Digital Sanskrit Buddhist Canon

अथ चतुःपञ्चाशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Atha catuḥpañcāśaḥ paṭalavisaraḥ

अथ चतुःपञ्चाशः पटलविसरः।



अथ भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। अयं मञ्जुश्रीः धर्मपर्यायः। अस्मिं स्थाने प्रचरिष्यति। तत्राह स्वयमेवं वेदितव्यः। सर्वबोधिसत्त्वगणपरिवृतः श्रावकसङ्घपुरस्कृतः सर्वदेवनागयक्षगरुडगन्धर्वकिन्नरमहोरगसिद्धविद्याधरः मानुषामानुषैः परिवृतो विहरेऽहं वेदितव्यः। तथागतोऽत्र रक्षावरणगुप्तये तिष्ठतीति। दशानुशंसा मञ्जुश्रीः कुमार वेदितव्यः। यत्र स्थानोऽयं धर्मकोशस्तथागतानां पुस्तकगतो वा लिख्यति वाचयिष्यति धारयिष्यति सत्कृत्य मनसिकृत्य विविधैश्चामरणपूर्णच्छत्रध्वजपताकाघण्टाभिर्वाद्यमाल्यविलेपनैर्धूपगन्धैश्च सुगन्धिभिः पूजयिष्यति मानयिष्यति सत्करिष्यति एकाग्रमनसो वा चित्तं धत्से। कतमे दश। न चास्य परचक्रभय दुर्भिक्षो वा। न यास्य तत्र महामार्योपद्रवं भवति; अमानुषभयो वा। न चास्याग्निभयं भवति सर्वप्रत्यर्थिकभयो वा। न चास्य तत्रानावृष्टिभयं भवति अतिवृष्टिभयो वा। न चास्य तत्र महावातमण्डलीभयं भवति सर्वक्रव्यादभयो वा। न चास्य शक्रभयं भवति सर्वधूर्त्ततस्करभयो वा। न चास्य मृत्युभयं भवति; यमराजोपनीतभयं वा। न चास्यासुरभयं वा भवति, सर्वदेवनागयक्षगन्धर्वासुरभयो वा। न चास्य मन्त्रभयं भवति, सर्वगरविषभयं वा। न चास्य रोगभयं भवति ज्वरातीसारजीर्णाङ्गप्रत्यङ्गभयो वा। इमे दशानुशंसा वेदितव्या, यत्रायं महाकल्पविशरे धर्मकोशस्तथागतानां पुस्तकगतो तिष्ठेत, लिखनवाचनपूजनधारणस्वाध्यायानां वा कुर्मः।



गुह्यतमोऽयं धर्मकोशस्तथागतानां मन्त्रानुवर्तनतया पुनरेषां सर्वतः आचार्यसमयानुप्रविष्टानाम्। असमयज्ञानां न प्रकाशितव्यः। यत् कारणम्। रहस्यमेतत्। गुह्यवचनमेतत्। सर्वज्ञवचनमेतत्॥



मा हैव सत्त्वा प्रतिक्षेप्स्यन्ते, अवज्ञस्यन्ति, न पूजयिष्यन्ति, न सत्करिष्यन्ति, महदपुण्यं प्रसविष्यन्ते, गुह्यनिवरण- सत्त्वोपघातननृपतिसूचन आयुःप्रमाणोपघातोपसर्गिकक्रियां करिष्यन्तीति न परेषामारोचयितव्यं च। समयरहस्यगुह्यमन्त्रचर्यानुप्रविष्टानां सत्त्वानां तथागतशासनशिक्षाया सुशिक्षितानां सुव्यवस्थितानां धर्मार्थकोविदामायतनधातुसमयानुप्रवेशधर्मस्थितानां सत्यसन्धानां दृढव्रतमन्वागतानां सत्त्वचर्यामार्गानुप्रविष्टकारुणिकानामेतेषां सत्त्वानामारोचयितव्यम्; न परेषामिति॥



अथ खलु मञ्जुश्रीः कुमारभूतो बोधिसत्त्वोत्थायासनादेकांशमुत्तरासङ्गं कृत्वा, दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य, कृतकरतलाञ्जलिपुटो भगवन्तमेतदवोचत्। को नामायं भगवन् ! धर्मपर्यायः, कथं चैनं धारयाम्यहम्॥



