Digital Sanskrit Buddhist Canon

अथ द्विपञ्चाशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Atha dvipañcāśaḥ paṭalavisaraḥ

अथ द्विपञ्चाशः पटलविसरः।



अथ खलु शान्तमतिर्बोधिसत्त्वो महासत्त्वः तस्मिन्नेव पर्षत्सन्निपाते सन्निपतितः सन्निषण्णोऽभूत्। उत्थायासनात् सर्वबुद्धं प्रणम्य पर्षन्मण्डलमध्ये स्थित्वा भगवन्तं शाक्यमुनिं त्रिः प्रदक्षिणीकृत्य चरणयोर्निपत्य स येन वज्रपाणिः महायक्षसेनापतिः तेन व्यवलोक्य वाचमुदीरयति स्म। अतिक्रूरस्त्वं वज्रपाणेः यस्त्वं सर्वसत्त्वानां सत्त्वोपघातिकं कामोपसंहितं च मन्त्रतन्त्रां भाषयसे। न खलु भो जिनपुत्र ! बोधिसत्त्वानां महासत्त्वानामेष धर्मः। महाकरुणाप्रभाविता हि महाबोधिसत्त्वा बोधिसत्त्वचारिकां चरन्ते सर्वसत्त्वानामर्थाय हिताध्याशयेन प्रतिपन्ना भवबन्धनान्न मुच्यन्ते। न च पुनर्भो जिनपुत्र। सत्त्वोपघातिकां धर्मदेशनां तथागतार्हन्तः सम्यक् सम्बुद्धाः सर्वसत्त्वानुद्दिश्य भाषन्ते महाकरुणासमन्वागतत्वात्। सर्वसत्त्वानां हिताध्याशयेन प्रतिपन्ना भवन्ति॥



अथ खलु वज्रपाणिर्बोधिसत्त्वो महासत्त्वः शान्तमतिं बोधिसत्त्वमामन्त्रयते स्म। एवं हि शान्तमते ! बोधिसत्त्वेन शिक्षितव्यम्। एवं प्रतिपत्तव्यम्। यथा त्वं वदसि यथा त्वं प्रकाशयसि। तथा सर्वबुद्धाः बोधिसत्त्वाश्च महर्द्धिकाः। तथाहं निर्देक्ष्यामि परमार्थतो॥



भूतकोटिं समाशृत्य धर्मकोटिं तु मुच्यते।

अचिन्त्यं सत्त्वकोटिं वै परिपाकमचिन्तितम्॥

अचिन्त्या बुद्धधर्मास्तु चर्या बोधिमचिन्तिका।

वैनेयसत्त्वमागम्य अचिन्त्यं चरितं हि तैः॥

चर्या बोधिसत्त्वानां अचिन्त्या परिकीर्त्तिता।

सर्वमन्त्रेषु तन्त्रोऽयं अचिन्त्यतत्प्रभावतः॥

क्रोधराजस्य मन्त्रस्य यमान्तस्य महात्मनः।

अचिन्त्यं ऋद्धिविषयं गतिमाहात्म्यमचिन्त्यकम्॥

अचिन्त्या हि शान्तमते ! बोधिसत्त्वानां महासत्त्वानां चर्यानिष्पन्दितसत्त्वधातुनिर्हारम्। एवं हि शान्तमते ! बोधिसत्त्वेन मन्त्रजापिना चित्तमुत्पादयितव्यम्। काममस्य सत्त्वस्यार्थाय बह्वपुण्यं प्रसुनुयात्। महानरकोपपत्तिश्च। न त्वेवायं सत्त्वः बहुतरमपुण्यस्कन्धं प्रसुनुयात्। मा नामायं सत्त्वो त्रयाणां बोधीनामभव्यो भवेत्। एवं हि शान्तमते ! बोधिसत्त्वेन मन्त्रजापिना चित्तमुपस्थाप्य उपायकौशल्यं चाभिचारुकं च कर्म प्रयोक्तव्यम्। सर्वकर्मिषु च निमित्तग्राहिणा भवितव्यम्। नाकुशलग्राहिणा सत्त्ववैनेयमुपादायता च शिक्षितव्यम्। करुणाविष्टेन चेतसा॥



अपि च भो जिनपुत्र ! धर्माधर्मशुभाशुभं कुशलाकुशलगतिमाहात्म्यसत्त्वोपायविनयनिरहारतां धर्मधातुनिरहारतां च प्रतिपपद्यन्ते बुद्धा भगवन्तः सर्व एव धर्मदेशनासत्त्वोपायपायकां च प्रतिपद्यन्ते। तथैव भो जिनपुत्रास्माभिः शिक्षितव्यम्। यदुत त्वविनयनाय सत्त्वपाकानुशासनाय च तत्रभवन्तो जिनपुत्राः योऽयं पर्षन्मण्डलमहासमयोपविष्टाः तत्र सर्वैः समग्रैः श्रोतव्यं श्रद्धातव्यं य एव कुशलाकुशलगवेषणैर्भवितव्यम्। यदुत तथागतधर्मदेशनाभिरतैर्भवितव्यम्॥



अथ शान्तमतिर्बोधिसत्त्वो महासत्त्वः वज्रपाणिं यक्षसेनापतिं व्यवलोक्य तृष्णाम्भूतः स्वके आसने निषण्णोऽभूत्। अचिन्त्या बुद्धधर्मा इति मनसिकृत्य बुद्धं भगवन्तं व्यवलोकयमानः॥



