Digital Sanskrit Buddhist Canon

अथ त्रिपञ्चाशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Atha tripañcāśaḥ paṭalavisaraḥ

अथ त्रिपञ्चाशः पटलविसरः।



अथ खलु भगवां शाक्यमुनिः तस्मात् समाधेर्व्युत्थाय महासागरोपमायां पर्षन्मण्डलं धर्मं देशयमानः सर्वसत्त्वानां सर्वभूतगणानामग्रतः सन्निषण्णाः तत्र वज्रपाणिप्रमुखानामनेकबोधिसत्त्वसङ्ख्येयसहस्रां शारिपुत्रप्रमुखां अनेकासङ्खेयार्हत्सहस्रां वैश्रवणप्रमुखां असङ्ख्येयार्चचातुर्महाराजिकदेवपुत्रां शक्रप्रमुखां त्रायस्त्रिंशां असङ्ख्येयदेवपुत्रां सुयामसन्तुषितनिर्माणरतिपरनिर्मितवशवर्तिब्रह्मकायिकब्रह्मपुरोहितमहाब्रह्मपरीत्ताभाप्रमाणाभास्वरैर्यावत् पुण्यप्रसवा बृहत्फला तृहातपाकनिष्ठा देवानामन्त्रयते स्म। शृण्वन्तु भवन्तो देवसङ्घाः ! सर्व बोधिसत्त्वार्यश्रावकाः !