भगवानाह - सर्वबोधिसत्त्वविस्फूर्जनबोधिसत्त्वपिटक इत्यपि धारय। आश्चर्याद्भुतधर्मोपदेशपरिवर्त्त इत्यपि धारय। सर्वमन्त्रकोशचर्यानुप्रविष्टबोधिसत्त्वनिर्देश इत्यपि धारय। महायानवैपुल्यनिर्देशाद्भुत् इत्यपि धारय। आर्यमञ्जुश्रियमूलकल्प इत्यपि धारय। सर्वधर्मार्थपूरणनिर्देश इत्यपि धारय इति॥



सर्वलोकां समग्रां वै धर्माधर्मविचारकाम्।

विचेरुः सर्वतो यस्त्वं बोधिसत्त्वो महर्द्धिकः॥

न पश्यसे परं गुह्यमेतं धर्मवरं वरम्।

मन्त्रतन्त्रार्थसूत्राणां गतिदेशनिरत्ययम्॥

न पश्यसे वरं वीर ! धर्मबोधिपरायणम्।

यादृशोऽयं गुह्यसूत्रं नेयार्थभूषितम्॥

विविधाकारसूत्रार्त्थाः मन्त्रतन्त्रानुवर्तनम्।

न भूतं विद्यते कश्चिद् यः कल्पविसरादिह॥

महाराज्ञां महाभोगां सम्पदांश्च दिवौकसाम्।

प्राप्नुयात् पुष्कलां कीर्त्तिं दिव्यां मानुषिकां तथा॥

अक्षाणां वर्जयेदष्टां क्षणांश्चैव सम्भावयेत्।

बुद्धत्वं नियतं तस्य त्रिधा जनगतिस्तथा॥

इदं सूत्रं धारणात् पुण्य अनुशंसा स्यादिमे तथा।

न चास्य सर्वकाये वै न विषं न हुताशनम्॥

न वेताडा ग्रहाश्चैव न पूतना मातरा हि ये।

तेन चोरराक्षसा॥

पिशाचा वास्य हिंस्येयुः यस्त सूत्रमिमं पठेत्।

धारयेद्वापि पूजयेद् वा न पुनः पुनः विविधा॥

वाद्य पूज्य पूज इषु पूजयेद् वा विशरदः।

स इमां लभते मर्त्यो मनुशंसामिहोदिता॥

आतुरो मुच्यते रोगान् दुःखितो सुखिनो भवेत्।

दरिद्रो लभते अर्थान् बद्धो मुच्येत बन्धनात्॥

पतितः संसारदुःखेऽस्मिन् गतिं पञ्चकयोजितम्।

क्षेमं शिवं च निर्वाणं प्राप्नुयादचलं पदम्॥

प्रत्येकबोधिबुद्धत्वं श्रावकत्वं च नैष्ठिकम्।

इदं सूत्रं वाचयित्वा लभते बुद्धवर्तिताम्॥

गङ्गासितताप्रख्यानामनन्त्यं जिनवरास्तथा।

पूजित्वा लभते पुण्यं तत्सर्वमिदं सूत्रं पठनादिह॥

यावन्ति केचिल्लोकेऽस्मिन् क्षेत्रकोटिमचिन्तकाः।

तावन्तु परमाण्वाख्यां बुद्धानां पूजयेत् सदा॥

विविधा अन्नपानैश्व ग्लानप्रत्ययभेषजैः।

विविधासनशय्यासु दद्युः सर्वतः सदा॥

चीवरैर्विविधैश्चापि चूर्णचीवरभूषणैः।

छत्रोपानहपटैः सुगन्धमाल्यविलेपनैः॥

धूपनं विविधैर्वापि दीपैश्चापि समन्ततः।

तत् पुण्यं प्राप्नुया जन्तुर्धारणाद् वाचनादिदम्॥

प्रत्येकबुद्धजे लोके श्रावका सुमहर्द्धिकः।

बोधिसत्त्वा महात्मानो दशभूमिस्थिता पराः॥

तत्प्रमाणाद् भवेत् सर्वे तेषां पूजां तथैव च।