अथ वज्रपाणिर्गुह्यकाधिपतिः सर्वं तत् पर्षन्मण्डलमवलोक्य भूयः क्रोधराजस्य कल्पं भाषते स्म। शृण्वन्तु भवन्तो देवसङ्घाः ये सत्त्वधातुनिसृताश्च सर्वे भूतगणाः आदौ तावत् कृतरक्षः तं पटं क्रोधराजस्य परिगृह्य विवेके स्थाने सत्त्वा एकलिङ्गे महेश्वरस्यायतने तं लिङ्गं विपरुधिरराजिकाकाञ्जिकेनाभ्यज्य पिचुमर्दपत्रैरर्चयित्वा मानुषान्त्रनालिभि आत्मना यज्ञोपवीतं कृत्वा मानुषशिरकपालेन दक्षिणहस्तेन सप्रहारो भूत्वा वामहस्तेन लिङ्गं तर्जयमानः परमक्रोधाभिभूतः अवमानितदुष्टराजानैः महापरिभवगतमानसः अन्यैर्वा धूर्तपुरुषैः महायक्षैर्महाधनैर्महाप्रचण्डैः महानायकैः शुद्धारं पिथयित्वा नग्नको मुक्तशिखः महेश्वरलिङ्गं वामपादेनाक्रम्य क्रोधमन्त्रं तावज्जपेत् यावन्महेश्वरलिङ्गो मध्ये स्फुटित इति द्विविदलीभूतं महांश्च हुङ्कारः श्रूयते। ततो न भेतव्यम्। तदेहो एव दुष्टराज्ञः अन्यो वा यःकश्चिन्महायक्षः अरिस्तत्क्षणादेव ज्वरेण गृह्यते। अमानुषेण वा गृह्यते राक्षसादिभिः। तत्रैव मुहूर्तं जपेद् यावत् क्षणादेव शत्रोर्जीवितं मरणपर्यवसानं भवति। यदि रात्र्यन्तं जपे तत्सर्वकुटुम्बो नश्यति॥



अपरमपि कर्म भवति। मध्याह्ने तथैव महेश्वरायतनं गत्वा निम्बपत्रैरभ्यर्च्य महामांसधूपं दत्त्वा मन्त्रं जपेत्। यावच्छत्रोर्भवनमग्निना दह्यते, शत्रोश्च महाज्वरकम्पो भवति। यदि जापं न त्यजते क्रुद्धो वा दक्षिणमूर्तैस्तिष्ठते स शत्रुर्मृयते गोत्रोत्सादो भवति। अथ प्रत्यायनं करोति। भूयो लिङ्गमुदकेन प्रक्षाल्य सुशीतलेन क्षीरेण स्नापयेत्। गव्येन भूयः। स्वस्थो भवति॥



अपरमपि कर्म भवति। महेश्वरलिङ्गस्य दक्षिणामूर्त्तौ मदनकण्टककष्ठैरग्निं प्रज्वाल्य वैकङ्कतसमिधानां विषरुधिरराजिकाभ्यक्तानां अष्टसहस्रं जुहुयात्। सर्वेशत्रवो महाव्याधिना गृह्यन्ते। अशक्ता भवन्ति सर्वकर्मेषु। द्वितीये दिवसे महाज्वरेण महाशूलेन वा गृह्यन्ते विविधैर्वा रोगैः अमानुषैर्वा मारणान्तिकैः। तृतीये दिवसे तृभिः सन्ध्यैः सर्वेण सर्वं जीवितं त्यजन्ते। प्रत्यायने क्षीरं जुहुयात्। शान्तिर्भवति। सर्वजनपदेषु सर्वशत्रवश्च स्वस्था भवन्ति। एवं सर्वदेवानां सर्वभूतानां यो यस्य देवताभक्तः तमाक्रम्य कुर्यात्। तस्य नक्षत्रमन्त्रसंज्ञतां पादेनाक्रम्य वामेन कर्म कुर्यात्। वर्जयित्वा तु ताथागतिं विद्याम्। सर्वेषां च पादाङ्गुष्ठं वामेन गृहीत्वा कर्म कुर्यान्न चाक्रमेणापि चलंयेयेत्कदा सर्वलौकिकमन्त्राश्चाक्रम्य कुर्यात्। असिद्ध एव क्रोधराजा जापमात्रेणैव कर्माणि करोति सर्वमन्त्रां विनाशयति सर्वशत्रूं घातयति सर्वयन्त्रां पातयति। संक्षेपतो यथा यथा प्रयुज्यते सर्वलौकिकलोकोत्तरमन्त्रविधानेनापि तत् सर्वं करोति। सर्वं साधयति। जापमात्रेण सर्वाशां पारिपूरयति। पठितसिद्धा एष क्रोधराजा उत्तमां सिद्धिमनुप्रयच्छति। मनसेच्छया शत्रुं घातयति महाशूलमुद्रया संयुक्तः सर्वकर्माणि करोति॥



अपरममि कर्म भवति। मध्याह्ने श्मशानं चितावेकरात्रोषितः कृष्णचतुर्दश्यां श्मशानकाष्ठैरग्निं प्रज्वाल्य विषरुधिराक्तां राजिकां जुहुयात्। ततो हाहाकारं कुर्वन्तः सर्वप्रेता आगच्छन्ति। न भेतव्यम्। ततो वक्तव्यं शत्रुं मे घातयेति। एवमस्त्विति कृत्वान्तर्धीयन्ते। ततो मुहूर्तमात्रेण योजनसहस्रमपि गत्वा शत्रुं घातयन्ति कुलानुत्सादयन्ति। एवमादीनि कर्माणि कुर्वन्ति॥



