं जुहुयात्। दिवसानि सप्त। सर्वसत्त्वानां प्रियो भवति। विषयं ददाति लभति। कुमुदपुष्पाणां दधिमधुघृताक्तानामष्टसहस्रं जुहुयात्। दिवसानि सप्त पञ्चविषयाणि लभन्ते। राजवशीकरणे, राजसर्षपां जुहुयात्। सप्तरात्रम्। ब्राह्मणवशीकरणे करण्टकपुष्पाणामष्टसहस्रं जुहुयात्। सप्तरात्रम्। वैश्यवशीकरणे सौगन्धिकपुष्पाणामष्टसहस्रं जुहुयात् सप्तरात्रम्। शूद्रवशीकरणेऽष्टसहस्रेणाग्नौ जुहुयात् सप्तरात्रम्। रण्डा वैकङ्कतसमिधानामष्टसहस्रं जुहुयात् सप्तरात्रम्। सधातुके चैत्ये रोचनामष्टसहस्राभिमन्त्रितां कृत्वा, राजकुले गच्छेत्। सर्वे वशा भवन्ति। दूर्वाङ्कुराणामष्टसहस्रं जुहुयात्। शान्तिर्भवति परस्य। आत्मनः शान्तिं कर्त्तुकामेन त्रिसन्ध्यं क्षीरं जुहुयात्। शान्तिर्भवति। महादेवस्य दक्षिणां मूर्त्तिं ताम्रभाजने घृतं स्थाप्य, सहस्रं जपेत्। सर्वभूतिकं बलिं निवेद्या च। घृतं चलति। ततः सिद्धो भवति। ललाटे तिलकं कृत्वा, सर्वजनप्रियो भवति। मेधावीकरणे भगवतश्चामिताभस्यार्यमञ्जुश्रियस्य च पूजां कृत्वा, रजते वा ताम्रे वा घृतं स्थाप्य, तावज्जपेद्; यावत् त्रिविधा सिद्धिः। तं पीत्वा मेधावी भवति। धूमायमानेऽन्तर्धानम्। ज्वलितेनाकाशगमनम्। मनःशिलां साधयितुकामेन क्षीरयावकाहारो लक्षं जपेत्। महादेवस्याग्रतस्त्रिरात्रोषितः सप्तभिरश्वत्थपत्रैः प्रतिष्ठाप्य, त्रिभिराच्छाद्य, सर्वभूतिकां बलिं निवेद्यम्। अयन्त्रित आत्मनः सखायानां च रक्षां कृत्वा तावज्जपेद्, यावत् त्रिविधा सिद्धिः। ज्वलितेन दशवर्षसहस्राणि जीवति। अयोमयं चक्रं कृत्वा, त्रिशूलं वा, उदारां पूजां कृत्वा, दक्षिणहस्तेन गृहीत्वा, पटस्याग्रतः पर्यङ्कोपविष्टस्तावज्जपेत्, यावद् चिटचिटायति। ज्वलति। तं गृहीत्वा विद्याधरो भवति। सर्वदेवमनुष्या वशा भवन्ति। अङ्गुलिसाधनं कर्तुकामः नद्या उभयकूलमृत्तिकां गृह्य, तयाङ्गुलिं कारयेत्। तमङ्गुलिं पटस्याग्रतः स्थापयित्वा, तावदाकर्षयेत्। यावदागच्छेति। सिद्धा भवति। तया यमाकार्षयति; स आगच्छति। रोचनां साधयितुकामः कृतपुरश्चरणः पटस्याग्रतः प्रतिष्ठाप्य, गन्धपुष्पधूपं दत्वा, तावज्जपेद्, यावज्ज्वलितमिति। तया च सिद्धया पञ्चवर्षसहस्राणि जीवति। पद्मं साधयितुकामेन रक्तचन्दनमयं पद्मं कृत्वा, पटं सधातुके चैत्ये प्रतिष्ठाप्य, तस्याग्रतो गृहीत्वा, कृतपुरश्चरणस्तावज्जपेद्; यावज्ज्वलतीति गृहीत्वा सर्वविद्याधरचक्रवर्ती भवति। कैलासानुचरा देवाः वशा भवन्ति। सर्वविद्याधराणामधृष्यः। उदकेन विषचिकित्सा। ज्वरादेशनं स्वस्थावेशिनं सकृज्जप्तेनात्मरक्षा। सूत्रकेनोदकेन जप्तेन सखायरक्षा। त्रिजप्तेन दिशाबन्धः। चतुर्जप्तेन मण्डलबन्धः। कृष्णाष्टम्यामहोरात्रोषितेन कपिलाया गोः समानवत्साया अपतितगोमयेनार्यमञ्जुश्रियं कृत्वा, पूर्वाभिमुखं स्थाप्य, महतीं पूजां कृत्वा, तस्याग्रतो लक्षं जपेत्। ततो भगवां शिरः कम्पयति। अन्यं वा सिद्धिनिमित्तं दर्शयति। ततः सिद्धो भवति। यं चिन्तयति; तं सर्वं करोति। भगवां वरदो भवति। सर्वेच्छां सम्पादयति। स्वप्ने च शुभाशुभं कथयति। यथेष्टं प्रयुञ्जीत। पूर्वाह्णे सहस्रजप्तेन मुष्टमन्नमुत्पद्यते। पोषधिकः क्षीरयावकाहारः पर्वतशिखरमारुह्य शतसहस्रं जपेत्। दर्शनं भवति। ईप्सां सम्पादयति। पटस्याग्रतः सप्तरात्रं कुन्दुरुकमष्टसहस्रं जुहुयात्। कृतपुरश्चरणः। एकप्रदेशे राजा भवति। त्रिसन्ध्यं कणानामष्टसहस्रं जुहुयात्। सर्वरात्रम्। दीनारशतं लभति। आटरुषककाष्ठैरग्निं प्रज्वाल्य आटरुषकपुष्पाणां घृताक्तानामष्टसहस्रं जुहुयात्। सुवर्णं लभति। कृष्णचतुर्दश्यामहोरात्रोषितेन घृताक्तानां राजिकामष्टसहस्रं जुहुयात्। रूपकसहस्रं लभति। अथवा ग्रामं भवति। पटस्याग्रतः श्लेष्मातककाष्ठैरग्निं प्रज्वाल्य, त्रिरात्रं दूर्वप्रवालानां लक्षं जुहुयात्। गोसहस्रं लभति। सुरसीपत्राणामष्टसहस्रं जुहुयात्। दिव्यं गृहं लभति। मनसा लक्षजप्तेन पुराणसहस्रं लभति। श्रीपिष्टकसहस्रं जुहूयात् सप्तरात्रं त्रिसन्ध्यम्। दीनारसहस्रं लभति। यथाभिप्रेतं सर्वं सम्पादयति। श्रीमांश्च भवति। सुभगश्च भवति। नद्यायां रक्तपुष्पाणि होमयेत्। रक्तानि वस्त्राणि लभते। शुक्लाष्टम्यां शुक्लपञ्चदश्यां वा विविक्तभूप्रदशे, श्वेतार्कस्याधस्तादार्यमञ्जुश्रियस्य गन्धपुष्पधूपं च दत्वा माल्यं चाष्टसहस्रं जपेत्। पश्चादङ्गुष्ठपर्वमात्रमार्यमञ्जुश्रियं कारयेत्। शुक्लाष्टम्यां विविक्ते प्रदेशे वल्मीके शुक्लगन्धबलिमाल्यधूपनिवेद्यमष्टसहस्रं जपेत्। ततो वल्मीकमृत्तिकां गृह्य, गन्धोदकेन मर्दयेत्। तस्या मृत्तिकया पूर्वकृतं प्रतिमामुद्रमर्कक्षीरेण प्रतिमुद्रां कृत्वा, ततः शुक्लप्रतिपदमारभ्य, यावदष्टमीति त्रिः कालं भगवतः पूजां कृत्वा बलिं दद्यात्। ततो, जातीपुष्पाणामष्टसहस्रेण हन्तव्यः। पोषधिकेन क्षीरयावकाहारेण दर्भसंस्तरशायिना साधयितव्यम्। दीनारसहस्रं लभति। सततजापेन यात्रासिद्धिमवाप्नोति। यदि दिवसानि सप्ताष्टसहस्रं जपेत्। ग्रामं लभते। श्रीमां भवति। अर्थमुत्पादयितुकामेन गोष्टं गत्वा कृष्णाष्टम्यां परेभ्यः क्षीरयावकाहारो लक्षं जपेत्। अपरस्मिं कृष्णचतुर्दश्यां ते ततोऽहोरात्रोषितेन तत्रैव शतसहस्रं जप्तव्यम्। दीनाराणामष्टशतानि लभति। यमिच्छति। सुवर्णं वा ग्रामं वा लभति। कृष्णचतुर्दश्यामहोरात्रोषितः पटस्याग्रतः बोधिवृक्षकाष्ठैरग्निं प्रज्वाल्य, वचामष्टसहस्रं जपेद् दीनारशतं लभति। कृष्णाष्टम्यां पलाशकाष्ठैरग्निं प्रज्वाल्य, दधिमधुघृताक्तानां गुग्गुलुगुडिकानां पटस्याग्रतः शतसहस्रं जुहुयात्। दीनारशतं लभते। शतपुष्पाणां लक्षं जुहुयात्। दीनारशतं लभति। बिल्वसमिधानां शतसहस्रं जुहुयात्। यमिच्छति; तं सम्पादयति। गङ्गानदीतीरे, समुद्रपुलिने वा, अनुपहते मानुषवर्जिते। वालुकायां सुगतवितस्तिप्रमाणं स्तूपं कृत्वा, यथाविभवतो गन्धपुष्पधूपं दत्वा, अष्टसहस्राभिमन्त्रितं कुर्यात्। एवं दिने दिने गन्धादीन् दत्त्वा यावदष्टोत्तरं स्तूपसहस्रं पूर्णमिति पट्टबन्धमवाप्नोति तिलानामष्टसहस्रं जुहुयात्। यस्येच्छति ; स वशो भवति। सधातुके चैत्ये पूजां कृत्वाष्टसहस्रं जपेत्। शुभाशुभं कथयति। आप्यायनं कर्त्तुकामो भगवतोऽग्रतः क्षीरवृक्षसमिधानां घृताक्तानामष्टसहस्रं जुहुयात्। ततः सा विद्या आप्यायिता भवति। सप्तमे साधने प्रयोक्तव्यः। यत्र ब्रह्मराक्षसोऽन्यो वा सत्त्वः कृतपुरश्चरणः, तत्र गत्वा, दशसहस्राणि जपेत्। महानिधानं प्रयच्छति। क्षीरयावकाहारः सधातुके चैत्ये संवत्सरं जपेत्। तत्रैव पटं प्रतिष्ठाप्य, कृष्णाष्टम्यां त्रिरात्रोषितः उदारां पूजां कृत्वा, बलिं निवेद्यं, पटस्याग्रतः अग्निं प्रज्वाल्य, वटवृक्षसमिधानां दधिमधुघृताक्तानामष्टसहस्रं जुहुयात्। कुबेराद्या यक्षाः आगच्छन्ति। न भेतव्यं च स्थाप्य, तस्योपरि सुपिण्डं पर्यङ्कं बध्वा, हस्तेनावष्टभ्य, तावज्जपेत् तावज्ज्वलितमिति। अत्रान्तरे सर्वनरकतिर्यग्योनिकानां दुःखं व्युपशमयति। विद्याधरनिकायाश्च सन्निपतन्ति। ततः सर्वबुद्धबोधिसत्त्वानां नमस्कारं कृत्वा गृहीतव्यम्। विद्याधैररनुगम्यमानो विद्यापुरीं गच्छति। विद्याधरराजा भवति। सर्वविद्याधरा पूजयन्ति। महाकल्पस्थायी भवति। अनेन विधिना चक्रखड्गमुद्गरादयः प्रहरणविशेषाः साध्याः। सा चेद् विद्या साध्यमाना न सिद्ध्यति; तामनेन मन्त्रेण समेतं भगवतो बुद्धस्याग्रतः पटस्य च पूजां कृत्वा, अष्टसहस्रं जपेत्। तत्र कुशसंस्तरे स्वप्तव्यम्। ऊनातिरिक्तं यं वा मृगयति, तत्र स्थाने यक्षयक्षिणीसहिता पूर्वसेवः। तत्र मण्डलकमुपलिप्य गौरसर्षपाणामष्टसहस्रं जुहुयात्। आगच्छति। यथेष्टं वक्तव्या। अध्येष्यतां प्रयच्छति। तां भक्ष्य कल्पायुर्भवति। अथ नागच्छति; सप्तरात्रं कुर्यात्। आगच्छति। अथ शान्तिं कर्तुकामः भगवतोऽग्रतः क्षीराहुत्याष्टसहस्रं गन्धोदकेन वाभ्युक्षयेत्। शान्तिर्भवति। पल्लवेन मयूरचन्द्रकेन वा सर्पदष्टं उमार्जयेत्। निर्विषो भवति। वल्मीकशिखरमारुह्य निराहार एकपाद पूर्वाह्नाद् यावदपराह्णं जपेत्। नियदवेदनीयं क्षीयते। तत्र स्थाने यत्र तिष्ठति। तत्र पूर्वसेवः। तत्र गत्वा मण्डलकमुपलिप्य गौरसर्षपाणामष्टसहस्रं जुहुयात्। यक्षा आगच्छन्ति। पूर्वस्थापितेन गन्धोदकेन कलशेनार्घ्यो देयः। यक्षः ब्रुवन्ति ‘किं कर्त्तव्यम्। आहूताः स्म। वक्तव्यम् ‘यक्षा वै आज्ञाकारा भवन्तु’। तथास्त्वित्युक्त्वान्तर्धीयन्ते यक्षाः। सिद्धा भवन्ति। यं मृगयति तं ददाति। दिव्या रसरसायनान्योषधविधानानि प्रयच्छन्ति। ततः सहस्रपरिवृतस्यापि षड्रसमाहारं प्रयच्छति। यन्मृगयति; तत् सर्वं प्रयच्छति। एवं वशीकरणे कृष्णयोरेकतरेण त्रिरात्रोषितः कृतरक्षः सुयन्त्रितः पटस्याग्रतो निर्धूमाङ्गारैर्गुग्गुलुगुलिकानामष्टसहस्रं जुहुयात्। घृताक्तानाम्। अर्धरात्रौ देवतागच्छति। वक्तव्या। ओषधीं प्रयच्छन्ति। यं वा मृगयति। वस्त्रार्थीं दूर्वकाण्डानां घृताक्तानामष्टसहस्रं जुहुयाद्, वस्त्राणि लभति। वचामष्टसहस्राभिमन्त्रिते कृत्वा मुखे प्रक्षिप्य, सर्वव्यवहारेषुत्तरवादी भवति। सुगन्धतैलं परिजप्य मुखं म्रक्षयेत्। राजकुलेषूत्तरवादी भवति। अञ्जनमष्टसहस्राभिमन्त्रितं कृत्वाक्षीण्यञ्जयेत्। व्यवहार उत्तरवादी भवति। चन्द्रसूर्यग्रहे वा, श्रोताञ्जने मुखे प्रक्षिप्य, तावज्जपेद्, यावन्मुक्त इति। पोषयित्वा रक्षां कृत्वाञ्जनमष्टसहस्राभिमन्त्रितं कृत्वा, अक्षीण्यञ्जयेत्। अदृश्यो भवति। सर्वगन्धानां पटस्याग्रतो लक्षं जुहुयात्। श्रियं पश्यति। यं वरं मृगयति। तं लभति। मौनी भिक्षाहारो लक्षं जपेत्। अन्तर्हितो भवति। पटस्याग्रतो मण्डलकमुपलिप्य, पुष्पावकीर्णं कृत्वा, उदकचूलकाः सप्ताभिमन्त्रिताः पातव्याः दिवसानि सप्त। मेधावी भवति। पूर्वाधीतं च न नश्यति। ब्रह्मीरसकर्षं क्षीरकर्षमष्टशतं परिजप्य, पातव्यम्। दिनेदिने मेघा वर्द्धते। यावदेकविंशतिरात्रं पञ्चशतानि। धारयति गृह्णाति। रक्षा उदकेन सप्तजप्तेन शिरसि दातव्यम्। मण्डलबन्धः। खदिरकीलकैरेकविंशतिजप्तैर्गुग्गुलुधूपेनावेशयति। विषच्छुरिकया चिकित्सा पल्लवेन वा ग्रहनाशनम्। सप्तजप्तेन श्वेतपुष्पेण गुग्गुलुधूपेन वा ग्रहगृहीतानां