तत् पुण्यं प्राप्नुयान्मर्त्य यस्य पुस्तक गतं करे॥

यावन्ति लोके कथिता लोकधातुसमाशृता।

सर्वसत्त्वा समाख्यातास्ते सर्वे विगतज्वराः॥

तेषां च पूजा सत्कृत्य कश्चि जन्तु पुनः पुनः।

तत् पुण्यं प्राप्नुयाद्धीमां पूजेत्वा धर्मपरमिमम्॥

न शक्यं कल्पकोट्यैस्ते रत्नै जिनवरैः सदा।

पूजये लोकनाथानां धर्मकोश इमं वरम्॥

चिन्तामणि च रत्नार्थमिमं धर्मवरं भवेत्।

पठनाद् धारणान्मन्त्रा कल्पेऽस्मिन् मञ्जुभाणिते॥

भवेत् कामदुहं तस्य महाभोगार्थसम्पदः।

अखिन्नमनसो भूत्वा यो इमां साधयेत् भुवि॥

मन्त्रान् तत्त्वार्थनेयार्थं सफला मुनिभाषिता।

कृयाकालसमायोगात् साधयेद् विद्यधरां भुवि॥

तस्य सर्वदिशा ख्याता प्रपूर्णा रत्नसम्पदः।

सफला गतिमाहात्म्या वर्णिता साधुवर्णिता॥

योऽस्मान् कल्ववरा ह्येकं मन्त्रं धारये नृप।

सफला राजसम्पत्ति दीर्घमायुष्यसम्पदाम्॥

विविधा भोगचर्या वा प्राप्नुयां नृपवरोपराम्।

न चास्य हन्यते शस्त्रैर्न विषैः स्थावरजङ्गमैः॥

परविद्याकृतैश्चापि मन्त्रं वेताडसाधनम्।

दूषितैर्वसुधालोके परकृत्यपरायणे॥

न हुताशनभयं तस्य ना वैरग्रहापरैः।

कायं न हन्यते तस्य नृपतेर्वा जन्तुनोऽपि वा॥

य इमं सूत्रवराग्रं तु धारयेद् वाचयेत् तथा।

राजा च कृतया मूर्ध्नां सङ्ग्रामे समुपस्थिते॥

छत्रं शिरसि मावेद्य नमस्कुर्यात् पुनः पुनः।

न तस्य दस्यवो हन्युर्नानाशस्त्रसमुद्यताम्॥

हस्तिस्कन्धसमारूढं कुमाराकारसम्भवम्।

मयूरासनसुस्तं सङ्ग्रामे अवतारयेत्॥

दृष्ट्वा तं विद्विषः सर्वे निवर्तन्तेयुस्ते परे जनाः।

बालरूपं तथा दिव्यकुमारालङ्कारभूषितम्॥

सौवर्णं राजतं वापि रागत्यध्वजपूजितम्।

आरोप्य ध्वजपताकेषु सुन्यस्तं सुसमाहितम्॥

सङ्ग्रामं रिपुसङ्कीर्णं नानाशास्त्रसमुद्यतम्।

युधि प्राप्तं समस्तं वै तस्मिं कालेऽवतारयेत्॥

नश्यन्ते दृष्टमात्रं वै मुह्यन्ते वा समन्ततः।

मानुषामानुषाश्चापि नृपाश्चापि सुरेश्वराः॥

सिद्धविद्याधराश्चापि मन्त्रतन्त्रसमाश्रिताः।

राक्षसा सत्त्ववन्तोऽपि कटपूतनामातरा॥

क्रव्यादा विविधाश्चापि यक्षकूष्माण्डपूतना।

न शक्यन्ते दृष्टमात्रं वै ध्वजमुच्छ्रितसंस्थितम्॥

कुमारं विश्वकर्माणमनेकाकाररूपिणम्।

मञ्जुघोषं महात्मानं दशभूम्याधिपतिं पतिम्॥

महाराजा क्षत्रियो लोके भूपालो भूनिवासिनः।

श्राद्धो विमतिसन्देहः विगतो धर्मवत्सलः॥

उत्पाद्य सौगतीं शुद्धां करुणाविष्टमानसाम्।