अपरमपि कर्म भवति। विवेके शुचौ देशे शुचिवस्त्रप्रावृतेन शून्यगृहं प्रविश्य कर्पासास्थ्याहुतीनां अष्टसहस्रं जुहुयात् ततो तं भस्म उभाभ्यां हस्ताभ्यां गृह्य शुचौ वस्त्रखण्डे बध्नीया पृथक् पृथक्। द्वौ पोङ्गलिकां कृत्वा शरावसम्पुटे स्थाप्य महाकृतरक्षाश्चात्मनो द्रव्यं च गृहमप्रविश्य महाश्मशानं गत्वा रात्रौ कृष्णचतुर्दश्यां कृष्णाष्टम्यां वा चितौ स्थित्वा दक्षिणाभिमुखः शरावसम्पुटं गृहीत्वा स्थितको नग्नको मुक्तशिखः स क्रुद्धो निर्भयो भूत्वा विद्या दशसहस्राणि जपेत्। सिद्धो भवति। तद् भस्म यदि कश्चिदमानुषो द्रव्यं प्रार्थयते न दातव्यम्। हठं करोति क्रोधराजं स्मृत्वा हुङ्कारः प्रयोक्तव्यः। तत्क्षणादेव नश्यते। सर्वबिघ्नानामेष एव विधिः। वामदक्षिणकरगृहीतं भस्म चिह्नं कारयेत्। अप्रमत्तेन रक्षां कारयित्वा आगन्तव्यम्। प्रभाते सूर्योदये स्नात्वा शुचिना शुचिवस्त्रप्रावृतेन स्वगृहं प्रवेष्टव्यम्। अस्थाने वा यथाभिमते गन्तव्यम्। ततो यो दक्षिणहस्तेन गृहीतं भस्म तेन मनुष्याद्विपदचतुष्पदां सर्वप्राणिभूतां सदेवनागयक्षां मूर्ध्ना ताडयेद् वशा भवन्ति। यद् वामेन हस्तेन गृहीतं भस्म तेन सर्वेषां मनुष्यामनुष्याणां सर्वासां स्त्रीणां मूर्ध्ना ताडयेद् वश्या भवन्ति। दक्षिणेन यद् गृहीतं भस्म तेन मनुष्याणां नाभिदेशे ताडयेत्। नपुंसका भवन्ति। अङ्गजातदेशेन च चूर्णयेद् असमर्थो भवति। ग्राम्यधर्मनिषेविणो यस्या स्त्रियायां अभिशक्तो भवति तस्याङ्गजाते गुह्यप्रदेशे भस्मनावचूर्णयेत्। असमर्था सा भवति अन्यपुरुषातिसेवने। नष्टव्रणा भवति यावन्तं तदेव पुरुषं प्राप्नुयात्। पुनरेव तस्याः तद्‍व्रणमुखं प्रादुर्भवति। काममिथ्याचारमशक्तो निसेवितुम्। एवं पुरुषस्यापि। पुरुषेन्द्रियं दक्षिणहस्तं भस्मनावचूर्णयेत्। सोऽपि असमर्थो भवति। परदाराभिगमने परिम्लानमिव तिष्ठते। तस्य तदङ्गजातं यावद् दात्रवशात् तस्यैव तत् पुनः प्रादुर्भवति। स्त्रियस्य वा पुरुषय वा येन वा तद् भस्म पुनर्दत्तं भवति तस्य वशेन वर्त्तति वा न वर्तति वा यथेष्टं वा तं करोति। यदि बलात् कुर्वन्ति येषां तु तद् दत्तं तेषां गुह्यप्रदेशानि क्रिमयः प्रादुर्भवन्ते। यैर्भक्षमाना जीविताद् व्यपरोष्यन्ते। मासाभ्यन्तरेण पूतिका वा भवन्ति दुर्गन्धकुणपसदृशाः महाप्रदररोगादिभिः पुरुषव्याधिभिः पुरुषा गृह्यन्ते। महाश्वेथुश्चोपजायते। येन तेषां तेनैवाबाधेन कालक्रिया भवति। अशक्ता वा भवन्ति प्रतिसेवितुं दासस्येच्छया। यथाभिरुचितं तत् सर्वं कारयति। स्पृष्टमात्रो यदि न प्राप्नोति स्पर्शनं दर्शनपथे स्थिता अदर्शने वा अनुवाते च भस्ममुत्सृजेत्। यथा तस्य भस्मना ईषिदवधूलितः मनसा च चिन्तयित्वा दाता भस्ममुत्सृजेत्। यत् तेन चिन्तितं भवति तत् सर्वाणि कर्माणि करोति। परहस्तेन वात्मना वा यथाभिलषितं तत् सर्वाणि कर्माणि करोति। नान्यथा चावन्ध्यं भवति॥



अथ शयनासनादीनां अस्तरणप्रावरणादीनां विविधानि वालङ्करणविशेषाणि नानावस्त्राणि वा वाहनयानोपानहच्छत्रादीनां सर्वाण्युपकरणविशेषाणि भोजनपानभक्षणादीनां सर्वाणि शरीरोपयोज्यानि भाण्डोपकरणानि पुष्पन्ताम्बूलफलगन्धधूपादीनां सर्वेषुतैस्तं भस्मनावचूर्णयेत्। अरीणां यूकमत्कुणक्रिमिभिः समन्तावच्छरीरमाकीर्णं भवति। भक्षते च। विविधदुःखविहतो भवति। सप्तरात्रेण मृयते। अशक्ताः सर्ववैद्याः सर्वदेवाश्च निवारयितुम्। अशक्ताः सर्वमन्त्राः रक्षयितुम्। वर्जयित्वा तु तेन दत्तं भवति॥



अथ प्रत्यायनं भवति। यष्टीमधुं नीलोत्पलं श्वेतचन्दनं चैकीकृत्य शीतलेनाम्भस पीषयित्वा तच्छरीरं म्रक्षयेत् मूर्ध्ना प्रभृति यावत् पादतलम् आर्यमञ्जुश्रियमूलमन्त्रं जपता। स्वस्थो भवति॥



अपरमपि कर्म भवति। स्त्रीणामनुवातं गत्वा यत्रेप्सता सर्वदुष्टडाकिनिस्त्रीणां गर्वितानां च प्रयोक्तव्यं नान्येषाम्। तमेनमनुवाते स्थित्वा भस्ममुत्सृजेत्। मनसा चिन्त्ययित्वा सर्वभगस्तनान्यपहृतानि भवन्ति। पुरुषस्यापि पुरुषेन्द्रियं श्मश्रुरोमाणि च स्तनानि च प्रादुर्भवन्ते॥