स्नापयत। सूत्रकं बन्धितव्यम्। श्वेतसर्पषां तिलमिश्रां घृताक्तां जुहुयात्। वग्दो भवति। रात्रौ होमः। सधातुके चैत्ये पूर्णमास्यां सगौरवेण मण्डलकमुपलिप्याष्टौ पूर्णकलशा अष्टौ च पुष्पमालागरुतुरुष्कचन्दनकुन्दुरुधूपं दुहता तावज्जपेत्। ततः शरीरसिद्धिं प्रयच्छति। सधातुके चैत्ये क्षीरयावकाहारः यथावि भवतः पूजां कृत्वा शतसहस्रं जपेत्। जम्भनमोहनादिषु कर्मसु समर्थो भवति। सक्तुभक्षः नद्यामंसमात्रमुदकवतीर्य, लक्षं जपेत्। वशीकरणं अन्तर्धानः शिलादिषु प्रयोगेषु सुसमर्थो भवति। नागस्थाने कर्पासास्थिं जुहुयात्। नागा वश्या भवन्ति। ये मृगयति तं लभते। दक्षिणहस्तादङ्गुलिमष्टाभिमन्त्रितं कृत्वा, गजानं तर्जयेद्; वश्यो भवति। अनेनैव विधिना गजव्याघ्रमहिषादीस्तम्भयति। तिलहोमेन नरनारीवशीकरणं विशितविक्रयेन रक्षा आत्मरक्षा पररक्षा, सप्ताभिमन्त्रितेन शिखाबन्धः। युद्धे राजकुले विवाद जपमानस्य विजयो भवति। आत्मना अभिषेकं कर्त्तुकामश्चत्वारः कलशा अकालनदीपल्वलप्रस्रवणोदके वा सर्वगन्धवीजानि प्रक्षिप्य अष्टसहस्राभिमन्त्रितानि कृत्वा, तेनोदकेनात्मानमभिषिञ्चेत्। सर्व विघ्नविनायकालक्ष्मीविनिर्मुक्तो भवति। पिशाचज्वरे गन्धोदकेनाष्टशताभिमन्त्रितेनाभ्युक्षयेत्। स्वस्थो भवति। वेताडं पूर्वाभिमुखखदिरकीलकैः, वालाशल्लकैः सुमन्त्रितं कृत्वा, सुप्रयत्नतश्चतुर्दिक्षु दिशासु खड्गहस्तान् पुरुषांस्थाप्य, वेताडस्य हृदये उपविश्य, आयसेन स्रुवेण लोहचूर्णं जुहुयात्। तस्या मुखाज्जिह्वा निःसरति। तां तीक्ष्णेन शस्त्रेण च्छिद्य, नीलोत्पलसन्निकाशं खड्गं भवति। तेन गृहीतेन सपरिवार उत्पतति। विद्याधरराजा भवति। एकादश वर्षकोटीं जीवति। कालं गतश्च देवेषूपपद्यते। पुष्पलोहमयीं मुण्डिं लक्षणोपेतां कृत्वा, पटस्याग्रतः कृतपुरश्चरणः सप्तरात्राधिवासितां कृत्वा, सहस्रसम्पाताहुतिं भगवतोऽग्रतः कृष्णचतुर्दश्यां त्रिरात्रोषितः उदारां पूजां कृत्वा, बलिविधानं रक्षामण्डलबन्धसीमाबन्धादिकं कृत्वा, आर्यसङ्घं यथाशक्तितः भोजयित्वा, पादयोः प्रणिपत्य, आर्यसङ्घं अनुज्ञाप्य म्रियते। पटस्याग्रतः सिद्धार्थकपुञ्जकं स्थाप्य, पुञ्जस्योपरि जप्य दातव्यम्। सर्वग्रहावेशनम्। गुग्गुलुधूपेन सर्वाकालमृत्युप्रशमनं सर्ववातमेघस्तम्भनम्। जापेन सर्षपान् क्षिपित्वा, सावष्टम्भेनाकाशे क्षिपितव्यम्। सर्वमेघस्तम्भनम्। खदिरकीलकं सप्तजप्तं दातव्यम्। निर्विषो भवति। सर्वकलिकलहविग्रहविवादेषु पञ्जरङ्गिकं सूत्रमष्ट शताभिमन्त्रितं कृत्वा, गुह्यस्थाने धारयितव्यम्। सर्वकलिकलहविग्रहविवादाः स्तम्भिता भवन्ति। सर्वविषयं मन्त्रेषु पानीय सप्तजप्तं दातव्यम्। निर्विषो भवति। अर्थकामः, शुचिना शुचिवस्त्रप्रावृतेनाहोरात्रोषितः पटस्याग्रतः कुन्दुरुकधूपो देयः। स्वप्ने कथयति शुभं वाशुभं वा। सप्तसहस्राणि रूपकं लभति। सर्वमुद्रा भेदभस्मना भोगार्थी नदीसङ्गमे तडागानामेकतमेऽन्यत्र वा शुचिप्रदेशे पटं प्रतिष्ठाप्य जापहोमं समारभेत्। पद्मानां दधिमधुघृताक्तानां लक्षं जुहुयात्। द्विलक्षं वा। ततः सर्वकाममवाप्नोति। लक्षत्रयहोमेन राज्यं ददाति। एकविंशतिहोमेन महाधनपतिर्भवति। गुग्गुलुगुडिकानां दधिमधुघृताक्तानामष्टसहस्रं जुहुयात्। एकविंशतिरात्रम्। पुष्टिर्भवति। दीनारसहस्रं लभते। कुड्ये प्रक्षेप्तव्यः। सर्वशत्रवः स्तम्भिता भवन्ति। गोमयमण्डलकं कृत्वा, सूत्रकं गृह्य, मण्डलमध्ये स्थाप्य गुग्गुलुधूपं दत्वा, मन्त्रं जपेत्। यदि जीवति; सूत्रकं नर्तति। न जीवति, न नर्तति। गोमयेन मण्डलकमुपलिप्य, चतुर्हस्तप्रमाणं पुष्पधूपं दत्त्वा, तस्मिन्नेव स्थितो जपेत् शुत्रूणां स्तम्भनम्। शस्त्रं सप्तवार परिजप्य, धरण्याः स्थाने निखनितव्यम्। सर्वकार्खोटाश्छिन्ना भवन्ति। परचक्रदण्डं सप्तवारां परिजप्य निक्षेप्तव्यम्। अवध्यो भवति। अपस्मारनाशनम्। अपामार्गसमिद्भिरग्निं प्रज्वाल्य, कृष्णतिलां श्वेतकरवीरमिश्रां जुहुयात्। अपस्मारग्रहा नश्यति। सर्वज्वरेषु कृष्णसूत्रकं बन्धितव्यम्। सर्वग्रहडाकिनीषु नीलसूत्रकं बन्धितव्यम्। उत्पातगन्धपिटकलूतलोहलिप्तच्छेदनं गौरमृतिकाश्या भवति। सर्वसत्त्वानां चन्द्रसूर्योपरागे उपवासं कृत्वा, तैलं जपेत्। तेन तैलेन मुखं म्रक्षयेत्। अरिकुलं प्रविशेत्। मैत्रचित्तमुत्पद्यते। अनेनैव विधानेन प्रतिसराष्टसहस्राभिमन्त्रितं कृत्वा, हस्ते बध्वा, सङ्ग्रामेऽवतरेत्। अपराजितो भवति। काल्यमुत्थाय सधातुके चैत्ये गोमयमण्डलकं कृत्वा, उदकचुलुकद्वयमेकैकं सप्तवारां परिजप्य, मितितव्यम्। अनालपतः पिबितव्यम्। प्रातर्वेलाकाले ततो भोजने प्रथममालापं त्रयो वारां परिजप्य भोक्तव्यम्। विकालेऽष्टशतं जप्य स्वप्तव्यम्। सर्वकर्माणि विशुध्यति। वाक्यपरिशुद्धिर्भवति। दिने दिने श्लोकशतं गृह्णाति। एवं दिवसानि सप्त उदकं सप्तवारां परिजप्य, ततोऽङ्गुलिसिद्धा भवति। ततोऽङ्गुल्यामाकर्षति। यं स्पृशति, स वश्यो भवति। मृत्तिकां परिजप्य बन्धो देयः। छिन्दिता भवति बद्धः। उदरशूले हस्तं सप्तवारां परिजप्य प्रमार्जयेत्। स्वस्थो भवति। त्रयो वारां चीवरकर्णकं परिजप्य चीवरकर्णिकं बन्धितव्यम्। चोरा बद्धा भवन्ति। तैलं परिजप्य शरीरे देयम्। यं ददाति, तं लभते। गोमयमण्डलकं कृत्वा, पुष्पावतीर्णं लोहभाजनं भस्मना परिपूरयित्वा, मण्डलमध्ये स्थाप्य, तूलिकाष्टशतवारां परिजप्य, तस्योपरि स्थातव्यम्। गुग्गुलुधूपं दत्वा, मन्त्रं जपता अच्छोटिका दातव्या। यत्र चोरस्तत्रगच्छति भस्मना मण्डलकं कृत्वा, स वश्यो भवति। सर्वसत्त्वा स्तम्भनं मनसीकरणे शुक्लपूर्णमाभ्यां पटस्याग्रतो बोधिवृक्षकाष्ठैरग्निं प्रज्वाल्य, तिलानामष्टसहस्रं जुहुयात्। वश्यो भवति। खदिरकीलकमष्टशतजप्तां कृत्वा, चतुर्षु दिशासु निखनेत्। सीमाबन्धः कृतो भवति। मण्डलबन्धः। उदकेनैकविंशतिजप्तेन सत्त्वानामुत्सारणं। सर्षपैः क्रुद्धस्याग्रतो जपेत् प्रसीदति। अथ राजानं वशीकर्तुकामः, पटस्याग्रतोऽर्ककाष्ठसमिधानां दधिमधुघृताक्तानां दशसहस्राणि जुहुयात्। वशो भवति। अङ्गुलिसाधनम्। पटस्याग्रतो गन्धपुष्पधूपं दत्वा, दक्षिणप्रदेशिनीमङ्गुलीं सप्तभिरश्वत्थपत्रैः स्थाप्य, दश सहस्राणि जपेत्। दीनारवस्त्रान्यात्मना तृतीयस्य प्रयच्छति। घृताहुतीनामष्टसहस्रं जुहुयात्। मेघावी भवति। नागकेसराणामष्टसहस्रं जुहुयात्। कन्या भवति। जातीपुष्पाणामष्टसहस्रं जुहुयात्। वस्त्राणि लभति। लक्षजापेन जातिस्मरो भवति। सप्त व्याधिशतानि भवन्ति। लक्षमेकं क्षीरयावकाहारः कृतपुरश्चरणो भवति। शुक्लाष्टम्यां त्रिरात्रोषितः पटस्योदारां पूजां कृत्वा, तावज्जपेद् ; यावद् रश्मिर्निश्चरति। ततः सिद्धो भवति। राज्यं विद्याधरत्वं यन्मनसा चिन्तयति; तं लभते। पठितमात्रेण सर्वपापमित्राः स्तम्भिता भवन्ति। सर्वविघ्नविनायका हता। रक्तसूत्रेण परिवेष्ट्य शरावसम्पुटं सधातुके चैत्ये प्रतिमायाग्रतः पूजां कृत्वा, तावज्जपेद्; यावत् त्रिविधा सिद्धिर्भवतीति। ऊष्मायमाने पादप्रचारिकं पञ्चयोजनशतानि गच्छति। सर्वे चास्य पादप्रचारिका वश्या भवन्ति। धूमायमानेऽन्तर्धानम्। चतुरङ्गुलेन भूमिं न स्पृशेत्। वर्षसहस्रं जीवति। योजनसहस्रं गच्छति। दशपुरुषबलो भवति। ज्वलिते कल्पत्रयं जीवति। विद्याधरो भवति। अधर्पणीयश्च भवति। पूर्णपूर्णपञ्चदश्यां पोषधिकः पटस्याग्रतः दधिमधुघृताक्तानां पद्मानां दशसहस्राणि जुहुयात्। ततोऽग्निकुण्डाद् दिव्या स्त्री उत्तिष्ठति। वरं ददाति। माता वा भगिनी वा ग्रहेतव्या। ततः प्रभृति क्षीरयावकाहारो लक्षद्वयं जपेत्। अन्ते त्रिरात्रोपितः पञ्चदश्यां सधातुके चैत्ये प्रतिमाया पूजां कृत्वा, भगवतोऽग्रतः अश्वत्थसंस्तरे तावज्जपेद्; यावद् दिव्यरूपा स्त्री आगच्छति। तस्यार्घं दत्वा वरं याचितव्यम्। भक्तालङ्कारवस्त्रां प्रयच्छति। वर्षसहस्रं जीवति। चन्द्रग्रहे, समानवत्साया गोर्नवनीतं गृह्य, षडङ्गुलिमात्रां पुत्तलिकां कृत्वा, चतुर्भक्तोषितः अश्वत्थसंस्तरं कृत्वाष्टसहस्रं परिजप्य ग्रसितव्यम्। सर्वराजानो वशा भवन्ति। कनकवीचिकामनःशिलापलं गृह्य, पूर्णपञ्चदश्यां पोषधिकेनोदारां पूजां कृत्वा, सुगन्धपुष्पाणामष्टसहस्रेण हृदये ताडयितव्या। शेषं कालं सर्वं जपेत्। पञ्च दीनारशतानि लभते। पोषधिकेन पूजां कृत्वा, सहस्रं जप्तव्यम्। स्वप्ने शुभाशुभं कथयति। घृताक्तानां जुहुयात् सप्ताहं त्रिसन्ध्यम्। अष्टसहस्रं जपेत्। राजानं वशमानयति। मदनपुत्तलिकां सर्वालङ्कारोपेतां राजवृक्षकाष्ठैरग्निं प्रज्वाल्य शलाकया विद्धा तापयेत्। यथा न गलति। अष्टशतिकेन जापेन त्रिसन्ध्यं पातालादप्याकर्षयति। अशोककाष्ठमयीं षडङ्गुलां सालभञ्जिकां कृत्वा, तां गृह्य, पर्वतशिखरमारुह्य, शतसहस्रं जपेत्। क्षीरयावकाहारः लक्षजापेन ग्रामं लभते। द्विलक्षजापेन यथेष्टं कर्माणि करोति। त्रिलक्षजापेन कर्मावरणं क्षपयति। चतुर्लक्षजापेनार्यंमञ्जुश्रीदर्शनं ददाति। पञ्चलक्षजापेन बुद्धक्षेत्रपरिशुद्धिर्भवति। षडलक्षजापेन यत्रेच्छति तत्र लोकधातावुपपद्यते। सप्तलक्षजापेन धारणीं प्रतिलभते। अग्निं स्तम्भयितुकामः पट्टिका सप्तवारां परिजप्य, मुखे प्रक्षिपितव्यम्। उदके एषैव सिद्धिः। विवादे सूत्रकं अष्टशताभिमन्त्रितं कृत्वा, त्रयो ग्रन्थयः कार्याः। उत्तरवादी भवति। गव्यघृतपलं पञ्चदश्यां भाजने कृत्वा, आर्यमञ्जुश्रियस्य पुरतो गोमयमण्डलकमगरुधूपं दत्वा, अष्टोत्तरवारां परिजप्य, पिबे। पीत्वा च न स्वप्तव्यम्। मेधावी भवति। दिवसानि सप्त ज्वरप्रेषणं भूतप्रेषणं आत्मरक्षा वेताडोत्थापनं बिलप्रवेशं वनप्रवेशं रक्षा सीमाबन्धः दिशाबन्धः चोरव्याघ्रडाकिनीनां जापेन स्तम्भिता भवतीति। अन्तर्धातुकामेन शतावरिमूलं सहस्राभिमन्त्रितं कृत्वा, बध्नीयात्। अन्तर्हितो भवति। पटस्याग्रतो लक्षं जपेत्। ततः शतपुष्पाया वीरक्रये क्रीत्वा दधिमधुघृताक्तानां जुहुयात्। यावन्तकेन मूल्येन क्रीतानि भवन्ति; तच्छतगुणमूलं भवति। दिवसानि सप्त होमं कार्यम्। सुमनसमिधानामष्टसहस्रं जुहुयाद् दिवसानि सप्त। अर्थं लभति। पटस्याग्रतो मासं जपेत्। दीनारचतुष्टयं लभते। मरीचफलं सप्तवारानभिमन्त्र्य मुखे प्रक्षिप्य यस्य अलापं ददाति। स पुत्रवन्मन्यते। सधातुके