प्रक्रमुः सन्धिकामो वै क्रियामेतामिहोदिताम्॥

निर्दिष्टं प्रवचने ह्येता धर्मधातुगतैर्जिनैः।

कल्पं प्रयोगं मन्त्राणां तन्त्रयुक्तिमभूतले॥

असङ्ख्यैर्जिनवरैः पूर्वं धर्मधातुसमाशृतैः।

कथितं धर्मकोशं तु मानुषा तु भूतले॥

देवासुरे पुरा युद्धे वर्तमाने भयावहे।

तदा पुरो ह्यासीत् हतसैन्योऽथ विद्विषैः॥

एकाकिनस्तदा सत्त्वा विरथश्चैव महीतले।

मुनिश्रेष्ठे तदा पृच्छेत् काश्यपं तं जिनोत्तमम्॥

किं कर्त्तव्यमिति वाक्यमाजहार शचीपतिः।

निर्जितोऽसुरैर्घोरैरहमत्र समाशृतः॥

एवमुक्तः मघवां शतक्रतुर्दिवौकसः।

प्रणम्य शिरसा मूर्ध्नि पादयोर्मुनिवरे तदा॥

निषसेदु पुरा ह्यासीत् कौशिकोऽथ सहस्रदृक्।

एवमुक्तो मुनिश्रेष्ठः काश्यपो ब्राह्मण अभूत्॥

आजहार तदा वाणिं कलविङ्करुतस्वनाम्।

पूर्वं जिनवरैर्गीतं कुमारो विश्वसम्भवः॥

मञ्जुश्री महात्मासौ दुर्लभो लक्षमूर्जितः।

भूतकोटिसमाख्यातो गम्भीरार्थदेशिकः॥

निःप्रपञ्चं निराकारं निःस्वभावमनालयम्।

धर्मादिदेश सत्त्वेभ्यस्तत् स्मरिष्व सुरेश्वरः॥

ततस्ते नु स्मर्तो से स्मृत तत्त्वगतो ततः।

आगतस्तत्क्षणात् तत्र कुमारो विश्वरूपिणः॥

यत्र सौ भगवां तस्थुः मघवांश्चैव सुरेश्वर।

आगता भाषते मन्त्रां वन्दित्वा जिनवरं तदा॥

प्रणम्य जिनवरां सर्वां काश्यपं च महाद्युतिम्।

इमा मन्त्रामभाषेत लब्ध्वानुज्ञां मुने तदा॥

नमः सर्वबुद्धबोधिसत्त्वेभ्योऽप्रतिहतशासनेभ्यः।



ॐ हन हन सर्वभयान् सादयोत्सादय त्रासय मोटय छिन्द भिन्द ज्वल ज्वल हुँ हुँ फट् फट् स्वाहा।



समनन्तरभाषितेयं मन्त्रा कुमारभूतेन मञ्जुश्रियेण बोधिसत्त्वेन महासत्त्वेन। इयं महापृथिवी षड्विकारं प्रकम्पिता सशैलसागरपर्यन्ता। सर्वांश्च बुद्धां भगवतां क्षेत्रानन्तापर्यन्ता सलोकधातुदिशपर्यन्तां सर्वैश्च बुद्धैर्भगवद्भिरधिष्ठितानि च इमानि मन्त्रपदानि॥



अथ शक्रो देवानामिन्द्रः विगतभयरोमकर्षः आश्चर्याद्भुतप्राप्तः उत्फुल्लनयनः उत्थायासनाद् भगवतः पादयोर्निपत्य त्रिः प्रदक्षिणीकृत्य च मञ्जुश्रियं कुमारभूतं सम्मुखं दृष्ट्वा तानि च मन्त्रपदां गृह्य मनसीकृत्य च पुनरेव स्यन्दनमधिरुह्य येन तेऽसुराः प्राद्रवितः सर्वेऽसुरा येन पातालं महासमुद्राश्रयाधरपुरं स्वकं तेनाभिमुखाः प्रययुः। हतविध्वस्तमानसः सैन्यभयाकुलितविह्वलनिषण्णवदनदर्पः विगतशस्त्रा दृष्टा तं सुरेश्वरं ज्वलन्तमिव पावकं निर्वर्त्य स्वालयं गता अभूत्॥