एवं विविधविचित्राण्यनेकानि कर्माणि करोति। परेण वा कारापयति। यत्र वा प्रीतिरुत्पद्यते तेन वा कारापयति। स्त्रिया वा पुरुषेण वा। यत्र वा चित्तस्य निर्वृत्तिरुत्पद्यते तस्य तद् भस्मां दत्वा यथेष्टं कारापयति। प्रयोगतश्च शिक्षापयेत्। एवं महाव्याधिभिः गृह्णापयति। मनसा चिन्तयित्वा मूर्ध्नि स्पर्शनान्मस्तकशूलः मुखस्पर्शनान्मुखपाकः एवमनूपूर्व्या यावद्धृदयं हृच्छूलकुक्षिशूलं वा उपजायते। एवं पद्भ्यां जङ्घाभिश्चासृगुद्भवै रोगैर्दुष्टशोणितादिषु रोगैर्गृह्णापयति। संक्षेपतो मारयति शोषयति पाचयति आकर्षयति वशयति यथा यथा प्रयुज्यते तथा तथा तत् सर्वं करोति। चोपघातिकं आकर्षणवशीकरणं च सुदूरेऽपि स्थितः कर्माणि करोति। सुदुर्गं कुड्यसमीपं गत्वा, अनुवाते स्थित्वा, तदेव भस्मोत्सृजेत्। उभौ पाणिगृहीतं प्राकारं प्रतोली अट्टालांश्च प्रपतन्ते। तदाध्यक्षं भवनं च महाग्निदाहमुपजायते। सेनाभङ्गं च भवति। महोपद्रवैश्चोपद्रुतो भवति। सर्वमवमुच्य प्रपलायति वा ग्रहणं वाधिगच्छति। एवं परबलेऽपि अनुवाते भस्ममुत्सृजेत्। महाबलसेनाया भङ्गो भवति। दाघज्वरेण वा गृह्यते। हस्त्यश्वरथपताकादयः सेनापतिश्च भङ्गमुपजायते। ग्रहणं वा अभिगच्छति। एवमनेकप्रकाराणि यथेष्टानि शत्रुनाशाय कर्माणि करोति। आत्मनो महारक्षा ये च स्वसेनायां वा सखायानां। अथ प्रत्ययनं करोति। सर्वतः सर्वेषां पटस्याग्रतः क्षीराहुतिसहस्रं जुहुयात्। स्वस्था भवन्ति अधृष्याश्च॥



अथ यक्षिणीं साधयितुकामः;



नटी नट तथा भट्ट रेवती चापि विश्रुता।

तमसुरी थ लोका मेखला चापि सुमेखला॥

इत्येता अष्ट यक्षिण्यः सर्वकामप्रसाधिकाः।



नटिकाया मन्त्रः - ॐ नटि महानटि आगच्छागच्छ दिव्यरूपिणि स्वाहा। अस्योपचारः - फलके पट्टके वा अभिलिख्य मांसाहारेण वा क्षीराहारेण वा विद्या अष्टसहस्रं जप्तव्या। आलेख्या च सर्वालङ्कारभूषणी श्यामावदाता वृक्षाशृता एकवस्त्रा मुक्तकेशा, संरक्तनयना ईषिस्मितमुखा साधकं तर्जायमाना दक्षिणहस्तेन वामेन पाणिना वृक्षशाखामवलग्ना सर्वाङ्गशोभना विचित्रपट्टनिवस्ता। तस्येव क्रोधराजस्य पटस्याग्रतः उन्मना उत्तरामुखं स्थित्वा पलाशकाष्ठैरग्निं प्रज्वाल्य गुग्गुलुगुटिकानां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् त्रिसन्ध्यं यावत् सप्त दिवसानि। ततः सप्तमे दिवसे उदारां बलिं कृत्वा घृतप्रदीपांश्च प्रज्वाल्य मन्त्रं जपता तावत् तिष्ठेत् यावदर्धरात्रम्। ततः सा यक्षिणी स्वयमेव महावभासं कृत्वा स्वरूपेणागच्छति। आगता च ब्रवीति। किं मया कर्तव्यम् इति। ततः साधकेन वक्तव्यम् - भार्या मे भवस्व इति। एवमस्त्विति कृत्वान्तर्धीयते। ततःप्रभृति भार्या भवति। सर्वकामदा स्वभवनं नयति। रसायनं प्रयच्छते। यत् पीत्वा दिव्यरूपी भवति महायक्षप्रतिस्पर्धी। यदि नागच्छति द्वितीये वारे क्रोधराजसहितं जपेन्नियतमागच्छति। न चेदुच्छुष्यं मृयते॥



नट्टाया मन्त्रः – ॐ नट्टे शुक्लाम्बरमाल्यधारिणि मैथुनप्रिये स्वाहा। एतस्यैष एव विधिः।



भट्टाया मन्त्रः - ॐ भट्टे भट्टे आलोकिनि किं चिरायसि एह्येहि आगच्छागच्छ मम कार्यं कुरु स्वाहा। एषा विनापि पटेन सिद्ध्यते। शिरःस्थाने मण्डलकं कृत्वा गुग्गुलुधूपं दहता विद्यामष्टसहस्रं जपेत्। मौनिना एकाकिना शुचिना द्वारं पिधाय मासेन रात्रौ नियतामागच्छति। आगता च कामयितव्या भार्या भवति सर्वकामदा। यद्यसौ भवनं प्रविशते पञ्चवर्षसहस्राणि जीवति। न चेदत्रैव जम्बूद्वीपे विचरति। पञ्चवर्षशतानि जीवति। तया सार्धं क्रीडति। सर्वाज्ञां सम्पादयति। तेन सह यत्रेष्टं तत्र गच्छति। रसायनमनुप्रयच्छते। इष्टभार्येवावहिताध्याशयं करोति॥