अनित्याः सर्वसंस्कारा उत्पादव्ययधर्मिणः।

उत्पद्य हि निरुद्ध्यन्ते तेषां व्युपशमः सुखम्॥

अविद्याप्रभावाः सर्वे उत्पद्यन्ते सहेतुकाः।

सहेतुं दुःखमूलं तु स्कन्धा ह्युक्ताः समोदयाः॥

तेषां निरोधिनी विद्या सुखहेतुसुखक्रियाम्।

दुःखप्रहाणमित्युक्तं संक्षेपेण निवारणा॥

तदेव त्रिविधं यानं निर्दिष्टं च मया इह।

अनित्यदुःखमानात्मानो क्षणिकं सर्वसंस्कृतम्॥

शून्यं सदा सर्वदा सर्वं निर्दिष्टं भवबन्धनम्।

तद्विरागा त्रिधा यान्ति ये सत्त्वा गोत्रनिसृता॥

बोधिसत्त्वास्तदा बुद्धा प्रत्येकां बोधिनिश्रिताम्।

तथा परेह्यहरहन्नो वीतरागा महर्द्धिका॥

श्रावकीं बोधिनिसृत्य त्रिधा शान्तिगता हि ते।

एष धर्मो समासेन निर्दिष्टो मे शुभाशुभम्॥

अशुभं वर्जयेन्नित्यं सर्वदा शुभमाचरेत्।

अहिंसां सर्वभूतानां यथा धर्मो प्रकाशितः॥

एक एव भवेन्मार्ग धर्माणां गतिपञ्चके।

अनाश्रवश्च यो धर्मो भूतकोटिसमाशृतः॥

स एष कथितो मार्गः आदिबुद्धैः पुरातनैः।

मयापि कथितं सर्वं शान्तनिर्वाणगामिनम्।

धर्मकोटिं समासृत्य भूतकोटिं तु लभ्यते।

अकोटी सर्वधर्माणां भूतकोटिमुदाहृता॥

एष धर्मः समासेन द्विविधैव प्रकाशितम्।

शृण्वन्तु सर्वे देवा वै बोधिसत्त्वा महर्द्धिकाः।

अर्हन्तः श्रावका मह्यं निर्वाणं मे यदा भुवि।

अभूत् सालवने मध्ये हिमवत्कुक्षिसम्भवे॥

नद्यां हिरण्यवत्यायां मल्लानामुपवर्तते॥

यमकशालकवने मध्ये निर्वाणं मे भविष्यति॥

यावत् संज्ञी तथा नगरे चैत्ये मकुटवर्धने।

नदीतीरे सदा रम्ये निर्वाणं मे तदा भुवि॥

सर्वे वै बोधिसत्त्वास्तु श्रावकाश्च महर्द्धिकाः।

देवा नागा तथा यक्षा लोकपाला महर्द्धिका॥

शक्रब्रह्मसुयामाश्च अकनिष्ठाद्यास्तथा परे।

सर्वेषां सन्निपाता वै तस्मिं स्थाने भविष्यति॥

यमकशालकवने तत्र मल्लानामुपदर्तते।

गङ्गायामुत्तरे तीरे महानद्यास्तथा परे॥

हिमाद्रेर्दक्षिणे भागे अभूत् सालवने वने।

अपश्चिमे मे तथा शय्या तस्मिं स्थाने भविष्यति॥

नद्या तीरे तथा रम्ये हिरण्याख्ये शुभे तटे।

सर्वदेवसङ्घाद्यां सन्निपातो भविष्यति॥

मनुजैः नृपवरैः सर्वै मनुष्यामनुष्यसम्भवैः।

सर्वभूतैस्तथा मर्त्यै बालिशाबालिशैस्तदा॥

महोत्सवमहोत्साहं तस्मिं स्थाने समागमम्।

कृतमन्त्रमहं दिव्यं मच्छरीरे तु सामिषे॥

निरामिषं तु तदा स्थाप्य शान्तिमाप्नोति निर्वृतिम्।

धर्मकोटिं परित्यज्य भूतकोटिं तु संविशेत्॥

अपश्चिमा मे तथा जातिः नगरे कपिलवास्तुके।

शाक्यानां च कुले मुख्ये जातोऽहं भवचारके॥

ततोऽहं त्यज्य दुःखात्म्यं निर्यातोऽहं गृहात्तथा।

बहुतीर्थां तथा सेव्य न च प्राप्तो मृतः पुनः॥

दुःकरं च मया चीर्णं कायं सन्ताप्य तश्चैनम्।

षडाब्दमुषितः भ्रष्टदेहं वापि विशुष्कतः॥

न च किञ्चिन्मया लब्धं येन ज्ञानमवावृतम्।

ततोत्थाय मया तत्र आहारं कृथ शुभोदनम्॥

देवतासूचितं मार्गं गतोऽहं तत्र भूतलम्।

नद्या नैरञ्जनातीरे वृक्षराजे सुशोभने॥

नानापुष्पसमाकीर्णे तथेरण्येऽथ भूतले।

महावनफलोपेते नानावृक्षसमुद्भवे॥

महानदी परिवेष्ट्यान्ते तरुमूले ततो ह्यहम्।

यो स्वकं दृष्टमात्रं तु भूभागं धृतिसंलभे॥

तथैवाहं तं तरुं दृष्ट्वा पर्णशाखोपशोभितम्।

महावृक्षं महाच्छायं मूलगूढोपशोभितम्॥

अश्वत्थेऽश्वत्थतां गच्छेत् तरुमूले निषद्य वै।

धृतिं तत्राभिविन्दामि ध्यानं चापि समाधिकम्॥

प्राप्तं तत्र अनाशां वै रात्र्यन्ते जातिरन्तकम्।

मारेण बहुधा विघ्ना अनेकाकारसुयोजिताः॥

भग्नसैन्यपरावृत्य गतोऽसौ स्वभवनं पुनः।

तदर्थे मन्त्रतन्त्रा वै भाषिता बहुधा पुनः॥

अनेकाकारप्रयोगाश्च ध्याना ज्ञानाश्च भाषिताः।

त्रिधा यानं पुनस्तत्र चरितं सर्वसेवितम्॥

प्रतिपक्षा हि दोषाणां त्रिधा चैव प्रकाशितः।

ततोत्थाय पुनर्गत्वा बुरुबिल्वां शुभोदकाम्॥

स्नात्वाम्भसे तत्र ऋषिं प्रव्रज्य सशिष्यकाम्।

सत्त्वार्थं बहुधा कृत्वा प्रक्रान्तोऽहं ततः पुनः॥

पुनः काशिपुरीरम्यां अनुपूर्व्या समाविशेत्।

तत्र स्थाने तु गत्वा वै परा बुद्धा महर्द्धिकाः॥

तत्राहं स्थितो देशे जने काशिजने स्वयम्।

प्रवर्त्य चक्रं साधर्म्यशान्तिं निर्वाणकारकम्॥

ससुरासुरलोकानां गतिं पञ्चासुनिसृताम्।

सर्वभूतसुखार्थाय तत्र धर्म प्रकाशितः॥

आदिबुद्धैः पुरा तत्र धर्मचक्रं प्रवर्तितम्।

मयापि दिशि तत्र धर्मचक्रो ह्यनुत्तरः॥

भवमुक्तिसुखार्थाय सत्त्वदोषनिवारणा।

प्रवर्त्त्य चक्रं ब्राह्मां वै क्षेमं शान्तपरायणम्॥

भवमार्गविनाशार्थं चतुःसत्यसमाधिजम्।

आर्याष्टाङ्गिकं मार्गं चतुर्ब्राह्मविभूषितम्॥

सप्रतीत्य समुत्पादं द्वादशाकारकारितम्।

अविद्यानिरोधसंयुक्तं विद्यामुत्पादनेमिजम्॥

भ्रामिता कोटितत्थ्यं वै भूतकोटिसुकोटिजम्।

अनुलोमविलोमाभ्यां गतिमाहात्मनेमिजम्॥

सम्प्रदेशशिवं चक्रं बहुसत्त्वा विमोक्ष च।

विमुञ्च्य काशिपुरीं रम्यां श्रावस्त्याहं तदा गमे॥

तीर्थिकानां तथा वर्ज्या प्रातिहार्यैर्विकुर्वतैः।

शङ्कश्ये तथा कृत्वा ऋद्धिर्जनपदे तदा॥

बहुतीर्थायतनां स्थानां सम्प्रतोष्य तदा पुनः।

अग्निभाण्डे जने कृत्वा देवावतरणं शुभम्॥

त्रायस्त्रिंशेषु देवेषु शक्रसंयोज्य धर्मताम्।

अकनिष्ठाद्यां तथा देवां ब्रह्मादीशपुरन्दराम्॥

सवैश्रवणयक्षेन्द्रां चतुर्महाराजकायिकां सदा।

मत्ताकरोपमाणाश्च त्रिवीणां मालधारिणाम्॥

देवां यणगणां सर्वां भौमां दिव्यान्तरीक्षकाम्।

आर्यां यथगणाध्यक्षां सर्वांश्चैव सुरासुराम्॥

कृत्वा धर्मफले युक्तां निर्वाणानुगसत्रिवाम्।

श्रेयसैव तदा योज्या बहुप्राणामचित्तकाम्॥

असङ्ख्या गणना तेषां संसारान्तादनन्तकाम्।

महासाहस्रलोकानां धात्वाध्यामचित्तकाम्॥

बहु सर्वं सदा सत्ये भूतार्थे सन्नियोज्य वै।

इहाहमागतस्तत्र शुद्धावासोपरि स्थितः॥

प्रवर्त्य मन्त्रसद्धर्मत्रिधायानसमानुगम्।

सत्त्वानां विनयमागम्य कल्पराजमिदं पुनः॥

प्रकाश्ये बहुधा लोके मञ्जुघोषस्य दत्तवां।

निर्वृते तु मया लोके शून्यीभूते महीतले॥

मञ्जुश्रियोऽथ सत्त्वानां बुद्धकृत्यं करिष्यति।

आरक्षणार्थं सद्धर्मां जिनेन्द्राणां परिनिर्वृता॥

सतता रक्षणा नित्यं मञ्जुघोषो भविष्यति।

मन्त्रप्रभावनार्थं तु कथितं कल्पविस्तरम्॥

तस्मिं काले युगान्ते वै महाघोरे सुदारुणे।

नराधिपा महाक्रिरा परस्परवधे रताः॥

पापकर्मा दुराचारा अल्पभोगा तदा युगे।

भविष्यन्ति न सन्देहो तस्मिं काले युगाधमे॥

ममागम्य च पूजार्थं अभूत् सालवने वने।

नदीहिरण्यावतीतीरे चैत्ये मकुटबन्धने॥

परिनिर्वृते शयानं मे शान्तधातुसमासृते।

चितामरोपिते देहे सम्भोगे भोगवर्जिते॥

दृष्ट्वेव तत् पुरा कर्मं मामेबाद्भुतचेष्टितम्।

मयैव विनयतागम्ये बुद्धवैनेयचेष्टिते॥

चरितं तं शुभं चित्रं स्मृत्वा सर्वे नराधिपाः।

सर्वे पूजां करिष्यन्ति सदेवासुरमानुषाः॥

समागत्यथ भूपालाः सर्वे पूजामहोत्सवाम्।

करिष्यन्ति न सन्देहः तस्मिं काले ममान्तिके॥

चितामारोपिते देहे सामिषे गुणमुद्भवे।

अशुभान्ते शुभे चैव सर्वे पुण्यविवर्जिते॥

भूतकोट्योऽथ शून्यास्ते पञ्चस्कन्धसमोदये।

बहुसत्त्वा तु तं दृष्ट्वा महापुण्यार्थे तु योजिता॥

महाश्रावका महात्मानः वीतरागा महर्द्धिका।

बोधिसत्त्वास्तु सर्वे वै दशभूमिसमाशृता॥

परिवार्य स्थिता सर्वे सर्वे चैवानुकम्पका।

सर्वे वै देवसङ्घास्तु आर्या सपृथग्जना॥

सर्वे चैतं महापुण्यं स्थानं चैकत्र माश्रितम्।

चित्तप्रसादं प्रतिलेभेऽनित्यदुःखार्थमाश्रयम्॥

सर्वे भूतगणा तस्थुः चैत्यान्तेऽपि समीपतः।

पूजां च महतीं चक्रे चुचुक्रोश रुरोदनम्॥

मुमुचुः साश्रुबिन्दूनि सबाष्पाणि करुणेरिताम्।

एवं च क्रोशिरे सर्वे अनित्यं दुःखशून्यताम्॥

धर्मं दिदेशितवां बुद्धः साम्प्रतेऽथ महीतले।

सैवाद्य मुनिवराः श्रेष्ठः सप्तमो ऋषिपुङ्गवः॥

शाक्यजः सर्वसत्त्वाग्र्यो दर्शनं तस्य अपश्चिमम्।

स एष भगवां शेते अनित्यदुःखाभिभाषिणः॥

शून्यपरमार्थमाख्यायी आदिशान्तार्थभाषिणः।

किमर्थं देवसङ्घा भो न प्रबोधयत तं प्रभुम्॥

आगता इह सर्वे वै बुद्धपुत्रा महर्द्धिका।

धर्मार्थिका महावीरा श्रावकाश्च महर्द्धिका॥

सर्वे वै दुःखिता सत्त्वा मानुषाश्च सुरासुराः।

समयो वर्तते ह्यत्र धर्मचक्रानुवर्तने॥

उत्थातु भगवां क्षिप्रं बुद्धवेलानुवर्तनेः।

महासागरे चले वोल्लङ्घ्या मुनितद्गतैः॥

न चावमन्यां बहूं सत्त्वां चिरकालं समोभिजे।

ध्यानं विमोक्ष संसेस्तु शान्तनिर्वाणमार्गे॥

निषेप्तुं वा भूततो मुनिः।

एवम्प्रकारं ह्यनेकां बहुप्रलापां प्रलपवंचूरे॥

तूष्णीम्भूताथ सर्वे वै देवसङ्घा महर्द्धिका।

आक्रन्दमतुलं कृत्वा सप्रणामा ततस्थिरे॥

चकूचु विरः मुत्कोश्य साश्रुकण्ठा सगद्गदा।

सशोकाचित्तमनसो ब्रह्माद्याः ससुरासुराः॥

मनुजा नराधिपाः सर्वे निषण्णास्तत्र महीतले।

अपरः शाक्यजो मुक्तः वीतरागो महर्द्धिकः॥

ज्ञानिनो देवदेवस्य बुद्धस्यैव महात्मने।

अनिरुद्धो नामतो भिक्षुः अनुजोऽसौ मनुजः शुभः॥

सुसूक्ष्म निपुणो व्यक्तः गीतनीतिविशारदः।

परिवारितो रहमुख्यैस्तु अनेकैश्चापि नराधिपैः॥

स भाषे मधुरां वाचां निश्वसन्तः सुचेरिताम्।

करुणार्द्रचेतसां क्षिप्तां मल्लानां सनराधिपाम्॥

मा तावन्मार्षां ह्यत्र चितावग्निं प्रदायथ।

यावद् भगवतः पुत्रः अग्रतो धर्मतोद्भवः॥

महाकाश्यपनामेन श्रावकोऽसौ महर्द्धिकः।

महामुने ह्यग्रधीजातब्राह्मणोऽसौ निरामिषः॥

मगधानां जने जातः पर्वते तत्र समाहितः।

तिष्ठते ग्रहपिप्पले नगरे राजगृहे वरे॥

स एवागमनं क्षिप्रं करिष्यति न चान्यथा।

या तत्र देवताभक्ता स चेहोल्कां निवारयेत्॥

मा तावच्चितिसन्दीपं करिष्यथ वृथा श्रमम्।

यावत् सो महर्द्धिको ह्यग्रः श्रावको मुनिनौरसः॥

प्रदक्षिणीकृत्य गुरवे बुद्धस्त्रैलोक्यपूजिते।

मूर्ध्ना प्रणम्य पादौ शास्तुनो लोकपूजितौ॥

तदायं चितिदीपार्थं सर्वे तत्र करिष्यथ।

आदीप्ता चैत्यभूताद् भविष्यति तदा इमा॥

सर्वे मा वृथा कुर्वं श्रमं केवल भो इह।

एवमुक्तास्तु ते सर्वे अनिरुद्धेन धीमता॥

निषण्णा सर्वमल्लास्तु मानुषास्ते सनराधिपाः।

मानुषाणामुत्पन्नोऽहं मानुषैश्चापि वर्धितः॥

भोगैर्बहुविधा चान्यैः कलाशिल्पशुभोदयैः।

मनुष्याणां बोधिलब्धा मे तरुमूले महीतले॥

मनुष्याणां धर्मनिर्दिष्टः सर्वसत्त्वोपकारकम्।

अत एव मनुष्याणां चिता दीपार्थयोजिता॥

मनुष्योऽहं सर्वभूतानां अग्र्यत्वं च समागतः।

मनुष्यलोके च शान्ति मे परिनिर्वाणं तु कल्पितम्॥

ये केचित् सर्वबुद्धा वै अतीतानागतवर्तिना।

सर्वे वै मनुष्यलोक्रेऽस्मिं मनुष्या देहमुद्भवा॥

जातिबोधि तथा चक्रं साधर्म्यं चरितुं शुभम्।

शान्तिं समाविशेत् सर्वे प्रत्येकामर्हतास्त्रिधा॥

मानुषीं तनुमाशृत्य गता शान्तिमनुत्तराम्।

उपकारं मया तेषु कृतं कल्पामचिन्तिकाम्॥

आपश्चिमं मया शान्ते शीतीभूते निरोदये।

स्थापिता धातवस्तत्र शून्यीभूते महीतले॥

मनुष्याणां हितार्थाय पूजानुग्रहकाम्यया।

ससुरासुरलोकानां ऋषियक्षगरुत्मताम्॥

राक्षसां प्रेतकूश्माण्डां पिशाचां प्रेतमहर्द्धिकाम्।

सर्वांश्चैव भूतानां सग्रहाश्चैव मातरान्॥

सर्वांश्चैव तथा लोकां धात्वाचिन्त्यामसङ्ख्यकाम्।

सर्वप्राणिभृतांश्चैव पूजनार्थाय धातवः॥

स्थापिता ते तदा काले शून्यीभूते महीतले।

केचि द्रव्यागतैः मर्त्यैः देवराजैश्च चापरैः॥

पातालवासिभिश्चान्यैः दानवेन्द्रैर्महर्द्धिकैः।

नागराजैस्तथा दैत्यैः धातवो मे पृथक् पृथक्॥

अपहृत्य हृतार्था ये गुणवन्तोऽथ महर्द्धिकाः।

करिष्यन्ति तदा पूजां नीत्वा स्वभवनं पुनः॥

भविष्यन्ति न सन्देहः सर्वबुद्धा महर्द्धिकाः।

उत्तमाधममध्यस्था त्रिधा चित्तप्रसादतः॥

भविष्यन्ति ते त्रिधा लोके बुद्धखड्गरर्हद्गता।

त्रिधा यानं तथा लोके त्रिप्रकारं समोदितम्॥

महायानानुवर्णिनं मार्गं तत्कर्माशृतनिर्गता।

भविष्यन्ति तदा लोके प्रत्येकां बोधिनिःश्रिताम्॥

श्रावकाश्च परे तत्र वीतरागमहर्द्धिका।

भविष्यन्ति तदा लोके त्रिधा गोत्रविभूषिता॥

महीपाला महाभोगा महासौम्याथ चक्रिणाः।

दिव्यां मानुषसम्पत्तीः अनुभूय चिरं तदा॥

कालमासाद्य अन्ते वै त्रिधा शान्तिं गता हि ते।

आदिमद्भिः पुरा बुद्धैः वर्त्तमानैर्ह्यनागतैः॥

सर्वेषां एष मार्गो वै यथायं सम्प्रकाशितः।

तत्र निर्वाणभूमा वै निषण्णाः सर्वदेवता॥

विभिन्नमनसोद्विग्नाः सहगद्नदभाषिणः।

एवमाह तदा सर्वे अहो कष्टं ह्यनित्यता॥

बुद्धमहर्द्धिका लोके परिनिर्वाणासृतापि ते।

एवमुक्तास्तु ते सर्वे देवराजा महर्द्धिका॥

तूष्णीम्भूताथ तस्थिरे।

मागधानां जने श्रेष्ठे कुशाग्रपुरिवासिनाम्॥

पर्वतं तत्समीपं तु वाराहं नाम नामतः।

तत्रासौ ध्यायते भिक्षुः गुहालीनोऽथ पैपले॥

श्रावको मे सुतो ह्यग्रः औरसो धर्मतोद्भवः।

महाकाश्यपनामासौ निषण्णो गुहवरे तदा॥

पिण्डपातं तदा भुक्त्वा निषण्णश्चिन्तयेत् स्वयम्।

बहुकालं मया बुद्धो वन्दितोऽसौ महामुनिः॥

साम्प्रतं गन्तुमिछामि स्वयम्भुवं तं नरोत्तमम्।

कुत्र वा तिष्ठते भगवां शाक्यतो मुनिसत्तमः॥

समन्वाहरति तत्रस्थः महाकाश्यपविप्रराट्।

एवं समन्वाहृतवां नुं चित्तेनैव मुनिना मुनिम्॥

दिव्येन चक्षुषा लोकं सर्वलोकांश्चावलोकयेत्।

अकनिष्ठाद्यं तथा लोकां अवभास्या लोकधातवः॥

सर्वां समग्रसत्त्वाख्यां महासाहस्रोद्भवोद्भवाम्।

श्रावकानां गोचरं यावत् पश्यते दिव्यचक्षुषा॥

शासनं निर्वृतं शान्तं शीतीभूतं निरामिषम्।

परिवारितं समन्ताद् वै देवसङ्घैः महर्द्धिकैः॥

मनुजैर्नराधिपैश्चापि असुरैर्यक्षराक्षसैः।

सर्वभूतगणैश्चापि बोधिसत्त्वैर्महर्द्धिकैः॥

महायशैः श्रावकैश्चापि प्राज्ञः धूर्धरतां गतैः।

सरागैर्वीतरागैश्च दिव्यार्यैर्मनुजैस्तदा॥

चितामारोपितं वीरं बुद्धमादित्यबान्धवम्।

देवदेवं तदा श्रेष्ठं मुनीनां सत्तमं प्रभुम्॥

परिवारित समन्ताद् वै भूपालैर्दीपवासिभिः।

तृणोल्कैर्गृहीतसंहस्तैः मल्लैश्चापि मनुजेश्वरैः॥

नादीपयितुं समर्था ते देवताभिर्निवारिता।

व्रतिना चैवमुक्तेन अनिरुद्धेनैव भिक्षुणा॥

साश्रुकण्ठं स चोत्कृष्टां विघुष्टांश्चैव मेदिनीम्।

हाहाकाररवं घोरं दुन्दुभीनां च नादितम्॥

दिव्यं ऋषिगणाकीर्णं अप्सरां गणसंस्तुतम्।

सिद्धविद्याधरीगीतं किन्नरोद्गीतं च तद् वनम्॥

मधुराकूजितोद्घुष्टं पक्षिणां रुदितं शुभम्।

चित्रं मनोज्ञवादित्रं दिव्यमानुष्यनादितम्॥

अप्सरां गणसङ्गीतं सिद्धविद्याधरोचितम्।

योगिभिः सर्वतः कीर्णं अभूत् सालवनं वनम्॥

समन्तात् परिवृतं श्रेष्ठं शयानं मुनिपुङ्गवम्।

ततोर्ध्वं निःश्वस्य सशोको वै वीतशोको॥

अश्रुबिन्दुं प्रमुञ्चं वै श्रमणः काश्यपस्तदा।

अग्रश्रावको मह्यं पृथिव्या मावर्तते तदा॥

वाचं चाभाषते क्षिप्रं अहो कष्टं प्रवर्तते।

यत्र नाम तथा बुद्धाः परिनिर्वत्य नाश्रवाः॥

अनित्यं दुःखशून्यं तु इह तेनैव भाषितम्।

न दृष्टो मे शाश्वतो विश्वं अन्यजन्मानुवर्तिनम्॥

ततोत्थाय ततः क्षिप्रं मगधानां नृपतिं व्रजेत्।

अजातशत्रुं दुःखार्त्तं पितृशोकसमर्पितम्॥

गृहं तस्य तदा गत्वा तमुवाच नराधिपम्।

निर्वृतोऽसौ महाराज ! सम्बुद्धो द्विपदोत्तमः॥

क्षिप्र योजय मानं तु गच्छामो शास्तुमन्तिकम्।

धरणिस्थं शयानं वै निर्ज्वरं गतचेतसम्॥

सर्ववैरभयातीतं सम्भोग्यं कायसप्तमम्।

श्रुत्वा तद्वचनं क्रूरं सुदुःखी सौ नृपतिः पुनः॥

अन्तः प्रलापं क्रन्दन्तः वाचां भाषे तदा नृप।