चैत्ये बुद्धप्रतिमाया अग्रतः कृत्वा उदके क्षिपेत्। कैवर्तानां मत्स्या न भवन्ति। शेफालिकापुष्पाणामष्टसहस्रं जुहुयात्। अश्वलण्डेन सप्त जप्तेन धूपो देयः। मत्कुणा न भवन्ति। पुष्पेण फलेन वा लक्षजप्तेन मशका न भवन्ति। वशीकरणम्। राजद्वारिकं दन्तकाष्ठभक्षणं फलदानं गन्धदानं भूमिबन्धं चोरबन्धं सर्वदंष्ट्रास्तम्भनं उपजम्भनं निगडस्फोटनं उदकस्तम्भनं अग्निस्तम्भनं विषोमार्जनं विषसङ्क्रमणं विषबन्धः भूतवशीकरणं डाकिनीग्रहमोक्षणं नष्टविद्याया गोरोचनया भूर्जपत्रे लिखित्वा भगवतोऽग्रतः सधातुके चैत्ये शतवारां जपेत्। प्रभाते पूर्णा भवति। सप्तजप्त्वा सिद्धार्थकां ग्रामे वा नगरे वा क्षिपेत्। ये तत्र वसन्ति; ते मृता इव स्वपन्ते। यावत् सूर्योदयम्। स्त्रियं पुरुषं वा वशीकर्तुकामो यस्य यतो भागे गृहम्; तां दिशाभिमुखं विकालेऽष्टसहस्रं जप्य स्वपेत्। दर्शनं देयम्। एवं दिवसानि सप्त वशो भवति। उदके सप्तजप्तेन सर्वदंष्ट्राणां तुण्डबन्धः। ओषधबन्धं मनसा निधानबन्धं खदिरकीलकैरेकविंशतिसप्तनिधानस्थानेषु चतुर्षु कोणेषु निखनेत्। कल्पस्थायी सर्वसिद्धनमस्कृतः पात्रखड्गकरकादयोऽनेनैव विधिना। चन्द्रग्रहे भिक्षुणा श्रावयितव्याः सर्वैरेतैः कल्पस्थायी ब्रह्मचार्यप्रतिहतगतिर्यथेष्टं विचरति। गोमूत्रयावकाहारो लक्षद्वयं जपेद् ग्रामष्टकं लभति। यमिच्छति तत्रैव तिष्ठति। समुद्रतटे पटं प्रतिष्ठाप्य, लक्षं जपेत्। सागरनागराजा स्वभवनमनुप्रवेशयति। चिन्तामणिर्मृगयति। तया गृहीतया सर्वकर्मचारी भवति। तथागतक्षेत्रमपि गच्छति। कल्पस्थायी, अप्रतिहतः। कुमारीकर्त्तितसूत्रेणाष्टसहस्राभिमन्त्रितेन ग्रन्थयः कर्त्तव्याः। सर्वविघ्नविनायका हत्ता भवन्ति। नद्याः पुलिने भिक्षाहारो लक्षत्रयं जपेत्। हविष्याशी नदीसङ्गमे लक्षं जपेत्। अन्तर्हितो भवति। सर्वान्तर्धानिकानां प्रभुर्भवति। विनये प्रमाणोपेतं पात्रं गृह्य, पटस्याग्रतः पर्यङ्कोपविष्टो दक्षिणहस्तेन पात्रं गृह्य, तावजपेद्; यावज्ज्वलति। विद्याधरो भवति। एवं यत्र स्थास्यति; तत्र वृद्धिर्भवति। एवमप्रमेयानि गुणानि भवन्ति। अथ शान्तिं कर्तुकामः, दधिमधुघृताक्तानां सुगन्धिकुसुमानां वाष्टसहस्रं जपेत्। परमशान्तिर्भवति। पौष्टिकम्। तिलतण्डुलमुद्गमाषप्रभृतीनां स्त्रीणां दधिमधुघृताक्तानां। क्षीरवृक्षसमिद्भिरग्निं प्रज्वाल्य, अष्टसहस्रं जुहुयात्। परमपुष्टिर्भवति। पटेन वा विना पटेन। पोषधिकस्त्रिशरणपरिगृहीतबोधिचितो दशसहस्राणि जपेत्। ततः पौर्णमास्यां चन्दग्रहे वा सर्वकामिकां बलिं दत्वा, अहोरात्रोषितः सकलां रात्रिं जपेत्। ततः सर्वकर्मसमर्थो भवति। सर्वदिशेष्वप्रतिहतो भवति। आकारितमात्रेण जीवापयति। सप्तजप्तमुदकं प्रेषयेत्। आतुरः पीत्वा स्वस्थो भवति। ग्रहप्रपलायनम् - सर्षपहोमेन साहस्रिकेन। असुराविवरद्वारे पटं प्रतिष्ठाप्य, नियमस्थो लक्षं जपेत्। असुरकन्या निर्गत्य प्रवेशयति। वचामुखे प्रक्षिप्य तावज्जपेद्; यावत् त्रिविधा सिद्धिः। ऊष्मायमाने वशीकरणम्। धूमायमानेऽन्तर्धानम्, ज्वलमानेनाकाशगमनम्। सधातुके चैत्ये पटं प्रतिष्ठाप्य, शुक्लाष्टम्यामारभ्य, पद्मानां लक्षं जुहुयात्। राजा भवति। रक्तचन्दनमयं षोडशाङ्गुलं द्वादशाङ्गुलं वा पोषधिकेन कर्मकारेण दण्डकाष्ठं कारयेत्। ततः पटस्याग्रतो लक्षत्रयं जपेत्। अहोरात्रोषितः पूर्णमास्यामुदारां पूजां कृत्वा, दण्डकाष्ठं दक्षिणेन हस्तेन गृह्य, तावज्जपेद्; यावत् त्रिविधा सिद्धिः। ऊष्मायमाने सर्ववादिषूत्तरवादी भवति। धूमायमानेनान्तर्धानम्। ज्वलितेनाकाशगमनम्। शुक्लपटं समन्तात् प्रावृतं कृत्वा, तावज्जपेद्; यावज्ज्वलितमिति। सहस्रपरिवारं उत्पतति। पटस्याग्रतस्तावज्जपेद्; यावत् त्रिविधा सिद्धिः। पटस्याग्रतोऽपामार्गसमिधानां दधिमधुघृताक्तानामष्टसहस्रं जुहुयात्। राजा वा राजमात्रो वा वशी भवति। क्षीराहारः शाकाहारो वा पोषधिकः सधातुके चैत्ये लक्षत्रयं जपेत्। ततः कृष्णाष्टम्यां कृष्टचतुर्दश्यां कृष्णतिलानामष्टसहस्रं जुहुयात्। कार्षापणसहस्रं लभति। गुग्गुलुगुलिकानां पटस्याग्रतः अष्टसहस्रं जुहुयात्। स्त्रीपुरुषयोर्यमिच्छति; तं वशमानयति। गुग्गुलुगुलिकानामष्टसहस्रं जुहुयात्। यमिच्छति। सर्वजनस्य प्रियो भवति। राजकुले चोत्तरवादी भवति। अष्टसहस्राभिमन्त्रितेन समालभेत्। सुभगो भवति। पटस्याग्रतः शुक्लप्रतिपदमारभ्य क्षीरयावकाहारस्त्रिःकालस्नायी त्रिचेलपरिवर्त्ती, अगरुतुरुष्कचन्दनं दहता त्रिशुक्लं निवेद्यम्। बहिः सर्वभूतिकां बलिं निवेद्य, सुरभिपुष्पां जलजानि वा स्थलजानि वा सुगन्धी निवेद्यं वा गाव्यघृतप्रदीपत्रयं च। अन्ते त्रिरात्रोषितः सर्वरात्रिको जपो देयः। यं प्रार्थयति; तं लभते। सङ्घभक्तश्च यथाशक्त्या कार्यः। सधातुके चैत्ये पठं प्रतिष्ठाप्य, त्रिरात्रोषितोऽरिष्टसमिधानां दधिमधुघृताक्तानां त्रीणि अष्टसहस्राणि जुहुयात्। ततः पटादर्चिषो निःसरति, भूमिकम्पः, प्रदीपज्वाला च निश्चरति। पुष्पमाला चलति। एतैर्निमित्तैः सिद्धो भवति। श्रोताञ्जनमश्वत्थपत्रान्तरितं सहस्रसम्पाताभिहुतं कृत्वा सकृदुच्चारितेन षड्भिर्मासैर्महारोगान्मुच्यते। मासमेकं जपेत्। चीर्णव्रतो भवति। गुग्गुलुधूपेन दष्टमावेशयति। एकाहिकद्व्याहिकत्र्याहिकचातुर्थकादिषु। स्त्रीवश्यार्थं पटस्याग्रतः ललाटां मध्वाक्तानामेकविंशति आहुती जुहुयात् त्रिसन्ध्यं सप्तरात्रम्। वश्या भवन्ति। एवमेव रण्डायाः पुरुषस्य। पटस्याग्रतो राजार्कसमिधानां दधिमधुघृता(क्ता)नामष्टसहस्रं जुहुयात्। वश्या भवति। राजपत्यादीनां लवणमेकविंशतिरात्रं त्रिसन्ध्यं जुहुयात्। वशो भवति। राजद्वारे त्रीणि सप्तवारां शिरमभिमन्त्र्य प्रविशेत्। राजवल्लभो भवति। मयूरचन्द्रकं शताभिमन्त्र्य। विषं प्रमार्जयेत्। नश्यति। मनःशिलामश्वत्थपत्रान्तरितां कृत्वा, लक्षत्रयं जपेत्। गृध्रसी अपनयति। ज्वरितस्य कुशैरपमार्जनं कन्याकर्तितसूत्रं बध्नीयात्। सुभगो भवति। कर्णिकारपुष्पाणां शतसहस्रं जुहुयात्। द्वादशकोटी वस्त्राणि लभते। पुष्पलोहमयं चक्रं कृत्वा, सधातुके चैत्ये पटं प्रतिष्ठाप्य, अहोरात्रोषितः उदारां पूजां कृत्वा, चक्रं ग्रहाय तावज्जपेद् ; यावन्निमित्तानि भवन्ति। चक्रस्फुलिङ्गा निःसरन्ति। तावद् यावत् प्रज्वलितमिति। ततः सिद्धो भवति। सर्वविद्याधरगणाः सन्निपतन्ति। सपरिवार उत्पतति। विद्याधरराजा, कल्पस्थायी, अप्रतिहतगतिः। प्रातरूत्थाय संवत्सरं जपेत्। वरदो भवति। पटस्याग्रतः एकविंशतिलक्षं जपेत्। विद्याधरो एकादशलक्षं जपेत्। आर्यमञ्जुश्रियं पश्यति। पटस्याग्रतः सप्तलक्षं जपेत्। अन्तर्हितो भवति। व्याधितः पटस्याग्रतः एकविंशतिलक्षं जपेत्। व्याधिर्नश्यति। कृतपुरश्चरणः द्वादशलक्षं जपेत्। रसरसायनं वा लभति। तं भक्षयित्वा बलीपलितवर्जितो भवति। लक्षद्वयं जप्त्वा, राजसर्षपामष्टसहस्रं जुहुयात्। राजमहिषी वशा भवति। सप्तरात्रेणास्यार्थप्रदा भवति। वर्जयित्वा कामोपसंहितम्। पटस्याग्रतः अर्कसमिधानां लक्षं जुहुयात्। सुवर्णपलशतं लभते। लाजानामष्टसहस्रं जुहुयात् सप्तरात्रम्। विघ्ना न भवन्ति। पिण्याकाष्टसहस्रं जुहुयात्। सर्वजनप्रियो भवति। त्रयाणां वाराणां यमिच्छति; तं लभति। विद्याधरत्वं राज्यमथवा यादृशो भगवान् तादृशो भवामि। एषा सिद्धिः कारुणिकेन सर्वसत्त्वानां निरामिषचित्तेन दानं ददता सिध्यति। अहोरात्रोषितः पटस्योदारां पूजां कृत्वा, अर्कसमिधाना मष्टसहस्रं जुहुयात्। यं यमिच्छति तं तं क्षणादेवागच्छति। अगरुप्रियङ्गुनागकेसरं समभागानि चूर्णीकृत्य, शरावसम्पुटे कृत्वा, महेश्वरस्य दक्षिणायां मूर्तौ, अष्टसहस्राभिमन्त्रितं कृत्वा, तेन समालब्धगात्रः सङ्ग्रामे दूते अष्टसहस्रं जुहुयात्। अपराजितो भवति। अपमृत्युर्न भवति। पटस्याग्रतः नागपुष्पाणामष्टसहस्रेण नरपतिर्वशो भवति। सर्वव्याधिभ्यः विचर्चितदुष्टव्रणमृत्तिकां सप्ताभिमन्त्रितं कृत्वा दद्यात्। व्यूपसमं गच्छति। कृतपुरश्चरणः पञ्चगव्येन कायशोधनं कृत्वा, त्रिः कालस्नायी पयोभक्षः मूलपटस्याग्रतः अष्टशतिको जपो देयः। पश्चादष्टम्यां कृष्णायां यथाशक्त्य पूजां कृत्वा पटस्याग्रतः कुशविण्डकोपविष्टः विल्वसमिधानां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात्। आर्यमञ्जुश्रियस्य शिरसि रश्मि निश्चरति। सा साधकं प्रदक्षिणिकृत्य भगवत्प्रतिमाया अन्तर्धीयते। ततः आर्यमञ्जुश्रियं पश्यति। यदि चक्रवर्ती भवति। ततः साधककुटी प्रज्वलति। स्रग्दामचलितेन माण्डलिको राजा भवति। पटस्याग्रतः श्वेतचन्दनेन मण्डलकं कृत्वा गन्धधूपपुष्पबलिविलेपनं च दत्वा केशरपुष्पाणां शतत्रयं गृहीत्वा अष्टशताभिमन्त्रितं घृतप्रदीपत्रयं प्रज्वाल्य उदुम्बस्समिद्भिरग्निं प्रज्वाल्य एकैकं पुष्पमष्टशतभिमन्त्रितं कृत्वा घृताभ्यक्तानां जुहुयात्। यमिच्छति स वशो भवति सप्तरात्रेण। यः त्रिकालं परिवर्तयति तस्य पञ्चानन्तर्याणि तन्वीभवन्ति। अष्टशतजापेन प्रतिदिवसं ब्रह्महत्या तन्त्रीभवति। सततजापेन यमिच्छति तं ग्रामं लभति। चक्षुषां यं पश्यति स वशो भवति। वादे जपेनोत्तरवादी भवति। तिलमाषां जुहुयादर्त्थमुत्पादयति। वटशृङ्गानामष्टसहस्रं जुहुयात्। कृत्वा सर्वबुद्धबोधिसत्त्वानां नमस्कारं दशवारां परिवर्तयेत्। श्रौत्रं प्रतिलभते। आर्यमञ्जुश्रियं पूर्वोक्तेन विधानेन पटके फलेक वा अश्लेषकैर्वर्णैश्चित्रापयितव्यः। तस्याग्रतो पूजां कृत्वा शतसहस्रं जपेत्। कुशसंस्तरशायी क्षीरयावकाहारः त्रिःकालस्नायी शुचिवस्त्रप्रावृतेनाष्टाङ्गपोषधिकेन प्रतिपदमारभ्य जपो देयः यावत् पञ्चदशीति। ततः। व्याधिं प्रशमयति। कृतपुरश्चरणः क्षीरगोमूत्राहारः यावकाहारो वा त्रिःकालस्नायी पोषधिकः सधातुके चैत्ये पटं प्रतिष्ठाप्य प्रतिदिनं घृतप्रदीपो प्रज्वालयितव्यः। पद्मसहस्रेण च पूजा कर्तव्या। कृष्णपक्षे जपो देयः। शुक्लप्रतिपदे साधनारब्धव्या। पौर्णमास्यां त्रिरात्रोपितेन उदारां पूजां कृत्वा सर्वरात्रिको जापो देयः। ज्वलितमात्रेण गगनमुत्पतति। विद्याधरो भवति। विद्याधरसहस्रपरिवृतः द्विरष्टवर्षाकृतिः आकुञ्चितकुण्डलकेशः अवध्यः सर्वविद्याधराणाम्। आवेशनं धूपेन विपनाशनं पल्लवेन आत्मरक्षा जापेन