अथ शक्रो देवानामिन्द्रः देवां त्रायस्त्रिंशानामन्त्रयते स्म। मा भैष्टत मार्षा ! मा भैष्टत। बुद्धानुभावेन वयमसुरां निर्जितवन्तो गच्छामः स्वपुरम्। आगच्छन्तु भवन्तः क्रीडथ रमथ परिचारयथ स्वं स्वं भवनवरं गत्वा। स्वालयं चेतस्ते देवा हृष्टमनसः पुनरेव निवर्त्य स्वालयं गता॥



अथ शक्रस्य देवानामिन्द्रस्यैतदभवत्। ‘यन्वहं तं कुमाररूपिणं बिम्बाकारं कृत्वा ध्वजाग्रे स्थापयेयं, ततो मे नामुरभयं भवेत्’ इति॥



अथ शक्रो देवानामिन्द्रः महता मणिरत्नद्योतिगर्भप्रभोद्योतनं नाम गृहीत्वा कुमाराकारप्रतिबिम्बं कारयित्वा उपरि प्रासादस्य मूर्धनि सुधर्मायां देवसभायां सुदर्शनस्य महानगरस्य मध्ये तं ध्वजोच्छ्रितसुविन्यस्तं कृत्वा स्थापयामास॥



ततस्ते असुरा प्रह्रादवेमचित्रिप्रभृतयः पातालं नोर्ध्वगच्छति न च तां देवानभिद्रवन्ते न च शेकुः ऋद्धिविकुर्वाणं रणाभिमुखं वा गन्तुम्। एवमनेकानि वर्षकोटिनयुतशतसहस्राणि मानुषिकया गणनया। न चासुरभयं स्यादिति॥



एवमिदमपरिमितगुणानुशंसं सङ्कीर्तितमायुरारोग्यवर्धनं बुद्धैर्भगवद्भिर्बोधिसत्त्वैर्महासत्त्वै कथितं पुरा। एवमिदमपरिमितानुशंसगुणविस्तरमनन्तापर्यन्तं पुरादिति। अपरिमाणं या पुण्यप्रसवनं महानरकोपपत्तितिर्यक्प्रेतयमलोकजन्मकुत्सनतामुपैति यो इमं धर्मपर्यायमपवदते विकल्पेत वा क्रमति ग्रस्तचित्तो वा व वदेयुः न बुद्धवचनेति वा वदेयुः न मन्त्रा न चौषधयो बोधिसत्त्वानां पि तेषां माहात्म्यविस्तरमृद्धिविकुर्वणं वा नापि विकल्पविस्तरमनार्यैर्भाषितमिति कृत्वा उत्सृज्य त्यजन्ते अवगच्छन्ति न शक्नुवन्ति वा श्रोतुम्; तस्मात् स्थानादपक्रमन्ते महान् तेषामपुण्यं भविष्यतीत्याह॥