उभाभ्यामपि भ्रष्टोऽहं शास्तुनो पितरस्य च॥

सर्वैर्बान्धवै त्यक्त्वा अविश्वास्योऽहं तथा जने।

पतितोऽहं घोरनरकं कः शरण्यं वृणोम्यहम्॥

परित्रायस्व महावीर श्रावकः शास्तुमग्रकः।

महाकाश्यपो महातेजा नास्ति मे जीवितं इह॥

इत्येवमुक्त्वा तु नृपो मुख्यो मागधानां नराधिपः।

प्रपतितः तत्क्षणामुर्व्यां अग्रश्रावकपादयोः॥

निश्चेष्टो मूर्च्छितस्तत्र सहसा शयते महीम्।

त्वं कुमार तदा कालं मञ्जुघोष महर्द्धिक॥

समन्ताद् विचरसे लोकां सत्त्वानुग्रहकाम्यया।

चितामारोपिते देहे मम स्थाने वने तदा॥

मन्त्र त्वं निषण्णोऽभूद् बोधिसत्त्वगणावृतः।

मच्छरीरं हि पूजार्थं त्वया कृत्वेह महीतले॥

समन्तादालोकयसे भूतां को हि दुःखी कमुद्धरेत्।

इत्यहं पतितो भूमौ कुमारो गम्भीरतथ्यधीः॥

मञ्जुश्रिया थ त्वयावश्य भूपालस्यातिदुःखिते।

तत्रस्थोऽपि त्वया तस्य त्वयैव विनयिनोऽसौ॥

बोधिसत्त्वावगम्यो यो न तच्छक्यं महर्द्धिकैः।

दैवतै ऋषिभिश्चान्यैः प्रत्येकार्हश्रावकैः॥

तत्रस्थः स्वप्नवत्पश्येन्मञ्जुघोषं नराधिपम्।

त्वयैव ऋद्धिमाविष्टः स राजा शोकमूर्च्छितः॥

पश्यतेऽसौ तदा स्वप्ने प्रत्यक्षं च बालिनम्।

कुमारं विश्वमात्मानं मञ्जुघोष महर्द्धिकम्॥

विकुर्वन्तं तथा धर्मं बोधिसत्त्वं सबालकम्।

विचित्रं अचिन्त्यतां ऋद्धिं मञ्जुश्रीः त्वत्प्रसादतः॥

अवीचिगमनं नृपतेः उत्थानं च सत्त्वरम्।

विविधां धर्मतांश्चैव अपायं नाशशोभनम्॥

गतिमाहात्म्यगुणांश्चैव सर्वश्रावकवर्जिताम्।

विस्तरेण ततः कृत्वा सूत्रकौ कृत्यनाशनम्॥

अजातशत्रोर्नृपतेः विनोदं चातिविस्तरम्।

समासेन इदं प्रोक्तं विस्तरार्थार्थभूषितम्॥

वचनं सर्वबुद्धानां आदिमध्यावसायिनाम्।

सर्वसत्त्वहितार्थाय भाषितः कल्पविस्तरः॥

त्वं कुमार तदा काले मञ्जुश्रीर्वच सर्वतः।

विनेष्यसि महीपालां पापकर्मानुवर्तिनाम्॥

अचिन्त्यं ते ऋद्धिविषयं विनेयं वापि अचिन्तितम्।

सर्वभूतगणांश्चैव त्वं विनेता भविष्यसि॥

इत्येवमुक्त्वा महावीरो बुद्धानां च महाद्युतिम्।

मञ्जुघोषं तदा काले शुद्धावासोपरिस्थितम्॥

उवाच वदतां श्रेष्ठः सम्बुद्धो द्विपदोत्तमः।

भविष्यसि त्वं सम्बुद्धः बहुकल्पाभिनिर्गतैः॥

अचिन्त्यैर्गणनासङ्ख्यैर्मानुषैर्गणनासमैः।

मञ्जुध्वजोऽथ नामो वै बुद्धा लोके भविष्यसि॥

बुद्धकृत्यं तदा कृत्वा अनुपूर्वेण वो सदा।

विमोच्यथ बहुं सत्त्वां परिनिर्वाणं ते भविष्यति॥

इत्युक्त कुमारो वै बालरूपी महर्द्धिकः।

स दीर्घं निःश्वस्य संविग्नः करुणाविष्टचेतसा॥

चिरमालोक्य सम्बुद्धं साश्रुबिन्दून् मुमूच्चचु।

सप्रणामाञ्जलिपुटः निषसाद ततः पुनः॥

ततो क्ष्मातलाधस्थः अजाताख्यो नृपोत्तमः।

प्रणम्य शिरसा विप्रं महाकाश्यपमद्भुतम्॥

विबुद्धश्चेतनायातं पादौ बन्द्य अग्रणः।

निःश्वस्य च चिरं कालं विस्तरार्थं निवेद्य च॥

निषण्णो नृपतेः पुत्रः अजाताख्यो मगधेश्वरः।

महाकाश्यपं ततो वव्रे गच्छामोस्तं चितालयम्॥

पूजितं चैत्यबिम्बस्थं उपकारार्हमानुषाम्।

तत्रस्थः श्रावको ह्यग्रः ऋद्ध्या चैवमुपागमम्॥

तस्योत्वहृते चित्तं अयुक्तं मम ऋद्धिये।

पद्भ्यां गन्तुमिच्छामि महाचैत्तं समागमम्॥

अपश्चिमे गतिः शास्तुः दर्शनार्थं तु मागमम्।

ततोऽर्धपथे तस्थुः सङ्घाराते तु स व्रती॥

यावत् पश्यते तत्र सङ्घारामनिवासिनम्।

महल्लं भिक्षुनवकमुमायसत्त्वं विमोहितम्॥

स दृष्ट्वा उपसङ्क्रान्त महल्लो तं चिरोषिणम्।

महेशाख्यं महाभागं शुद्धसत्त्वनिरामयम्॥

उपसङ्क्रम्य तं विप्रं वन्दित्वा पादयोस्तदा।

उवाच तं महाभागं स्वागतं ते किमागतम्॥

कुत्र वा यास्यते क्षिप्रं उद्विग्नो वा किं वतिष्ठसे।

उवाच सो तं ऋषिं तं बालं आयुष्मं न श्रुतं त्वया।

शास्ता वै सर्वलोकस्य सम्बुद्धो द्विपदोत्तमः।

पिता मे अग्रधीः बुद्धः प्रदीपार्चिरिव निर्वृतः॥

अस्तं गतो महावीरः शून्यीभूता हि मेदिनी।

सर्वशून्यास्तथा लोकाः शून्या भूताश्च मे दिशाः॥

ततः प्रहृष्टो महल्लोऽसौ विपरीतो बालचेतनः।

प्रसह्य वचनं चाह निर्वृतोऽसौ प्रदीर्घकः॥

प्रलम्बबाहुरत्युच्चच्छत्राकारसमशिरः।

अस्माकं नायको ह्यग्रः शिक्षाशिक्षसुवर्तिनः॥

यथेष्टं विचरिष्यामि साम्प्रतं तेन निर्वृते।

इत्येवमुक्तो महल्लेन प्रहृष्टोऽसौ महर्द्धिकः॥

भृकुटिं कृत्वा ततो वक्त्रे हुङ्कारोऽसौ प्रयोजयेत्।

रुरुष्य तत्क्षणाद् विप्रः बासनाभावितो यतिः॥

हन्यान्महीतले तत्र पादाङ्गुष्ठेन तत्क्षणात्।

सर्वं प्रचलिता उर्वी पर्वतोच्चाः समो रवः॥

क्षुभिताः सागराः सर्वे सर्वे वृक्षाश्च पर्वताः।

कन्दरा गुहविन्यस्ता नागराजाश्च देवता॥

नष्टा लोका मही तस्मिं काले चन्द्रभास्करौ।

निवाता वा ततस्तस्थुः उल्काश्चापि पपेतुरे॥

ततोऽसौ मन्त्रमिति ख्यातः श्रावकाणां कुलोद्भवम्।

एकाक्षरः सहुङ्कारः सर्वकर्मकरः शुभः॥

असाधितोऽपि करोत्येष जापमात्रेण मन्त्रराट्।

सर्वशस्त्रंस्तथा स्तम्भं विषं स्थावरजङ्गमम्॥

सर्वेषांदुष्टसत्त्वानां जापमात्रेण स्तम्भनः।

करोति कर्मवैचित्र्यं अन्यांश्चैव विशेषतः॥

प्रपलानो महल्लकस्तत्र तूष्णीम्भूतो ह्यतो गतः।

ऋद्ध्या चावर्जितस्तेन विनयित्वा च तत्क्षणात्॥

श्रावकेण तद्राग्रेण नीतोऽसौ चितिसन्निधौ।

पद्भ्यां गतो हि सो भिक्षुः वीतरागो महर्द्धिकः॥

गत्वासौ पश्यते तत्र मुनिनो देहचिताश्रिताम्।

अनेकधा दैवसङ्घैस्तु महापूजां प्रवर्तिताम्॥

विविधाकारवरोपेतां सर्वाकारसुभूषिताम्।

चितामारोपितं देहं मुनिनो गौतमस्य वै॥

दृष्ट्वा तु तं महाभागं महाकाश्यपमद्भुतम्।

सर्वे ते वीतदोषा वै भिक्षवश्च महर्द्धिकाः॥

सर्वे देवगणा भूताः हाहाकारं प्रमुञ्च्य च।

आक्रन्द्य च महच्छब्दं रवं चापि सुशोकजम्॥

प्रत्युद्गम्य ततः सर्वे देवनागा महर्द्धिकाः।

उवाच तं महाभागं वन्दस्व द्विपदोत्तमम्॥

तवैचोदीक्षणं तं विश्वा देवसङ्घा समानुषाः।

सर्वे भूतगणाश्चैव ऋषयक्षनराधिपाः॥

पितादीपनतं निष्ठा अशक्ता दीपयितुं चिताम्।

ततोऽसौ वीतदोषस्तु महाभोगो महर्द्धिकः॥

कृत्वा प्रदक्षिणं बाहु बहुधानुस्मृत्य तथागतम्।

चितान्ते अन्तिमे भागे वन्दतेऽसौ महर्द्धिकः॥

आर्यसीं च तदा द्रोणीं भित्वा पादौ विनिर्गतौ।

वन्दित्वा पादयोर्मूर्ध्ना परामृश्य पुनः पुनः॥

उद्वीक्ष्य बहुधा तत्र चरणौ मुनिवरे वरौ।

प्रविष्टा भूयसस्तत्र आयसीं द्रोणिमाश्रितौ॥

निषण्णोऽसौ ततोत्थाय वीतरागो महर्द्धिकः।

परिवारोऽथ अर्हन्तैः वीतरागैर्महर्द्धिभिः॥

राजा मागधो मुख्यः आगतोऽसौ चितान्तिके।

अनुपूर्व्या तथा यानैः हस्त्यश्वरथवाहनैः॥

महासैन्या थ भूपालाः सर्वे सवलवाहनाः।

आगता वन्दितुं तत्र मुनिं शाक्यमुनिं तदा॥

शयानं भूतले शान्ते प्रान्तेऽरण्ये।

नद्या हिरण्यवतीतीरे चैत्ये मकुटबन्धने॥

शान्तधातुसमाविष्टे भूतकोटिसमासृते।

मागधो नृपतिस्तत्र महासैन्यसमागतः॥

सोऽपि पश्यति तं दिव्यं विविधाकारचेष्टितम्।

महानुशंसं प्रभावं च आश्चर्यं भुवि मण्डनम्॥

चैत्तदेहजं तत्र चितामारोपितं मुनिम्।

आनन्दो नामतो भिक्षुः सुशैक्षे परिचारकः॥

यमेव मनुजं श्रेष्ठं वत्सलो मे सदा रतः।

भविष्यति तदा काले आर्त्ते विक्लबमानसः॥

महाकाश्यपं ततो गत्य पादयोर्निपतितो भुवि।

एवं चोवाच दुःखार्तः वेपथुन्ते सगद्गदः॥

अद्य मे निर्वृतः शास्ता अनाथोऽहं स साम्प्रतम्।

सतिमेलयनं त्राणं त्वमेव परिकीर्त्तितः॥

तेनैव मुनिचन्द्रेण व्याकृतोऽहं तवान्तिके।

सर्वक्लेशप्रहाणां तु अर्हत्वं त्वमन्तिके॥

रात्र्यां पश्चिमे यामे निर्दिष्टं तेन जिनेन वै।

व्रियते तुभ्य नित्यं वै मयैव परिनिर्वृतः॥

बुद्ध कृत्यार्थ तुभ्यं वै कृतं तेन हितैषिणा।

मयापि दुःखितः त्यक्त्वा शान्तियातो महामुनिः॥

अनिरुद्धो नामतो धीमां समाश्वासयति तं यतिम्।

मा रोदन्तथा शोचं मा शोकं च समाविश।

मा व्रज कुत्र वस्थानं एतमेव समाश्रय।

एष एव भवेच्छास्ता निर्वृते लोकचक्षुषे॥

मुनिना व्याकृतो ह्यत्र बुद्धकृत्यं करिष्यति।

वयं च भवता सार्धं अनुयास्याम काश्यपम्॥

ऋद्धिमात्रं महाभागं तेजवन्तं महाद्युतिम्।

द्वितीयमिव शास्तारं प्रतिबिम्बं महीतले॥

महाकाश्यपमुख्यं तु श्रावकाणां महर्द्धिकम्।

तिष्ठन्तं ध्रियमाणं वै मा शोकं चेत्तु वै कृथा॥

एवमालापिनः सर्वे करुणाविष्टा महर्द्धिका।

वीतरागा महायोगा मुनिपुत्रा निषण्णवाम्॥

चितामादीपितो तैस्तु मल्लैश्चापि नराधिपैः।

आदीप्ते तु समन्ता वै भस्मीभूतं तु तं चितम्॥

तं दृष्ट्वा देवसङ्घा तु भोगवन्तो महोरगाः।

शान्तये तच्चितास्थानं चन्दनोदकवारिणा॥

महावर्षं प्रमुञ्चन्ता स्थिता भूयोऽथ तत्क्षणात्।

महापुष्पौघमुत्सृज्य पुनरेव महीतले॥

आगता तत्क्षणात् सर्वे जिनधातुं सुपूजना।

सर्वे परस्परं युद्धं कर्तुमारब्ध तत्क्षणात्।

ब्रह्माद्या शक्रयामाश्च सर्वदेवगणास्तथा।

निवारिता वीतरागैस्तु श्रावकैश्च महर्द्धिकैः॥

महाकाश्यपेन विभज्यं वै धातवो जिनमूर्तिजा।

स्तोकस्तोकानि दत्तानि पूजनार्थाय सर्वतः॥

त्रिधा यानपरावृत्तिं निष्ठाशान्ति च कारणात्।

महाकाश्यपस्तदा योगी वीतरागो महर्द्धिकः॥

चिन्तयामास तं बोध्यं महल्लकस्य अभाषितम्।

माहैव प्रवचनं कृत्स्नं द्वादशाङ्गं सुखोदयम्॥

सूत्रविनयाभिधर्मं वै धूमकालिकतां व्रजेत्।

अस्तं याते माहवीरें विप्रलोपो भविष्यति॥

सङ्गातव्यमिमं कृत्स्नं वचनं बुद्धभाषितम्।

गच्छामः सहिताः सर्वे वीतरागा महर्द्धिकाः॥

मागधानां पुरं श्रेष्ठं राजाख्यं नगरं शुभम्।

कुशाग्रपुरे रम्ये पर्वते सुशिलोच्चये॥

वैशाल्यां च शुभे देशे चैतस्थाने सुशोभने।

एवम्प्रकारा ह्यनेकांश्च शासनार्थं तु कारणात्॥

मल्ला पलायिनः सर्वे चक्रिरे स महर्द्धिका।

तस्मिं काले युगान्ते वै अस्तं याते मया तु वै॥

महीपाला भविष्यन्ति परस्परविधे रता।

भिक्षवो बहुकर्मान्ता सत्त्वा लोभमूर्च्छिता॥

अश्राद्धा युगान्ते वै उपासकोपासिकास्तथा।

परस्परवधासक्ताः परस्परगवेषिणः॥

छिद्रप्रहारिणो नित्यं सव्रणा दोषदस्तथा।

भिक्षवो ह्यसंयतास्तत्र मुनिरस्तं गते युगे॥

स्थापिता रक्षणार्थाय शासनं भुवि मे तदा।

अष्टौ महर्द्धिका लोके वीतरागा निराश्रवाः॥

अर्हन्तः तदा ज्येष्ठा राहुलाद्या प्रकीर्त्तिता।

तेषां दर्शनं नास्ति तस्मिं काले युमाधमे॥

अमोघं दर्शनं तेषां सिद्धिकाले तु मन्त्रिणाम्।

मयात्र स्थापिताः सर्वे ऋद्धिमन्त्रो महर्द्धिकाः॥

प्रणिहितं मया तेषां दण्डकर्ममहायशाम्।

आज्ञोल्लङ्घनं तेषां किञ्चिच्छिष्या व्यतिक्रमे॥

तिष्ठध्वं यावत् सद्धर्मं भूतकोटिं निरामिषम्।

मम वाक्यमिदं पुण्यं यावद् घुष्यते तले॥

ततः शान्ता निरात्मनः परिनिर्वाथ निराश्रवाः।

भविष्यति तदा काले शासनान्तर्हिते मुनौ॥

भिक्षाभिक्षुकाः सर्वे भिक्षुण्यश्च सुमत्सराः।

तर्कुकाः कुत्सिता नित्यं परिभूता तदा युगे॥

सुस्थिता शासने मह्यं गृहदारगवेषिणः।

उपासकाश्च तदा काले परदारसदारताः सदा॥

चिह्नमात्रं तदा संज्ञा परिशेष्वेव चतुर्विधे।

वैराभ्यासरताः सर्वे परस्परविहेठकाः॥

तीर्थिका क्रान्तभुयिष्ठा सर्वाक्रान्ता च मेदिनी।

भविष्यन्ति तदा काले द्विजवर्णरता जना॥

मिथ्याचारा तथा मूढा प्राणिहिंसारता नरा।

मया तु परिनिर्वाणो व्याकृतोऽयं कलौ युगे॥

बहुनार्या नराश्चैव परदाररताः सदा।

अकुशलेषु रताः सर्वे कुशलार्थार्थवर्जिताः॥

बहुसत्त्वा भविष्यन्ति मयि शान्तगते भुवि।

ममैतच्छरीरपूजा तु देवसङ्घा महोजसा॥

मनुष्याश्चैव महात्मानो यक्षभूतगणास्तथा।

असुरा अथ गन्धर्वा किन्नराश्च महर्द्धिकाः॥

गरुडा अथ गन्धर्वा राक्षसा ऋषयस्तथा।

सिद्धा योगिनश्चैव महोजसा॥

विविधाकारसत्त्वास्तु विविधां गतियोनिजाः।

भवसूत्रनिबद्धास्तु च्छिन्नबन्धनधीमता॥

करिष्यति तदा पूजां शरीरेऽस्मिं गतिज्वरे।

नदीहिरण्यवतीतीरे यमकशालवने वने॥

चैत्ये मकुटबन्धे तु मल्लानामुपवर्तने।

परिनिर्वृते च तत्राहं शान्तिं गच्छेद् भयवर्जिताम्॥

ममैतद् धातु सङ्गृह्य हृयमाणैः परैस्तदा।

देवैश्च रसुरैश्चापि सर्वभूतगणैस्तथा॥

विभज्य स पृथग् भागेषु व्यस्तं कारिता अभूत्।

मनुष्यराजा महासैन्यः अजाताख्यो मागधस्तदा॥

प्रर्थयामास सर्वेषां श्रावकां सुमहर्द्धिकाम्।

ममाप्यकृतपुण्यस्य पितुर्मरणकारिणः॥

अभ्युद्धरथ महात्मानं दुःखितं पतितं तु माम्।

ततोऽग्र्यः श्रावको धीमां बुद्धस्य सुतमौरसः॥

महाकाश्यपेति विख्यातः प्रजानां हितकारकः।

तं तु दृष्ट्वाथ वैक्लब्यं अजाताख्यास्य धीमतः॥

समन्वाहरति तत्कालं ऋद्ध्या चैवमधिष्ठयेत्।

भागैकं गृह्णयामास सधातूनां जिननिःश्रिताम्॥

अन्येदपहृतादन्यैः भोगिभिश्च महाबलैः।

अन्योन्यरभसात् क्षोभं कृत्वा चैव परस्परम्॥

नीत्वा धातुं तदाकाशैः स्वगृहं चापि तस्थुते।

महाकाश्यपो तदा भिक्षुः अग्रश्रावकः तदा मुनिः॥

चिन्तयामास

अहो कष्टं मनुष्येषु शून्योऽयं भुवि मण्डले॥

बुद्धैः प्रत्येकबुद्धैस्तु श्रावकैश्च महर्द्धिकैः।

आलोकहीना सत्त्वा वै भवचारकचारिणा॥

ते दुःखां विविधां तीव्रां अनुभविष्यति ते चिरम्।

धातुं पूजयित्वा तु लोकनाथस्य तापिने॥

अनुभविष्यन्ति ते सौख्यं देवलोकमनल्पकम्।

राज्यं च मथ भोगांश्च मन्त्रसिद्धिसुदुर्लभाम्॥

प्राप्स्यन्ति विविधाकारां विचित्रगतिचेष्टिताम्।

लोकस्याग्रा सम्पदामिष्टां त्रिधा मोक्षभूषिताम्॥

पूजयित्वा तु धातूनां प्राप्नुयात् सिद्धिमुत्तमाम्।

एवं चिन्तयित्वा तु ब्राह्मणः लोकविश्रुतः॥

श्रावको मुनिवरे ज्येष्ठः काश्यपो नाम नामतः।

सङ्गृह्य च तदा धातुं संबिभर्त्ति तदा भुवि॥

स्तोकं दत्वाजाताख्ये मागधस्यैव यत्नतः।

एवं नराधिपेषु सर्वेषु अष्टेष्वपि महाद्युतिः॥

सर्वेभ्यः सर्वतो दद्याच्छ्रावकोऽसौ महात्मनः।

पुनरेव भवस्तस्थौ अनित्यसंज्ञमभावतः॥

शोचयामास सत्त्वानां करुणाविष्टेन चेतसा।

रोदिष्यन्ति चिरं सत्त्वा कल्पां बहुविधां तथा॥

सद्धर्मिन्तर्धिते लोके शास्तुनो शाक्यपुङ्गवे।

सङ्गातव्यमिमं वाच्यं माहैवं धूमकालिकम्॥

ततोऽभ्युत्थितवां वीरः प्रभावामृतचेतसः।

आमन्त्रयामास मन्त्रजेन्द्रं अजाताख्यं नराधिपम्॥

गच्छामो राजगृहं नगरं शास्तुशासनसत्कृथा।

गाथकुम्भसुविन्यस्तां धातुं प्रक्षिप्य यत्नतः॥

तेऽत्र पूर्वेण आयाता क्षिप्रं राजगृहं तदा।

स्थानं वेणुवनं प्राप्य स्थापयामास जिनोद्भवाम्॥

स्तूपं महाद्भुतं कृत्वासौ लोकनाथस्य तापिने।

पूजयामास तं स्तूपं विविधाकारभूषणैः॥

माल्यचीवरच्छत्रैश्च चूर्णगन्धैस्तु धूपनैः।

छत्रैः पताकैर्विचित्रैश्च घण्टामाल्यविलेपनैः॥

अनेकाकारविचित्रैस्तु दीपमालाभि स्रग्मिभिः।

पूजां कृत्वा महीपाल प्रणामगतचेतसः॥

मूर्ध्ना प्रणम्य तं स्तूपं प्रणिधिं चक्रिरे तदा।

लोकाग्रं पूजयित्वा तु यन्मया कुशलं बहु॥

अनेकताथागतीपूजां प्राप्नुयाहमचिन्तिया।

उत्थाय ततो राजा महाकाश्यपमब्रवीत्॥

अश्रु सम्परामृज्य बाष्पाकुलितलोचनः।

कृपाविष्टहृदयः पितरं संस्मरेत् तदा॥

आर्यो मे महाप्राज्ञः साक्षिभूतो भवस्व माम्।

यन्मया कारितं पापं नियतावीचिपरायणम्॥

तादृशं धर्मराजं तु शास्तुर्वचनपथे स्थितम्।

घातयित्वा तु तं पितरं न शक्नोमि विनोदितुम्॥

कल्याणमित्र आर्यो मे धर्मार्थं देष्टुमर्हति।

एवमुक्तो महात्मासौ अग्रश्रावकौ जिने॥

काश्यपो नामतः धीमां इमं वाचमुदीरयेत्।

मा भैष्ट महाराज कृतं ते कुशलं बहु॥

अस्ति ते जन्मिनोऽभ्यासः अनेकशतधा पुरा।