शुक्लचतुर्दश्यामारभ्य यावत् पञ्चदशीति शुचिना शुचिवस्त्रप्रावृतेन अष्टाङ्गपोषधिकेन पटस्याग्रतो यं मृगयति तं लभते। घृतमष्टशताभिमन्त्रितं कृत्वा पिबेत्। दिवसानि सप्त। मेधावी भवति। पटस्याग्रतः मल्लिकपुष्पाणामष्टसहस्र जुहुयात् सप्तरात्रम्। द्रव्यमुत्पद्यते। शुक्लचतुर्दश्यां त्रिरात्रोषितः उदुम्बरकाष्ठैः अग्निं प्रज्वाल्य उदुम्बरसमिधानां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात्। पञ्च दीनारशतानि लभति। अंधः पोषधिको कृष्णचतुर्दश्यां दीपानामष्टसहस्रं प्रज्वाल्य दीपवर्तीनामष्टशतं जुहुयात्। पश्चाज्जापो देयः। ततः चक्षुः प्रतिलभति। वधिरः पुस्तकं गन्धकुटिं प्रवेशयित्वा अष्टसहस्राभिमन्त्रितानां पद्मानामष्टसहस्रं जुहुयात्। शान्तिर्भवति। पटस्याग्रतः मालतीपुष्पाणां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात्। शान्तिर्भवति। कृतपुरश्चरणः कृष्णपञ्चम्यां सधातुके चैत्ये पटं प्रतिष्ठाप्य महतीं पूजां कृत्वा उदारां बलिं निवेद्य बाह्या सर्वभौतिकां बलिं निवेद्य प्रियङ्गुचूर्णेन पुत्तलिकां कृत्वा लिखेत्। मण्डलबन्धं दिशाबन्धं कृत्वा कुशविण्डकोपविष्टः तावज्जपेद् यावदुल्कापातं भवति। पुनरपि तावज्जपेद् यावत् पटः प्रकम्पते। अन्यानि च सिद्धिनिमित्तानि भवन्ति। ततः सर्वबुद्धबोधिसत्त्वेभ्यो नमस्कारं कृत्वा उत्पपते। विद्याधरो भवति। कामरूपी योजनसहस्रात्तु शृणोति। सर्वविद्याधरावध्यः। कृतपुरश्चरणः कृष्णचतुर्दश्यामहोरात्रोषितः उदारां पूजां कृत्वा अक्षतं सर्वं गृह्य गन्धपुष्पैरलङ्कृत्य धूपेन च दक्षिणहस्तेन गृह्य तावज्जपेद् यावज्ज्वलितमिति। पटस्याग्रतः आर्यमञ्जुश्रियस्य रोचनां स्थाप्य तावज्जपेद् यावज्जलितमिति। ततः ग्रहेतव्यम्। गृहीतमात्रेण च नागबलो भवति। परप्रहरणा न प्रभवन्ति। यं मन्त्रो पयति स वशो भवति। त्रीणि च वर्षशतानि जीवति। कृष्णचतुर्दश्यामहोरात्रोषितः पटस्याग्रतो बिल्वकाष्ठैरग्निं प्रज्वाल्य वैकङ्कतसमिधानां कटुतैलाक्तानामष्टसहस्रं जुहुयात्। सप्ताहं कन्यां यामिच्छति सा वशा भवति। कृष्णचतुर्दश्यां एकरात्रोषितः श्मशानं गत्वा अपतितगोमयेन मण्डलमुपलिप्य अक्षतकपालं गृह्य रक्तचन्दनेन प्रक्षाल्य रक्तपुष्पधूपैश्चाभ्यर्च्य तत उपविश्य तं कपालं मन्त्रं जपता कर्षयेत्। यावत् कपालश्चलति तदा सिद्धो भवति। यमङ्गुल्यामाकर्षति स आगच्छति तत् सर्वं करोति शान्तिं कर्तुकामेन पटस्याग्रतः लक्षं जपेत्। ततो पटचलनं भवति। तथागतप्रतिमाचलनं वा। कल्पसिद्धिर्भवति। अष्टशताभिमन्त्रितं नीलशाटके ग्रन्थिं कुर्यात्। मल्लस्य जयो भवति। एकविंशतिजप्तं भस्मं मल्लस्य शिरशि दापयेत्। युद्धे जयो भवति। शुक्लप्रतिपदमारभ्य पटस्याग्रतः घृतक्षीरसहितां ताम्रभाजने स्थाप्य अष्टशतजप्त्पं कृत्वा पिबेद् दिवसानि सप्त। श्रुतिधरो भवति। यद्यार्यमञ्जुश्रियस्य मुद्रा रश्मिर्निश्चरति। सधातुकं प्रदक्षिणीकृत्य ऊर्ध्वं गच्छति। विद्याधरो भवति। कामरूपी अप्रतिहतः त्रीणि वर्षसहस्राणि जीवति। कृष्णाष्टम्यामहोरात्रोषितः निर्भयेन भूत्वा ततो विद्याधरेण सप्ताभिमन्त्रितेन सिंहस्ताडयितव्यः। ततः सिंहः सिंहनादं मुञ्चति। साधकश्च निश्चेष्टो भवति। नालिकान्तरं विज्ञो भवति। ततः साधकेन सप्तवारां मन्त्रमुच्चारयितव्यः। ततः सिंहमभिरुहितव्यम्। सर्वविद्याधराश्च सन्निपतन्ति। सिंहवाहनः सपरिवार उत्पतति। मनपवनगतिरनेकविद्याधरपरिवृतः कल्पस्थायी। यदा म्रियति तदा यत्रेच्छति तत्र उत्पद्यति। सिंहसाधनम्। पुनः सिंहसाधनं कर्तुकामेन शुक्लपूर्णमास्यां अत्यन्तमौनी क्षीरयावकाहारो यावदपरा पौर्णमासीति लक्षं जपेत्। मौनी पौषधिको वज्रहतं काष्ठं गृह्य क्षीरे सप्तदिवसां स्थापयेत्। ततोधृत्य श्वेतमृत्तिकया चन्दनोदकपरिवर्तितया वज्रहतं काष्ठं स्नापयेत्। ततः साधकः पोषधिकेन रूपकारेण सिंहः कारयितव्यः। ततः पुष्यनक्षत्रे रत्नत्रयस्योदारां पूजां कृत्वा सङ्घोद्दिष्टकभिक्षवो भोजयितव्या। पटस्याग्रतः उदारां पूजां कृत्वा नानाबलि निवेद्य ततः साधकेन शुचिना शुचिवस्त्रप्रावृतेन कुशविण्डकोपविष्टः दक्षिणहस्तेन सिंहमवष्टभ्य तावज्जपेत् यावत् सिंहवच्चलति। चलिते विविधप्रकारा निमित्ता जायन्ते। ततः अर्घो देयः। पुनरष्यष्टशतं जप्तव्यम्। सर्षपा आगच्छन्ति। मन्त्रं जपता सिंहः स्प्रष्टव्यः। स्त्री भवति। सा ब्रवीति। किं करोमीति। सा वक्तव्या शरीरान्तर्गता भवस्वेति। ततः साधकस्य हस्ततलेऽन्तर्धीयते। तत्क्षणादेवाकुञ्चितकुण्डलकेशः द्विरष्टवर्षाकृतिः उदितादित्यसमप्रभः शक्तिहस्तः अप्रतिहतगतिः। यां दृष्ट्वालोकयति तैः सार्धमुत्पतति। सर्वे विद्याधराश्चास्य वध्या भवन्ति। कल्पस्थायी। यदा मृयति तदा देवेषूपपद्यते। कृतपुरश्चरणः सधातुके चैत्य पटं प्रतिष्ठाप्य पश्चामाना मुखे प्रतिष्ठाप्य अदृश्यो भवति। वर्षसहस्रं जीवति। कृतपुरश्चरणः क्षीरयावकाहारः पर्वतशिखरे पटं प्रतिष्ठाप्य गन्धपुष्पैर्धूपैरभ्यर्च्य लक्षत्रयं जपेत्। ततः भस्म बल्मीकमृत्तिकया च पोषधिको गृह्य क्षीरेणालोड्य मर्दयित्वा सुगतवितस्तिप्रमाणां मयूरः पोषधिकेन चित्रकरेण अश्लेषकैर्वर्णैश्चित्रापयितव्यः। विविक्ते प्रदेशे गत्वा पटं प्रतिष्ठाप्य गन्धपुष्पधूपैरभ्यर्च्य सर्वभूतिकां बलिं दत्वा ततः शुचिना शुचिवस्त्रप्रावृतेन पटस्याग्रतः मयूरं स्थाप्य तावज्जपेद् यावन्मयूरश्चलति। ततो विद्याधरेण अपराजितपुष्पैः पूर्वपरिजप्तया मूर्ता शरावसम्पुटां दक्षिणहस्तेनावष्टभ्य तावज्जपेत् यावत् शिवारुतशब्दः श्रूयते। मन्त्रं जपता सखायेभ्यो सत्त्वा आत्मनो मुखे प्रक्षिप्य अदृश्यो भवति। सर्वसिद्धानां आगन्य वर्षसहस्रद्वयं जीवति। पद्मकेसरसौवीरमञ्जनः शिलां समां कृत्वा पोषधिककन्याहस्ते पीषयेत्। त्रिलोहपरिवेष्टितं कृत्वा कृतपुरश्चरणः पुष्ययोगेन महेश्वरस्य मूर्त्तौ सर्वभूतिकं बलिं गन्धपुष्पधूपैश्च पूजां कृत्वा शरावसम्पुटे स्थाप्य दक्षिणहस्तेन अवष्टभ्य तावज्जपेद् यावत् खटखटायति। भगवत एका निवेद्य सखायेभ्यो विभज्य आत्मनश्च अपामार्गसमिधानां दधिमधुघृताक्तानां दशसहस्राणि जुहुयात्। दशसुवर्णसहस्राणि लभति। वंशरोचनां गृह्य तृलोहपरिवेष्टितानां गुडिकानां कृत्वा ततः शुचिशुक्लवासो श्मशानं गत्वा गन्धपुष्पधूपैः पूजां कृत्वा सार्वभौतिकं बलिं कृत्वा गुलिका कपालसम्पुटा प्रतिष्ठाप्य तावज्जपेद् यावत् किलकिलाशव्दः श्रूयते। न भेतव्यम्। सहायेभ्योऽपि विभज्य आत्मनो मुखे प्रक्षिप्य अदृश्यो भवति। दशवर्षसहस्राणि जीवति। उलूकनेत्रं गृह्य अञ्जनेन सह कुमारीहस्ते पीषयेत्। तृलोहपरिवेष्टितां कृत्वा, गुटिकां शरावसम्पुटे स्थाप्य महेश्वरस्य दक्षिणीयां मूर्त्तौ सप्तरात्रं यक्षिणीमाकर्षयति। काष्ठमौनी षण्मासां जपेत्। अभिलषितं द्रव्यं लभति। राजार्कमयीं प्रतिमां षडङ्गुलं कृत्वा अश्लेषकैर्वर्णकैश्चित्रापयित्वा सर्वालङ्कारविभूषिता तस्याग्रतः षण्मासां जपेत्। मण्डलिकं राज्यं लभते। विद्याधरत्वं वा। पटस्याग्रतः मौनी षण्मासां वामकरतलमभिमन्त्र्य अयुतं परिजप्यं सुनिहितं निधानं लभति। राजार्कानां दधिमधुघृताक्तानां दशसहस्राणि समुद्रगामिनीं नदीमवतीर्य अर्कपुटे जुहुयात्। आदित्यो वरदो भवति। तामेव नदीं कटिमात्रमुदकमवतीर्य तिलपुष्पां प्रवाहयेत्। पितामहो वरदो भवति। मन्दारपुष्पां जुहुयात्। शक्रो वरदो भवति। तत्रैव जले मन्दारपुष्पैर्धनदो वरदो भवति। द्विलक्षजापेन राजानमाकर्षयति। त्रिलक्षजापेन सर्वसत्त्वानाकर्षयति। समुद्रगामिनीं नदीमवतीर्य अशोकपुष्पाणां दशसहस्राणि जुहुयात्। मूलपटस्याग्रतः उदारां पूजां कृत्वा चक्रं स्वस्तिकमश्वत्थपत्रे स्थाप्य पर्यङ्कोपविष्टः तावज्जपेद् यावज्वलितमिति। तेन गृहीतमात्रेण आकुञ्चितकुण्डलकेशः उदितादित्यवर्णः विद्याधरचक्रवर्ती भवति। यैश्च दृश्यते यांश्च पश्यति तैः सहोत्पतति। सुदर्शनमूलिकां गृह्य हस्तेनावष्टभ्य ताव सहस्रजप्तां कृत्वा हस्ते बध्वा यं स्पृशति स वशो भवति। कुशमयं चक्रं गृहीत्वा सहस्रं जप्त्वा जले प्रक्षिप्य नागमुत्तिष्ठति। किं करोमीति ब्रवीति। लक्षं मे देहीति वक्तव्यम्। भिक्षाहारः पर्वतशिखरमारुह्य शतसहस्रं जपेत्। तथागतविग्रहा आमुखीभवन्ति। तां दृष्ट्वा यत् साधयति तत् सिध्यति। सर्वालङ्कारविभूषिताः स्त्रियश्च भवन्ति। पुरुषाश्च बुद्धमाराधका हास्यलास्यादिभिः समानकालमुपतिष्ठन्ते। यच्चिन्तयति तत् सर्वं भवति। प्रभाते उद्घृत्य सर्वं नश्यति। शुक्लप्रतिपदमारभ्य अहोरात्रोषितः पटस्याग्रतः ब्रह्मीसकर्षगाव्यघृतकर्षं क्षीरकषं अष्टशतं परिजप्य पिबेद् दिवसानि सप्त। श्रुतिधरो भवति। पटस्याग्रतः नानाप्रकारस्य भक्षभोज्यपिटकं स्थाप्य तावज्जपेद् यावद् भक्तमन्तर्हितं भवति। पश्चाद् भक्तं सङ्क्रामति। व्रीहिजातयश्च। कृतपुरश्चरणस्त्रिलोहमयं षोडशारं चक्रं कृत्वा कृष्णचतुर्दश्यां अहोरात्रोषितः त्रिपथे पूजां कृत्वा उपविष्टः कलापमात्रां मनःशिलां मुखे प्रक्षिप्य तावज्जपेद् यावन्मुखं स्फुटति। मनःशिलां सिद्धा भवति। तिलकं कृत्वा अदृश्यः कामरूपी पञ्चवर्षशतानि जीवति। कृष्णाष्टम्यां खट्वां गणिकां त्रिशूलं कारयेत्। अवरे कृष्णाष्टम्यां अहोरात्रोषितः श्मशानं गत्वा त्रिशूलस्य महती पूजां कृत्वा पर्यङ्कोपविष्टः दक्षिणहस्तेन तृशूलं गृह्य तावज्जपेद् यावत् तृशूलाद् रश्मिर्निश्चरति। ततः सिद्धो भवति। रात्रौ निखनेद् दिव्यं गृहं भवति। शुचौ देशे पटं प्रतिष्ठाप्य अहोरात्रोषितः पटस्याग्रतः पुत्तलिकां कृत्वा विधिवत् पूजयित्वा बिल्वसमिधानां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात्। भगवतो मञ्जुश्रियस्य ललाटाद् रश्मिर्निश्चरति। ततः सिद्धो भवति। अपरिमितं सुवर्णं द्रव्यं लभति। अहोरात्रोषितः पटस्याग्रतः करवीरपुष्पाणामेकं गृह्य नागस्थानं गत्वा पुष्पं नागह्रदे प्रक्षिप्य मन्त्रमावर्तयेत्। नागा नागिन्यश्च वश्या भवन्ति। यं प्रार्त्थयति तं लभते। कृतपुरश्चरणः अहोरात्रोषितः कृष्णचतुर्दश्या ज्वरंनाशयितुकामो गिरिकर्णिकापुष्पाणामष्टसहस्रं जुहुयात्। पिशाचज्वरा नश्यन्ति। खदिरसमिधानामष्टशतहोमेन सर्वग्रहां मुञ्चापयति। भस्मना सप्तजप्तेन परमन्त्रां