ये नरा मूढचित्तो वै प्रतिक्षेप्स्यन्ति वरमिमम्।

धर्मं मुनिवरैर्गीतं जिनपुत्रैश्च धीमतैः॥

तेनका नरकं यान्ति सोत्सेधं सतिर्यगम्।

कालसूत्रमथ सञ्जीवं क्षुरधारां गूथमृत्तिकाम्॥

कुणपं क्षारनदी ग्राह्य ज्वरधारा पुनस्ततः।

असिपत्रवनं घोरमववंहहवं तथा॥

अटटं लोकविख्यातं नरकं पापकर्मिणाम्।

गच्छते जना तत्र ये नरा धर्मदूषकाः॥

अवीचिर्नाम तद् घोरं प्रख्यातं लोकविश्रुतम्।

कुत्सितमयः प्राकारविक्षिप्तमावासं पापकर्मिणाम्॥

पच्यन्ते ते जनास्तस्मिन् यो धर्मं लोपयेदिमम्।

अवीचिपर्यन्तसर्वां तां सोत्सवां समूलजाम्॥

अनन्तां नरकभूम्यन्तां गतेऽसौ विमतिः सदा।

प्रतिक्षेप्ता धर्मसर्वस्वं इदं सूत्रं सविस्तरम्॥

लोके कुत्सतां यान्ति + + + + + +।

अवीच्यन्तां नरकान् यान्ति विवशैर्वशगतस्तदा॥

यो हि संसूत्रकल्पाख्यं मन्त्रतन्त्रभूषितम्।

सिद्धिचित्रगतालम्ब्य भूतकोटिमनावृतम्॥

शरीरं धर्मधात्वर्थमनालम्बनभावनम्।

विस्तरं पटलोत्कृष्टं सकल्पं कल्पविस्तरम्॥

मञ्जुघोषसुविन्यस्तं सम्पच्छ्रीमतिपूजितम्।

मूलकल्पमनल्पं वै कथितं बहुविस्तरम्॥

शाश्वतोच्छेदमध्यान्तमुभयार्थान्तवर्जितम्।

सङ्क्रमं क्रमनिर्दिष्टं मन्त्रमूर्तिसमुच्छ्रितम्॥

अनिलं निलमाकाशं शून्यत्वसुभावितम्।

प्रतिक्षेप्ता सदा गच्छेदधो अधगतां तदा॥

विसङ्ख्येयार्जितं पुण्यं कल्पैर्बहुविधैस्तदा।

समुदानीय तथा बोधिं मयाग्रवरे जिने॥

भाषितः मन्त्रतन्त्रार्थं गतिदेशनिरत्ययम्।

मूलकल्पं पवित्रं वै मङ्गल्यमघनाशनम्॥

पटलं सविसरं प्रोक्तं नीलसूत्रान्तशोभनम्।

नृपतीनां गुणमाहात्म्यं कालदेशप्रयोगितम्॥

सद्धर्मं जिनपुत्राणां भूतलेऽथ तृजन्मिनाम्।

कथितं लोकमुख्यानां मुनिसप्तमतं जिने॥

भाषितः कल्पविस्तारः श्रीसम्पत्समभिवर्धनः।

समूलो विसरपटलाख्यो मन्त्रतन्त्रसमर्चितो॥

यो हीहिमं सूत्रवरं मुख्यं धर्मकोशं जिनोर्जितम्।

प्रतिक्षेप्तारो भुवि मर्त्यां वा अवीचौ नरकान्तकौ॥

महाकल्पाननेकां वै चोपवर्णिताम्।

यदा काले तु मर्त्याः कदाचित् कर्हचिद् भवेत्॥

दरिद्रो व्याधितो मूर्खो जायते म्लेच्छजन्मिनः।

लोके कुत्सतां याति कुष्ठव्याधी भवेत्॥

दुर्गन्धोऽथ बीभत्स व्यङ्गो अन्ध एव सः।

भीमरूपी सदारूपी सदारूक्षः प्रेत व दृश्यते भुवि॥

कुशलो दीनचित्तश्च कुनखः कुत्सितस्तथा।

कृमिभिर्भक्ष्यमाणस्तु दद्रुकण्डूसमाकुलः॥

अवासी परमवीभत्सः असम्भाषी चोपपद्यते।

क्रमति ग्रस्तचित्तस्तु कुमतिर्याति पुनः पुनः॥

प्रतिक्षेप्ता च धर्मकोशस्तु जिनानां धातुपूजितम्।

बहुदुःखसमायासां बहुमित्रमनाथवाम्॥

जायते बहुधा मर्त्यः शोकदुःखसमाकुलः।

यत्र तत्र गतिर्याति कुमतिस्तत्र जायते॥

प्रतिक्षेप्तादिदं सूत्रं तत्र तत्रोपपद्यते॥ इति।



अथ मञ्जुश्रीः कुमारभूतो बोधिसत्त्वो महासत्त्व उत्थायासनादेकांशमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य कृताञ्जलिपुटः उत्फुल्लनयनः अनिमिषनयनः सर्वांस्तां शुद्धावासभवनस्तान् देवपुत्राननेकांश्च भूतसङ्घां सन्निपत्रितां धर्मश्रवणाय विदित्वैवं शाक्यमुनिं भगवन्तमेतमाहुः -