बुद्धानामनुत्पादा प्रत्येकजिनसम्भवः॥

नगर्यां वाराणस्यां श्रेष्ठिपुत्र अभूत् तदा।

अज्ञानाद् बालचापल्याद् रथ्यायां निर्ययौ तदा॥

स एव भगवं तत्र प्रत्येकजिनमागतः।

भिक्षार्थी हिण्डते तत्र लोकानुग्रहकाम्यया॥

बालस्य दृष्ट्वा तं प्रसन्नगतमानसम्।

पादयोर्निपत्य पप्रच्छ किं करिष्यसि तैर्भिक्षु॥

तूष्णीमेव स्थितो भगवां खड्गकल्पमसम्भव।

तदा तेन तु बालेन चीवरे गृह्यमस्थित॥

गच्छ गच्छ इमं श्रेष्ठं मन्दिरं ध्वजभूषितम्।

अस्माकमेतदावासं पादौ प्रक्षाल्य भोक्षसे॥

भुंक्ष्व क्षिप्रं यथाकामं क्रीडिष्यामो यथेष्टतः।

ततोऽसौ वीतदोषस्तु त्रिमलान्तकघातकः॥

अनूपूर्वेण ययौ तत्र परानुग्रहतत्परः।

गत्वा द्वारमूलेऽस्मिं स्थित एव महाद्युतिः॥

ततस्तेन तु बालेन प्रविशित्वा अम्ब उच्यते।

देहि भक्ष मया अम्ब भिक्षांश्च विविधां बहूम्॥

मित्रो मे ह्यागतो ह्यत्र पांसुक्रीडनकश्चिरात्।

मोदिष्यसि चिरं तेन तिष्ठते द्वारमागतः॥

तदा स त्वरमाना तु द्वारं निर्ययु तत्क्षणात्।

पश्यते तं महाभागं शान्तवेषं महर्द्धिकम्॥

तदा सा क्षिप्रमागत्य गृहीत्वा भाजनं शुभम्।

सुप्रक्षाल्य ततो हस्तौ॥

गृहीत्वा ओदनं चौक्षमनेकरसभूषितम्।

विविधाकारभक्षांश्च भाजने न्यस्य राजते॥

आगम्य च तदा क्षिप्रं पात्रे निवेद्य च।

पादयोर्निपतिता सा तु ससुता धर्मवत्सला॥

गृहीत्वासौ पिण्डपातं तु आकाशे अभ्यगच्छत।

ततोऽसौ ज्वलमानस्तु दीपमालेव दृश्यते॥

तेन तेषां वाचिको धर्म विद्यते खड्गचारिणाम्।

प्रभाव ऋद्धिसत्त्वानां दर्शयन्ति महात्मनः॥

अतिकारुणिका तेऽपि सत्त्वेभ्यो गतमत्सराः।

परलोकार्थं तु सत्त्वेभ्यः ऋद्धिं सन्दर्शयन्ति ते॥

तेन कर्मविपाकेन मात्रया सह बालकः।

पञ्चजन्मसहस्राणि देवत्वमथ कारयेत्॥

देवानां देवराजासौ सा एव जननी अभूत्।

अमनुष्याणां चक्रवर्त्तित्वं मनुजेश अभूत् तदा॥

अनुभूय चिरं सौख्यं बिम्बिसारसुतो इह।

यस्ते आकर्षितो भगवां चीवरान्तेऽथ गृह्य च॥

वाचा दुर्भाषिता उक्ता भिक्षुवादेन चोदितः।

पांसुक्रीडनको मह्यं भवस्वेति पुरा तदा॥

वाचो गतस्य कर्मस्य अनिष्टस्य कटुकस्य च।

तीव्रं प्रतापनादुःखं अनुभूय चिरं बहु॥

नरके पतितो घोरे अनीप्सको दुःखदुःसहम्।

कर्मपाशानुबद्धास्तु सत्त्वा गच्छन्ति दुर्गतिम्॥

हसद्भिः क्रियते कर्म रुदद्भिरनुभूयते।

पूर्वं बालिशभावेन प्रत्येकजिनतापिने॥

वाचा निश्चारिता दुष्टा तस्य कर्मस्य ईदृशम्।

नरकेभ्यः व्यसित्वा तु मनुष्यत्वमिहागतः॥

नारके चेतना ह्यासीद् विपाकजाते नराधिप।

तेन तीव्रेण रोषेण जीविता ते द्वतपूर्विकाम्॥

पूर्विकां वासनां स्मृत्वा प्रत्येकजिनचारिणीम्।

सम्मुखं दर्शितो बुद्धः पूज्यश्चैवमकारिता॥

तेनैव हेतुना ह्यासीद् राज्यत्वमिह कारय।

एवं वेणुवने तेषां अन्योन्या संलपेद् भुवि॥

एकश्च अग्रशिष्यो मे द्वितीयः स नराधिप !।

प्रणम्य शतधा स्तूपं स्वगृहेणैव ययौ तदा॥

ततोऽसौ शिष्यमुख्यैर्मे पिप्पलागुहवासिनः।

सन्निपात्य मुनिं सर्वां वीतरागां महर्द्धिकाम्॥

द्वादशाङ्गं प्रवचनं कृत्स्नं विनयं चैवमगायत।

तन्मया कथितो धर्मः पूर्वं जिनवरैस्तथा॥

स तेन शिष्यवराग्रेण त्रिप्रकारं समादिशेत्।

ग्रथनं सूत्रभेदेव विनये वाभिधर्मतः॥

तृबन्धान्मोचयेत् सत्त्वां त्रिदोषां चापि शोषयेत्।

तृदुःखान्मुक्तवां धीरः त्रियानं स्थापयेत् तदा॥

शासनार्थं तु बुद्धानां कारयिष्यति अग्रधीः।

महाराजाजातविख्यातो मागधेयो नराधिपः॥

यावदादङ्गपर्यन्तं वारणस्यामतत्परम्।

उत्तरेण तु वैशाल्यां राजा सोऽथ महाबलः॥

भविष्यति न सन्देहः शासनार्थं करिष्यति।

त्वया कुमार ! निर्दिष्टः व्याकृतः शान्तिमुत्तमे॥

तस्यापि सुतो राजा उकाराख्यः प्रकीर्त्तितः।

भविष्यति तदा क्षिप्रं शासनार्थं च उद्यतः॥

तदेतत् प्रवचनं शास्तु लिखापयिष्यति विस्तरम्।

पूजांश्च महतीं कृत्वा दिक्समन्तान्नयिष्यति॥

न चास्य दुर्गतिं चास्य देवेषूपपत्स्यते।

विंशद् वर्षाणि त्रिंशच्च पितृणा सह जन्मिनः॥

वेलायामर्धरात्रे तु पञ्चत्वं यास्यते तदा।

गोत्रजेनैव रोगेण अभिभूतोऽसौ भविष्यति॥

महारोगेण दुःखार्त्तः दिवसानि षड्विंशति।

समस्तव्याधिग्रस्तोऽसौ विविधाकारमूर्छितः॥

च्युतोऽसौ नरपतिः क्षिप्र देशेषूपपत्स्यते।

नियतं प्राप्स्यते बोधि सोऽनुपूर्वेण यत्नतः॥

एते चान्ये च बहवः अतीता येऽप्यनागता।

कृत्वा तु विविधां कारां प्रत्येकजिनतापिषु॥

इष्टां विशिष्टां सम्पत्तिं दिव्यामानुषिकांस्तथा।

तेऽनुपूर्वेण गच्छन्ति शान्तिं निर्जरसम्पदम्॥

हीनोत्कृष्टराजानो मध्यमाश्च नराधिपाः।

आद्ये तु युगे कथिता नहुषाद्या पार्थिवादयः॥

बुधशुक्रोदयो नित्यं मन्त्रसिद्धा नराधिपा।

शान्तनुश्चित्रसुचित्रश्च पाण्डवा सनराधिपाः॥

यातवा वारयत्याश्च रिषिशापास्तमित्रा तदा।

कार्त्तिकः कार्त्तवीर्योऽसौ दशरथदाशरथी पुरा॥

अर्जुनः सिद्धमन्त्रस्तु द्विद्रोणसुतोऽपरः।

अश्वत्थामा परो मन्त्री साधयामास मन्त्रराट्॥

शास्तुमूर्जितमन्त्रास्त्रैः क्ष्मापत्यं कारयेत् तदा।

समन्तात् त्रिषु द्वीपेषु जम्बूद्वीपगता तदा॥

देवकारांश्चैव मन्त्राणि पार्थिवादयः।

तेऽपि ताथागतिं पूजां अनुमोद्या दिविं गताः॥

बुद्धत्वनियता तेऽपि केचित् प्रत्येकयानिका।

श्रावकत्वनियता केचित् सर्वे ते मोक्षपरायणाः॥

कालव्यस्थानुरूपेण आयुषश्च विकल्पते।

उत्तमा दीर्घमानुष्ये मध्या मध्यमके तथा॥

अन्तिमे तु युगे कष्टे कलिप्राप्ते युगाधमे।

+ + + + + + + + + + पार्थिवा तु कलिप्रियाः।

अन्योऽन्य वैरसंसक्ता परस्परविहेढकाः।

नीचोत्पत्तिमायाताः शस्त्रसम्पातमृत्तवः॥

शस्त्रप्रवृत्तिसमुत्साहा परदाराभिरतस्तदा।

भविष्यन्ति न सन्देहः भूपाला लोककुत्सिताः॥

धूर्ता निकृष्टकर्माणः अनार्या मत्सरिणस्तथा।

भविष्यन्ति तदा काले मध्ये द्वापरयो कलौ॥

संक्षेपेण तु वक्ष्यामि कुमारस्तं निबोधत।

वर्तमाने तु यत्काले पार्थिवा भुवि मण्डले॥

तेषां तु रूपचिह्नानि वर्णतश्च निबोधताम्।

प्रसेनजित् कोसलो राजा बिम्बिसारस्तथापरः॥

उदयनः क्षत्रियश्रेष्ठः शतानीकसमुद्भवः।

सुबाहुः सुधनख्यातो महेन्द्रचन्द्रसमस्तथा॥

लिच्छवीनां तथा जातः सिंहो वैशाल्यमुद्भव।

उदाविद्योतमुद्योतमहासेनश्च कथ्यते॥

उज्जयन्यां तथा चण्डः कपिलाह्वे पुरे नृपः।

राजा शुद्धोदनश्चैव वैराटाख्यो महाबलः॥

इत्येते क्षत्रियाः प्रोक्ता महीपालाः शास्तु पूजकाः।

सम्मुखं बुद्ध पश्यन्ति शाक्यसिंहे नरोत्तमम्॥

धर्मं श्रुत्वा ततस्तेऽपि चिरं प्राप्स्यन्ति सम्पदाम्।

नियतं मोक्षकामास्तु शान्तिं प्राप्स्यन्ति तेऽपि ताम्।

इत्येते लोकविख्याता भूपाला क्षितिमण्डले।

वर्णतः क्षत्रियः प्रोक्तः चिह्नतो नामसज्ञितः॥

पूजयिष्यति ते वाक्यं मयैव कथितं भुवि।

त्वयैव व्याकृतो लोके कुमारो बालरूपिणः॥

अजाताख्यो नामसौ नियतं बोधिपरायणः।

मयि वर्षशते परिनिर्वृते भुवि मण्डले॥

निरालोके निरानन्दे अज्ञानतमसा वृते।

भविष्यति तदा शून्या मेदिनी जिनवर्जिता॥

तस्मिं काले महाघोरे कुसुमाह्वे नगरे तदा।

अशोको नाम विख्यातः पार्थिवो भुवि पालकः॥

तीव्रकारी सरोषी च निर्घृणोऽसौ भवेत् तदा।

कल्याणमित्रमात्रम्य वीतरागं महर्द्धिकम्॥

भिक्षुं शीलसम्पन्नं निज्वरं गतचेतसम्।

पूर्ववासनहेतुं च पांशुदानं महर्द्धिकम्॥

नियतं क्षेत्रसम्पन्नं पार्थिवोऽसौ महाधनः।

धर्माधर्मविचारी च सघृणी कारुणिको हि सौ॥

हेतुमुद्धाटयामास वीतरागो महर्द्धिकः।

त्वया हि नृपतेः पूर्वं अज्ञानाद् बालचापलात्॥

जिने शाक्यसिंहस्य पांसु अञ्जलिना तदा।

पात्रे भस्मे प्रतिष्ठाप्य प्राप्ता सम्पत्तयो दिवि॥

देवलोकं व्यवित्वा तु पितृलोकमिहागतम्।

भुंक्ष्व राज्यं महीपाल ! जम्बूद्वीपं सकाननम्॥

आराध्य मन्त्रं यक्षस्य जम्भलस्य महात्मने।

ततो भूतरथः सिद्धः क्षितिपश्च महात्मनः॥

यक्षास्तस्य तिष्ठन्ते आज्ञो दीक्षितमानसाः।

नागाश्चैव तिष्ठन्ते भव्याः किङ्करहेतवः॥

एवं महर्द्धिका धर्मात्मा बलचक्री अभूत् तदा।

यथेष्टगमनं तस्य निषेद्धा न क्वचिद् भवेत्॥

पूवस्थापितकार्ये तु जिनानां धातुवरा भुवि।

नगरे राजमुख्ये तु वने वेणुवने तदा॥

गृह्य धातुधरे धातुं कुशलालम्बनमानसः।

पूजयामास तं स्तूपं यथा पौराणमकारय॥

गृह्यन्तं धातुकुम्भं तु विभज्य शतधा पुनः।

क्षणेनैकेन मेधावी यक्षाणामाज्ञाविनिर्दिशेत्॥

जम्बूद्वीप इमं कृत्स्नं स्तूपालङ्कृतभूषणम्।

कारयन्तु भवन्तो वै धातुगर्भां वसुन्धराम्॥

आज्ञाप्रतीच्छते यक्षाः अर्धरात्रे तु यत्नतः।

अमानुषेयं कृतिं कृत्वा शिलायष्ट्योच्छ्रितां भुवि॥

अनेकस्तम्भसहस्राणि रोपयामास ते तदा।

पूजनार्थं तु चैत्यानां चिह्नभूतं च देहिनाम्॥

कृत्वा तु विविधां स्तूपां लोकनाथेभ्य तापिषु।

क्षणेनैकेन ते यक्षा नृपतेऽन्तिकमागताः॥

प्रणिपत्य ततो मूर्ध्ना वाचा निश्चारगुह्यकाम्।

यथाज्ञतं कृतं सर्वं किं न पश्यसि भूते॥

ततोऽसौ पार्थिवः क्षिप्रं आरुरोह रथं तदा।

विविधाकारपूजार्थं अनेकाकारशोभनाम्॥

काञ्चनं राजतं ताम्रं विविधांस्तूपभूषणाम्।

ततो भूतरथं क्षिप्रं पूरयामास पार्थिवः॥

क्षणेनेकन तं देशं यत्र ते धातुधरा जिना।

विचित्राकारपूजाभिः पूजयेत नराधिपः॥

शोभने मेदिनीं कृत्स्नां जिनधातुधरैस्तदा।

प्रणिधिं चक्रिरे राजा धर्माशोको महात्मवान्॥

अनेन कुशलार्थेन बुद्धो भूमामनुत्तरः।

एवं विदित्वा महात्मासौ धर्माशोको नराधिपः॥

मृतोऽसौ देवतां याति नियतं बोधिपरायणः।

अशीतिवर्षाणि सप्तं च पूजये धातुवरां भुवि॥

जीवेद् वर्षशतं सार्धं कृत्वा राज्यमकण्टकम्।

स्वकर्मजनितास्तस्य व्याधिरुत्पन्नदेहजे॥

तेनैव व्याधितो दुःखी मृतः स्वर्गोपगो भवेत्।

महतीं सम्पदं प्राप्य अनुभूय दिवौकसाम्।

अनुपूर्वेण मेधावी बोधिं प्राप्स्यति दुर्लभाम्।

मन्त्रा सिद्ध्यन्ति तत्काले वज्राब्जकुलयोरपि॥

जम्भलाद्यास्तथा यक्षा अस्मिं शासनवर्त्तिनः।

यक्षिण्यश्च समाख्याता हारीत्याद्या महर्द्धिकाः॥

चक्रवर्तिसमुत्पादे मन्त्रा सिद्ध्यन्ति चक्रिणः।

जिनैस्तु कथिता ये मन्त्रा विद्याराजा महर्द्धिकाः॥

उष्णीषप्रभृतयः सर्वे ये चान्ये जिनभाषिताः।

उत्तमां साधनां कुर्यात् तस्मिं काले सुशोभने॥

उत्तमैर्नाधमाः साध्या उत्तमां गतिमाशृतैः।

दिलीपो नहुषश्चैव मान्धाता सगरस्तथा॥

साधयित्वा तु ते मन्त्रां चक्रिणां जिनभाषिताम्।

तेजोराशिस्तदा सिद्धः नहुषस्य महात्मनः॥

राजा सितातपत्रस्तु सिद्धस्तु सगरस्य वै।

दिलीपस्य तथा मन्त्रं सिद्धमेकमक्षरम्॥

मान्धातस्य तथा लोके सिद्ध उष्णीषमुन्नतः।

जयोष्णीषस्तथा सिद्धो धुन्धुमारे नृपोत्तमे॥

कन्दर्पस्य तथा राज्ञो विजयोष्णीष कथ्यते।

प्रजापतिस्तस्य पुत्रो वै तस्यापि लोचना भुवि॥

प्रजापतेः सुतो नाभिः तस्यापि ऊर्णमुच्यति।

लाभिनो ऋषभपुत्रो वै स सिद्धकर्म दृढव्रतः॥

तस्यापि माणिचरो यक्षः सिद्धो हैमवते गिरौ।

ऋषभस्य भरतः पुत्रः सोऽपि मन्त्रान् तदा जपेत्॥

सोऽनुपूर्वेण सिद्धस्तु महावीरं भुवि स्तदा।

एते चाऽन्ये च बहवः पार्थिवा लोकविश्रुताः॥

साधयित्वा तु मन्त्राणां राज्यं कृत्वा दिवं गताः।

जिनेन्द्रैर्ये तु उक्तानि विद्याराजा महर्द्धिकाः॥

ते सर्वे शोभने काले युगेऽशीतिसहस्रगे।

सिद्धाः साधयिष्यन्ति मन्त्रतन्त्रार्थकोविदाः॥

एते चान्ये च बहवः पार्थिवा लोकविश्रुताः।

ततोऽशीतिसहस्राणि वर्षाणां शतमेव वा॥

राज्यं कृत्वा ततः स्वर्ग नियतं बोधिपरायणाः।

मध्यमे तु तदा काले दिव्यामाश्चर्यमहर्द्धिकाः॥

मन्त्राः सिद्धिमेवासुरब्जपाणिसमोदिताः।

मन्त्रिभिर्नरमुख्यैस्तु भूषालैः सार्धभूमिकैः॥

राजा च ब्रह्मदत्तो वै वाराणस्यां महापुरे।

सिद्धः अब्जपाणिस्तु लोकीशो लोकविश्रुतः॥

महावीर्यो महात्मासौ अतिकारुणिको महान्।

सत्त्वानां मन्त्ररूपेण दिदेश धर्मदेशनाम्॥

राज्ञा ब्रह्मदत्तेन अनुभूतं मानुषं सुखम्।

ततोऽसौ सिद्धमन्त्रस्तु सदेहः स्वगमाविशेत्॥

तस्यापि च सुतो धीमान् पुण्यकर्मा दृढव्रतः।

तस्यापि सिद्धो महावीर्यो हर्याख्येति विश्रुतः॥

तेन मन्त्रप्रभावेन जितः शक्र अभूत् तदा।

तस्यापि सुतः श्वेताख्यो राजाभूत् सर्वदस्तदा॥

तस्यापि वरदा मन्त्रा महाश्वेता नाम नामतः।

साधयित्वा तु तां मन्त्रं जीवेदू वर्षशतत्रयम्॥

तेन मन्त्रप्रभावेन सुखावत्या स गच्छति।

नियतं बोधिमेवास्य ये चान्ये व्याहृता मया॥

मध्यमे तु तदा काले मध्यमन्त्रांतु साधयेत्।

अधमेऽतियुगे कष्टे मयि बुद्धत्वमागते॥

मन्त्राः सिद्धिं प्रयास्यन्ति वज्राब्जकुलयोरपि।

त्वया कुमार ! मन्त्रा वै ये पूर्वं कथिता भुवि॥

तेऽपि सिद्धिं प्रयास्यन्ति मन्त्रा वै भागहेतुताम्।

इतराणि तु मन्त्राणि लौकिकां विविधां तथा॥

कश्मला विकृतरूपाश्च अन्तरिक्षा तु खेचरा।

भौम्या च मथ यक्षिण्यः पिशाच्या विविधास्तथा॥

गरुडाः किन्नराश्चैव प्रेता राक्षसभाषिता।

पिशाचोरगरक्षाणां नागीनां च महर्द्धिका॥

मन्त्रा सिद्धिं प्रयास्यन्ति युगे कष्टे युगाधमे।

कुमाररूपास्तु मन्त्रा वै कुमारिरूपास्तु सर्वदा॥

तेऽपि सिद्धिं प्रयास्यन्ति तस्मिं काले भयानके।

त्रिविधास्तु तथा मन्त्रा त्रिप्रकारास्तु साधना॥

त्रिविधेनैव कालेन त्रिविधा सिद्धिरिष्यते।

संक्षेपेण तु वक्ष्यामि कथ्यमानमतिविस्तरम्॥

राज्ञे सौ शोकमुख्यस्य पृष्ठते त भवे नृपः।

विशोक इति विख्यातो लोके धर्मानुचारिणः॥

तस्य सिद्धा इमा मन्त्रा देवी पण्डरवासिनी।

विशोकः साधयित्वा तु आजहार दिवौकसाम्॥

नाकपृष्ठे चिरं सौख्यमनुभूय स महानृपः।

पुनरेव गच्छन्मानुष्यं धर्मशीलो हि बुद्धिमाम्॥

राज्यं विविधसम्पत्तिं अनुभूय महाद्युतिः।

पूजयेद् धातुवरां श्रीमां वर्षाणि षट्सप्तति॥

ततो ज्वरेणाभिभूतोऽसौ भिन्नदेहो दिवं गतः।

तस्याप्यनन्तरे राजा शूरसेनः प्रकथ्यते॥

विघुष्टो धर्मचारी च शासनेऽस्मिं सदा हितः।

तेनापि साधिता मन्त्रा देवीस्तूपमहाश्रिया॥

तेनापि कारिता शास्तुः कारा सुमहती तदा।

स्तूपैरलङ्कृता सर्वा समुद्रान्ता वसुन्धरा॥

तस्य कर्मविपाकेन व्याधिरुत्पन्नदेहजा।

पक्षमेकं क्षयित्वासौ च्युतदेहो भविष्यति॥

कृत्वा राज्य वर्षाणि दश सप्त च मानवीः।

च्युतोऽसौ स्वर्गमाविष्टो नियतं बोधिपरायणः॥

तस्याप्यनन्तरो राजा नन्दनामा भविष्यति।

पुष्पाख्ये नगरे श्रीमां महासैन्यो महाबलः॥

तेनापि साधितो मन्त्र पिशाचो पीलुनामतः।

तस्य मन्त्रप्रभावं तु महाभोगो भविष्यति॥

नीचमुख्यसमाख्यातो ततो लोके भविष्यति।

तद्धनं प्राप्य मन्त्री सौ लोके पार्थिवतां गतः॥

भविष्यति तदा काले ब्राह्मणास्तार्किका भुवि।

सिद्ध्याभिमानलुब्धा वै नगरे मगधवासिनः॥

भविष्यन्ति न सन्देहो गिथ्यागर्वितमानिनः।

तेभिः परिवारितो राजा वै॥

धर्मशीलोऽपि धर्मात्मा तेषां दास्यति तं धनम्।

कल्याणमित्रमागम्य पूजे धातुवरानसौ॥

केवलं तु तदाभ्यासाद् दानाविक्लबहेतुना।

विहारा कारिता तेन षोडशाष्टौ च धीमता॥

भविष्यति तदा काले नगरे पुष्पसाहये।

मन्त्रिमुख्यो महात्मा वै घृणी साधु तथा द्विजः॥

स भविष्यति धर्मात्मा तस्या राज्ञोऽतिशाक्यिनः।

सोऽपि सिद्धमन्त्रस्तु यक्षिणी वीरमती भुवि॥

तेनापि कारितं श्रेष्ठं जिनानां धातुवरो भुवि।

अतिप्राज्ञो हि संवृतो यक्षिण्यास्तु प्रभावतः॥

तेन वासनकर्मेण पूर्ववासनचोदितः।

अनुपूर्वेण मेधावी बोधिं प्राप्स्यति दुर्लभाम्॥