मन्त्रपतिर्बन्धयति। सकृज्जप्तेनोदकेन मोक्षः। वस्त्रे भूर्जपत्रे वा लिखित्वा ध्वजाग्रे बध्नीयात्। परसेना स्तम्भिता भवति। उदकसक्तवाहारः कृष्णाष्टम्यां कृष्णचतुर्दश्यां वा त्रिरात्रोषित एकलिङ्गं गत्वा लिङ्गोपरि दक्षिणायां मूर्तिं पादं स्थाप्य वालशोल्लकेन बन्धयेत् मुष्टिं बध्वा तावज्जपेद् यावद् रावो निश्चरति मरामीति। तृतीये रावे मुष्टिः सिद्धा भवति। मुष्टिं बध्वा सप्तवर्षशतानि जीवति। महेश्वरगणश्च। गोरोचनया सहस्राभिमन्त्रितया विशेषकं यं पश्यति। सर्वे वशा भवन्ति। प्रातरुत्थायोदकं सप्ताभिमन्त्रितं कृत्वा मुखं प्रक्षाल्य यस्य दर्शनं ददाति स वशो भवति। एवं तैलेनाहारकाम उदकचूलके सप्ताभिमन्त्रितं कृत्वा पिबेत्। अप्रार्थितमन्नं लभते। राजकुलं प्रविशता चीवरात्तं गृह्य एकविंशतिवारां परिजप्य वामहस्तेन ग्रन्थिं कृत्वा अप्रतिहतवाक्यो भवति। चोरमध्ये स्मर्त्तव्यम्। बद्धं च मोचयति। च्छिन्नभिन्नाधिकानां मन्त्राणां शालिव्रीहिश्वेतकरवीरसिद्धार्थकैः प्रतिकृतिं कृत्वा पटस्याग्रतः वामहस्तेनावष्टभ्याष्टसहस्रं जपेत्। मन्त्राणामुत्थापनं कृतो भवति। गोसहस्रं लभति। अनेनैव विधानेन घृतसर्जरसं दहता शतसहस्रं जपेत्। द्वादश ग्रामवरां लभते। अनेनैव विधानेन स्तूपं कृत्वा चन्दनाभ्यक्तानां पद्मानां शतसहस्रं निवेदयेत्। देशाधिपत्यं लभते। सुगतवितस्तिप्रमाणं स्तूपं कृत्वा धूपं च दहता चम्पकपुष्पाणां शतसहस्रं निवेदयेत्। सुवर्णसहस्रं लभति। सुगतवितस्तिप्रमाणं स्तूपं कृत्वा प्रतिकृतिमालिख्य वामपादेनावष्टभ्य अष्टसहस्रं जपेत्। गोत्रेण वशमागच्छति। सुगतवितस्तिप्रमाणं स्तूपं कृत्वा विवाहलाजानां दधिमधुघृताक्तानामग्नावष्टसहस्रं जुहुयात्। भस्मना च मण्डलबन्धः। प्रभाते स्नात्वा अनेनैव मन्त्रेण निर्मथ्य नवनीतं ग्रहाय उदारां पूजां कृत्वा धूपं दहताष्टसहस्राभिमन्त्रितं दन्तैरस्पृश्य ग्रसेत्। यस्य नाम्ना स वशो भवति। मुक्त्वा कामोपसंहितम्। सर्वगन्धानां वीरविक्रयक्रीतानां त्रिरात्रोषितः पटस्योदारां पूजां कृत्वा घृतप्रदीपं प्रज्वाल्य स्वयमेव मन्त्रं जपेत्। तेन पुत्तलिकां कृत्वा सप्तानामुपर्यश्वत्थपत्राणामुपरि स्थाप्य तावज्जपेद् यावत् प्रसन्धिता इति। तं चूर्णं कृत्वा यं स्पृश्यति स वशो भवति। अनेनैव विधिना नागकेसरचूर्णस्य प्रतिकृतिं कृत्वा धूपशरावेषु अष्टशतं जुहुयात्। यमनुचिन्त्य स वशः। अनेनैव विधिना अपामार्गसमिधानां जुहुयात्। अर्त्थकामः। गोष्ठं गत्वा पटस्याग्रतः अपतितगोमयेन हस्तोच्छ्रितं स्तूपं कृत्वा विधिवत् पूजयित्वा गुग्गुलुं दहतां शतसहस्रं जप्तव्यम्। सर्वविद्याधरापरिभूतः सप्तवायुपथविचारी। असंवत्सरजातस्य प्रदेशिनीमङ्गुलीं गृह्य हस्तप्रमाणं चैत्यं कृत्वा श्मशाने विधिवत् पूजां कृत्वा प्राङ्मुखोपविष्टः कुशसंस्तरे तामङ्गुलिं निवेद्य प्रदेशिन्याङ्गुल्यावष्टभ्य तावज्जपेद् यावद् रश्मिर्निश्चरति। दीपशिखा वर्धते। कृतरक्षास्ता राज्यं गृह्य प्रभाते तयाङ्गुल्या यमाकर्षयति स वशः। त्रिरात्रोषितः समानवत्साया गोः पयस्विन्याः क्षीरं गृह्य पटस्याग्रतः मण्डलकं कृत्वा घृतप्रदीपं प्रज्वाल्य कुशसंस्तरस्थमष्टसहस्राभिमन्त्रितं कृत्वा मृद्भाजने क्षीरं कुर्यात्। दधिमधुघृतैर्विनायकहोमः। ततो मण्डलकं कृत्वा चतुर्षु दिशापालान् स्थाप्य द्वितीयमण्डले प्रबोधको सर्षपहस्तः तृतीयमण्डले सुसहायो वा महतीं पूजां कृत्वा कृतरक्षः प्राङ्मुखोपविष्टः हस्तेनावष्टभ्यः तावज्जपेद् यावदूष्मायति धूमायति प्रज्वलति। प्रथमेनाञ्जिताक्षः यं पश्यति ये च पश्यन्ति सर्वे ते वशा भवन्ति। द्वितीयेन सिद्धेन नवनागसहस्रबलोऽनिलजवः पञ्चवर्षसहस्राणि जीवति। अपरिभूतः सर्वविद्याधरो भवति। अन्तर्धानिकानां अष्टसहस्राभिमन्त्रिता ज्वलित उदितादित्यवणः रत्नालङ्कृतशरीरः कल्पान्तरस्थायी अष्टसहस्राभिमन्त्रितं कृत्वा शत्रुमध्ये प्रविशेद् भयं न भवति अवध्यः सर्वशत्रूम्। आवेशनं श्वेतपुष्पेण नृत्यापनमुदकेन त्रिजप्तेन करवीरपुष्पेण त्रिजप्तेनाहरेत्। अतीतानागते कथयति। बन्धनं छोटिकया च्छेदन। अञ्जनं साधयितुकामः वीरक्रयक्रीतं सौवीराञ्जनं गृह्य प्राणकान्यपनीय पञ्चगव्येनोत्तरमुखया पीषयेत्। अनामिकयाङ्गुल्या चतस्रो गुलिका कृत्वा पद्मपत्रेणाच्छाद्य शोषयेत्। पटस्याग्रतः विधिवदग्निं प्रज्वाल्य सहस्रसम्पाताहुतिं कृत्वा सधातुके चैत्ये उदारां पूजां कृत्वा अष्टभिर्दिग्भिः पलाशकाष्ठैरग्निं प्रज्वाल्य शिक्ककटिप्रदेशे स्थापयेत्। शुक्रबन्धः कृतो भवति। चीवरकर्णकेनसप्तजप्तेन ग्रन्थिं कृत्वा विषबन्धः। विषचिकित्सा। पल्लवेन मुद्राभेदत उदकेनावेशनम्। गुग्गुलुधूपेन उदकेन वा ग्रहबन्धः। अङ्गुलिं परिजप्य यं तर्जयति स वशो भवति। पटस्याग्रतः अष्टशतं जपेत्। स्वप्ने यथाभूतं दर्शयति। सधातुके चैत्ये पटं प्रतिष्ठाप्य तस्याग्रत उदारां पूजां कृत्वा श्वेतपद्मानां दधिमधुघृताक्तानां बिल्वकाष्ठैरग्निं प्रज्वाल्य लक्षं जुहुयात्। राज्यं लभति। असिद्धे सहस्रपिण्डं ग्रामं लभति। गोरोचना मनःशिलां वा पटस्याग्रतः सहस्रं जपेत्। तेन तिलकं कृत्वा यं मृगयति तं लभति। कृष्णचतुर्दश्यामेकरात्रोषित रात्रौ पटकमूलकांसकाराग्नौ अष्टसहस्रं जुहुयात्। रूपकसहस्रं लभते। शुक्लाष्टम्या अहोरात्रोषितः समुद्रगामिनीं नदीमवतीर्य पद्मानां दशसहस्राणि निवेदयेत्। राज्यं लभति। पुरुषवशीकरणे कृष्णाष्टम्यां एकरात्रोपितः बोधिवृक्षकाष्ठैरग्निं प्रज्वाल्य कुमुदानां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात्। वशो भवति। स्त्रीवशीकरणे कृष्णद्वादश्यां सौगन्धिकपुष्पैः आर्यमञ्जुश्रियं हनेत्। ओषधीबन्धमनसा द्विपदचतुःपदानामुत्सारणी। दिनेदिने पञ्च दीनाराणां प्रयच्छति। निरवशेषा व्ययीकर्त्तव्या। अर्घं रत्नत्रयोपयोगाय। पटस्याग्रतः मासमेकं जपेत्। द्वादश दीनारसहस्राणि लभते। शुक्लाष्टम्यारभ्य सधातुके चैत्ये षण्मासां जपेत्। राज्यं ददाति। कृष्णाष्टम्यां अहोरात्रोषितः पटस्याग्रतः श्लेष्मातकं कलिकं गृह्य रक्तसूत्रकेन वेष्टयेत्। ततः पलाशकाष्ठैरग्निं प्रज्वाल्य कीलकं अष्टसहस्राभिमन्त्रितं कृत्वा एकैकं खण्डमेकविंशतिवारां परिजप्याग्नौ प्रक्षिप्य प्रभाते दीनारशतानि लभति। शुक्लाष्टम्यामेकरात्रोषितेनातिमुक्तकपुष्पाणां अष्टसहस्रं निवेदयेत् सप्ताहम्। दीनारशतं लभति। सप्ताभिमन्त्रितेनाक्षीण्यञ्जयेत्। सर्वज (न) प्रियो भवति। सामान्यमञ्जनमभिमन्त्र्य यं प्रथमं पश्यति स वशो भवति। पटस्याग्रतः यमुद्दिश्य दशसहस्राणि जपति। विवरद्वारे लक्षं जपेत्। यथानियतं पर्वतशिखरे वा गोष्ठे प्रतीत्यसमुत्पादगर्भचैत्यं प्रतिष्ठाप्य लक्षं जपेद् दीनारलक्षं लभति। नागस्थाने पटं प्रतिष्ठाप्य सुकृतरक्षाविधानः जम्बुकाष्ठैरग्निं प्रज्वाल्य त्रिमधुरां बलिं दत्वा नागपुष्पाणामष्टसहस्रं जुहुयात्। ततः ब्राह्मणरूपी नागराजागच्छति। स च ब्रवीति। वक्तव्यं च ‘दिने दिने सप्त दीनारां प्रयच्छ’। तथास्त्विति कृत्वादृश्यो भवति। शेनापतिवशीकरणे बृहन्मण्डलक प्रलिप्य तस्य पदपांसुमानीय वामहस्तेनाहुतिसहस्रं जुहुयात्। वश्यो भवति। सामान्यस्त्रीवशीकरणे लवणेन प्रतिकृतिं कृत्वा छित्वा छित्वा वामहस्तेन जुहुयात्। वश्यो भवति। दासीवशीकरणे पुन्नागकेसरयवगोधूमानेकीकृत्य अष्टसहस्रं जुहुयात्। वश्यो भवति। शालिपिष्टमयीं प्रतिकृतिं कृत्वा छित्वा छित्वा जुहुयात्। वशो भवति। रण्डावशीकरणे माषजम्बूलिकां जुहुयात्। वशो भवति। श्रोताञ्जनं एकचैत्ये अश्वत्थपत्रान्तरितां कृत्वा अष्टसहस्राभिमन्त्रितं यदि पुनरपि साधयति द्विगुणायुर्भवति। धान्यागारं प्रविश्य शुचौ प्रदेशे पटं प्रतिष्ठाप्य मौनी क्षीरयावकाहारः पक्षमेकं जपेत्। ततः पटस्योदारां पूजां कृत्वा उदारतरीं च बलिं निवेद्य पर्यङ्कं बध्वा तावज्जपेत् यावद् रश्मिर्निश्चरन्ति। तां दृष्ट्वा पञ्चानन्तर्याण्यपि क्षयमुपैति। ततः सिद्धो भवति। महाराज्यं लभति। अप्रत्यर्थिको भवति। रोचनामष्टसहस्राभिमन्त्रितं कृत्वा धूपेन धूपयित्वा दन्तान्तरे स्थापयेत्। उत्तरवादी भवति। सर्वे चास्य वश्या भवन्ति। शुक्लाष्टम्यां त्रिरात्रोषितः पटस्याग्रतः अकाकोलीनाष्टसहस्रं जपेत्। दीनारमेकं लभति। पटस्याग्रतः त्रिरात्रोषितः शुक्लचतुर्दश्यां गुग्गुलुधूपं दहता बलाग्निं प्रज्वाल्य दधिमधुघृताक्तानां करवीरपुष्पाणां अष्टसहस्रं जुहुयात्। ततोऽग्निकुण्डं यत् पद्मप्रमाणं करवीरसदृशो मनःशिलां दृश्यति। मन्त्रं जपता ग्रहेतव्यम्। तया गृहीतया उदितादित्यवर्णो द्विरष्टवर्षाकृतिः विद्याधरो भवति। वायुसमभावेन ईप्सिततमानि चाहाराणि उत्पद्यन्ते। अशीतिवर्षसहस्राणि जीवति। सर्वसत्त्वानामगम्यश्च मृत्युं जनयति॥ पटस्याग्रतः साधयेत् मुखे प्रक्षिप्यान्तर्हितो भवति। प्रथमं बन्धनमोक्षः कर्तव्यः। मधुसिक्थमयीं प्रतिकृतिं कृत्वा स्त्रिया वा पुरुषो वा विविक्ते प्रदेशे अग्निं प्रज्वाल्य अभिमन्त्र्य दापयेत्। अष्टशतं मदनकण्टकेन विध्वा दापयेत्। वश्या भवन्ति। यं प्रार्थयति तं लभते। शुक्लपौर्णमास्यां अहोरात्रोषितः सुरभिपुष्पाणां अष्टशतं निवेदयेत्। पञ्चकार्षापणानि लभति। कृष्णचतुर्दश्यां अहोरात्रोषितः पटस्याग्रतः प्रियङ्गुकाष्ठैरग्निं प्रज्वाल्य वैकङ्कतसमिधानामष्टसहस्रं जुहुयात्। शताभिमन्त्रितेन सर्वशूलं प्रशमयति। दुःखप्रसवायाः स्त्रिया उदकं अष्टसताभिमन्त्रितं कृत्वा देयम्। सुखेन प्रसवयति। शुक्लप्रतिपदमारभ्य दिने दिने सहस्रवृद्ध्या जपेत्। यावत् पञ्चदशीति। अवसाने त्रिरात्रोषितः गुडिकायोगेन गुलिकां कृत्वा साधयित्वा मुखे प्रक्षिप्य अन्तर्हितो भवति। नीलाशोककुसुमं कृष्णसारपित्तं चक्रवाकहृदयं श्रोत्रियारसहितं समभागानि पुष्पलोहेन वेष्टयेत्। पुनः त्रिलोहवेष्टितं कृत्वा साधयितुकामः सधातुप्रतिमाया अग्रतः तत्रैव पटं प्रतिष्ठाप्य शुक्लाष्टम्यां पूजां कृत्वा सप्ताश्वत्थपत्रेषु स्थाप्य मण्डलकं कृत्वा तस्य मध्ये अक्षताङ्गं पुरुषं स्थाप्य वामपादेन उरसि माक्रम्य कृतरक्षः मन्त्रमावर्तयेत्। यावदुत्तिष्ठति पूर्ववत्। ततः मधपायसं भोजयेत्। सप्ताभिमन्त्रितं मुष्टिं बध्वा शिरसि ताडयितव्यः। ततः छर्दयति। तं पीत्वान्तर्हितो भवति। त्रिरात्रोषितः सोमग्रहे नाभिमात्रमुदकमवतीर्य तावज्जपेद् यावन्मुक्त इति। दीनारशतं लभति। आवर्तयेच्छोभनं लभति। लवणमिश्रेणोदकेनाष्टशतं स्नात्वोद्वर्त्तितं कृत्वा गन्धमाल्यैश्च पूजयित्वा पूर्वसाधितं पायसं भोजयितव्यम्। सप्तजप्तेन मुष्टिं कृत्वा शिरसि हन्तव्यः। ततः छर्दयति। तं भुक्त्वा महाकल्पस्थायी विद्याधरो भवति। शस्त्रमष्टशतजप्तं कृत्वा छिन्दितः कैलपयित्वा हनेत्। सहस्रवेधं सुवर्ण भवति। कायशोधनं कृत्वा चैत्यं स्वहस्तेन कुर्यात्। पञ्चानन्तर्यकारिणोऽपि सिध्यति। चैत्यलक्षेण विद्याधरचक्रवर्ती भवति। सर्वशास्त्राभिज्ञः सर्वविज्ञानोपेतः कल्पस्थायी च्युतश्च पञ्चजातिशतान्यपायगामी न भवति। उदितोदितमध्यदेशः सर्वेन्द्रियसमन्वागतः श्रुतिधरो जाति स्मरः। अयाचितो लब्धमनःशिलां गृह्य सप्तभिरश्वत्थपत्रेषु स्थाप्य साधयेत्। सन्ध्यायां ये शृणोति जिघ्रति सर्वे वशा भवन्ति। तिरः शैलं तिरः कुड्यं तिरः समुद्रं भित्वाभ्युद्गच्छति। श्मशाने षोडशहस्तं अष्टहस्तं वा मण्डलकमुपलिप्य मृतकमुत्तराशिरं स्थाप्य मुखे वामङ्गुलिकां प्रक्षिप्य दक्षिणेन पादेनोरसि माक्रम्य तावज्जपेद् यावन्मृतकश्चलितः। तं चाङ्गुलिं हस्तेन गृहीत्वा ददाति। तमनामिकायामङ्गुल्यां प्रक्षिप्य यमाकारयति स आगच्छति। प्रतिनिवर्त्तस्वेति प्रतिनिवर्त्तयति। मृतकमक्षताङ्गमनीय मृतकस्योपरि पादं दत्वा तावज्जपेद् यावदुत्तिष्ठति। कृत्वा तत्र मन्त्रं कुङ्कुमेनालिख्य कृष्णाष्टम्यां कृष्णचतुर्दश्यां वा पोषधिकः नियमस्थः न केनचित् सार्धमेकाकी पर्वतशिखरमारुह्य वर्जयित्वा दिशापालां अष्टहस्तं वा मण्डलकमुपलिप्य वालुकामयं चैत्यं कृत्वा यथाशक्तितः पूजां कृत्वा प्राङ्मुखो दक्षिणकहस्तेन खड्गं गृहीत्वा ऊर्ध्वबाहुः चैत्यस्याग्रतो मन्त्रमावर्तयेत्। यावदक्षराण्यन्तर्हितानि। तत् पत्रं खड्गभूतं प्रज्वलितं गृहीत्वा यथेष्टगामी विद्याधरो भवति। सर्वविद्याधराणां अवध्यः सर्वसत्त्वानां अधृष्यः कामरूपी कल्पस्थायी योजनसहस्रान् पश्यति। वेतसपत्रैः कटुकतैलाक्तैः मामुपशमः शालितन्दुलेन पर्वतसम्पत्तिः लक्षजप्तैः सर्षपैः आसुराणि मन्त्राणि घातयति। अशनिवज्रोपलादीनि अष्टशतजप्तेन शरेण यत्रेच्छति तत्र पातयति। सप्तजप्तेन भस्मना यस्यां क्षिपति दिशा तत्र काण्डवारणकृतं भवति। अष्टशतजप्तेन सर्वशल्याहरणम्। कृतपुरश्चरणस्य पटस्याग्रतः पञ्चविंशतिलक्षं जपेत्। ततः नखच्छेद्यं तालपत्रं खड्गं सर्वसस्यसंरक्षणं द्विपदचतुष्पदकीटमूषिकादीनां लेह्यं अष्टसहस्राभिमन्त्रितं कृत्वा उदकं क्षिपेत्। सर्वनागानां अवध्यो भवति। लक्षजापेन यमिच्छति; तं बन्धनान्मोचयति। आदित्यग्रहे समानवत्सायाः गोर्घृतं ताम्रभाजने स्थाप्य तावज्जपेद् यावन्मुक्तः। तं पीत्वा सर्वव्याधिभ्यो मुच्यते। पूर्वोक्तेन विधिना सधातुके चैत्ये पोषधिकः श्रीपिष्टसर्जरससंमिश्राणां शतसहस्रं जुहुयात्। दीनारसहस्रं लभति। श्वेतसर्षपाणां घृताक्तानां अष्टसहस्रं जुहुयात्। ततः सा निधिदर्शनं ददाति। ग्रहेतव्यम्। सधातुके चैत्ये समुद्रगामिन्यां नद्यां वालुकया वा प्रतीत्य समुत्पादगर्भं सुगतवितस्तिप्रमाणं चैत्यं कृत्वा पोषधिकः शुचिः यथाशक्तितः पूजां कृत्वा भिक्षाहारः हविष्याहारो वा शतसहस्रं जपेत्। सर्वकर्मसमर्थो भवति। महाश्मशानप्रचेनेन मण्डलादिदिशि विदिशाबन्धः सर्वविषचिकित्सा उमार्जनग्रहज्वरनाशनः। महानदीप्रतरणे जपेत्। सुखेन तरति। जपेनैव तरिकशौल्किकगौल्मिकादीनां पूज्यो भवति। विवादे चोत्तरवादी भवति। निद्राशुक्रबन्धमूत्रकेन सहस्रजप्तेन खदिरकीलकैः अष्टसहस्रजप्तैः न मन्त्रवशीकरणे यवानां दधिमधुघृताक्तानां नवनीतमयीं अङ्गुष्ठपर्वमात्रां पुत्तलिकां कृत्वा अश्वत्थपत्रे स्थाप्य हस्तेनावष्टभ्य तावज्जपेत्। यावत् स्फुरति। तां दन्तैरस्पृश्य ग्रहेत्। तत्क्षणादेव अभिरूपा आगच्छति। सर्वकामप्रदा भवति। बिल्वकाष्ठैरग्निं प्रज्वाल्य बिल्वसमिधानां दशसहस्राणि जुहुयात्। भोगान् लभति। सर्वसाधनेषु रक्षचोरव्याघ्रनक्रमकरकुम्भीरेषु मण्डलबन्धः सीमाबन्धः तुण्डबन्धः। निधानग्रहणम्। यत्र स्थाने विधानः तत्र गत्वा उपवसितः मण्डलकमुपलिप्य बिल्वकाष्ठैरग्निं प्रज्वाल्य राजसर्षपां जुहुयात्। निधानमवाप्नोति। राजमहिषी सपरिवारां वशीकर्तुकामः कुशमयीं प्रतिकृतिं कृत्वा वामहस्तेनावष्टभ्य सहस्रं जपेत्। सपरिवारा वशा भवति। ब्राह्मणवशीकरणे तिलानां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् सपरिवारः। क्षत्रियवशीकरणे यवां दधिमधुघृतानामष्टसहस्रं जुहुयात्। वशो भवति सपरिवारः। वैश्यवशीकरणे कृष्णसर्षपाणां अष्टसहस्रं जुहुयात्। वशो भवति सपरिवारः। शूद्रवशीकरणे कृष्णव्रीहितुषाणामष्टसहस्रं जुहुयात्। वशो भवति। दिवसत्रयं एकाकिना होमः। तस्यैव कपिलाया घृतं मालतीकुसुमं एकीकृत्य सप्ताहुतिं जुहुयात्। श्वेतसर्षपां सप्ताभिमन्त्रितं यस्य शिरसि ददाति स वशो भवति। राजा वशीकरणे प्रतिकृतिं कृत्वा वामहस्तेनावक्रम्याष्टसहस्रं जपेत्। सपरिवारो वशी भवति। सुगालितं पानीयमभिमन्त्र्य सप्ताहं धारयेत्। ततो गोपालके कृतरक्षेण गो दोहयेत्। ततस्तं क्षीरं च विविक्ते प्रदेशे कलशे जपेत्। ततो विरोलयित्वा ब्राह्मणकन्यया पद्मबीजं तगरं पद्मकेसरं चन्दनं मधुना सह पीषयेत्। गुटिकां कृत्वा ताम्बूलेन सार्धं अभिमन्त्र्य यस्य ददाति स वशो भवति। पुष्पमालां परिजप्य यस्य शिरसा ददाति स वशो भवति। रक्तचन्दनं चम्पककुसुमं पद्मकेसरं रक्तशालितुषागिरिकर्णिकाकोरण्डकबीजं व्रीहिमाषां कुष्ठतगरं तुरुष्कतैलं चैकतः कृत्वा समभागानि कारयेत्। जातिकाष्ठैरग्निं प्रज्वाल्य जातीपुष्पाणां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात्। पञ्च दीनारशतानि लभते। आम्रकाष्ठैरग्निं प्रज्वाल्य नदीतटे दधिमधुघृताक्तानां अर्कसमिधानां अष्टसहस्रं जुहुयात्। पञ्चमे दिवसे पञ्च दीनारां लभते। अशोकसमिधानां शुक्लचतुर्दश्यां आरभ्य यावत् पञ्चदशीति दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात्। दीनारशतं लभति। करवीरकाष्ठैरग्निं प्रज्वाल्य करवीरलतिकानामष्टसहस्रं जुहुयात्। शुक्लाष्टम्यां आरभ्य यावच्छुक्लचतुर्दशीति दीनाराणां सहस्रं लभते दिने दिने अष्टसहस्रं जुहुयात्। यावच्चतुर्दशीति। अनेककर्मणा कुपितं राजकुलं कुपितं मित्रवत् प्रसादयति। कृतपुरश्चरणः विद्युहतवृक्षस्य षडङ्गुलप्रमाणं काष्ठं गृह्य तावज्जपेत् त्रिरात्रोषितः सधातुके चैत्ये पटं प्रतिष्ठाप्य तं कीलकं तृलोहबन्धनं कृत्वा सर्वौषधिपरिपूर्णं चत्वारो कलशां पद्मसंस्तरे संस्थापयेत्। तत् कीलकं वामपादेनाक्रम्य वामहस्तेन गृह्य च तावज्जपेद् यावन्नश्यति। हस्तेति न च हस्तं मुञ्चति। ततो दद्यान्महाबलिम्। प्रभाते दाडिमं भक्षयेत्। तत् कीलं सिद्धं भवति। अरण्यं निखनेद् गृहं भवति कामदम्। सर्वोपकरणानि चोपतिष्ठन्ति। उद्धृतेन सर्वे नं पीत्वा स्नात्वा च पुनरपि स एषोपचारः। यावत् सकला रात्रिः। प्रभाते सङ्घोद्दिष्टका भिक्षवो भोजयितव्या। भोजयित्वा च घृतसद्यानि दाडिमानि भक्षयितव्यानि। प्रागच्छति। चतुर्दशविद्यास्थानानि मुखं प्रविशन्ति। श्रुतिधरः। समुद्रगामिनीं नदीमवतीर्य दक्षिणहस्तेन मुष्टिं कृत्वा त्रयोदशदिवसां जपेत्। सर्वविषदष्टकानि चोत्थापयति। मुष्टिना सर्वग्रहां नाशयति। इच्छया मुच्यमानः। अशोकवृक्षस्याधस्तात् त्रिरात्रोषितः मरीचानां अष्टसहस्रं जुहुयात्। मरिचमेकं मुखे प्रक्षिप्य यमनिमिषं व्यवलोकयति स वशो भवति। अनुस्मरणमात्रेण सर्वोपद्रवान् नाशयति। या स्त्री न रोचते तस्या नामं गृहीत्वा घृतं परिजप्य दापयेत्। सुभगो भवति। वज्रसाधनम्। पुष्पलोहमयं वज्रं कृत्वा षोडशाङ्गुलिकं त्रिसूचिकं समुद्रगामिनीं नदीमवतीर्य सुगन्धपुष्पणां लक्षं निवेदयेत्। पश्चिमपुष्पं प्रतिस्रोतं भित्वा आगच्छति। दन्तैरस्पृश्य ग्रसेत्। दिने दिने पञ्चग्रन्थशतानि गृह्णाति। कृतपुरश्चरणः पटस्याग्रतः लक्षं जपेत्। ततो यत्र निधानं तिष्ठति तत्र गत्वा कालमूलकं कलशं सर्वगन्धैर्लिप्य च श्वेतचन्दनोदकेन पूरयेत्। अष्टसहस्राभिमन्त्रितं कृत्वा निधानस्थाने स्थापयेत्। सर्वभूमिः स्फुटति। निधानं पुरुषमात्रे तिष्ठति। ग्रहेतव्यम्। पलाशसमिधानां लक्षं जुहुयात्। गोसहस्रं लभति। शेफालिकाकुसुमानां लक्षं जुहुयात्। विषयं लभति। अर्कसमिधानां लक्षं जुहुयात्। दीनारसहस्रं लभते। नवनीताहुतीनां जुहुयात्। पञ्च ग्रामां लभते। पिण्डारकपुष्पाणां लक्षं जुहुयात्। फट्टकानां चतस्रं कोटिं परिलभते। क्षीराहुतीनां लक्षं जुहुयात्। वितर्कवस्त्राणां शतं लभते। कुमुदानां लक्षं जुहुयात्। पत्नी सहिरण्यं लभते। पिण्डारकपुष्पाणां लक्षं जुहुयात्। पर्वतशिखरमारुह्य लक्षं जपेत्। यस्मिन् देशे जपति तस्मिं देशे यो राजा स पुत्रत्वेनोपतिष्ठति। श्रीकारपद्मं जुहुयात्। पद्मश्रिय आगच्छति। जयकामो नित्यं दधिं जुहुयात्। नित्यं जयो भवति। पुष्टिकामो घृतं जुहुयात्। अर्थावाप्तिर्भवति। शुचिना नित्यकालं पञ्चरात्रेण राजानं सप्तरात्रेण पिशाचां नवरात्रेण यक्षराक्षसां द्वारशरात्रेण नागराजानं अर्धमासेन गन्धर्वां अप्सरसां एकविंशतिदिवसेन देवदानवासुरगरुडकिन्नरदिव्यां चतुर्विंशतिरात्रेण सर्वगणां मासेन राजपत्नीवशीकरणासुरसमञ्जरीदधिमधुघृतानां अष्टसहस्रं जुहुयात्। वशा भवति। रक्तकरवीरकलिकानां लक्षं जुहुयात्। राजकन्यां लभते। बिल्वानां बिल्वाक्तानां लक्षं जुहुयात्। गृहे श्री उत्पद्यते। शतपुष्पाणां दध्नाक्तानां लक्षं जुहुयात्। दीनारशतं लभते। सौवर्चलिकाष्टसहस्राभिमन्त्रितां कृत्वाञ्जिताक्षः सर्वसत्त्वां वशीकरोति। गन्धां जप्य मालभेत्। सर्वसत्त्ववशीकरणम्। रूपं जप्यात्मान धूपयेत् सर्वसत्त्ववशीकरणम्। शिखां जप्य बन्धयेत्। सर्वत्र रक्षा। सर्वसत्त्वस्तम्भनम्। रण्डां वशीकर्त्तुकामः। माषां जुहुयात्। सर्वे वशिभवन्ति। यक्षिणीं वशीकर्त्तुकामः पद्मानामष्टसहस्रं जुहुयात्। त्रिरात्रेणागच्छति। अथ नागच्छति सप्तरात्रेणागच्छति। सा च वरदा भवति। यथेप्सितं मृगयेत्। कन्याकामः लक्षं जुहुयात्। ईप्सितां कन्यां लभते। अथ वेतालं साधयितुकामः अक्षताङ्गं मृतकं