रेवत्या मन्त्रः - नमः सर्वयक्षीणाम्। ॐ रक्ते रक्तवभासे रक्तानुलेपने स्वाहा।



रेवत्या यक्षिणी श्रेष्ठा ललन्त्या मैथुनप्रिया।

ईषिद् रक्तेन वस्त्रेण नीलकुञ्चितमूर्धजा॥

सर्वाङ्गशोभना यक्षी कामभोगरता सदा।

कामदा भोगदा नित्यं वरदां तां मभिनिर्दिशेत्॥



पूर्ववत् पटमभिलिख्य एतस्या अयं विशेषः - रक्तपट्टनिवस्ता रक्तपट्टांशुकोत्तरीया रक्तावभासा च वर्णतः।



मेखलायाः मन्त्रः - ॐ मेखले महायक्षिणि मम कार्यं सम्पादय स्वाहा॥



सुमेखलाया मन्त्रः - ॐ मेखले सुमेखले महायक्षिणि सर्वार्थसाधनि ॐ समयमनुस्मर स्वाहा॥



आलोकिन्या मन्त्रः - ॐ लोकिनि लोकवति स्वाहा।

एतेषामेत एव विधिः॥



तमसुन्दर्याया मन्त्रः - ॐ घुणु गुह्यके घुणु घुणु गुह्ये एह्येहि गुह्यके स्वाहा। अस्योपचारः न। एताया पटविधानोऽस्ति आदौ तावत् शुचिना शुचिवस्त्रप्रावृतेन पूर्णमास्यां विविक्ते स्थाने द्वारं पिधायित्वा अन्धकारे आलोकवर्जिते विद्यां दशसहस्राणि जपेत्। पूर्वसेवा कृता भवति। ततः साधनमारभेत्। पूर्वमास्यादारभ्य यावदपरा पूर्णमासी अत्रान्तरे कर्म भवति। रात्रौ शयनकाले शय्यामारूढः प्रच्छन्ने गुप्तप्रदेशे एकाकिना द्वारं पिधयित्वा सङ्कुचितकर्णिकां वानपुष्पं च कटुतैलेन मिश्रयित्वा हस्तौ पादौ प्रक्षालयित्वा दक्षिणं बाहुमष्टशताभिमन्तृतं कृत्वा स्वपेत् मोनी। एवं प्रत्याहं यावत् पौर्णमास्यात्। ततोऽर्धरात्रे नियतमागच्छति। आगता च न मन्त्रापयितव्या। तूष्णीभावेन कामयितव्या षड्भिः मासैः। यदा मन्त्रापयति तदा मन्त्रयितव्यम्। ततः प्रभृति सिद्धा भवति। भार्या भवति सर्वकामदा। दिव्यं चास्य सुखसंस्पर्शम् अदर्शनेनैव सर्वकार्याणि सम्पादयति। रसरसायनानि सम्प्रयच्छति। पृष्ठमारोप्य सुमेरुमपि नयति। रात्रौ जम्बूद्वीपं भ्रामयति। योजनशतस्थितमपि शत्रुं घातयते। यथाज्ञप्ता तत् सर्वं सम्पादयति। वर्जयित्वा परस्त्रियाभिगमनम्। सर्वेषामयं विधान परस्त्रीं नाभिगच्छेत्। तेनैव सह संवसेत्। यदि गच्छेन्मरणोन्मत्तिं वा प्रयच्छन्ते। एषा अन्धारसुन्दरी नाम यक्षिणी। अनेकयक्षीशतसहस्रपरिवृता। दिने दिने एकैकां यक्षिणीं क्षविटिं प्रेषयति। सिद्धा सती सर्वसाधकानां अनेकमन्त्रपरिवारां च सर्वयक्षीणां च महर्द्धिका त्तमावृता। सर्वेषामेव एव विधिः। किं तर्हि तेषां दर्शनं भवति। एतस्या दर्शनं न भवति॥