स्त्रीकृतेन दोषेण मृत्युं प्राप्स्यन्ति मानवाः।

वररूचिर्नाम विख्यात अतिरागी अभूत् तदा॥

नन्दोऽपि नृपतिः श्रीमां पूर्वकर्मापराधतः।

विरागयामास मन्त्रीणां नगरे पाटलाह्वये॥

विरक्तमन्त्रवर्गिस्तु सत्यसन्धो महाबलः।

पूर्वकर्मापराधेन महारोगी भविष्यति॥

महाज्वरेण दुःखार्तः अर्धरात्रे भविष्यति।

आयुस्तस्य च वै राज्ञः षट्षष्टिवर्षां तथा॥

नियतं श्रावके बोधौ तस्य राज्ञो भविष्यति।

तस्याप्यन्यतमः सख्यः पाणिनिर्नाम माणवः॥

नियतं श्रावकत्वेन व्याकृतो मे भविष्यति।

सोऽपि सिद्धमन्त्रस्तु लोकीशस्य महात्मनः॥

साधयेत् प्रज्ञाकामस्तु क्रोधं हालहलं द्विजः।

तस्य राज्ञोऽपर ख्यातः चन्द्रगुप्तो भविष्यति॥

जपेन्द्रयक्षसिद्धस्तु कारयेद् राज्यमकण्टकम्।

महायोगी सत्यसन्धश्च धर्मात्मा स महीपतिः॥

अकल्याणमित्रमागम्य कृतं प्राणिवधं बहु।

तेन कर्मविपाकेन विषस्फोटैः स मूर्छितः॥

अर्धरात्रे रुदित्वासौ पुत्रं स्थापयेद् भुवि।

बिन्दुवारसमाख्यातं बालं दुष्टमन्त्रिणम्॥

ततोऽसौ चन्द्रगुप्तस्य च्युतः कालगतो भुवि।

प्रेतलोकं तदा लेभे गतिं मानुषवर्जिताम्॥

मन्त्राभ्यासात् तदा युक्तो गतिं त्यक्त्वा दिवि गतम्।

मन्त्रहेतुसमुत्पादात् कुशलालम्बनचेतनाम्॥

प्रत्येकं बोधिमायाति सोऽनुपूर्वेण नराधिपः।

राज्ञाथ बिम्बसारेण बालेनाव्यक्तचेतसा॥

पुरा कारितं चैत्यं सिंहदत्तेन भवान्तरे।

तस्य कर्मप्रभावेन दिवं यातो ह्यनिन्दितः॥

पञ्च जन्मसहस्राणि अमरेभ्यो भुक्तवान् सुखम्।

स्वर्गलोकाच्च्यवित्वा तु मनुष्येन्द्रोपपद्यते॥

जातो राजकुले चन्द्रगुप्तस्य धीमतः।

बाल एव ततो राजा प्राप्तः सौख्यमनल्पकम्॥

प्रौढो धृष्टश्च संवृत्तः प्रगल्भश्चापि प्रियवादिनम्।

स्वाधीन एव तद् राज्यं कुर्याद् वर्षाणि सप्तति॥

मन्त्रा केशिनी नाम सिद्धा तस्य नराधिपे।

कुमार ! त्वदीयमन्त्रे तु सिद्धिं गच्छेयु ते तदा॥

भविष्यति तदा काले मन्त्रसिद्धिस्त्वयोदिता।

कुमाररूपी विश्वात्मा लोकानां प्रभविष्णवः॥

भविष्यति न सन्देहो मन्त्ररूपेण देहिनाम्।

+ + + + + + + + + + + + + + + हितकाम्यया॥

तस्मिं काले सदा सिद्धिर्भविष्यन्ति पठिता भुवि।

मन्त्री तस्य राज्ञस्य बिन्दुसारस्य धीमतः॥

चाणक्य इति विख्यातः क्रोधसिद्धस्तु मानवः।

यमान्तको नाम वै क्रोधः सिद्धस्तस्य च दुर्मतेः॥

तेन क्रोधाभिभूतेन प्राणिनो जीविताद्धता।

कृत्वा तु पापकं तीव्रं त्रीणि राज्यानि वै तदा॥

दीर्घकालाभिजीवी सौ भविता द्विजकुत्सितः।

तेन मन्त्रप्रभावेन सदेहमासुरीं भजेत्॥

आसुरीं तनुमाविष्ट दीर्घकालं स जीवयेत्।

ततोऽसौ भिन्नदेहस्तु नरकेभ्यो विगच्छतः॥

ततोऽसौ नारकं दुःखं अनुभूयेह दुर्गतिः।

विविधा नारकां दुःखां अनिष्टां कर्मजां तदा॥

कल्पमेकं क्षयित्वासौ क्रोधमन्त्रप्रचोदितम्।

च्युतोऽसौ नरकाद् दुःखात् तिर्यगेभ्योपपद्यते॥

नागयोनिं समापद्य भीमरूपी भविष्यति।

नागराजो महाक्रोधी महाभोगी विषदर्पितः॥

दारुणं कर्मचारी च।

च्युतोऽसौ दुष्टकर्मा तु यमलोकमगच्छत॥

सुनिदा यमराजासौ प्रेतराजो महर्द्धिकः।

एवं दुःखसहस्राणि अनुभूय पुनः पुनः॥

सोऽनुपूर्वेण दुर्मेधा भुविमायात माणवः।

मानुष्यं जन्ममायातः भीमरूपी भविष्यति॥

दरिद्र क्रोधनश्चैव अल्पशाख्यो भविष्यति।

प्रत्येकबुद्धा ये लोके निराशाः खड्गचारिणः॥

हीनदीनानुकम्प्यास्तु विचरन्ति महीतले।

सत्त्वानां हितकाम्यर्थं प्रविष्टा पिण्डचारिकाम्॥

ते तं दुर्मतिं दृष्ट्वा वै परचित्तविदोस्तदा।

ते तत्र मनुबद्धास्तु कारुण्यान्नान्यहेतवः॥

तेन कुल्माषखन्डास्तु गृहीता भक्षहेतुना।

क्रोधमन्त्राभिभूतेन हेतुमुद्धाटिता तदा॥

तेषां निर्यातयेद् भिक्षं तत्रैकस्य महात्मनः।

इदं भोः प्रव्रजिताः ! सर्वे ! भक्षयध्वं यथासुखम्॥

तस्यानुकम्पा बुद्धेभ्यः ऋद्धिं दर्शितवां तदा।

ततोऽसौ विस्मयाविष्टः प्रभावोद्गतमानसः॥

प्रपतेत् सर्वतो मूर्ध्ना बुद्धेभ्यः खड्गकल्पिषु।

आकाशेन गताः सर्वे वीतदोषा यथेष्टतः॥

तेनापि कुशलार्थेन प्रत्येकां बोधिचिन्तिताम्।

यादृशा हि महात्मानः शान्तवेषा महर्द्धिकाः॥

तादृशोऽहं भवेल्लोके मा दुःखी मा च दुर्गतिः।

क्षीणकर्मावशेषस्तु च्युतः स्वर्गोपगः सदा॥

सोऽनुपूर्वेण धर्मात्मा प्रत्येकं बोधि लप्स्यते।

तस्मान्न कुर्यान्मन्त्रेभ्यः साधनमाभिचारुकम्॥

बुद्धैर्बोधिसत्त्वैश्च प्रतिषिद्धमाभिचारुकम्।

अतिकारुणिका बुद्धा बोधिसत्त्वास्तु महर्द्धिकाः॥

प्रभावार्थं तु मन्त्राणां दर्शितं सर्वकर्मिणः।

चिन्तामणयो मन्त्रा भाषितास्तु तथागतैः॥

बालरूपा मूढचित्तास्तु क्रोधलोभाभिभूतयः।

परस्परं प्रयोज्यन्ते ये मन्त्रा आभिचारुके॥

प्रतिषिद्धं तथा बुद्धैर्बोधिसत्त्वैस्तु धीमतैः।

सर्वप्रकार तु मन्त्राणां सत्त्वेभ्यो भोगवर्धनम्॥

उत्तिष्ठमथ राज्यं वै मदारक्षां धन्यहेतवः।

आकर्षणं तु सत्त्वानां विविधां योनिमाश्रिताम्॥

साधनीयास्तु मन्त्रा वै न जीवमुपरोधतः।

तस्मिं काले भविष्यन्ति भिक्षवो मे बहुश्रुताः॥

मातृचीनाख्यनामास्तु स्तोत्रं कृत्वा ममैव तु।

यथा भूतगुणोद्देशैः यथाकारमभाषत॥

प्रसाद्य सर्वतश्चित्तं बुद्धानां शासने रतः।

मन्त्रसिद्धस्तु दुर्लक्ष्यः मञ्जुघोषस्तवैव तु॥

गुणवां शीलसम्पन्नः धर्मवादी बहुश्रुतः।

पुरा तिर्यग्गतेनैव इमां स्तोत्रमभाषत॥

नृपाख्ये नगरे रम्ये खण्डाख्ये च वने वतु।

सार्धं शिष्यगणेनैव विहरामि यथासुखम्॥

तत्रस्थो वायस आसी मां चित्तं सम्प्रसादयेत्।

प्रसाद्य च मयि चित्तं भिन्नदेहो दिवं गतः॥

देवेभ्यश्च च्यवित्वा तु मनुष्येभ्योपपत्स्यते।

मनुष्येभ्योपपन्नस्तु प्रव्रजेच्छासने मम॥

प्रव्रजित्वा महात्मासौ यथाभूतं हि मां तदा।

स्तविष्यति तदा काले मातृचीनाख्य सव्रती॥

स्तोत्रोपहारं यथार्थं च नानादृष्टान्तरहेतुभिः।

प्रकर्ता सर्वभूतानां हितायैव सुभाषितम्॥

अनुग्रहार्थं तु सत्त्वानां स्तोत्रचोदनतत्परः।

भविष्यति तदा काले युगान्ते लोकनिन्दिते॥

तेन कर्मविपाकेन भिन्नदेहो दिविं गतः।

सोऽनुपूर्वेण मेधावी अनुभूय विविधां सुखाम्॥

बोधिं प्राप्स्यति सर्वज्ञिंउत्तमार्थमचिन्तियाम्।

चतुर्थे वर्षशते प्राप्ते निर्वृते मयि तथागते॥

नागाह्वयो नाम सौ भिक्षुः शासनेऽस्मिं हिते रतः।

मुदितां भूमिलब्धस्तु जीवेद् वर्षशतानि षट्॥

मायूरी नामतो विद्या सिद्धा तस्य महात्मनः।

नानाशास्त्रार्थधात्वर्थं निःस्वभावार्थतत्त्ववित्॥

सुखावत्यां चोपपद्येत् यदासौ त्यक्तकलेवरः।

सोऽनुपूर्वेण बुद्धत्वं नियतं सम्प्रपत्स्यते॥

सङ्गनामा तदा भिक्षुः शास्त्रतत्त्वार्थकोविदः।

सूत्रनीतार्थनेयानां विभज्य बहुधा पुनः॥

लोकाभिधायी युक्तात्मा तुच्छशीलो भविष्यति।

तस्य सिद्धा शालदूतीति कथ्यते॥

तस्य मन्त्रप्रभावेन बुद्धिरुत्पन्न श्रेयसी।

सङ्ग्रहे सूत्रतत्त्वार्थं शासनस्य चिरस्थिते॥

जीवेद् वर्षशतं सार्धं त्यक्तदेहो दिविं गतः।

अनुभूय चिरं सौख्यं दीर्घसंसारसंसरम्॥

अनुपूर्वेण चात्मासौ बोधिप्राप्तो भविष्यति।

एवं बहुविधाकारो भिक्षवो मयि शासने॥

प्रज्ञा धर्मशीलास्तु भविताभूत् तदा युगे।

अपश्चिमे तु तदा काले नन्दनामतः॥

सोऽपि मन्त्रार्थयुक्तात्मा तन्त्रज्ञोऽथ बहुश्रुतः।

तस्य भद्रघटः सिद्धः यक्षमन्त्रप्रचोदितः॥

महायानाग्रसूत्रे तु मया च कथिता पुरा।

तस्मिं काले घटे तस्मिं उज्जहार महातपा॥

तस्य दृष्टसदा तत्र पुस्तकेऽस्मिं मन्त्ररूपिणे।

रक्षा न कारिता तत्र घटेऽस्मिं यक्षसाधिते॥

अनप्रमादात् स्मृतिभ्रंशा घटो मूर्ध्नटके हृतः।

ततोऽसौ सिद्धमन्त्रस्तु भिक्षुर्मन्त्रतपी अभूत्॥

वटं निरीक्षयामास नाभिपश्येत तत्र वै।

ततोऽसौ क्रोधरक्ताङ्गः विस्फूर्जन अभाषत॥

आब्रह्मस्तम्बपर्यन्तं शक्राद्यां समहेश्वराम्।

मन्त्रेनाकृष्यमानेयं नाहं मन्त्री न मन्त्रराट्॥

ये मन्त्रा बुद्धपुत्रैस्तु मन्त्रा जिनवरैस्तथा।

भाषिता निग्रहार्थाय दुर्दान्तदमकापि वा॥

ते तु सर्वे भुविर्नास्ति थदि नाकृष्यामि चोरीणाम्।

ततोत्थाय ततो मन्त्री सिद्धकर्मदृढव्रतः॥

यथा तु विहिते मन्त्रे प्रयोगाकृष्टहेतवः।

प्रयोजयामास तं दिक्षु क्षिप्राकर्षणतत्परः॥

क्षणेन स्मृतमात्रेण क्षिप्रकर्मायतिह्यसौ।

हुङ्कारेकेण मात्रेण ब्रह्माद्यामानयेद् भुवि॥

आकृष्टा सर्वदेवास्तु ब्रह्माद्याः सशक्रकाः।

हाहाकारं प्रमुञ्चाना आर्त्ता भैरवनादिनः॥

किं करोम किमानीता नाम यं मन्त्रापराधिनः।

शीघ्रं च त्वरमाणस्तु भिक्षुर्धीमां विशारदः॥

दिवौकसां मन्त्रयामास घटं प्रत्यर्पयथ इतो इह।

अन्योन्यं वै सुराः सर्वे स भिक्षुः सम्प्रभाषतः॥

क्षिप्रं वदत भद्रं वो ये नेनापहृतो घटः।

निरीक्षयामास ते देवाः न दास्यन्तेऽथ समन्ततः॥

समन्वाहरति देवेशः केनायं घटकोऽपहृतः।

पश्यते वज्रिणः श्रीमां बोधिसत्त्वो महाद्युतिः॥

तस्यास्ति सुतो घोरः महारोषी सुदारुणः।

निर्मितो विघ्नरूपेण विचेरुः सर्वतो जगत्॥

तेनासौ घटो नीत देवेशः सम्प्रभाषितम्।

अस्ति वज्रकुले विघ्नः क्रीडते लीलया भुवि।

पूजितोऽहमिमेनेति तेनासौ घटको हतः।

एवमुक्त्वा तु देवेशः पुनरेव दिविं गताः॥

सर्वे विसर्जिता देवाः स्वमन्त्रेणैव ते तदा।

क्षणेनैव तु तत्रैकः मुहूर्तसुतरानपि॥

आनयामास तं बिघ्नमवशात् सघटं तदा।

ततस्तेन तु विघ्नेन प्रेतानां घटमाददे॥

ततो नीतेन तु विघ्नेन इमां वाचामभाषिता।

प्रेतलोके घटो नीतः न वयं तत्र दोषिणः॥

रुष्टो सोऽपि महामन्त्री तं विघ्नमभ्यभाषत।

गच्छ गच्छ महाविघ्न ! मा भूयो एवमाचरेत्॥

ततस्तेन तु ते प्रेता आनीतास्तत्क्षणादपि।

क्षुभिताक्रान्तमनसः दीनाः सूचीमुखा हि ते॥

आर्तस्वरं च क्रन्देयुर्महाघोरतमा हि ते।

चुक्रुतुः करुणां वाणीं परित्रायस्व महात्मन॥

घटं वो इह आनीता यथेष्ट कुरुते वयम्।

महाकारुणिको मन्त्रीं वेपथु सम्प्रजायताम्॥

करुणार्द्रेण मनसा इमां वाचामभाषत।

किं दुःखं भवतां लोके सम्प्रभाषथ मा चिरम्॥

ते ऊचुर्दीनमनसा बुभुक्षास्मत् सम्प्रबाधते।

त्रिषिताः प्रेतलोकेऽस्मिं चिरं कालं महात्मनः॥

महाकारुणिको भिक्षुस्तेषामेव प्रददौ घटम्।

ततस्ते तुष्टमनसाः सत्त्वरामालयं गताः॥

तेषां चिन्तितमात्रेण अन्नपानं भवेद् घटे।

भविता चन्दनमालेऽस्मिं भिक्षुर्नन्दको भुवि।

तस्मिं कालाधमे प्राप्ते जीवेद् वर्षशतत्रयम्।

महात्मा बोधिनिम्नस्तु क्षिप्रं प्राप्स्यति दुर्लभाम्॥

भविष्यन्ति न सन्देहः तस्मिं काले युगाधमे।

राजा गोमिमुख्यस्तु शासनान्तर्धापको मम॥

प्राचिं दिशिमुपादाय कश्मीरे द्वारमेव तु।

नाशयिष्यति तदा मूढः विहारां धातुवरांस्तथा॥

भिक्षवः शीलसम्पन्नां घातयिष्यति दुर्मतिः।

उत्तरां दिशमाशृत्य मृत्युस्तस्य भविष्यति॥

अमानुषेणैव क्रुद्धेन सराष्ट्रा पशुबान्धवः।

आक्रान्तोऽद्रिखण्डेन पातालं यास्यति दुर्मति॥

अधो अथ गतिस्तस्य नरकान्नरकतरं भृशम्।

दुःखा दुःखतरं तीव्रं सम्प्रपत्स्यति दारुणम्॥

अवीचिर्नाम विख्यातं नरकं पापकर्मिणा।

मुच्यतेऽसौ महाकल्पं गोमिषण्डो दुरात्मनः॥

अकल्याणमित्रमागम्य कृतं पापसुदारुणम्।

तस्मात् सर्वप्रयत्नेन शासनेऽस्मिं तथागते॥

प्रसाद्यमखिलं चित्तं सम्प्रभोक्ष्यथ सम्पदाम्।

बुद्धत्वनियतं मार्गम् अष्टाङ्गपथयायिनम्॥

गमिष्यथ सदा सर्वे अशोकं निर्जरसं पुरम्।

तस्यानन्तरे महीपालः बुद्धपक्ष इति श्रुतः॥

महायक्षो महात्यागी बुद्धानां शासने रतः।

भविष्यति न सन्देहः तस्मिं काले युगाधमे॥

अतिप्रीतो हि नृपतिः शास्तुः शासनतत्परः।

विहारारामचैत्यांश्च शास्तुर्बिम्बाननुत्तमाम्॥

वाप्यः कूपाश्च + + + + + + अनेकधाः।

कारयित्वा महाराजा दिवं गच्छेद् गतायुषः॥

तस्य सिद्धो महावीर्यः अब्जकेतुर्महीतले।

पृथिवां पालनां प्रार्थे बोधिसत्त्वस्य महात्मने॥

तस्य मन्त्रप्रभावेन जीवेद् वर्षशतत्रयम्।

तेन कर्मावशेषेण क्षिप्रं बोधिमवाप्नुयात्॥

तस्यापि च सुतो राजा महासैन्यो महाबलः।

गम्भीरयक्षो विख्यातः पृथिवीमखिलोदिताम्॥

सोऽपि राजाथ युक्तात्मा तस्मिं काले भविष्यति।

विहारावसथचैत्यांश्च वापीकूपांश्च नैकधा॥

कारयिष्यति न सन्देहो भूपतिः स महाद्युतिः।

तेनापि साधितं मन्त्रं मञ्जुघोषस्य धीमतः॥

षडक्षरं नाम यद् वाक्यं महार्थं भोगवर्धनम्।

तस्य मन्त्रप्रभावेन महाभोगी भवे ह्यसौ॥

अनुपूर्वेण मेधावी क्षिप्रं बोधिपरायणः।

विविधाकारकारांस्तु शासनेऽस्मिं तथागते॥

भविष्यति तदा काले उत्तरां दिशिमाशृतः।

नेपालमण्डले ख्याते हिमाद्रेः कुक्षिमाश्रिते॥

राजा मानवेन्द्रस्तु लिच्छवीनां कुलोद्भवः।

सोऽपि मन्त्रार्थसिद्धस्तु महाभोगी भविष्यति॥

विद्या भोगवती नाम तस्य सिद्धा नराधिपे।

अशीतिवर्षाणि कृत्वासौ राज्यं तस्करवर्जितम्॥

ततः प्राणात्यये नृपतौ स्वर्गलोके जजग्मसु।

तत्र मन्त्राशु सिध्यन्ति शीतला शान्तिकपौष्टिका॥

तारा च लोकविख्याता देवी पण्डरवासिनी।

महाश्वेता परहितोद्युक्ता अखिन्नमनसां सदा॥

इत्येवमादयो प्रोक्ता बहुधा नृपतयोस्तदा।

अनेकधा बहुधाश्चैव नानारूपविवर्णिताः॥

शास्तुपूजकास्तेऽपि म्लेच्छराजा न है।

वविषः सुवृषश्चैव भावसु शुभसुस्तथा॥

भाक्रमः पदक्रमश्चैव कमलश्चैव कीर्त्यते।

भागुप्तः वत्सकश्चैव + + + + + पश्चिमः॥

उदयः जिह्नुनो ह्यन्ते म्लेच्छानां विविधास्तथा।

अम्भोधेः भ्रष्टमर्यादा बहिः प्राज्ञोपभोजिनः॥

शस्त्रसम्पातविध्वस्ता नेपालाधिपतिस्तदा।

विद्यालुप्ता लुप्तराजानो म्लेच्छतस्करसेविनः॥

अनेका भूपतयो प्रोक्ता नाना चैव द्विजप्रिया।

भविष्यन्ति तदा काले चीनं प्राप्य समन्ततः॥

राजा हिरण्यगर्भस्तु महासैन्यो महाबलः।

विस्तीर्णश्च तन्त्रश्च प्रभूतजनबान्धवः॥

म्लेच्छप्रणतो विजयी च शास्तुः शासनतत्परः।

तेनापि साधितो मन्त्रः कुमारस्येव महाद्युतेः॥

विद्याराजामष्ट अक्षरम्।

महावीरं नाम विख्यातं सम्पदानां महास्पदम्॥

तेन बालधियो राजा राज्यहेतोः समाहितः।

यस्य स्मरितमात्रेण बुद्धत्वं नियतं पदम्॥

सोऽल्पकार्यनियुञ्जानः राज्यहेतो नराधिपः।

आकांक्षमानयद्येवं वरदानमनुत्तमम्॥

ब्रह्माद्या देवतां कृत्स्नामाज्ञापयति सर्वदा।

किं पुनर्मानुषां लोके इतरां भावकुत्सिताम्॥

जीवित्वा वर्षशतं सार्धं दिवं गच्छन्महानृपः।

सोऽनुपूर्वेण धर्मात्मा उत्तमां बोधिमाप्नुयात्॥

तस्मिं देश इमा विद्या ये कुमारेण भाषिता।

सत्वरा तेऽपि सिद्ध्यन्ते नान्ये विद्या कदाचन॥

बोधिसत्त्वो महाधीरः मञ्जुघोषो महाद्युतिः।

तस्मिं देशे तु साक्षाद् वै तिष्ठते बालरूपिणः॥

सिद्धिक्षेत्राऽथ परं दिव्यं मानुष्यैः साधयिष्यति।

तुरुष्कनामा वै राजा उत्तरापथमाशृत॥

महासैन्यो महावीर्यः तस्मिं स्थाने भविष्यति।

कश्मीरद्वारपर्यन्तं बष्कलोद्यं सकाविशम्॥

योजनशतसप्तं तु राजा भुङ्क्तेऽथ भूतलम्।

सप्तसप्ततिसहस्राणि लक्षौ द्वौ तस्य भूपतेः॥

भविष्यति न सन्देहो तस्मिं काले युगाधमे।

सोऽपि सिद्धमन्त्रस्तु जीवेद् वर्षशतत्रयम्॥

साधिता केशिनी विद्या नराध्यक्षेण धीमता।

आत्मना श्रेयसार्थं तु विहारां कारयेद् बहून्॥

षडाशीतिसहस्राणि कुर्यात् स्तूपवरांस्तथा।

महायानाग्रधर्मं तु बुद्धानां जननीस्तथा।

प्रज्ञापारमिता लोके तस्मिं देशे प्रतिष्ठिता।

स राजा भिन्नदेहस्तु स्वर्गलोकं गमिष्यति॥

सोऽनुपूर्वेण क्षितीपेशः बोधिं प्राप्स्यति मुत्तमाम्।

तस्यान्तरे क्षितिपतेः महातुरुष्को नाम नामतः॥

धीमतः बहुमतः ख्यातो गुरुपूजकतत्परः।