गृह्य श्मशाने एकवृक्षे वा चतुःपथे वा एकलिङ्गे वा सर्वभूतिकां बलिमुपहृत्य महादेवस्य दक्षिणमूर्तौ मण्डलकमुपलिप्य बलिं दत्वा स्नानाभ्यलङ्कृतं कृत्वा भस्मना मण्डलकं लिख्य तस्य मध्ये पूर्वशिरं स्थाप्य शुक्लपटप्रच्छादितसाधकः शुक्लवासससखायः दिशापालां स्थापयेत्। कृतक्षस्योपरि उपविश्य तस्य मुखे तिलसर्षपां जुहुयात्। तावद् यावत् तस्य मुखा मणिर्निर्गच्छति। तां गृह्यात्मनो मुखे प्रक्षिप्य सर्वभूतिकबलिमुपाहृत्य दक्षिणमूर्तौ स्थितः हरितालमनःशिलाञ्जनमञ्जिष्ठारोचनामेकत्रयं गृह्य अश्वत्थपत्रान्तरितां कृत्वा तावज्जपेद् यावत् त्रिविधा सिद्धिरिति ऊष्मायति धूमायति ज्वलति। ऊष्मायमाने पादप्रचारिकां पञ्चवर्षसहस्रायुर्भवति। सर्वसत्त्ववशीकरणम्। धूमायमानेऽन्तर्धानं दशवर्षसहस्रायुर्भवति। ज्वलितेन सर्वविद्याधरो भवति। सर्वविद्याधराणां प्रभुः कल्पस्थायी उपमुपरि लक्षं जपमानः पञ्चाभिज्ञो भवति। बन्ध ऊर्ध्वमधश्च दिशापालानां च। राजकुले परमवल्लभो भवति। गृहीतवाक्यश्च भवति। कन्याकामः जातीकुसुमानां अष्टसहस्रं जुहुयात्। कन्यां लभते। तरेव विकसितैः स्त्रीलाभः। सर्वग्रहमुद्रया वाचया सन्देशेन रोचनया अग्निं स्तम्भयति। नावां स्तम्भयति। आकर्षयति च दष्टमदष्टं वावेशयति। मृतकमुत्थापयति। वाचया ज्वरं प्रेषयति। क्षीरयावकाहारः लक्षं जपेत् त्रिरात्रोषितेन शुचिवाससा साधकगर्भलिङ्गे स्थाप्य महतीं पूजां कृत्वा अपरिमितं जपेत्। सर्वबालवृद्धाश्च वश्या भवन्ति। भस्मना सप्ताभिमन्त्रितेन कटकं च कुर्यात्। सर्वसत्त्वामभेद्य पानीयमष्टशतजप्तं गोषु दापयेत्। व्याधिमुपशमयति। अहोरात्रोषितः खड्गं खदिरं कृत्वा कृष्णचतुर्दश्यां श्मशाने तावज्जपेद् यावत् प्रज्वलितम् तेन गृहीतेन अप्रतिहतगतिः खड्गविद्याधरो भवति। अकुञ्चितकुण्डलकेशः कल्पस्थायी सर्वविद्याधराणां बहुमतः। अथवा चन्द्रसूर्योपरागे कृतपुरश्चरणः प्रभाते उत्थाय पटस्य पूजा कृत्वा भिक्षवो भोजयितव्या। सदक्षिणं सिद्धिं मृगयेत्। ततो वाधिकेषु कर्मसु सिद्धो भवति। दूर्वाप्रवालानां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात्। बन्धनान्मोचयति परमात्मानं च खड्गमष्टसहस्राभिमन्त्रितं कृत्वा विवरदेवकुलनगरद्वारेण वा स्थापयेत्। कपाटं भञ्जयित्वा द्वारमुत्पाटयति। सकृज्जप्तेनात्मरक्षा। क्षीराहुतिभिः स्त्रियो वशा भवन्ति। मनसा द्विमन्त्रां स्थापयति। सर्वमुद्रां स्तम्भयति। सर्वमन्त्रां चूर्णयति। असुरकन्यां वशीकरोति। सर्वगन्धाभिहुताभिशतेन कुलस्त्रियो वश्या भवन्ति। देवनिर्माल्यहोमेन देवतटिकप्रव्रजिता च वश्या भवन्ति। हृदये हस्तं दत्वा जपेत्। सर्वपापप्रनाशनं सर्वसत्त्वाकर्षणं च। शिरसि हस्तं दत्वा जपेत्। अष्टशतम्। सर्वसत्त्वस्तम्भनं पापप्रणाशनं च। बिल्वं परिजप्य सर्वसत्त्वाकर्षणः। शिखासाधने शुक्लप्रतिपदमारभ्य तावज्जपेद् यावत् सन्ध्या। ततः शिखां अष्टसहस्राभिमन्त्रितां कृत्वा भिक्षामटेत्। ब्राह्मणगृहेषु। तदा भिक्षादायिका न पश्यति तदा सिद्धो भवति। प्रथमदिवसे एकभिक्षा। यावदेवं सप्ताहम्। एकविंशतिमे दिवसेऽपुण्यवतस्यापि सिध्यति। चन्द्रग्रहे क्षीरं परिजप्य पिबेन्महारसायनं भवति। उदकचुलुकमेकविंशतिवारां परिजप्य यस्य गृहस्याभिमुखं क्षिपति दिवसानि सप्त स वशो भवति। उदकचुलुकं सप्ताभिमन्त्रितं कृत्वा यस्य नाम्ना पिबति स वशो भवति। दृष्ट्या परिजप्तया एकविंशतिवारां यं पश्यति स वशो भवति। गुग्गुलुहोमेन लक्षेण राज्यं लभति। उत्पलकुमुदपुण्डरीकादिभिः निवेद्यमानैर्हूयमानैर्वा यमिच्छति तं वशमानयति। भग्नेनाग्निप्राकारः उदके शर्कराभिर्वा शिखाबन्धः। स्वाभाविकमञ्जनं गृहीत्वा एकविंशतिजप्तेनाञ्चयेत्। सर्वजनप्रियो भवति। अञ्जनं तगरं कुष्ठं वचा पद्मकेशरं रोचना गजमदश्च अष्टसस्राभिमन्त्रितेन समालभेत्। सर्वेषां प्रियो भवति। लवणमयिं प्रतिकृतिं कृत्वा पूर्वकेन विधिना किङ्कुर्वाणा भवन्ति। नवनीतमयिं च मणिं कृत्वा चतुर्भिरश्वत्थपत्रैः प्रतिष्ठाप्य तावज्जपेद् यावदूष्मायति। दन्तैरस्पृश्य ग्रसेत्। ग्रसितमात्रे यं चिन्तयति तत् सर्वमुत्पद्यति। कामरूपी दशपुरुषबलो भवति। अशीतिवर्षसहस्राणि कृतपुरुश्चरणः पौर्णमास्यां पटस्याग्रतः त्रिरात्रोषितः सधातुके चैत्ये गन्धपुष्पादिभिः पूजां कृत्वा कुशमयं खड्गं रश्वर्थपत्रे स्थाप्य मुष्टिप्रदेशे गृह्णीयात्। जपेद् यावत् स्फुरितम्। गृहीत्वा विद्याधरो भवति। पटस्याग्रतः प्रातिहारकपक्षे त्रिःकालस्नायी त्रिचैलपरिवर्त्ती त्रिसन्ध्यं अष्टसहस्रिको जापः। यावत् पौर्णमासीति। अन्ते त्रिरात्रोषितः सङ्घाटिकां साधयेत् सर्वगन्धैः प्रलिप्य अष्टसहस्रघृतप्रदीपां प्रज्वाल्य पर्यङ्कोपविष्टः गन्धैर्मण्डलकमृपलिप्य तस्योपरि सङ्घाटिं प्रतिष्ठाप्य वामहस्तेनाक्रम्य तावज्जपेद् यावदुत्पतति। सप्ततालमात्रे तिष्ठति। अनेनैव मन्त्रेण सर्वबुद्धबोधिसत्त्वेभ्यो नमस्कृत्वा ग्रहीतव्यः। गृहीतमात्रेण विद्याधरो भवति। सर्वदेवनागयक्षगरुडकिन्नरमहोरगादयः प्रणामं कुर्वन्ति। पटस्याग्रतः विविधा बलिं निवेद्य उदारां पूजां कृत्वा पद्मपत्रे रोचनां स्थाप्य पर्यङ्कोपविष्टस्तावज्जपेद् यावत् त्रिविधा सिद्धिः। ऊष्मायमाने सर्वसत्त्ववशीकरणं वर्षसहस्रं जीवति। धुमायमाने वर्षकोटीसहस्राणि जीवति। योजनसहस्रं गच्छति। तामेवागच्छति। अश्रान्तः सर्वसिद्धानां मनसान्तर्धीयते। मनसाहारमुत्पादयति। अथ ज्वलतिं उदितादित्यवर्णतः द्विरष्टवर्षः आकुञ्चितकुञ्चितकुण्डकेशः कल्पस्थायी अनेकविद्याधरशतसहस्रपरिवारः यत्रेच्छति तत्र गच्छति। कृतपुरश्चरणः स्रग्दामचलनं दीपशिखावर्धनं रश्मिनिश्चरणं पटप्रकम्पश्च। एतां दृष्ट्वा यं साधयति तं सिध्यति। पापक्षयं च भवति। देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगां वशीकर्तुकामः पटस्याग्रतः खदिराङ्गारैरग्निं प्रज्वाल्य लवणतिलसिद्धार्थकां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् त्रिसन्ध्यं सप्तरात्रम्। वश्या भवन्ति। उदकभस्मसर्षपान्यतमं अष्टसहस्राभिमन्त्रितं कृत्वा चतुर्दिशं क्षिपेत्। मण्डलबन्धः कृतो भवति। क्षीराहुतीनामष्टसहस्रं जुहुयात्। व्याधिना प्रमुच्यते। अन्नार्थी अन्नं जुहुयात्। पर्वतशिखरमारुह्य भिक्षाहारः लक्षत्रयं जपेत्। अन्ते त्रिरात्रोषितः अश्वत्थकाष्ठैरग्निं प्रज्वाल्य तिलानां दधिमधुघृताक्तानां कृत्स्नां रात्रिं जुहुयात्। राजा भवति। तिलघृतहोमेन सर्वार्था सिध्यन्ति मधुं जुहुयात्। सर्वजनप्रियो भवति। घृतं जुहुयात्। तेजस्वी भवति क्षीरं जुहुयात्। शान्तिर्भवति। दधिं जुहुयात्। पुष्टिर्भवति। सिन्दु वारकाष्ठैरग्निं प्रज्वाल्य सर्वपाकस्याग्रं जुहुयात्। यथासिद्धमन्नमक्षय भवति। यमिच्छति पट्टबन्धं लभति। निम्बपुष्पाणां लक्ष जुहुयात् सर्वजनप्रियो भवति। अक्षतशालितन्दुलानां लक्ष जुहुयात् ग्रामं लभति। अशोककाष्ठैरग्निं प्रज्वाल्य शतसहस्रं जुहुयात्। एकप्रदेशे राज्यं लभते। पटस्याग्रतः अगरुधूपं दहता लक्षमेकं जपेत्। ततस्तस्य राजगृहं स्वाधीनं भवति। भिक्षाहारो हविष्याहारो वा एकूनपञ्चाशलक्षाणि जपेत्। पृथिवीराज्यं लभते। क्षीरयावकाहारो भूत्वा अष्ट लक्षं जपेत्। श्वेतसर्षपाणां लक्षं निवेदयेत्। सामन्तराज्यं लभति। दूर्वाप्रवालानां शतसहस्रं जुहुयात्। दीर्घायुर्भवति। आम्रपत्राणां क्षीराक्तानां शतसहस्रं जुहुयात्। सर्वव्याधिभ्यो मुच्यते। सर्वव्रीहिमेकस्थ कृत्वा शतसहस्रं जुहुयात्। सर्वव्रीहयः अक्षया भवन्ति। मधूककाष्ठाना शतसहस्रं जुहुयात्। अर्थमुत्पद्य(ते)। मनःशिला हरितालं दंशरोचना समीकृत्य पटस्याग्रतः अष्टसहास्राभिमन्त्रितं कृत्वा बोधिवृक्षकाष्ठपत्रै स्थाप्य जपेत्। सिद्धो भवति। यस्य स्त्रिया पुरुषस्य वा दीयते। स वश्यो भवति। घृताहुतीनां शतसहस्रं जुहुयात्। ग्रामत्रयं लभते। कोटिं जपेत्। शतपरिवारः विद्याधरो भवति। लक्षमेकं जपेत्। मृष्टान्नपान मयाचितं लभते। सप्तद्वीपाधिपो वशमागच्छति। अर्कसमिधानां लक्ष जुहुयात्। पट्टबन्धो भवति। अपामार्जनेनाक्षिरोगमपनयति। ज्वरितस्य कुशैरपामार्जनम्। कन्याकर्तृतसूत्रकं शतजप्तं बध्नीयात्। सुभग भवति। अञ्जनं साधयितुकामः सौवीराञ्जनं पलं गृह्य अग्निना स गन्धं कृत्वा अञ्जनापरिकर्म शोधयित्वा चन्द्रग्रहे उदकं प्रविश्य तावज्जपेद् यावत् कूष्माण्डो भवति। तत्क्षणात् स्फुटति। स्फुटित मात्रेणास्य वर्णस्य तेजस्वी भवति। कुण्डलमकुटधरः सर्वविद्याधराणां अवध्यः अप्रतिहतगतिः सपरिवारः उत्पतति। पञ्चवर्षसहस्राणि जीवति। पद्मानामुत्पलानां वा लक्षं जुहुयात्। सुवर्णसहस्रं लभति। पलाशसमिधानां शतसहस्रं जुहुयात्। सुवर्णसहस्रं लभते। त्रिरात्रोषित क्षीरयावकाहारः साधयेत्। मनःशिलां पलमेकं गृह्य सप्ताश्वत्थपत्राणां उपरि स्थाप्य तावज्जपेत् यावत् प्रज्व(ल) ति। कायं विदारयित्वा प्रक्षिपेत्। तत्क्षणादेव स उद्गच्छति। स विद्याधरो भवति। सर्वदेवनागयक्षाप्रतिहतदिव्यविमलश्रोत्रमनोजवः उदितादित्यवर्णः सर्वविद्याधरबहुमतः दिव्यगतिः विद्याधरः शतपरिवारः। पटस्याग्रतः गन्धपुष्पै उदारां पूजां कृत्वा क्षीरयावकाहारः शुचिवस्त्रनीवसनः यं यं प्रार्थयते तं लभन्ते। चन्द्रग्रहे बोधिवृक्षस्याधस्तात् गन्धपुष्पधूपैश्च पूजां कृत्वा मनःशिलां रोचनां एकविंशतिवारां परिजप्य शिरस्योपरि मार्जयेत्। ललाटे तिलकं कुर्यात्। राजकुलं प्रविशेत्। राजवल्लभो भवति। पद्मबीजानां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात्। यस्य नामं ग्रहाय स वशो भवति। ब्रह्मचारी जितेन्द्रियः अगुरुतुरुष्कहोमं कुर्यात्। पूर्णमास्यां चतुर्भिः कलशैरुदकपरिपूर्णैरष्टसहस्राभिमन्त्रितै राजानं राजमात्रं वा स्नापयेत्। श्रीमां भवति। असाध्यमानायाः क्षीरसमिद्भिरग्निं प्रज्वाल्य विद्यानां दधिमधुघृतानां शतसहस्रं जुहुयात्। रक्तोत्पलनीलोप्तलानां वा जातीपुष्पैर्वा होमः। पटस्याग्रतः क्षीरयावकाहारः वर्धमानाः पूजा कार्या। भिक्षवो भोजयितव्या। अनेन कर्मणा असाध्यमानापि सिध्यति। अर्थकामः अपामार्गसमिधाभिर्होमं धनं लभते। घृतहोमेन शान्तिकपौष्टिकम्। दधिमधुघृताक्तैः पद्मैः घृतगुग्गुलुहोमो वा अ(ष्ट)सहस्रम्। एवं