अन्धारवासिनी नाम यक्षीणां महर्द्धिका।

गुहावासिनी नरवीरा कुमारी लोकविश्रुता॥

मधुयक्षी मनोज्ञा च सप्तमा सुरसुन्दरी।

इत्येताः सप्त यक्षिण्यः सत्त्वानुग्रहकारिकाः॥

पर्यटन्ति इमं लोकं कृत्स्नां चैव मेदिनीम्।

ईषित् क्षणमात्रेण उत्पतन्ति सुरालयम्॥

सङ्ग्रामं देवदैत्यानां युद्ध्यन्ते च महर्द्धिकाः।

धर्मिष्ठा करुणाविष्टाः सत्त्वकामाः सुवत्सलाः॥

सत्त्वानां हितकाम्यर्थं पर्यटन्ति महीतले।

न तासां किञ्चि दुःसाध्यं सर्वकर्मकराः शुभाः॥

सत्त्वानामुपभोगार्थं बोधिसत्त्वेन भाषिता।



गुह्यवासिन्या मन्त्रः - ॐ गुहिले गुहमति गुहवासि आनय भगवति मयान्तिकं समयमनुस्मर स्वाहा। खदिरकाष्ठैरग्निं प्रज्वाल्य पृयङ्गुपुष्पाणां घृताक्तानां अष्टसहस्रं जुहुयात् त्रिसन्ध्यं मासमेकम्। पूर्वसेवा कृता भवति। ततः पश्चात् साधनमारभेत्। फलके वा पट्टके वा कुड्यायां वा अश्लेषकैर्वर्णकैः नवभाजनकूर्चकैः। आदौ तावत् पर्वतराजा सुमेरुर्लिखापयितव्यः चतुरस्रः चतुःशृङ्गोच्छृतः सप्तपर्वतपङ्क्तिपरिवेष्टितः। तेषां पर्वतानामन्ते गुहः पर्वतनिःशृतः आलिखितव्यम्। तत्रस्था दिव्यरूपिणी सर्वालङ्कारभूषिता एकाकिनी यक्षिणी गुहवासिनी नाम लिखापयितव्या पट्टवस्त्रनिवस्ता पट्टांशुकोत्तरीया कनकवर्णा विचित्रचारुरूपी तं तादृशं पटमभिलेख्य शुचौ प्रदेशे शुचिना क्षीराहारेण विद्यां दशसहस्राणि जपेत्। महापूजां कृत्वा यथाशक्तितो वा ततो जपान्ते महावभासं कृत्वा दिव्यरूपी यक्षिणी स्वयमेवागच्छति। आगताया जातीकुसुमैः श्वेतचन्दनोदकव्यतिमिश्रैः अर्घो देयः। ततः सा ब्रवीति - वत्स किं कर्त्तव्यम्। वक्तव्यम् - माता मे भवस्वेति। कृत्वान्तर्धीयते। न च तत्र चित्तं दूषयितव्यम्। नापि कामोपसंहितं प्रार्थयितव्यम्। आर्या सा महर्द्धिका च काम प्रार्थयति न सिद्ध्यते। ततः प्रभृति मातृवत् सर्वकार्याणि करोति। अष्टशतपरिवारस्य भक्ताच्छादं प्रयच्छते। विषमस्थस्य त्रायते। महावन्यपर्वतस्योपरिस्थितस्यापि सर्वकार्याणि सम्पादयति। कामितं च भोजनमनुप्रयच्छते। रसरसायनादीन् सर्वमनुप्रयच्छति। यथेष्टं चानुवर्त्तते। कुटिकुटादीमभिनिर्मिणोति। सुवर्णसहस्रमनुप्रयच्छति दिने दिने। सर्वं व्ययीकर्त्तव्यं तदह एव। यदि न करोति च्छिन्नो भवति। सर्वेण सर्वं भवति।



अपरमपि कर्म अस्या। अस्यैव पटस्याग्रतः खदिरकाष्ठैरग्निं प्रज्वाल्य विगतार्चिधूमविगतैः अङ्गारैः दक्षिणहस्ततले मनच्छिलया प्रतिकृतिमभिलिख्य नाम च पुरुषस्य स्त्रिया वामहस्ततले तत्रैवाङ्गारराशौ तापयेत् मन्त्रं जपता। योजनशतादपि स्त्रियमानयति। यदुच्यते तत् सर्वं कारयति। रात्रौ एतत् कर्म। न दिवा॥



नववीराया मन्त्रः - ॐ नरवीरे स्वाहा। तथैव एतस्या पतमभिलिख्य वर्जयित्वा गुहालयं अशोकवृक्षाशृता लिखापयितव्या। एतस्याः अयं विशेषः - सर्वं तथैव कर्म यथा गुहवासिन्या। अयं च वक्तव्या - भगिन्यास्वेति॥



एतस्यापरोऽस्ति कर्म। चन्द्रग्रहे सुवर्णगैरिकां भूर्जपत्रेण वेष्टयित्वा मुखे प्रक्षिप्य तावज्जपेद् यावच्चन्द्रो मुक्त इति। ततः सुवर्णगैरिकया यस्या नाम लिखति स्त्रियस्य वा आयोजनशतास्थिता अप्यानयति। प्रभाते तत्रैव नयति। भगिनीव कार्याणि करोति। आपत्सु महारक्षां करोति। सर्वाण्येव स्त्रियां जापमात्रेण वशीकरोति। नरवीराया एष विधिः॥



यक्षकुमारिकाया मन्त्रः - ॐ यक्षकुमारिके स्वाहा। अस्यायमुपचारः - गोरोचनेन भूर्जपत्रे लिखापयितव्या। कुमारी अर्धबर्बराशिरा सर्वालङ्कारभूषिता एकवस्त्रा दक्षिणहस्तेन बीजपूर्णावसक्तफला वामहस्तेनाशोकवृक्षशाखावलग्ना। तादृशं भूर्जपत्रं शिरास्थाने उपरि स्थापयितव्यम्। गुह्ये प्रदेशे एकाकिना च स्वप्तव्यम्। श्वेतचन्दनेन च मण्डलकं कृत्वा त्रिसन्ध्यं जातीकुसुमैरभ्यवकीर्य गुग्गुलुधूपं दहता विद्यामष्टसहस्रकम् जपेत् यावन्मासमेकम्। ततो पूर्णमास्यां जातीकुसुमैः महती पूजां कारयित्वा घृतप्रदीपांश्च निवेद्यांश्च दत्वा कुशविण्डकोपविष्टेन रात्रौ तावज्जपेद् यावत् स्वरूपेणैव कुमारी पञ्चशतपरिवारा वैश्रवणस्य दुहितृ आगच्छति। सर्वं तं दिशाभागमवलोकयित्वा स्वरूपेणान्तरिक्षे तिष्ठति। सा एवमाह - किं मया कर्त्तव्यम्। ततः साधकेन वक्तव्यम् - त्रयाणां वाराणामन्यतममेकं वरं प्रार्थयितव्या। मातृत्वे भगिनीत्वे भार्यात्वे च। यदि माता भवति। न चित्तं दूषयितव्यम्। दूषयतो विनाश उपजायते। मातृवद् वर्तयितव्या। सा च माता पञ्चशतपरिवारस्य भक्ताच्छादनमलङ्करणविशेषाणि च सर्वत्र चिन्तितमात्रेणैव सम्पादयति। दिने दिने दीनारसहस्रं ददाति। अत्रैव जम्बूद्वीपे विचरतः सर्व सम्पादयति। भगिनी भवति तदा योजनशतादपि स्त्रीयमानयति। तत्रैव नयते। भगिनीवत् सर्वकार्याणि सम्पादयति। अथ भार्या भवति स्वभवनं भवते। दिव्यं वर्षसहस्रं जीवति। यदा मृयते तदा आढ्यकुलोपपत्तिः। सर्वाज्ञां भार्येव सम्पादयति॥