सदा सोऽपि साधे स मन्त्रं वै तारादेवीं महर्द्धिकाम्॥

सोऽपि प्रसिद्धमन्त्रस्तु राज्यहेतो थ भूतले।

महायक्षा महासैन्यः महेशाक्षोऽथ भूपतिः॥

सम्मतो बन्धुवर्गाणां राजा सोऽपि भविष्यति।

अष्टौ सहस्रविहाराणां तस्मिं काले भविष्यति॥

तस्य मन्त्रप्रभावेन जीवेद् वर्षशतद्वयम्।

यदासौ भिन्नदेहस्तु तुषितेभ्योपपद्यते॥

सोन्मत्तो देवपुत्राणां बोधिसत्त्वो महर्द्धिकः।

सोऽनुपूर्वेण धर्मात्मा बोध्यङ्ग समभिपूरतः॥

प्राप्नुयामतुलां बोधिं सोऽनुपूर्वेण यत्नतः।

तत्र देशे सदा कालं तिष्ठते प्रवरं बहु॥

जिनैस्तु कथितं पूर्वं अधुना चर्यया भुवि।

वीतरागैः समाक्रान्तं नागैश्चापि महर्द्धिकैः॥

लोकपालास्तथा यक्षाः शास्तु शासनरक्षकाः।

भविष्यन्ति तदा काले सद्धर्मा रक्षका भुवि॥

एवं बहुविधाः प्रोक्ताः भूपाला लोकविश्रुताः।

कथिताः कथयिष्यन्ति तस्मिं काले सुदारुणे॥

पश्चाद्देशपर्यन्तं उज्जयन्यामतः परे।

समुद्रतीरपर्यन्तं लाडानां जनपदे तथा॥

शीलाह्वो नाम नृपतिः बुद्धानां शासने रतः।

पुरीं वलभ्य सम्प्राप्तो धर्मराजा भविष्यति॥

विहारां धातुवरां चित्रां श्रेयसां प्राणिनांस्तथा।

कारयिष्यति युक्तात्मा भूपतिर्धर्मवत्सलः॥

पूजां च विविधाकारां जिनबिम्बां मनोरमाम्।

पूजयेद्धातुवरां अग्र्यां लोकनाथेभ्यो यशस्विषु॥

नासौ मन्त्रसिद्धस्तु केवलं कर्मजोत्तमः।

तत्र देशे समाख्यातो भिक्षुः पिण्डचारिकः॥

शीलवां बुद्धिसम्पन्नो बुद्धानां शासने रतः।

कालचारी महात्मासौ प्रविष्टो पिण्डराचिकम्॥

पश्यते राजकुलं श्रेष्ठं विस्तीर्णं च जनावृतम्।

प्रविष्टो तत्र भिक्षार्थी क्षुधया च समन्वितः॥

तृषितो क्लान्तमनसो न लेभे पिण्डकं तदा।

गृहीत्वासौ पुरुषैः क्षिप्रं निर्ययुः तद्गृहात् परम्॥

ततो सौद्विग्नमनसो रक्षितो राजभटैस्तदा।

निर्ययुर्नगरात् तस्मात् स्वालयं तत्क्षणाद् गतः॥

क्षुधितो तृषितश्चैव दुःखी च दुर्मतिं गतः।

ततोऽसौ भक्तच्छिन्नस्तु अर्धरात्रे समुपस्थिते॥

प्राणत्यागं तदा चक्रुः यती सौ लघुचेतसः।

प्रणिधिं च तदा चक्रे लाडानामधिपतिर्भवेत्॥

ततोऽसौ कालगतो भिक्षुर्धराख्ये नृपतौ कुले।

उत्पद्येत महात्मासौ शास्तुः शासनपूजकः॥

दशवर्षाणि विंशं च राज्यं कृत्वा मकण्टकम्।

लुब्धः स्वजनप्रयोगेण अजीर्णयतिमूर्छितः॥

भिन्नदेहो ततो राजा कालं कृत्वा दिविं गतः।

देवा तुषितवरा नाम मैत्रेयो यत्र तिष्ठति॥

धर्मश्रावी महात्मासौ तत्रासौ उपपत्स्यते।

धर्मं शृण्वन्ति सत्कृत्य मैत्रेयस्य महाद्युतेः॥

सोऽनुपूर्वेण बोधिं च प्राप्स्यति दुर्लभाम्।

शीलाख्ये नृपतौ वृत्ते चपलस्तत्र भविष्यति॥

वर्षार्धपक्षमेकं तु पञ्च मासां तथैव तु।

राज्यं कृत्वा विभिन्नोऽसौ शस्त्रिभिः शस्त्रजीविभिः॥

स्त्रीकृतेनैव तु दोषेण शस्त्रभिन्नो अधो गतः।

तस्याप्यनुजो ध्रुवाख्यस्तु ध्रुवः स्थावरतां गतः॥

सेवक कृपणो मूर्खः लाडानामधिपतिर्भवेत्।

शेषा नराधिपाः सर्वे मूर्धान्तास्तु सेवकाः॥

तेषां च पूर्वजा वंशाः शीलाह्वोपरते तदा।

भविता भूपतयः सर्वे अम्भोजे तीरपर्षगाः॥

नृपः इन्द्रो सुचन्द्रश्च धनुः केतुस्तथैव च।

पुष्पनामो ततः प्रोक्ता वारवत्यां पुरोद्भवः॥

बलभ्यां पुरिमागम्य आद्यमस्यानुपूर्वका।

प्रभनामा सहस्राणि विष्णुनामा तथैव च॥

अनन्ता नृपतयो प्रोक्ता यादवानां कुलोद्भवाः।

तेषामपश्चिमो राजा विष्णुनामा भविष्यति॥

ऋषिशापाभिभूतस्तु सपौरजनबान्धवः।

अस्तं गते नृपो धीमां उदके प्लाविता पुरी॥

द्वारवत्या तदा तस्य महोदधिसमाश्रिता।

उत्तरां दिशि सर्वत्र नानारम्भनितम्बयोः॥

अनन्ता नृपतयः प्रोक्ता नानाजातिसमाशृताः।

शकवंश तदा त्रिंशत् मनुजेशा निबोधता॥

दशाष्ट भूपतयः ख्याता सार्धभूतिकमध्यमा।

अन्ते नागसेना तु विलुप्ता ते परे तदा॥

ततो विष्णुहरश्चैव कुन्तनामाजितः परः।

ईशानसर्वपङ्क्तिश्च ग्रहसुव्र तथापरः॥

ततस्ते विलुप्तराजानः भ्रष्टमर्याद सर्वदा।

विष्णुप्रभवौ तत्र महाभोगो धनिनो तदा॥

मध्यमात् तौ भकाराद्यौ मन्त्रिमुख्यौ उभौ तदा।

धनिनौ श्रीमतौ ख्यातौ शासनेऽस्मिं हिते रतौ॥

जप्तमन्त्रौ तथा मन्त्रे कुमारस्त्वयि मन्त्रराट्।

ततः परेण भूपालो जाताना मनुजेश्वरौ॥

सप्तमष्टशता त्रीणि श्रीकण्ठावासिनस्तदा।

आदित्यनामा वैश्यास्तु स्थानमीश्वरवासिनः॥

भविष्यति न सन्देहो अन्ते सर्वत्र भूपतिः।

हकाराख्यो नामतः प्रोक्तो सार्वभूमिनराधिपः॥

तत्र देशे इमे मन्त्रा सिद्धिं गच्छेयु वै तदा।

धर्मराजेन ये प्रोक्ता विद्या शान्तिकपौष्टिका॥

विविधां भोगविषयां सम्पदां विविधांस्तथा।

नाना च रूपधारिण्यो यक्षिण्यश्च महर्द्धिकाः॥

भविष्यन्ति तत्र वै सिद्धा तस्मिं काले युगाधमे।

दक्षिणां दिशिमाश्रित्य ससमुद्रां वसुन्धराम्॥

राजा श्वेतसुचन्द्रश्च सातवाहन एव तु।

महेन्द्रं शङ्करश्चैव वल्लभोऽथ महीपतिः॥

सुकेशिकेशिश्च विख्याता दक्षिणां दिशि।

मङ्गलो वल्लभः प्रोक्तो गोविन्दः बृन्दखेतुः॥

मुत्पातः पोतश्चैव महेन्द्रः चन्द्र एव तु।

गोपेन्द्रो इन्द्रसेनश्च प्रद्युम्नो माधवस्तदा॥

गणशङ्करश्चैव व्याघ्रं सिंहो तथा बुधः।

बुधः शुद्धस्तथा कुम्भः निकुम्भश्चैव कीर्त्यते॥

मथितः सुमितश्चैव।

बलः पुलिनश्चैव सुकेशिः केशिनस्तथा॥

अनन्ता बहवो ख्याता भूपाला दक्षिणां दिशि।

अतीतानागता चापि वर्त्तमाना निबोधिता॥

नानामृत्युभवे ह्येते नानाव्याधिसमाप्लुता।

शस्त्रसम्पातदुर्भिक्षैः मृताः केचिद् दिविं गताः॥

इत्येते नृपतयः सर्वे कथिता विपुखस्तथा।

महेन्द्रान्त नृपोताख्यातः तथासहतिस्तथा॥

भविष्यन्ति तदा अभूत्।

तस्मिं काले तदा देशे मन्त्राणां सिद्धिमिच्छताम्॥

साधनीया इमा मन्त्राः क्रोधाद्याः कुलिशोचिताः।

आभिचारुककर्मेषु वश्यार्त्थे च तथा हितम्॥

मञ्जुश्रियोऽथ माहात्मा वै कुमारो बालरूपिणः।

सिध्यते च तदा देशे कलिप्राप्ते च तदा युगे॥

पर्वतविन्ध्यमाशृतं सागरे लवणोदके।

कार्तिकेयेति समाख्यातः सत्त्वानां वरदायकः॥

आज्ञां भो बोधिसत्त्वेन मञ्जुघोषेण धीमता।

सत्त्वानां हितकाम्यर्थं निवसेद् दक्षिणां दिशि॥

कार्तिकेयस्य ये मन्त्राः कथिता मञ्जुभाणिना।

तस्मिं देशे तदा सिद्धिः भविष्यति न संशयः॥

श्रीपर्वते तदा देशे विन्ध्यकुक्षिनितम्बयोः।

द्वीपेष्वेव च सर्वत्र कलिङ्गोद्रेषु कीर्त्यते॥

त्रैगुण्या म्लेच्छदेशेषु समन्ततः।

अम्भोधेः कुक्षितीरान्ताः नृपा ख्याता अनन्तकाः॥

कामरूपकलाख्या हि हिमाद्रेः कुक्षिमाश्रिताः।

बहवो नृपतयो प्रोक्ता उद्रसन्धिषु सर्वदा।

नानाम्लेच्छगणाध्यक्षा शास्तुपूजकतत्पराः।

इन्द्रो सुचन्द्रमहेन्द्रश्च भूपाल म्लेच्छवासिनः॥

क्ष्मापालौ उभौ तत्र षोडशार्द्धा शासने रता।

पूजकाः शास्तुबिम्बानां त्वत्प्रसादा॥

भविष्यन्ति न सन्देहो प्रसन्ना शासने जिने।

बहवो नृपवराः प्रोक्ताः पूर्वायां दिशिमाशृताः॥

अतीतानागता ये तु वर्त्तमानाश्च सर्वदा।

आद्यं नृपवरं वक्ष्ये गौडानां वंशजो भुवि॥

जातोऽसौ नगरे रम्ये वर्धमाने यशस्विनः।

लोकाख्यो नाम सौ राजा भवति गौडवर्धनः॥

मामानुत्पन्नलोकेऽस्मिं भवितासौ धर्मचिन्तकः।

बहवः क्षितिपाः क्रान्ता विविधा जीवकर्मिणः॥

मध्यकाले समास्वासा मध्यमा मध्यधर्मिणः।

अनन्ते व युगे नृपेन्द्रा शृणु तत्त्वतः॥

समुद्राख्यो नृपश्चैव विक्रमश्चैव कीर्त्तितः।

महेन्द्रनृपवरो मुख्य सकाराद्यो मतः परम्॥

देवराजाख्यनामासौ युगाधमे।

निर्द्धाख्ये नृपः श्रेष्ठः बुद्धिमान् धर्मवत्सलः॥

तस्याप्यनुजो बलाध्यक्षः शासने च हिते रतः।

प्राचीं समुद्रपर्यन्तां चैत्यालङ्कृतशोभनाम्।

करिष्यति न सन्देहः कृत्स्नां वसुमतीं तदा।

विहारारामवापीश्च उद्याना मण्डवकां सदा॥

करिष्यति तदा श्रीमां सङ्क्रमां सेतुकारकः।

शास्तुर्बिम्बान् तदा पूजेत् तत्प्रसन्नांश्च पूजयेत्॥

कृत्वा राज्यं महीपालो निःसपत्नमकण्टकम्।

जीवेद् वर्षां षट्तृंशत्‍तृंशाहं प्रव्रजेनृपः॥

ततोत्मानं घातयेद् राजा ध्यायन्तः सम्प्रमूर्च्छितः।

पुत्रशोकाभिसन्तप्तः यतिवृत्तिसमाशृतः॥

ततोऽसौ भिन्नदेहस्तु नरकेभ्योपपद्यत।

त्रीणि एकं च दिवसानि उषित्वा नरकं गतिम्॥

देहमुत्सृज्य दिविं गच्छेत् सदा नृपः।

देवानां सुकृतिनां लोकः शुद्धावास इति स्मृतः॥

देवराजा भवेत् तत्र शुद्धात्मा बोधिनिम्नगः।

शतशः सहस्रशश्चैव अनुभूय दिविं सुखम्॥

पुनरेव मानुष्यं प्राप्य बुद्धो भूयो भवान्तरे।

तेनैव कारितं कर्म अन्यजन्मेषु देहिनाम्॥

पुरीमुज्जयनीं ख्याता कालवानां जने तदा।

तत्रायनीमुख्यः वणिजो यो महाधनः॥

बुद्धानामसम्भवे काले शून्ये लोके निरास्पदे।

प्रत्येकबुद्धा लोकेऽस्मिं विहरन्ति महर्द्धिकाः॥

सत्त्वानां हितकामाय विचरन्ति महीतले।

पुरी उज्जयिनी प्राप्य प्रविष्टा पिण्डचारिका॥

वर्गचारिणो महात्मानः रथ्यायामवतरतत्।

वाण्याजेयस्तुस्तदा सैव दुष्ट्वा तु संमुखां मुनिम्॥

निमन्त्रयामास तदा भक्तेन स्वगृहं चैव नयेत् तदा।

नीत्वा मुनिवरां क्षिप्रमासनेन निमन्त्रयेत्॥

सङ्घीभवध्व भवतः भक्तकालोऽयमुपस्थितः।

तेऽपि तूष्णीं महात्मानो न वाचां भाषिरे तदा॥

पात्रं च नामयामास वाणिजे यस्य सर्वदा।

वणिजा इङ्गितज्ञाश्च बुद्धिमन्तो भवेत् तदा॥

पात्रं च पूरयामास विविधाकारभोजनैः।

तदासौ स्वहस्तेनैव तेषां प्रायच्छ यत्नतः॥

गृहीत्वा तु ततः सर्वे प्रजग्मुः सर्वतोनभम्।

दीपमालेव दृश्यन्ते व्योममूर्त्तिसमाश्रिताः॥

ततोऽसौ हृष्टरोमस्तु संवेगबहुलस्तदा।

भूम्यां च पतितस्तत्र ऋद्ध्या वर्जितमानसः॥

प्रणिधिं च तदा चक्रे प्रव्याहारवभं यथा।

अनेन कुशलमूलेन यन्मया प्राप्तमद्यतः॥

एषा मुनिवरा मग्र भवेद् बुद्धो ह्यनुत्तरः।

दशजन्मसहस्राणि चक्रवर्त्ती तदा भुवि॥

ततोऽसौ व्युक्तदेहस्तु कोटिषष्टिदिवौकसाम्।

अनुभूय चिरं सौख्यं त्यक्त्वा जन्म दिवौकसाम्॥

माणुषाणां तदा जन्म प्राप्नुयात् परवशा इह।

तस्य राजकुले जन्म भवतीह तु सर्वदा॥

बालाख्यो नाम सौ नृपतिर्भविता पूर्वदेशकः।

आजन्मसहस्राणि चिरसौख्यमनावृतम्॥

प्राप्नुवन्ति या नृपतिः श्रीमां सर्वज्ञत्वं च पश्चिमम्।

एवं बहुविधं मत्वा सम्पदो विपुलास्तथा॥

को नु कुर्यात् तदा शास्तुः पूजनाध्येषणांस्तथा।

कारांश्च श्रेयसीं युक्तां बोधिमार्गवियोजनीम्॥

तस्यापरेण नृपतिः गौडानां प्रभविष्णवः।

कुमाराख्यो नामतः प्रोक्तः सोऽपि रत्यन्तधर्मवाम्॥

तस्यापरेण श्रीमां उकाराख्येति विश्रुतः।

ततः परेण विश्लेष तेषामन्योन्यतेष्यते॥

महाविश्लेषणा ह्येते गौडा रौद्रचेतसः।

ततो देव इति ख्यातो राजा मागधकः स्मृतः॥

सोऽप्यतहतविध्वस्तरिपुभिः समता वृतः।

यस्यापरेण चन्द्राख्यः नृपतित्वं कारयेत् तदा॥

सोऽपि शस्त्रविभिन्नस्तु पूर्वचोदितकर्मणा।

तस्यापि सुतो द्वादश गणनां जीवेन्मासपरम्परम्॥

सोऽपि विभिन्नशस्त्रेण बाल एव अभूत् तदा।

तेषां परस्परोपविघ्नचित्तानां रौद्राणामहिते रताम्॥

भविष्यति तदा काले भकाराख्यो नृपपुङ्गवः।

अग्रणीर्गौडलोकानां महाव्याधिसमाकुलः॥

तेनैव व्याधिना आर्त्तः कालं कृत्वा अधो गतः।

तस्यापरेण दकाराख्यः कतिपायां दिवसां दश॥

भविता गौडदेशेऽस्मिं गङ्गातीरसमाशृतः।

तस्यापरेण भकाराख्यस्त्रीणि दिवसानि कारयेत्॥

ततो गोपालको राजा भविता सर्वदस्तदा।

प्रियवादी च सो राजा घृणी चैव महाबलः॥

स्त्रीवशः कृपणो मूर्खः जितशत्रुर्भवेद् युवाम्।

कल्याणमित्रमागम्य महात्यागी भवेत् तदा॥

विहारांश्चैत्यवरां रम्यामारामां विविधास्तदा।

वाप्योऽथ जलसम्पन्ना सत्रागारां सुशोभनाम्॥

सेवतो बहवस्तस्य यशः कीर्त्याथमुद्यतः।

देवायतनरम्यां वै गुणावसथकारिणः॥

पाषण्डीभिः समाक्रान्तं नानातीर्त्थिकवासिभिः।

आक्रान्तः सो दिशः सर्वा समुद्रातीरचर्यगाः॥

क्रिपी भोगी प्रमादी च सं राजा धर्मवत्सलः।

भविष्यति न सन्देहः स प्राचीं दिशि मूर्जितः॥

सद्यातीसारसंयुक्तवार्द्धिक्ये समुपस्थितः।

गङ्गातीरमुपाश्रित्य राज्यं कृत्वा तु वै तदा॥

विंशद् वर्षाणि सप्तं च जन्मनाशीतिको मृतः।

ततोऽसौ भिन्नदेहस्तु तिर्यगेभ्योऽपिपद्यते॥

नागराजा ततः श्रीमान् धर्मवत्सलः।

येनास्य कारितं चैत्य शास्तुबिम्बं मनोरमम्।

विहारां कारितवांश्चात्र सङ्घस्यार्थे तदा भुवि॥

तेन कर्मविपाकेन अन्तिमे च भवे श्रिते॥

बुद्धत्वं नियतं मार्गं प्राप्नुयादचलं पदम्।

ततः परेण गौडानां तीर्थिकाक्रान्तपुरं भुवि॥

ता पूर्वदेशेऽस्मिन् नगरे तीर्थिकसमाह्वये।

भगवाख्ये नृपे ख्यातः गौडानां प्रभविष्णवः॥

अभिषिक्तो दक्षिणात्येन प्रतिना प्रभविष्णुना।

राज्यं कृत्वा तु वै तत्र पश्चिमां दिशिमागतः॥

प्रविश्य नगरीं रम्यां साकेतां तु यथेप्सितः।

अरिणा भूतस्तु पुनरेव निवर्तते॥

प्राचीं समुद्रपर्यन्तां तस्करैश्च समावृतः।

सस्त्रप्रहारविध्वस्तमृतोऽसौ प्रेततां गतः॥

त्रीणि वर्षाणि कृत्वासौ भूपालो राज्यमल्पकम्।

ततो दस्युभिर्ग्रस्तः मृतः प्रेतमहर्द्धिकः॥

त्रीणि वर्षाणि तत्रैव प्रेतेभ्यो राज्यमकारयेत्।

ततोऽपि सो त्यक्तदेहस्तु प्रेतलोकां सुदारुणाम्॥

तस्मान्मुक्तजन्मानः स्वर्लोकं च सदा व्रजेत्।

तस्याधरेण नृपतिस्तु समुद्राख्यो नाम कीर्त्तितः॥

त्रीणि दिवसानि दुर्मेधः राज्यं प्राप्स्यति दुर्मतिः।

तस्याप्यनुजो विक्यातः भस्ममाख्यो नाम नामतः॥

प्रभुः प्राणातिपातसंयुक्तः महासावद्यकारिणः।

निर्घृणी अप्रमत्तश्च स्वशरीरे तु यत्नतः॥

परलोकार्थिने नासौ बलिसत्त्वदिहैव तु।

अकल्याणमित्रमागम्य पापं कर्म कृतं बहु॥

द्विजैराक्रान्ततद्राज्यं तार्किकैः कृपणैस्तथा।

विविधाकारभोगांश्च मानुषा पितरास्तथा॥

विविधां सम्पदां सोऽपि प्राप्तवान् नृपतिस्तथा।

सोऽनुपूर्वेण गत्वासौ पश्चिमां दिशि भूपतिः॥

कश्मीरद्वारपर्यन्तं उत्तरां दिशिमाशृतः।

तत्रापि जितसङ्ग्रामी राज्यं कृत्वा तु वै तदा॥

द्वादशाब्दानि सर्वत्र मासां पञ्चदशस्तथा।

पृथिव्यामार्तरोगोऽसौ मूर्छितश्च पुनः पुनः॥

महादुःखाभिभूतस्तु भिन्नदेह अधोगतः।

तेषां परस्परतो द्वेषे लुब्धानां राज्यहेतुनाम्॥

महाशस्त्रोपसम्पातं कृत्वा ते तु परस्परम्।

अभिषिच्य तदा राज्यं सकराख्यं बालदारकम्॥

चिह्नमात्रं तु तं कृत्वा पुनरेव निवर्त्तते।

यैर्द्विजातिमुक्यानां भिन्नास्तेऽपि परस्परम्॥

मागधां जनपदां प्राप्य पुरे उदुम्बराह्वये।

द्वै बालौ द्विजातिमुख्यश्च अभिषेच्य स्वयं भुवि॥

ततोऽनुपूर्वेण गत्वासौ प्राचीं दिशिमाशृतः।

गौडां जनपदां प्राप्य निःसपत्ना ह्य वै तदा॥

घातितौ बालमुख्यौ तौ कलिङ्गक्षु दुरात्मना।

अकल्याणमित्रमागम्य कृतं प्राणिवधो बहुम्॥

पूर्वसम्मानिता ये तु नृपैर्विग्रहमानिभिः।

घातयामास सर्वेषां गौडानां जनवासिनाम्॥

सोमाख्योऽपि ततो राजा एकवीरो भविष्यति।

गङ्गातीरपर्यन्तं वाराणस्यामतः परम्॥

नाशयिष्यति दुर्मेधः शास्तुर्बिम्बां मनोरमाम्।

जिनैस्तु कथितं पूर्वं धर्मसेतुमनल्पकम्॥

दाहापयति दुर्मेधः तीर्त्थिकस्य वचे रतः।

ततोऽसौ क्रुद्धलुब्धस्तु मित्थ्यामानी ह्यसंमतः॥

विहारारामचैत्यांश्च निर्ग्रन्थां वसथां भुवि।

भेत्स्यते च तदा सर्वां वृत्तिरोधमकारक॥

भविष्यते च तदा काले मध्यदेशे नृपो वरः।

रकाराद्योतयुक्तात्मा वैश्यवृत्तिमचञ्चलः॥

शासनेऽस्मिं तथा शक्त सोमाख्यससमो नृप।

सोऽपि याति तवान्तेन नग्नजातिनृपेण तु॥

तस्याप्यनुजो हकाराख्य एकवीरो भविष्यति।

महासैन्यसमायुक्तः शूरः क्रान्तविक्रमः॥