“आश्चर्यं भगवं ! यावत् परमं सुभाषितोऽयं धर्मपर्यायः। तद् भगवं ! भविष्यत्यनागतेऽध्वनि सत्त्वा विषमलोभाभीभूताः सत्त्वाः पञ्चकषायोद्रिक्तमनसोऽश्राद्धाः कुहकाः खटुकाः कुशीलाः ते मन्त्राणां गतिमाहात्म्यपूजित कालदेशनियमं मन्त्रचर्याहोमजपनियमकल्पविशरां न श्रद्धास्यन्ति। अबुद्धवचनमिति कृत्वा प्रतिक्षेप्त्यन्ते। क्लिष्टमनसो भूत्वा कालं करिष्यन्ति। ते दुःखां तीव्रां खरां कटुकां वेदनां वेदयिष्यन्ति। महानरकोपपन्नाश्च ते भविष्यन्ति। तेषां भगवं ! दुःखितानां सत्त्वानां कथं प्रतिपत्तव्यम् ! महाकारुणिकाश्च बुद्धा भगवन्तः॥”





अथ भगवां शाक्यमुनिर्मञ्जुश्रियं कुमारभूतं मूर्ध्नि परामृश्यामन्त्रयते स्म - “साधु साधु खलु पुनस्त्वं मञ्जुश्रीः ! यस्त्वं सर्वसत्त्वानामर्थे हिताय प्रतिपन्नः। साधु पुनस्त्वं मञ्जुश्रीः ! यस्त्वं तथागतमेतमर्थं प्रश्नसि। तेन हि त्वं मञ्जुश्रीः ! शृणु। साधु च सुष्ठु च मनसि कुरु। भाषिष्येऽहं ते सर्वसत्त्वानामर्थाय हिताय सुखाय लोकानुकम्पायै देवमनुष्याणां च सर्वमन्त्रचर्यानुप्रविष्टबोधिमार्गनियुञ्जानधर्मधातुपरमूर्त्योपाश्रयलिलिप्सूनां मरणकालसमये च स्मर्त्तव्योऽयं विद्याराजा परमरहस्यं कुमार ! त्वदीयमूलकल्पपटलविसर कतमं च तत्॥



“नमः सर्वतथागतेऽभ्योऽर्हद्भ्यः सम्यक् सम्बुद्धेभ्यः। ॐ कुमाररूपिणि विश्वसम्भव आगच्छागच्छ। लहु लहु भ्रूं भ्रूं हूँ हूँ जिनजित् मञ्जुश्रीय सुश्रिय तारय मां सर्वदुःखेभ्यः फट् फट् शमय शमय। मृतोद्भवोद्भव पापं मे नाशय स्वाहा।”



एष मञ्जुश्रीः त्वदीयं परमहृदय सर्वशान्तिकरं सर्वपापक्षयं सर्वदुःखप्रमोचनमायुरारोग्यैश्वर्यपरमसौभाग्यवाक्यसञ्जननं सर्वविद्याराजसत्तेजनं च समनन्तरभाषिते शाक्यमुनिना बुद्धेन भगवता। इयं महापृथिवी सशैलसागरसत्त्वभाजनसन्निचयपर्यन्ता षड्विकारं प्रकम्पति भाभूत्। सर्वाश्च गतयः प्रेततिर्यग्यमलोकसर्वसत्त्वदुःखानि प्रतिप्रस्रब्धानि। अयं च विद्याराजा मञ्जुश्रीर्मनसि कर्तव्या। न च तस्मिन् समये सद्धर्मप्रतिक्षेपेण चित्तं भवेयुः। न च मारा पापीयांसः अवतारं लप्सन्ते। सर्वविघ्नविनायकाश्चापक्रमन्ते। एवं च चित्तमुत्पादयितव्यम्। किं मया शक्यं बुद्धानां भगवतां अचिन्त्यबुद्धा बोधिधर्मा चिन्तयितुं वा प्रतिक्षेप्तुं वा बुद्धा भगवन्तो ज्ञास्यन्तीति॥



आर्यमञ्जुश्रीमूलकल्पाद् बोधिसत्त्वपिटकावंतंसकात् महायानवैपुल्यसूत्रात् पञ्चाशतिमः अनुशंसाविगर्हणप्रभावपटलविसरः परिसमाप्त इति।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project