वधूयक्षिण्या मन्त्रः - ॐ निः। एषा वधुयक्षिणी। अस्या मुपचारः - श्वेतचन्दनेन दक्षिणां बाहुमुपलिप्य वासतः कुङ्कुमेर सहस्राभिमन्त्रितं कृत्वा रात्रौ एकाकिना मौनिना प्रच्छन्ने प्रदेशे द्वारं पिधाय पञ्चाष्टौ विभीतकफलानि तिलतैले प्रक्षिप्य पथेत्। तं तैलं गृहीत्वा विधीतकफलां परित्यज्य नवे माण्डे सौवर्णे राजते ताम्रे मृन्मये वा स्थाप्य पादान्ते शय्यायां सहस्राभिमन्त्रितं कृत्वा अनेनैव मन्त्रेण एकाक्षरयक्षिण्या अन्धकारे विविक्ते शयने पुष्पाभिकीर्णे स्वप्तव्यम्। आगत्य चामानुषीं पादौ म्रक्षयति। दिव्यमुखं स्पर्शकोमलहस्ततला। यस्य स्पर्शनादेव दिव्यं सुखसंस्पर्शनिद्रामुपजायते। येन सूर्योदयेऽपि रात्र्यन्ते दुःखेन प्रतिबुध्यते। प्रतिबुद्धापि सन् तदेव चिन्तयेत्। न च कामयितव्या नापि मन्त्रापयितव्या। षड्भिर्मासैः सिद्धा भवति। ततः सा दिव्यरूपी अभिनवबध्वा वयात्समाना परिचारिकैः परिवारिता प्रदीपहस्ता स्वप्रभोद्योतितालोका शयनासनपरिगृहीता विचित्राभरणोज्ज्वला आगत्य च मन्त्रापयते। कामभोगोपकरणपरिगृहीता आगत्य च साधकं कण्ठे परिप्वजते। ततःप्रभृति इष्टभार्येव मनुवर्त्तते। आगता च कामयितव्या रात्रौ परिचर्य प्रभातेऽन्तर्धीयते। शय्यायां मुक्ताहारं त्यज्य सुवर्णसहस्रमूल्यं दिने दिने परित्यज्य गच्छति च। सर्वं निरवशेषं व्ययीकर्त्तव्यम्। यदि किञ्चित् स्थापयति भूयो न भवति। न कस्यचित् कथितव्यम्। यदि कथयति भूयो नागच्छति। अनर्थं वा कुरुते। मारणान्तं परमगुह्यका ह्येते परमगोप्या न द्वितीयसत्त्वमारोचनं क्षमन्ते। मातापितृसुहृत्स्वामिबान्धवानामपि नारोचयितव्यम्। अन्तशः पशुस्यापि तिर्यग्गतानां प्राणिनां नारोपयितव्यम्। परमगुह्यमेतत्। सर्वगुह्यकानां सर्वयक्षिणीनां च एष एव विधाना। सिद्धा अपि असिद्धा भवन्ति। यद्यारोचयते। अन्यस्त्रीमैथुनाभिगमनं च भार्याया च वर्जयेत् सदा॥



मनोज्ञाया मन्त्रः - ॐ मनोहरे मदोन्मादकरि विचित्ररूपिणि मैथुनाप्रेये स्वाहा। अस्यामुपचारः - उद्यानवाटिकायां अशोकवृक्षस्याधस्तात् सविभक्तां कुटिं कारयित्वा अगुप्ततरां कृतकवाटार्गलप्राकारोच्छ्रितां शुचिना लक्षमेकं जपेत्। ततः कर्ममारभेत्। महावसां सङ्गृह्य श्मशानवोटकेन वर्तिं कृत्वा द्वारं पिघयित्वा प्रदीपं प्रज्वालयेत्। सदशं च वस्त्रं केशापगतं बहिर्द्वार स्थापयेत्। प्रत्यग्रं रात्रौ सा नग्निकागत्य तं वस्त्रं निवास्य प्रविशते मानुषस्त्रीरूपिणी भूत्वा। ततः साधकः तेन सार्धं रमते यावत् प्रदीपं ज्वलते। निर्वृते प्रदीपेऽन्तर्धीयते। तस्मिं वस्त्रे सुवर्णमेकं बद्‍ध्वा वस्त्रं परित्यज्यशय्यायामपक्रमति। अथ साधकस्तां हस्ते गृह्णाति। अङ्गुलेयिकैकावमुञ्च्यावक्रमते। अथ कण्ठा दिव्यमुक्ताहारां अथ बाहात् कटकं कट्यां मेखलां पद्भ्यां नूपुरं शीर्षे मणिं एवमन्यतरान्यतरंदिव्यमाभरणमेकं यत्र यत्र गृह्यते तत्र तत्रानुप्रयच्छति। अवध्यां गच्छति चागच्छति च। एवं प्रत्यहं निरवशेषं व्ययीकर्त्तव्यम्। एवं यावद्भिर्मासैः मन्त्रापयति तदा मन्त्रयितव्यम्। भार्या भवति। नित्यस्था रसायनं प्रयच्छति यं पीत्वा दीर्घकालं जीवति। मनसा ध्यात्वा खदिरकीलकं भूमौ निखानयेत्। दिव्यं विमानमुपपद्यते। उद्‍धृतेऽन्तर्धीयते। अस्याया मन्त्रः द्वितीयमस्ति। ॐ महानग्नि नग्निजे स्वाहा तेनैव दीपं प्रज्वाल्य अनेन मन्त्रेणाष्टशताभिमन्त्रितं कृत्वा कारयेत्। नियतमागच्छति। कीलकं चाभिमन्त्र्य निखानयेत्। उद्धृते दीपे निर्वृते चान्तर्धानं कीलकं मानुषं वसाकीलं च सो शृङ्गे गवलमहिषशृङ्गे वा श्मशाने चैलवर्तिना वोढव्यम्। देशान्तरे। यत्रेष्टं तत्र ददाति। स्वयं वा करोति। न च मन्त्रा दातव्या। अथ ददाति छिन्नविद्यो भवति। यस्य ददाति तस्यैव तत् सम्पद्यते। यत्र बाभिरुचितं यत्र वा स्थाने गुप्ते करोति। एषा सिद्धिः आवर्त्त्य नापगच्छति। अन्यां वा रमापयते। किन्तु तैः सार्धं न मन्त्रयति। अन्यस्त्रीदर्शनाभिरुचितं मनसेप्सितं तदानुरूपी तस्योपसङ्क्रमतो ह्यपूर्वस्य साधकवशादिति॥