निर्धारये हकाराख्यो नृपतिं सोमविश्रुतम्।

वैश्यवृत्तिस्ततो राजा महासैन्यो महाबलः॥

पूर्वदेशं तदा जग्मुः पुण्ड्राख्यं पुरमुत्तमम्।

क्षत्रधर्मं समाशृत्य मानरोषमशीलिनः॥

घृणी धर्मार्त्थको विद्वां कुर्यात् प्राणिवधं बहून्।

सत्त्वानुपीडनपरो निग्रहायैव सो रतः॥

पराजयामास सोमाख्यं दुष्टकर्मानुचारिणम्।

ततो निषिद्धः सोमाख्यो स्वदेशेनावतिष्ठतः॥

निवर्तयामास हकाराख्यः म्लेच्छराज्ये मपूजितः।

तुष्टकर्मा हकाराख्यो नृपः श्रेयसा चार्थधर्मिणः॥

स्वदेशेनैव प्रयातः यथेष्टगतिनापि वा।

तैरेव कारितं कर्म राज्यहर्षीसमन्वितैः॥

अधुना प्राप्तवां भोगां राज्यवृत्तिमुपाशृताम्।

पूर्वं प्रत्येकबुद्धाय भक्ताच्छादनदत्तवाम्॥

पादुकौ च तदा दत्तौ च्छत्रचामरभूषितम्।

तस्य धर्मप्रभावेतौ महाराज्यतृदेवतौ॥

भुक्तवां भोगसम्पत्तीः देवमनुष्यसर्वदा।

सोमाख्यो द्विजाह्वयो महाभोगी भवे ह्यसौ॥

भोगां द्विजातिषु दत्त्वा वै राज्यं कृत्वा वै तदा।

सार्धं सप्तमं तथा॥

वर्षां दश सप्तं च मासमेकं तथापरम्।

दिवसां सप्तमष्टौ च मुखरोगसमाकुलः॥

कृमिभिर्भक्षमाणस्तु कालं कृत्वा अधोगति।

अमानुषाक्रान्तविध्वस्तं तत् पुरं च अभूत् तदा॥

माणुषेणैव दोषेण ज्वरार्तो व्याधिमूर्च्छितः।

मृतो मन्त्रप्रयोगेण राजासौ कालगतस्तदा॥

अवीचीर्नाम विख्यातं नरकं पापकारिणा।

तत्रासौ उपपद्येत पापकर्मान्तचारिणः॥

महाकल्पं तदा नरके पच्यतेऽसौ दुष्टचेतसः।

ततो टटं हहवं चैव सञ्जीवं कालसूत्रं तु॥

असिपत्रवनं घोरं अनुभूय पुनः पुनः।

तिर्यक्प्रेतलोकं च पुनस्तथा॥

एवं जन्मसहस्राणि संसारे संसरतः पुनः।

नासौ विन्दति सौख्यानि दुःखभाजी भवेद् सदा॥

तस्मात् सर्वप्रयत्नेन शासनेऽस्मिं तथागते।

प्रसाद्यमखिलं चित्तं गच्छध्वं निर्जरसम्पदम्॥

बुद्धे कारापकारां च अनन्ता भवति कर्मता।

बुद्धे प्रासादः कर्तव्यः धर्मसङ्घे च वै तथा॥

भवन्ति लोके अग्रस्तु चिरन्ते पूजका नृपा।

महेशाख्यमहेराज्यं महाभोगा धनेश्वरा॥

प्राप्नुयाद् विविधां सोख्यां सम्पदां विपुलां नृपा।

पूजयित्वा तु लोकाग्र्यां लोक ईश्वरतां व्रजेत्॥

शक्रत्वमथ याम्यत्वं ब्रह्मत्वं च पुनः पुनः।

प्रत्येकबुद्धा बुद्धत्वं श्रावकत्वं च वै भुवि॥

प्राप्नुवन्ति त्रियानमग्रत्वं द्वौ यातौ निःस्पृहतां गतः।

एवं ह्यचिन्तिया बुद्धा बुद्धज्ञानोपचिन्तियः॥

अचिन्तियो हि फलं तेषां विपाको भवन्त्यचिन्तियः।

अतः परेण सोमाख्यो नृपतौ अप्यस्तमिते भुवि॥

अन्योन्यक्षोभशीलस्तु गौडतन्त्रो भविष्यति।

सदा उद्यतशस्त्रास्तु अन्योन्यापि नपेक्षिणः॥

दिवसा सप्तमेवं तु मासमेकं तथापरम्।

गणज्यं तदा तन्त्रे भविष्यति सदा भुवि॥

गङ्गातीरे एतस्मिं विहाराध्युषितमालये।

ततः परेण सुतस्तस्य सोमाख्यस्य च मानवे॥

मासान्यष्टौ दिवसा पञ्च साधाहे सुनिशात्यन्तु।

वैश्यवर्णशिशुस्तदा॥

नागराजसमाह्वेयो गौडराजा भविष्यति।

अन्ते तस्य नृपे तिष्ठं जयाद्यावर्णतद्विशौ॥

वैश्यैः परिवृता वैश्यं नागाह्वेयो समन्ततः।

दुर्भिक्षोपद्रवास्तेऽपि परचक्रोपद्रुतास्तदा॥

तेषां राज्यमसम्प्राप्तं महातस्करमाकुलाः।

ते तं भ्रष्टमर्यादा॥

वर्षां पञ्चकमेकं वै भुङ्क्ते तत्र समाकुलाम्।

प्राणात्ययं तदा चक्रुः कृत्वा प्राणिवधं बहून्॥

पूर्वकर्मपराधेन ते जना वैश्यवृत्तयः।

अन्योन्यक्षोभशीलास्तु भविष्यन्ति तदा अभूत्॥

प्रभविष्णुस्तदा तेषां क्षत्रवृत्तिसमाश्रितः।

भविष्यन्ति न सन्देहः गौडतन्त्रे नराधिपः॥

शस्त्रभिन्ना तथा केचिद् व्याधिभिश्च समाकुलाः।

कालं कृत्वा ततो याता नरकेभ्यो नराधिपाः॥

स्त्रीप्रधानं शिशुस्तत्र पुनरेव नराधिपः।

पक्षमेकं तथा वै शस्त्रभिन्नो हतस्तदा॥

महादुर्भिक्षसम्पातं परचक्रसमाकुलम्।

प्राच्या जनपदा व्यस्ता उत्रस्ता गतमानसा॥

भविष्यन्ति न सन्देहः तस्मिं देशे नराधिपाः।

मधुरायां जातवंशाढ्यः वणिक् सूर्वी नृपो वरः॥

सोऽपि पूजितमूर्त्तिस्तु मागधानां नृपो भवेत्।

तस्याप्यनुजो भकाराख्यः प्राचीं दिशि समाशृतः॥

तस्यापि सुतः पकाराख्यः प्राग्देशेष्वेव जायतः।

क्षत्रियः अग्रणी प्रोक्तः बालबन्धानुचारिणः॥

दश वर्षाणि सप्तं च बन्धनस्थमधिष्ठितः।

गोपाख्येन नृपतिना बद्धो मुक्तोऽसौ भगवाह्वये॥

पश्चाद्देशसमायातः अकाराख्यो महानृप।

प्राचिं दिशिपर्यन्तं गङ्गातीरमतिष्ठत॥

शूद्रवर्णो महाराजा महासैन्यो महाबलः।

सो तं तीरं समाशृत्य तिष्ठते च समन्ततः॥

पुरीं गौडजने ख्यातं तीर्थाह्वति विश्रुतः।

समाक्रम्य राजासौ तिष्ठते च महाबलः॥

तत्रौ च क्षत्रियो बालः वणिना च तथागतः।

रात्रौ प्रविष्टवांस्तत्र रात्र्यन्ते च प्रपूजितः॥

शूद्रवर्णै नृपः ख्यातः पुनरेव निवर्तयम्।

गङ्गातीरपर्यन्तं नगरे नन्दसमाह्वये॥

मागधानां तदा राज्यं स्थापयामास तं शिशुम्।

काशिनं पद प्राप्य वारणस्यमतः पुरे॥

प्रविशेच्छूद्रवर्णस्तु महीपालो महाबलः।

महारागेण दुःखार्तः अभिषेचे स तं तदा॥

अभिषिच्य तदा राज्यं ग्रहाख्यं बालदारकम्।

महारोगाभिभूतस्तु भूमावावर्त वै तदा॥

ततोर्ध्वं निःश्वस्य यत्नेन भिन्नदेहोऽपि तीर्यतः।

तिर्येभ्ये वसं मासां अष्ट सप्तं च वै तदा॥

ततोऽसौ मुक्तजन्मान देवेभ्यो मुपपद्यते।

विविधां देवसम्पत्तिं विंशजन्मानि वै तदा॥

ततोऽनुपूर्वेण धर्मात्मा प्रत्येकं बोधिमाप्नुयात्।

तेनैवोपार्जितं कर्म पूर्वकालेषु जन्मनि॥

प्रत्येकबुद्धो महात्मा वै वस्त्रैः समभिच्छादितः।

उपानहं नामयामास हस्त्यश्वरथहेतुना॥

भोजनं च तदा तस्य तस्मा दद्युः प्रयत्नधीः।

तेन कर्मविपाकेन देवराजा शतक्रतुः॥

भविता देवलोकेऽस्मिं त्रिंशत्कोट्यास्तु जन्मतः।

भुविमायात राजासौ भविता इह जन्मनि॥

परैरुपार्जितं राज्यं अनुभोक्ता भविष्यति।

तस्यापि च सुतो राजा वाराणस्यां तु प्रतिष्ठितः॥

समन्ताद्धतविध्वस्तविलुप्तराज्यो भविष्यति।

द्विजक्रान्तमभूयिष्ठं तद् राज्यं रिपुभिस्तदा॥

प्रमादी कामचारी च स राजा ग्रहचिह्नितः।

अपश्चिमे तु काले वै पश्चाच्छत्रुहतो मृतः॥

मागधो नृपतिस्तेषां अन्योन्यावरोधिनः।

सोमाख्ये नृपते वृत्ते प्राग्देशे समन्ततः॥

गङ्गातीरपर्यन्तं वाराणस्यामतः परम्।

भविष्यति तदा राजा पकाराख्यः क्षत्रियस्तदा॥

योऽसौ शूद्रवर्णेन अकाराख्येन पूजितः।

नगरे नन्दसमाख्याते गङ्गातीरे तु समाश्रिते॥

भविता क्षत्रियो राजा पूर्वकर्मैस्तु चोदितः।

तेनैव कारितं कर्म कृतं चाप्यनुमोदितम्॥

अतिक्रान्ते तदा काले कनकाह्वे शास्तुसम्भवे।

वाराणस्यां महानगर्यां श्रेष्ठिरासीन्महाधनः॥

वणिजः स सुतो बालः बालिशैस्तु समावृतः।

पांसुक्रीडनमर्थाय रथ्यायां प्रतिपद्यते॥

स्वगृहे स्तूपवरं दृष्ट्वा पितामात्राभिपूजितम्।

तदेव मनसा वर्ते स्तूपं कृत्वा तु पांसुना॥

पूजां च कारयामास निर्माल्यकुसुमैस्तदा।

संस्तवामास तं स्तूपं बुद्धत्वं श्राद्धगतिस्मृतिः॥

क्रीडते बालस्तत्र शिशुभिः परिवारितः।

जिने कनकशास्तुस्य श्रावकाग्रो तदैककः॥

वीतदोषस्तु युक्तात्मा त्रैधातुकमुक्तधीः।

तदासौ वीतदोषस्तु पिण्डपातमहिण्डत॥

प्रविशते च तदा नगरीं वारणस्यां सुशोभनाम्।

वीतरागस्तदादेशं यत्र ते बालिशा भुवि॥

यत्र ते शैशवः सर्वे समन्तात् परिवारिताः।

एहि भिक्षु इहागच्छ वन्द स्त्वं शास्तुचैत्यकम्॥

अस्माभिः कारितं यत्नात् न त्वं पश्यसि शोभनम्।

ततः श्रेष्ठिसुतो बालः गृहीत्वा तृणवर्तितम्॥

क्रीडया बन्धयामास वीतरागं महर्द्धिकम्।

समन्वाहरति तत्रासौ वीतरागो महर्द्धिकः॥

पश्यते भुवि तत्रस्थं चैत्यं कारितकं हि तैः।

बालिशं मूर्ध्नि मासृज्य एवं वोच महात्मधीः॥

मुञ्च दारक गच्छामो यत्र त्वं कारितं कृतिः।

आगता च ततः सर्वे यत्र धातुधरं भुवि॥

वन्दित्वा वीतरागा महात्मासौ शिशुभिश्चैतदासमैः।

पुनरेव प्रस्थितो वीरः पिण्डकार्थं यथेप्सतः॥

ततः श्रेष्ठिसुतो बालः गृहीत्वा चीवरान्तिकम्।

स्वगृहं नीतवां ह्यासीद् भोजनार्थं च कारयेत्॥

ततः श्रेष्ठिमुख्योऽसौ दृष्ट्वा तं बालिशम्।

गृहीत्वा चीवरान्ते तु वीतरागं महर्द्धिकम्॥

भीतो हृष्टरोमश्च गृहं मे आगतोऽग्रजः।

पादयोर्निपतितं क्षिप्रं मुञ्चापयति बालकम्॥

गृहीत्वा तु सुतं तस्य क्षमापयामास यत्नतः।

पात्रं तु गृहीत्वा वै जिने अग्रजिते हिते॥

पूरयामास तं पात्रं शालिव्यञ्जनभक्षकैः।

सुतं चामन्त्रयामास गृह्य मन्त्र प्रयच्छ भोः॥

ततो वालोऽथ सप्रज्ञो हस्तो प्रक्षाल्य यत्नतः।

गृहीत्वा पात्रपूरं तु वीतरागाय नामयेत्॥

नामयित्वा तु तं क्षिप्रं पादयोर्निपतितो भुवि।

वीतरागो गृहीत्वा तु भुक्तवाम्॥

वीतरागो तदा ह्यासीत् सुखसंस्पर्शं च लब्धवाम्।

अपरस्तत्र बालो वै मात्सर्याविष्टमानसः॥

केवलं रोषचित्तेन वीतरागो परेऽहनि।

प्रभूतं खाद्यभोज्यं च गृहीत्वा तं प्रयच्छत॥

यद्यस्ति कुशलं किञ्चित् त्वयि दत्वा तु पिण्डकम्।

अनेन श्रेष्ठिसुतस्याहं भविता आढ्यतमो भुवि॥

ततस्ते तीर्थिकाः सर्वे द्विजातिवनिता तदा।

सन्निपत्य तदा सर्वे कलहं निन्दकं कृत्वा॥

बालिशस्त्वं न जानासि मुण्डकानां कुतो गतिः।

आत्मना अस्थिता ह्येते परेषां कुत्र निर्वृतिः॥

तस्य बालकसत्त्वस्य द्वेषमुत्पन्न तादृशम्।

नाशयामास एतेषां शास्तारेणोपवर्णिताम्॥

धर्मसेतु सदा कीर्त्ति विहारां चैत्यवरां भुवि।

श्रेष्ठिमुख्यसुतस्यैव आघात चैव कारयेत्॥

एतेषां कुण्डकानां तु दत्त्वा दानं कुतो गतिः।

कुगतिग्रस्तचित्तानां विघातं कारयाम्यहम्॥

यो सौ वाद्यतमो बालो सोमाख्योऽपि नृपो ह्यसौ।

अनुभूय चिरं दुःखं विपाकः तस्य नैष्ठिकम्॥

श्रेष्ठिमुख्यस्य पुत्रोऽसौ भिन्नदेहो दिविं गतः।

अनुभूय चिरं सौख्यं दिवौकसानां तदा तदा॥

च्युतोऽसौ देवलोकेऽस्मिम्।

तदाजन्मे बन्धं सेत्स्यति सर्वदा॥

तृजन्मोपगतो मर्त्यः क्ष्मापतिः भविता पुनः।

पुनश्च पतितः कर्मेण तत्र तत्र तदा तदा॥

भविता जन्मलोकेऽस्मिं नृपतित्वं कारयेद् भुवि।

निर्माल्यदानं यस्स्तूपे निवेद्य सौ बालचापलात्॥

तेनास्य भोगा क्लिष्टा वै क्लिष्टादानस्य तत् फलम्।

दुःखेन भोगांस्तु प्राप्तस्तु नग्नसन्धीव सौ नृपः॥

अस्थैर्या बालवत्त्वच्च चलचित्ततया च सदा।

कुर्वीत महतीं पूजां शास्तुर्धातुवरे भुवि॥

तेन कर्मविपाकेन राज्यैश्वर्यं चलतां व्रजेत्।

भूत्वा भवति राजा अभूत्वा प्रतिगच्छति॥

उदीच्यप्रतीच्यमध्यौ सो नृपतित्वं कारयेद् भुवि।

यो सौ मुक्तधीबन्धः पुनर्मुक्तश्च बालकः॥

तेन कर्मविपाकेन बद्धो मुक्तश्च बालकः।

पञ्चजन्मशतानैव बद्धो मुक्तश्च बालकः॥

अपश्चिमे तु तदा जन्मे बन्धं छेत्स्यति सर्वदा।

पञ्चपञ्चाशवर्षस्तु सप्तसप्ततिकोऽपि वा॥

प्राचीं समुद्रपर्यन्तां राजासौ भविता भुवि।

विन्ध्यकुक्षिनिविष्टास्तु प्रत्यन्तम्लेच्छतस्कराः॥

सर्वे ते वशवर्ति स्यात् पकाराख्ये नृपतौ भुवि।

हिमाद्रिकुक्षिसन्निविष्टा तु उत्तरां दिशिमाशृताम्॥

सर्वां जनपदां भुङ्क्ते राजासौ क्षत्रियस्तदा।

पांसुना कृत्वा स्तूपं अज्ञानाद् बालभावतः॥

मागधेषु भवेद् राजा निःसपत्नमकण्टकः।

सैमामटवीपर्यन्तां प्राचीसमुद्रमाशृतः॥

लौहित्यापरतो धीमां उत्तरे हिमवांस्तथा।

पश्चात् काशिपुरी रम्यां शृङ्गाख्ये पुर एव वा॥

अत्रान्तरे महीपालः शास्तुशासनदायकः।

पञ्चकेसरिनामानौ जित्वा नृपतिनौ सौ॥

स्वं राज्यमकारयत्।

सर्वांस्तां सिंहजास्तेऽपि ध्वस्तोन्मूलिता तदा॥

हिमाद्रिकुक्षिप्राच्यां भो दशानूपः तीरमाश्रयेत्।

सत्त्वा जनपदां भुङ्क्ते राजासौ क्षैत्रियस्तदा॥

अभिवर्धमानजन्मस्तु भोगास्तस्य च वर्द्धताम्।

वार्धिक्ये च तदा प्रोक्ते भोगां निश्चलतां व्रजेत्॥

अशीतिवर्षाणि जीवेयुः सप्त सप्त तथा पराम्।

ततो जीर्णाभिभूतस्तु कालं कृत्वा दिविं गतः॥

देवलोकेऽस्मिं चिरसौख्यमनुभूय तथा नृपः।

पुनश्चवति कर्मेण पूर्वसङ्क्लेशितेन तु॥

तिर्यक्षु न्वसे मासं नागराजमहर्द्धिकः।

ततोऽसौ भिन्नदेहस्तु मानुषेभ्योपपद्यते॥

क्षत्रियो धीमतो जतो वणिग्जीवी विशारदः।

कल्याणमित्रमागम्य भोक्तासौ जिनशासने॥

साधयेद् विद्याराज्ञीं तारादेविं महर्द्धिकाम्।

सिद्धमन्त्रस्तु जिनो नासौ यथेष्टगतिचारिणः॥

विद्याधराणां तदा राजा भविता सुगतस्तदा।

चक्रवर्तिस्तदा ख्यातो नाम्नासौ चित्रकेतवः॥

विद्याधराणां तदा कर्म ख्यातोऽसौ मतिमांस्तथा।

अशीतिवर्षकोट्यानि नवसप्तानि चैतदा॥

दिव्यमानुष्यमाद्येन भविता चक्रवर्त्तिनः।

परिवारस्तस्य कन्यानां षष्टिकोट्यो मजायत॥

ततोऽसौ भिन्नदेहस्तु तारादेव्यानुचोदितः।

देवानामधिपतिं गच्छेत् तत्र धर्मं च देशयेत्॥

सोऽनुपूर्वेण महीपाल क्षिप्रं बोधिपरायणः।

पकाराख्ये च नृपतौ वृत्ते तदा काले युगाधमे॥

भिन्नं परस्परं तत्र महाविगहमाशृताः।

भृत्यस्तस्य तु सप्ताहं राज्यैश्वर्यमकारयेत्॥

ततोऽनुपूर्वेण सप्ताहाद् वकाराख्यो नृपतिस्तथा।

सोऽप्यहतविध्वस्तः प्रक्रमेत दिशास्ततः॥

पकाराख्ये नृपतौ तत्र भकाराद्यो मतः परः।

सोऽपि त्रीणि वर्षाणि राज्यैश्वर्यमकारयेत्।

तस्याप्यनुजो वकाराख्यो व्रतिना समधिष्ठितः।

त्रीणि वर्षाणि एकं च भविता राज्यवर्द्धन॥

अजीर्णितौ उभावप्येतौ सद्यातीसारमूर्च्छितौ।

कालगतौ लोके यक्षेभ्योपपद्यते॥

तेऽनूपूर्वेण धर्मात्मानो प्रत्येकां बोधिमाप्नुयाम्।

तस्याप्यनुजो धकाराख्यः क्षत्रियो धर्मवत्सलः॥

भविता सोऽपि राजा वै त्रीणि वर्षाणि।

भवितासौ नराधिपः॥

तस्यापि कन्यसो राजा धकाराख्योऽथ विश्रुतः।

भविता तत्र देशेऽस्मिं सार्वभूमिकभूपतिः॥

हस्त्यश्वरथयानानि नौयानानि समन्ततः।

जेता रिपूणां सर्वेषां समरे प्रत्युपस्थिताम्॥

स इमां जनपदां सर्वां कृत्स्नां चैव वसुन्धराम्।

शास्तुबिम्बैर्विहारैश्च जिनानां धातुधरैस्तथा॥

शोभापयति सर्वां वै कृत्स्नां चैव वसुन्धराम्।

नृपपूर्वी तथा तस्य द्विजातिः शाक्यजस्तथा॥

मानी तीक्ष्णोऽथ स प्राज्ञः बोधिनिम्नोऽथ मानधीः।

सैवास्य सुखायतां याति तस्मिं काले युगाधमे॥

क्षत्रियः अग्रधीः प्रोक्तः राजा वै धर्मवत्सलः।

जीवेद् वर्षशतं विंशत् सप्त चाष्टं च यत्नतः॥

स्त्रीकृतेनैव दोषेण कालं कृत्वा दिविं गतः।

सोऽनुपूर्वेण मेधावी प्राप्नुयाद् बोधिमुत्तमाम्॥

ततः परेण विख्यातः श्रीनामाथ महीपतिः।

गौडतन्त्रे महाराजा भविता धर्मवत्सलः॥

गौडानां च पुरे श्रेष्ठे बकाराद्ये च महाजने।

कारयेत् तत्र राज्यं वै जितशु समन्ततः॥

विहारां कारयामास सप्त चाष्टौ च तत्र वै।

द्विजमुख्या तथा युक्ते शाकजेति समाश्रिते॥

तेन साहाय्यतां याते कुर्याद् राज्यं समन्ततः।

अशीतिरेकं च वर्षाणि जीवेद् तत्र नराधिपः॥

भृत्यदोषेण धर्मात्मा कालं कृत्वा दिविं गतः।

अनुपूर्वेण तथा राज्यं देवानामपि कारयेत्॥

ततोऽसौ भिन्नदेहस्तु स्वर्गात् स्वर्गतमं व्रजेत्।

परिपूर्य कुशलात् धर्मां बोधि ये तस्य हेतवः॥

तस्यैव भृत्यो राजा वै कुर्याद् राज्यमकण्टकम्।

नाम्ना यकाराद्यस्तु महीपालो भविष्यति॥

सप्त चैकं च वर्षाणि कुर्याद् राज्यं तदा युगे।

सैव घात्यते स्त्रीभिः घातितश्च अधो गतः॥

पुनः पकारवंशास्तु राजा भविताथ क्षत्रियः।

तेनासौ भृत्यवर्गस्तु घातितोऽसौ निरन्तरः॥

अकल्याणमित्रमागम्य कृतं प्राणिवधं बहून्।

भविता सर्वलोकेऽस्मिं प्रतापोर्जितमूर्च्छितः॥

क्षिप्रकारी चपलस्तु मद्यपश्च शठप्रियः।

मद्यप्रमादात् सम्मूढः तदासौ शयने भुवि॥

भिन्नोऽसौ शस्त्रघातैस्तु अरिभिश्च समुद्यतैः।

ततोऽसौ भिन्नदेहस्तु कालं कृत्वा अघोगतः॥