सर्वार्थाः सिध्यन्ति। कृष्णव्रीहि यस्योद्दिश्य परिजप्य हूयते स वश्यो भवति। अपामार्गसमिधाभिर्वशीकरणम्। पटस्याग्रतः बिल्वकाष्ठैरग्निं प्रज्वाल्य अगरुसमिधानां शतसहस्रं जुहुयात्। सर्वार्थां ददाति। सधातुके चैत्ये दशसहस्राणि जुहुयात्। राज्यं लभति। पद्मलक्षहोमेन महाभोगो भवति। सर्वेषां होमानां गन्धपुष्पधूपनैः पूजां कृत्वा होममारभेत्। बिल्वसमिधानामष्टशतेनाग्निं प्रज्वाल्य दधिमधुघृताक्तानां बिल्वसमिधानामष्टसहस्रं जुहुयात्। यमिच्छति स वशो भवति। क्षीरकाष्ठैरग्निं प्रज्वाल्य अगरुसमिधानां शतसहस्रं जुहुयात्। सर्वार्थां ददाति। सधातुके चैत्ये गन्धपुष्पधूपैः पूजां कृत्वा प्रागुत्थितः शुचिर्भूत्वा अग्निं प्रज्वाल्य नागकेसरप्रियङ्गु अष्टसहस्रं जुहुयात्। मासाभ्यन्तरेण द्रव्यं लभति। वैकङ्कतसमिधानां दधिमधुघृताक्तानां पलाशकाष्ठैरग्निं प्रज्वाल्य जुहुयात्। सुवर्णसहस्रं लभति। उदुम्बरकाष्ठैरग्निं प्रज्वाल्य वाषकसमिधानां दधिमधुघृताक्तानां शतसहस्रं जुहुयात्। शतसहस्राभिमन्त्रितं कृत्वा हस्ते बद्ध्वा युद्धेऽपराजितो भवति। शिरसि बद्धेनादृश्यो भवति। कृष्णपञ्चम्यां नदीं गत्वा श्वेतपुष्पाणां अष्टसहस्रं प्रवाहयेत्। यावदष्टाशीतिदीनारसहस्रं लभते। कुन्दुरुकश्चाप्येष कर्मः। बिल्वश्चाप्येष कर्म। भोगांश्च ददाति। कृष्णपञ्चम्यां पटस्याग्रतः अहोरात्रोषितेन शुक्लनन्तके गोरोचनां स्थाप्य तावज्जपेद् यावत् त्रिविधा सिद्धिः। पादप्रचारिके सप्तवर्षसहस्राणि जीवति। ज्वलिते कल्पस्थायी भवति। सर्वरोगचिकित्सनम्। मृत्तिकया बन्धनमोक्षणं मण्डलबन्धः। पद्मानां पटस्याग्रतः अष्टसहस्रं जुहुयात् त्रिसन्ध्यं दिवसानि सप्त। निधानं पश्यति। पटस्याग्रतः दधिमधुघृताक्तानां शतपुष्पाणां शतसहस्रं जुहुयात्। विषयं लभति। घृताहुतीनां शतसहस्रं जुहुयात्। पञ्चग्रामां लभति। अर्कपुष्पाणां अष्टसहस्रं जुहुयात्। रूपकसहस्रं लभति। जप्यमानस्य सर्वं प्रयच्छति। वर्जयित्वा कामोपसंहितम्। कृष्णचतुर्दश्या रात्रोषितः रात्रौ आर्यमञ्जुश्रियस्याग्रतः निर्माल्य दधिमधुघृताक्तानां दशसहस्राणि जुहुयात्। महतीं श्रियं लभते। बोधिवृक्षस्याधस्ताद् बोधिवृक्षसमिधानामष्टसहस्रं जुहुयात्। रूपकसहस्रं लभते। जातीपुष्पाणामष्टसहस्रं जुहुयात् त्रिसन्ध्यं सप्तरात्रम्। सुवर्णसहस्रं लभते। एते कर्म त्रिरात्रोषितेन बोधिवृक्षस्याधस्तात् क्षीरसमिद्भि अग्निं प्रज्वाल्य गुग्गुलुगुलिकानां कर्पासास्थिप्रमाणानां अष्टसहस्रं जुहुयात्। दीनारसहस्रं लभति। अक्षिरोगज्वरगुल्मशिरोगृध्रसीनां परिजप्य दातव्यम्। वृकव्याघ्रमहिषद्वीपहस्तिरिक्षचोरसर्पपिशाचभूतब्रह्मराक्षसानां जलचराणां सर्वभयोपद्रवेभ्यः अनेनैव रक्षा कर्त्तव्या। पद्मसरं गत्वा पद्मानां लक्षं निवेदयेत्। सामान्यराज्यं लभति। कृतपुरश्चरणः मनःशिलां गृह्य मानुषक्षीरेण पीषयित्वा सहस्रसम्पाताहुतिं कृत्वा पोषधिकः पञ्चगुलिकां कृत्वा आगरुमये समुद्गके प्रक्षिप्य श्वेतसिद्धार्थकसहितानां चन्द्रग्रहे सूर्यग्रहे वा बलिविधानं कृत्वा पटस्याग्रतः समुद्गके स्थाप्य तावज्जपेत् यावत् सर्षपा चिटिचिटायन्ति। तदा सर्वसत्त्ववशीकरणं करोति। यदि धूमायति सर्वान्तर्धानिकानां राजा भवति। अनन्तकल्पं जीवति। अथ प्रज्वलति, तदा देवकुमारः उदितादित्यसमप्रभः महाकल्पस्थायी विद्याधरराजा भवति। रोचनहरितालादीनि एतेनैव विधानेन साधयितव्यानि। सर्वेषां त्रिविधा सिद्धिः। शान्तिं कर्तुकामेन याज्ञिकैः समिद्भिरग्निं प्रज्वाल्य परमान्नमष्टसहस्रं जुहुयात् त्रिरात्रम्। शान्तिर्भवति। आत्मनः परस्य वा सप्तरात्रेण ग्रामस्य नगरस्यानावृष्टौ त्रिमधुरं जुहुयात्। शङ्खध्वजादीनि अभिमन्त्र्य कर्मं क्षपयति। सप्ताहेन पञ्चानन्तर्याणि क्षपयति। सर्वकर्मसमर्थश्च भवति। विद्याबन्धः सूत्रकेणैकविंशतिजप्तेन ग्रन्थिः कर्तव्यः। सर्षपैर्मण्डलबन्धः। चन्द्रग्रहे सूर्यग्रहे वा चन्दनेन मण्डलकमुपलिप्य घृतमधु आमलकीरसं समभागानि ताम्रभाजने स्थाप्य पर्यङ्कं बद्‍ध्वा तावज्जपेद् यावदूष्मायति। तं पीत्वा श्रुतिधरो भवति। पोषधिको विकाले उदकचुलकं सप्तवारां परिजप्य पातव्यम्। यं चिन्तयित्वा करोति स्वप्नान्तरे कथयति। श्वेतवचां सप्तवारां परिजप्य मुखे दन्तान्तरे प्रक्षिप्य यं याचति तं लभते। उत्तरवादी भवति। यं यमेव भावं मनसि कृत्वा जपति तं तथागतस्य पुरतः पुष्पगन्धादीन् दत्त्वा दिशाबलिं च चतुर्दिशं क्षिपेत्। ततः कुशविण्डकोपविष्टः अष्टसहस्रं जपेत्। सर्वाशां परिपूरयति। वल्मीकमृत्तिकया सिंहं कृत्वा गोरोचनया समालभ्य पटस्याग्रतः कृतपुरश्चरणः पिण्डकां कृत्वा स्थाप्य लक्षत्रयं जपेत्। ततश्चलति। चलितमात्रे चसिद्धो भवति। तत्क्षणादेव मन्त्रं जपता सिंहमभिरुह्यतव्यम्। आकुञ्चितकुण्डलकेशः द्विरष्टवर्षाकृति आत्मषोडशमः उत्पतति। सर्वविद्याधराणां आगम्य ब्रह्मायुष्यः मृतश्च देवेषूपपद्यते। दृष्ट्वा श्रुत्वा परसैन्यं स्तम्भयति। सर्वव्रीहिगन्धोदककलशं परिपूर्णं कलशं आम्रपल्लवमुखप्रच्छादितं कृत्वा अष्टसहस्राभिमन्त्रितेन विनायकं स्नापय। क्षिप्रं मुञ्चति। गुर्विणीं स्नापयेत्। सुखेन प्रसूयति। बालकं स्नापयेत्। सर्वग्रहैर्विमुक्तो भवति। अनेनाभिषेकेण या परिमुक्ता भवति। साधनसमश्च भवति। महासामन्तवशीकरणे पटस्याग्रतः अर्कसमिधानां दधिमधुघृताक्तानामष्टसहस्रं जुहुयात् सप्तरात्रं त्रिसन्ध्यम्। सपरिवारो वशीभवति। राजकन्यायै प्रियङ्गुकुसुमानां अष्टसहस्रं जुहुयात् सप्ताहा यस्य दीयते। पिण्याकाष्टसहस्रं जुहुयात् त्रिसन्ध्यं सप्तरात्रम्। पुरस्थं वशमानयति। कृतपुरश्चरणः सधातुके चैत्ये लक्षं जप्ते भिक्षाहारः। ततः कृष्णचतुर्दश्यां एकरात्रोषितः पटस्य यथाविभवतः पूजां कृत्वा कृष्णतिलानां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात्। ततः प्रभाते ग्रामं लभते। द्वादश। असिद्धे कर्माणि सहस्रपिण्डं ग्रामं लभते। कृतपुरश्चरणः नदीतटे पश्चाभिमुखं पटं प्रतिष्ठाप्य उदकसक्तवाहारः यथाविभवतः पूजां कृत्वा घृतप्रदीपां एकविंशतिप्रदीपां प्रज्वाल्य बहिः सार्वभूतिकाः बलिं निवेद्य पर्यङ्कोपविष्टः तावज्जपेद् यावदरुणो देवपुत्र आगच्छति। तं वरं ददाति। वटवृक्षस्याधस्ताद् भिक्षाहारो मासत्रयं जपेत्। ततः कृष्णचतुर्दश्यां गोचर्ममात्रं स्थण्डिलकमुपलिप्य सर्वरसिकं बलिं निवेद्यम्। बहिः सर्वभूतिकं बलिं दत्त्वा ततः कुशविण्डकोपविष्टः निर्धूमाङ्गारेषु गुग्गुलुगुलिकानां बदरास्थिप्रमाणानां अष्टसहस्रं जुहुयात्। ततः पटवासिनी यक्षिणी आगच्छति। तस्या गन्धोदकेनार्घो देयः। सा ब्रवीति ‘किं करोमीति’ माता भगिनी सखी एषामेकतमं ग्राह्यम्। रसरसायनं ददाति। तं भक्षयित्वा कल्पायुर्भवति। यक्षबलो भवति। कृतपुरश्चरणः सधातुके चैत्ये यथाविभवतः पूजां कृत्वा त्रिःकालस्नायी तृसन्ध्यं षण्मासां अपरिमितो जापः। भिक्षाहारः क्षीरयावकाहारो वा। ततः साधनं समारभे। कृष्णपक्षे पुष्यनक्षत्रे करवीरिकां मनःशिलां वीरक्रयक्रीतां गृह्य पञ्चगव्येन संशोध्य ब्राह्मणकन्यां वामोषधं दत्त्वा स्नानालङ्कृतां कृत्वा पूर्वाभिमुखे प्रविश्य तिथिकरणमुहूर्तेन पीषयेत्। अनामिकाङ्गुल्या विषमां बदरास्थिप्रमाणां गुलिकां कृत्वा अश्वत्थसमुद्गके प्रक्षिप्य पटस्याग्रतः सहस्रसम्पाताभिहुतं कृत्वा सप्तरात्रोषितं च अन्ते शुक्लपक्षे उदारां पूजां कृत्वा उदारतरीं बलिं निवेद्य गन्धपुष्पधूपार्चितं समुद्गकं कृत्वा चतुर्भिरश्वत्थपत्रै स्थाप्य त्रिभिराच्छाद्य हस्तेनावष्टभ्य सर्वबुद्धबोधिसत्त्वानां नमस्कारं कृत्वा कुशविण्डकोपविष्टः तावज्जपेद् यावद् रसरसायनादीनि द्रव्यानि ददन्ति। पुनरपि निर्गच्छति। अर्धं रत्न त्रयोपयोगाय कार्यम्। अथ तत्रैव तिष्ठति। न वैष्णवचक्रभयं भवति। भगवन्तं मैत्रेयं पश्यति। प्रणिधिं कृत्वा प्रवेष्टव्यम्। सर्ववारणम्। शुचिस्थाने पांसुगृहं सर्षपस्योपरि क्षिपेत्। सर्ववारणं कृतं भवति। अतियातिमिच्छति। वक्तव्यं ‘गच्छस्वे’ति। वस्त्रकर्णके मृण्मयीं मुद्रां कृत्वा अष्टसहस्राभिमन्त्र्य दष्टकोपरि स्थापयित्वा आकर्षयेत्। मृतकोऽप्युत्तिष्ठति। द्रव्याणां च मनःशिलादीनां खड्गचक्रमुसुण्ड्यादीनां पञ्चगव्येन शोधयित्वा सहस्रसम्पाताहुतिं कृत्वा अन्यतमं द्रव्यं गृह्य पूर्णमास्यां साधनमण्डलं लिख्य वस्त्रोपरि द्रव्यं स्थाप्य पर्यङ्कोपविष्टः तावज्जपेद् यावत् सिद्धिर्भवति। फलके यमिच्छति द्रव्यं तस्य तस्य नामं लिख्य अष्टसहस्राभिमन्त्रितं कृत्वा यत्र नागस्तिष्ठति तत्र ह्रदे क्षेप्तव्या। तस्य नागः सर्वं सम्पादयति। सप्ताहेन नियतं वस्तुं सम्पादयति। कूपे ह्रदे वाभिलषितव्यं नामं लिख्य द्रव्यादीनां फलके तथैव ह्रदे क्षेप्तव्यम्। ततः पुरुष उदके निमज्जयितव्यम्। स तस्मिं महान्तं शब्दं शृणोति। ‘अमुकस्मिन् प्रदेशे द्रव्यादिकं तिष्ठति’। ततो ग्रहेतव्यम्। नदीसन्तारकादौ दशषु च सभायां राजकुले वा विवादे वा स्मर्तव्यम्। सर्वत्रापराजितो भवति। यमिच्छति वशं कर्तुम् तस्य मुखे आर्यमञ्जुश्रियं ध्यात्वा किञ्चित् सम्भाषणं कुर्यात्। अचिराद् वशो भवति। उदकं भाजने कृत्वा आर्यमञ्जुश्रियं ध्यायीत। तेन पानीयेनाष्टसहस्राभिमन्त्रितेन दष्टं सञ्चिन्तयेत्। निर्विषो भवति। तत्रोक्तेन विधानेन मण्डलं प्रविष्ट सम्पूर्णस्य वृषस्य अपतितगोमयं गृह्य हविष्याहारः समौनी मण्डलं कृत्वा तावज्जपेत् पौर्णमास्यां आरभ्य यावत् तृतीयमपि लक्षं जपेत्। ब्रह्मचारी षण्मासां व्रतमेतच्चरेत्। मासेनात्र सिद्धिः। षड्भिर्मासैः कृष्णं जगत् प्रत्यक्षं भवति। शरीरेणापि परां सिद्धिमवाप्नोति। समासेन सर्वमन्त्रं साधयति॥

महाकल्पराजात् आर्यमञ्जुश्रीमूलकल्पात् (पञ्चपञ्चाशत्तमो) हेमसाधनपटलः विसरः परिसरः परिसमाप्तः॥

परिसमाप्तं च यथालव्धमार्यमञ्जुश्रियस्य कल्पमिति॥

स्वस्ति श्रीराजमङ्गलकावस्थितेन मार्गशीर्षशुक्ला + + + पदानक्षत्रे सिंहस्थेऽपि गुरौ मञ्जुश्रीकल्पं समाप्तमिति। श्रीमूलघोषविहाराधिपतिना श्रीबो + + + मध्यदेशाद् विनिर्गतेन पण्डितरविचन्द्रेण लिखितमिति। + +।

शुभं भूयात्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project