तस्याप्यन्यतमो भ्राता रकाराद्यो नामतः स्मृतः।

अष्टचत्वारिंशद्दिवसानि राज्यकर्त्ता सदा भुवि॥

दत्वा द्रविणं द्विजातिभ्यः कालं कुर्यान्न संशयः।

ततः परेण भूपालः स्वादाद्यो भविता तदा॥

स एव शूद्रवर्णस्तु व्यङ्गः कुत्सित एव तु।

अधर्मभूयिष्ठः दुःशीलो विग्रहे च सदा रतः॥

द्विजातिगणसामन्तां संयतां प्रव्रजितांस्तथा।

स हापयति सर्वा वै निग्रहे च सदा रतः॥

तीव्रशासनकर्ता च तस्करां घातकस्तथा।

निषेद्धा सर्वदुष्टानां पाषण्डव्रतमाशृताम्॥

विनिर्मुक्ता च दाता च राज्यं कृत्वा तु वै तदा।

दशवर्षाणि सप्तं च जीवेद् भूपतिस्तत्र वै॥

कुष्ठदुःखाभिभूतस्तु कालं कृत्वाथ तिर्यत्।

तिर्यग्भ्यो नागराजस्तु महाभोगी विशारदः॥

मूर्त्तिमां परमबीभत्सी स्फुटाटोपी च वै तदा।

अनुभूय चिरं दुःखं धर्मतस्तस्य नैष्ठिकम्॥

एवम्प्रकाराः कथिता भूपाला लोकवर्द्धना।

विदिता सर्वलोकेऽस्मिं प्राच्या च स्थितदेहिनी॥

पकाराख्यस्य नृपतौ वंशाद् वंशजोऽपरः।

क्षत्रियः शूरविक्रान्तः त्रिसमुद्राधिपतिस्तदा॥

भविता प्राच्यदेशेऽस्मिं महासैन्यो महाबलः।

शास्तुधातुधरैर्दिव्यैर्विहारावसथमन्दिरैः॥

उद्यानविविधैर्वाप्यैः कूपमण्डपसङ्क्रमैः।

सत्रागारतथानित्यं शोभापयति मेदिनीम्॥

भक्तोऽसौ जिनरवां श्रेष्ठां उत्तमं यानमाशृतः।

शाक्यप्रव्रजितेनैव स तदा निष्ठितो ह्यसौ॥

वर्जयेद् दक्षिणां सर्वां दक्षिणां चैव प्रभावयेत्।

नाम्ना ककारविख्यातः स्मृतिमांश्चैव विशारदः॥

राज्यं कृत्वा तु भूपालः वर्षाण्येकविंशति।

ततोऽसौ विषूचिकाभिश्च कालं कृत्वा दिविं गतः॥

सोऽनुपूर्वेण मेधावी क्षिप्रं बोधिपरायणः।

तस्यैव शेषवंशास्तु पराधीनायतनवृत्तनः॥

ततः परेण भूपाला गोपाला दासजीविनः।

भविष्यति न सन्देहो द्विजातिकृपणा जना॥

अधर्मिष्ठ तदा काले निर्नष्टे शास्तुशासने।

मन्त्रवादेन सत्त्वानां कुशलार्थां नियोजयेत्॥

कुमारेण तु ये प्रोक्ता मन्त्रा भोगवर्द्धना।

साधनीया तदा काले राज्यैश्वर्येण हेतुना॥

न साध्या उत्तमा सिद्धिः तस्मिं देशे तु वै तदा।

धर्मचक्रे तथा रम्ये महाबोधिवने तथा॥

यत्रासौ भगवां शान्तिं निरोपधिं च प्रविष्टवां।

तत्र साध्यौ इमौ मन्त्रौ तारा भृकुटी च देवता॥

समुद्रकूले तथा नित्यं विस्फूर्ज्यां सरितावरे।

गङ्गातीरे तु सर्वत्र साधनीयाब्जसम्भवा॥

योऽसौ बोधिसत्त्वस्तु चन्द्रनामाथ विश्रुतः।

स वै तारमिति प्रोक्ता विद्याराज्ञी महर्द्धिका॥

स्त्रीरूपधारिणी भूत्वा देवी विचेरुः सर्वतो जगतः।

सत्त्वानां हितकाम्यार्थं करुणार्द्रेण चेतसा॥

सहां च लोकधातुस्थां तैम्भ्याख्यमिति वर्तते।

महर्द्धिको बोधिसत्त्वस्तु दशभूम्यानन्तरप्रभुः॥

विनेयः सर्वसत्त्वानां तारा देवी तु कीर्त्यते।

अयत्नसिद्धिमेवास्य रक्षावरणगुप्तये॥

यत्नेन साध्यते देवी भोगैश्वर्यविवर्द्धना।

बोधिसम्भारहेतुं च॥

अनुबद्धा तदा देवी करुणाविष्टा हि देहिनाम्।

मन्त्ररूपेण सत्त्वानां बोधिसम्भारकारणा॥

सर्वेषां तुष्टिपुष्ट्यर्थं पूर्वायां दिशिमाश्रितः।

सहस्रार्धं पुनः कृत्वा आत्मनो बहुधा पुनः॥

भ्रमते वसुमतीं कृत्स्नां चत्वारो दधि पर्ययाम्।

पूर्वेण ततः सिद्धिः वाराणस्यां परेण वा॥

सक्षेत्रस्तस्य देव्या तु पूर्वदेशः प्रकीर्तितः।

सिद्ध्यते यक्षराट् तत्र जम्भलस्तु महाद्युतिः॥

भोगकामैः तदा सत्त्वैः तस्मिं काले युगाधमे।

यक्षराट् तारादेव्या तु साध्येतौ पुष्टिकामतः॥

क्रोधनास्तु तथा मन्त्राः साध्यतां दक्षिणापथे।

म्लेच्छतस्करद्वीपेषु अम्भोधेर्मध्य एव वा॥

सिध्यते च तदा तारा यक्षराट् चैव महाबलः।

हरिकेले कर्मरङ्गे च कामरूपे कलशाह्वये॥

विविधा दूतिगणाः सर्वे यक्षिण्यश्च महर्द्धिकाः।

मञ्जुघोषेण ये गीता मन्त्रा भोगहेतवः॥

तत्र देशे यथा सिद्धिः नान्यस्थानेषु तथा भवेत्।

पूर्वं दिशि विदिक्षुश्च मन्त्रा विविधहेतवः॥

कथितास्तु तदा काले साधनीयास्तु देहिभिः।

मध्यदेशे तथा मन्त्री भूपाला विविधास्तथा॥

विस्तरां सत्त्वदौर्बल्यां अल्पबुद्धिं निबोधताम्।

संक्षेपो नृपतिमुख्यानां सङ्ख्या तेषां निगद्यते॥

मकाराद्यो नकाराद्यः पकाराद्यश्च कीर्त्यते।

दकाराद्यश्च इकाराद्यः सकाराद्यश्व अकाराद्य॥

ग्रहाख्यश्च कीर्त्याख्यः हकाराद्यश्च घुष्यते।

शकाराद्यश्च भवेत् तदा॥

जकाराद्यो बकाराद्यो लकाराद्यः सोमचिह्नितः।

हकाराद्यश्चैव प्रख्यातः अकाराद्य पुनस्तथा॥

सकारो लकाराद्यश्च स्त्र्याख्यया लोकविद्विषः।

सकाराद्यो मकाराख्यः लोकानां प्रभविष्णवः॥

क्रमतः कृमिनः चिह्नः ब्राह्मणाश्च वैश्यवृत्तयः।

अधर्मकर्मा भूयिष्ठाः विद्विष्टाः स्त्रीषु लोलुपाः॥

प्रभूतपरिवारा महीपालास्तस्मिं काले युगाधमे।

भविष्यन्ति न सन्देहः मध्यदेशे नराधिपाः॥

विंशद् वर्षाणि शतं चैव आयुरेषा युगाधमे।

मनुष्याणां तदा काले दीर्घमायुरिति कीर्त्यते॥

तेषां मध्योत्कृष्टानां अन्तरा उच्चनीचता।

अल्पायुषो नृपतयः सर्वे कथिता तु तदा युगे॥

नदीगङ्गा तथा तीरे हिमाद्रेश्च नितम्बयोः।

कामरूपे तथा देशे भविष्यन्ति तथा नृपाः॥

आद्ये मध्ये तथान्ते च अङ्गदेशेषु कथ्यते।

आद्यं वृत्सुधानश्च कर्मराजा स कीर्त्तितः॥

अन्तेऽङ्गपतिः तदङ्गं च सुभूतिर्भूतिरेव च।

सदहो भवदश्च कामरूपे अजातयः॥

सुभूमृगकुमारान्ता वैशाल्यां वकारयोः।

तत्रासौ मुनिर्जातः कपिलाह्वे पुरोत्तमे॥

शुद्धान्ता शाक्यजाः प्रोक्ता नृपा आदित्येक्षसम्भवा।

शुद्धोदनान्तविख्याता शाक्यं शाक्यवर्द्धनाम्॥

अल्पवीर्यास्तु मन्त्रा वै कथिता लोकपुङ्गवैः।

जिनप्रोक्तास्तु ये मन्त्राः सर्वचेटगणास्तथा॥

तथा विविधा दूतिगणाः सर्वे वज्राब्जकुलयोरपि।

साध्यमानस्तु सिध्यन्ते मन्त्रतन्त्रार्थकोविदैः॥

सर्वे ते लौकिका मन्त्राः सिध्यन्तेऽत्र मध्यतः।

विशेषतो मध्यदेशस्थाः साधनीया जिनभाषिता॥

विविधाकारचिह्नैस्तु विविधाकारकारणैः।

विविधप्रयोगप्रयुक्तास्तु विविधा सिद्धिदेहिनाम्॥

मध्यशेदे तथा मन्त्राः साध्या वै भोगवर्धनाः।

रक्षाहेतुपरित्राणं वश्याकर्षणदेहिनाम्॥

अतीतानागता प्रोक्ताः मध्यदेशे नराधिपाः।

विविधाकारचिह्नैस्तु विविधायुष्यगोत्रतः॥

सर्वे नरपतयः प्रोक्ता उत्तमाधममध्यमाः।

त्रिप्रकारा तथा सिद्धिः त्रिधा कालेषु योजयेत्॥

त्रिविधास्तु तथा मन्त्राः कथिता मुनिवरैस्तथा।

अनन्ता नृपतयः प्रोक्ता मध्यदेशेऽथ पश्चिमे॥

उत्तरापरपूर्वैस्तु विदिक्षुः सर्वतस्तथा।

द्वीपेषु बहिः सर्वेषु चतुर्धा परिचिह्नितैः॥

अनन्ता महीपतयः प्रोक्ता अनन्ता मन्त्रसाधनाः।

अनन्ता दिशमाश्रित्य अनन्ता मन्त्रसिद्धयः॥

निग्रहानुग्रहार्थाय शासनेऽन्तर्हिते मुनौ।

मन्त्रा नृपतिषु काले वै मञ्जुघोषेण भाषिता॥

क्रीडारक्षविकुर्वार्थं कालचर्या तु कथ्यते।

मन्त्रमाहात्म्यसत्त्वानां गतियोनिनृपाह्वये॥

देशकालसमाख्यातः मन्त्रसाधनलिप्सुनाम्।

प्रसङ्गा नृपतयः कथिताः शासनान्तर्धिते पथे॥

मन्त्राणां गुणमाहात्म्यं फलमन्ते च बोधितः।

कथिता द्वे परे याने नृपा पूर्वनिबोधिताः॥

प्रतिष्ठितास्तु न सन्देहः तस्मिं काले युगाधमे।

कथिता नृपतयः सर्वे ये तु दिशमाशृताः॥

प्रव्रज्या ध्रुवमास्थाय शाक्यप्रवचने तदा।

शासनार्थं करिष्यन्ति मन्त्रवादसदारता॥

अस्तं गते मुनिवरे लौकिकाग्रसुचक्षुषे।

तेषां कुमार ! वक्ष्यामि शृणुष्वैकमनास्तदा॥

युगान्ते चष्ट लोके शास्तुप्रवचने भुवि।

भविष्यन्ति न सन्देहो यतयो राज्यवृत्तिनः॥

तद्यथा मातृचीनाख्य कुसुमाराख्यश्च विश्रुतः।

मकाराख्ये कुकाराख्यः अत्यन्तो धर्मवत्सलः॥

नागाह्वश्च समाख्यातो रत्नसम्भवनामतः।

गकाराख्यः कुमाराख्यः वकाराख्यो धर्मचिन्तकः॥

अकाराख्यो महात्मासौ शास्तुशासनदुर्धरः।

गुणसम्मतो मतिमाम् लकाराख्यः प्रकीर्तितः॥

रकाराद्यो नकाराद्यः प्रकीर्तितः।

बुद्धपक्षस्य नृपतौ शास्तुशासनदीपकः॥

अकाराख्यो यति ख्यातो द्विजः प्रव्रजितस्तथा।

साकेतपुरवास्तव्यः आयुषाशीतिकस्तथा॥

अकाराद्यस्तथा भिक्षुः रागी सौ दक्षिणां दिशि।

पष्टिवर्षायुषो धीमान् काव्याख्यः पुरवासिनः॥

थकाराद्यो यतिश्चैव विख्यातो दक्षिणां दिशि।

परप्रवादिनिषेद्धा च मन्त्रसिद्धिस्तथा यतिः॥

अपरः प्रव्रजितः श्रेष्ठः सैह्निकापुरवास्तवी।

अनार्या आर्यसंज्ञी च सिंहलद्वीपवासिन॥

परप्रवादिनिषेद्धासौ तीर्थ्यानामतदूषकः।

भविष्यन्ति युगान्ते वै तस्मिं कालेऽथ भैरवे॥

वकाराद्यो यतिः प्रोक्तो लकाराद्यश्च कीर्तितः।

रकाराद्यो विकाराद्यः भिक्षुः प्रव्रजितस्तथा॥

भविष्यति न सन्देहः शास्तुशासनतत्परः।

बालाकौ नृपतौ ख्याते सकाराद्यो यतिस्तथा॥

विहारारामचैत्यांश्च वाप्यकूपांश्च सर्वदा।

शास्तुबिम्बा तथा चिह्ना सेतुः सङ्क्रमाश्च वै॥

भविष्यति न सन्देहः शास्तुभिन्नार्ध्वगः स्मृतः।

ततः परेण मकाराद्यः ककाराद्यश्च कीर्तितः॥

नकाराद्यः सुदत्तश्च सुपेणः सेनकीर्तितः।

दत्तको दिनकश्चैव परसिद्धान्तदूषकः॥

वणिक्पूर्वी वैद्यपूर्वीं च उभौ दीनार्थचिन्तकौ।

चकाराद्यो यतिः ख्यातः रकाराद्यमत परे॥

भकाराद्यः प्रथितश्राद्धः शास्तुबिम्बार्थकारकः।

मकाराद्यो मतिमान् जातो यतिः श्राद्धस्तथैव च॥

विविधा यतयः प्रोक्ता अनन्ताश्च भविता तदा।

सर्वे ते यतयः ख्याता शास्तुशासनदीपकाः॥

निर्नष्टे च निरालोके शासनेऽस्मिं तदा भुवि।

करिष्यति न सन्देहः शास्तुबिम्बां मनोरमाम्॥

सर्वे वै व्याकृता बोधो अग्रप्राप्ताश्च मे सदा।

दक्षिणीयास्तथा लोके त्रिभवान्तकरास्तथा॥

मन्त्रतन्त्राभियोगेन ख्याताः कीर्तिकराः स्मृताः।

अधुना तु प्रवक्ष्यामि द्विजानां धर्मशीलिनाम्॥

मन्त्रतन्त्राभियोगेन राज्यवृत्तिमुपाश्रिता।

भवति सर्वलोकेऽस्मिं तस्मिं काले सुदारुणे॥

वकाराख्यो द्विजः श्रेष्ठः आढ्यो वेदपारगः।

सेमां वसुमतीं कृत्स्नां विचेरुर्वादकारणात्॥

त्रिसमुद्रमहापर्यन्तं परतीर्थानां विग्रहे रतः।

षडक्षरं मन्त्रजापी तु अभिमुख्यो हि वाक्यतः॥

कुमारो गीतवाह्यासीत् सत्त्वानां हितकाम्यया।

एतस्यै कल्पविसरान्महितं बुद्धितन्द्रितः॥

जयः सुजयश्चैव कीर्त्तिमान् शुभमतः परः।

कुलीनो धार्मिकश्चैव उद्यतः साधु माधवः॥

मधुः समधुश्चैव सिद्धः नमस्तदा।

रघवः शूद्रवर्णस्तु शकजातास्तथापरे॥

तेऽपि जापिनः सर्वे कुमारस्येह वाक्यतः।

ते चापि साधकः सर्वे बुद्धिमन्तो बहुश्रुताः॥

आमुखा मन्त्रिभिस्ते च राज्यवृत्तिसमाश्रिता।

तस्यापरेण विख्यातः विकाराख्यो द्विजस्तथा॥

परे पुष्पसमाख्याता भवितासौ क्रोधसिद्धकः।

निग्रहं नृपतिषु चक्रे दरिद्रात् परिभवाच्च वै॥

मञ्जुघोष इह प्रोक्तः क्रोधराट् स यमान्तकः।

सत्त्वानामथ दुष्टानां दुर्दान्तदमकोऽथ वै॥

अहितानिवारणार्थाय हितार्थायोपबृंहने।

अनुग्रहायैव सत्त्वानां तनुप्राणोपरोधिने॥

सो हि माणवको मूढः दरिद्रः क्रोधलोभितः।

आवर्त्तयामास तं क्रोधं नृपतेः प्राणोपरोधिनः॥

तस्यापरेण विख्यातः सकाराद्यो द्विजस्तथा।

मन्त्रार्थकुशलो युक्तात्मा॥

प्रभुः बहुतरः ख्यातो मन्त्रजापी भवेत् तदा।

साधयामास तं मन्त्रं वै वश्यार्थं नान्यकारणम्॥

वशीभूतेषु भूतेषु धनमतो भवति ततः।

ततः परेण वै ख्यातो द्विजो धर्मार्थचिन्तकः॥

शकाराद्यो मत अन्ते भवितासौ मालवे जने।

प्रसन्ने शासने ह्यग्रो मन्त्रजापी हि वै भुवि॥

वेताडग्रहदुष्टां च ब्रह्मराक्षसराक्षसाम्।

सर्वपूतनभूतांश्च क्रव्यादां विविधांस्तथा॥

सर्वे ते वशिनस्तस्य विषाः स्थावरजङ्गमाः।

सर्वे वै बशिनस्तस्य द्विजचिह्नस्य तथाहितैः॥

ततः परेण विख्यातः द्विजो दक्षिणापथे।

वकाराद्यः समाख्यातः शास्तुशासनतत्परः॥

विहारारामचैत्येस्तु शास्तुबिम्बे मनोरमे।

अलङ्करोति सर्वा वै मेदिनीं द्विसमुद्रगाम्॥

तस्यापरेण विख्यातः द्विजश्रेष्ठो महाधनः।

भकाराद्यस्तथा ख्यातो दक्षिणां दिशिमाशृतः॥

मन्त्ररूपी महात्मा वै नियतं बोधिपरायणः।

मध्यदेशे तथा ख्यातं सम्पूर्णो नामत द्विजः॥

विनयः सुविनयश्चैव पूर्णो मधुरवासिनः।

भकाराद्यो धनाध्यक्षो नृपतीनां मन्त्रपूजकः॥

इत्येते द्विजातयः कथिताः शास्तुशासनपूजकाः।

मध्यान्त आदिमुख्याश्च विविधायतनगोत्रजाः॥

नानादेशद्विजातीनां पूजका ते परिद्विजाः।

नानातीर्थाश्च गोत्राश्च विविधाचारगोचराः॥

समन्ताद् यतयः प्रोक्ता मानवाश्च बहुश्रुताः।

धर्मराजा स्वयं बुद्धः सर्वसत्त्वार्त्थसाधकः॥

सर्वेषां चैव भूतानां तृदेवानां च कीर्तिताः।

चत्वारोऽपि महाराजाः सर्वलोकेषु कीर्तिताः॥

विरूढो विरूपाक्षश्च धृतराष्ट्रोऽथ यक्षराट्।

शक्रश्च अथ देवानां नियतायुः प्रकीर्तितः॥

सुजामा देवपुत्रश्च सुनिर्मितो वशवर्तिनः।

राजा सन्तुषितः प्रोक्तः कामधात्वीश्वरोऽपरः॥

शक्राद्य एकनाम्नास्तु कामधात्वीश्वरास्तथा।

एकाश्रया सदा तेऽपि एकजापा महर्द्धिका॥

अनन्ताः कथितास्तेऽपि नानारूपधरा सुराः।

अतः ऊर्ध्वं समा सर्वे तेऽपि महर्द्धिकाः॥

एवं संज्ञा सुरश्रेष्ठाः आ संज्ञाताः प्रकीर्तिताः।

न तेषां प्रभविष्णु स्यात् तुल्यवृत्तिसमाश्रया॥

अतः अवीचिपर्यन्तं न राजा तत्र विद्यते।

नरकाष्टौ षोडशोत्सिद्धौ सपर्यन्ता तेऽपि कीर्तिता॥

अनृपाः कर्मराजानः यमराजा प्रेतनां विभु।

सुवर्णः पक्षिणां राजा गरुत्मा स महर्द्धिकः॥

किन्नराणां द्रुमो ख्यातः भूतानां रुद्र उच्यते।

विद्याधराणां नृपो विद्या चित्रकेतुर्महर्द्धिकः॥

असुराणां तथा हेतौ वेम चित्रिथोत्तमः।

ऋषीणां व्यास इत्युक्तः सिद्धानां च महारथः॥

नक्षत्राणां सोम निर्दिष्टः ग्रहाणां भास्करस्तथा।

मातराणां तथा राजा ईशानमभिकीर्तितः॥

दिवशानां प्रतिम प्रोक्तः राशीनां कन्य उच्यते।

सरितां सागरः प्रोक्तः मेघानां तु सुपुष्करः॥

ऐरावतो हस्तीनामश्वानां हरिवरस्तथा।

तीर्यराजाथ सर्वत्र प्रह्लादः परिकीर्तितः॥

अनन्ता गतयः प्रोक्ता राजानश्च अनन्तका।

समन्तात् सर्वतस्तेषु बुद्धो लोके नरोत्तमः॥

उत्तमां कुरुमाद्यः प्रभविष्णुस्तेषु न विद्यते।

दीपेष्वेव परेतेषु पूर्वापरयतस्तथा॥

जम्बूद्वीपनिवासिस्यां पूर्वायां स नराधिपाः।

अनन्ता च क्रिया प्रोक्ता चतुर्द्वीपा सनराधिपा॥

संक्षेपा कथिता ह्येते कत्थ्यमानातिविस्तरा।

प्रभूता भूतपतयो मुर्व्यां त्रिदेवासुरजन्मिनाम्॥

अनन्तलोकधातुस्था अनन्ता गुणविस्तरा।

अनन्ता कथिता ह्यत्र कल्पेऽस्मिं भूनिवासिनः॥

कथिता मन्त्रसिद्ध्यर्थे देशकालसमात्ययात्।

सिद्ध्यन्ते मन्त्रराजानो विविधा दूतगणास्तथा॥

एष धर्मः समासेन कथिता मुनिपुङ्गवैः।

अधुना कथितं ह्येतत् शुद्धावासोपरिस्थितैः॥

मञ्जुश्रियो महावीरः पप्रच्छ लोकनायकम्।

य एष कथितो कर्म कथं चैवं धारयाम्यहम्॥

पेयालं विस्तरेण कर्तव्यं सर्वेषां नृपतीनां कर्म स्वकं ज महापरिनिर्वाणसूत्रं मञ्जुश्रियस्य कुमारस्य मुनिश्रेष्ठ।

अभाषत बोधिसत्त्वार्थमन्त्राणां च सविस्तराम्।

बोधिमार्गार्थबोध्यर्थं धर्मसूत्र इति स्मृतः॥

विसरं कल्पमन्त्राणां कर्म आयूषि भूनृणाम्।

नृपतीनां तथा कालमायुषे परिकीर्तनम्॥

धर्मसङ्ग्रहणं नाम पिटकं बोधिपरायणम्।

मन्त्रतन्त्राभियोगेन कथितं बोधिनिम्नगम्॥

धारयस्त्वं सदा प्राज्ञः मन्त्रतन्त्रार्थपूरकम्॥ इति॥



आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतसंकान्महायानवैपुल्यसूत्रात् पटलविसरात् एकपञ्चाशराजव्याकरणपरिवर्तः परिसमाप्त इति।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project