सुरसुन्दर्याया मन्त्रः - ॐ सुरसुन्दरि ! स्वाहा। अस्यामुपचारः - खदिरकाष्ठैरग्निं प्रज्वाल्य घृताहुतीनां अष्टसहस्रं जुहुयात्। त्रिसन्ध्यं मासमेकं शुक्लपूर्णमास्यां कुशविण्डकोपविष्टः शुचिना शुचौ देशे मन्त्रं तावज्जपेद्रहसि यावदर्धरात्रे नियतमागच्छति। ततो माता भगिनी भार्या यथैव पूर्वं तत सर्वं करोति सर्वं च विस्तरतो वक्तव्यम्॥



इत्येताः सप्त यक्षिण्यः वज्रपाणिसमाज्ञया।

पर्यटन्ति महीं कृत्स्नां त्रैलोक्यं च सुरासुरम्॥

विचेरुः कृपालुभ्यो मर्त्त्यानां मैथुनप्रियाः।

केऽपि दार्यास्तथा बाला मूढाश्चापरयक्षिका॥

पर्यटन्ति तथा रात्रौ सिंहकाम्यपरा हिता।

बालानां जीवनाशाय लोलुपा मांसभोजिका॥

तथा रुधिरगन्धेन जम्बूद्वीपं हि मागताः।

प्राणापरोधिका यक्षी नित्यं सा शोणितप्रिया॥

पर्यटन्ति गृहां सर्वां आरक्षामृतकसूतकाम्।

तेषा निग्रहमित्युक्तः समयोऽयं सम्प्रकाशितः॥

यथा सङ्ग्रहरागं च निबन्ध्यं चेह बालिशाम्।

तथा सर्वमिदं प्रोक्तं सत्त्वानां हितकारणात्॥

मैथुनार्थी यथा मन्त्री रागान्धो मूढचेतसः।

मन्त्रैराकृष्य भुञ्जीत यक्षीं वा अथ राक्षसी॥

नागी च मथ गन्धर्वी दैत्ययोषिमथ किन्नरीम्।

पातालभवनं रम्य असुराणां पुरोत्तमम्॥

प्रविशेत् तत्र मन्त्रज्ञः यत्र स्त्रीणामसङ्ख्यकम्।

तत्र गत्वा वसेत् कल्प मन्त्रज्ञो मन्त्रजापिनः॥

मैत्रेयो नाम सम्बुद्धः यदा बुद्धो भविष्यति।

तदासौ श्रोष्यति सद्धर्मं श्रुत्वा मुक्तो भविष्यति॥

सुरकन्यासुरीं चैव विद्याधरवराङ्गनाम्।

मन्त्रैराकृष्य भुञ्जीत दिव्यसौख्यरतिं तदा॥

जम्बूद्वीपगतो मन्त्री तत्रैवानयते सदा।

शुचिस्थाने तदा गुप्ते शौचाचाररतः सदा॥

मूढानामुत्तमा सिद्धिः कदाचित् तेन जायते।

विन्मूत्रमशुचिस्थानं सदा दुर्गन्धिपूतिकम्॥

व्याधिदुःखं तथा शोकं मरणान्तं दुःखभाजनम्।

वियोगं रतिसम्पृक्तं न स्पृशेन्मानुषीं स्त्रियाम्॥

अनित्यदुःख तथा शून्यरिक्तस्तुच्छमशाश्वतम्।

वालमुल्लापनं चापि सङ्कल्पजनितोद्भवेत्॥

न गच्छेत् कामतो मन्त्री सर्वकामामनादिजाम्।

तेषां विरतिमित्युक्तो विमुक्तिः तेषु सिद्धिताम्॥

सिध्यन्ते तस्य मन्त्रा वै ये विरक्ता तु कामतः।

विन्मूत्ररुधिरासिक्तां + + + चैव पूजिताम्॥

जरामृत्युसुशोकां च न स्पृशेन्मानुषीं तनुम्।

न भेजेन्मैथुनं तत्र मोहान्धा रागचेतसाम्॥

न सिद्धिर्लभ्यने मन्त्रां तेषु सेवी सदाशुची।

मन्त्रज्ञो मन्त्रजापी च सप्रज्ञोऽथ जितेन्द्रियः॥

शौचाचाररतो धीरः सर्वमन्त्रोऽपि हि सदा।

पद्मोच्चा समोदा च अजिता चापि जया सदा॥

श्यामावर्त तथा यक्षी इत्येता यक्षिमहर्द्धिका।

पद्मोच्चाया मन्त्रः - ‘ॐ पद्मोच्चे स्वाहा’॥



अस्याः कल्पः - गङ्गाकूले समुद्रतटे वा उद्यानपुष्पवाटिकायां मध्ये उडयं कृत्वा शुचितरं आत्मना च शुचिर्भूत्वा शिलापट्टकाकारं मृण्मये कृत्वा तत्रैव रात्रौ द्वारं पिधयित्वा सर्वकामभोग्याद्युपकरणान्युपहृत्य तत्रैवात्मसमीपे यक्षिण्यां शय्यां कल्पयेत्। ततो विद्यां दश सहस्राणि जपेत्। एवं यावन्मासाभ्यन्तरेण नियतमागच्छतीति। आगता च कामोपभोग्या भवति भार्या। दिव्यं च मुक्ताहारं शय्यां परित्यज्य प्रभाते गच्छति। एवं यावद् दिनेदिने षड्भिर्मासैः नित्यस्था भवति। तन्मुक्ताहारं न ग्रहेतव्यम्। यदिः गृह्णाति तन्मात्र एवमुपपद्यत। दीनारलक्षमूल्यं तत् हारं मणिरत्नोपशोभितं षट्भिर्मासैरतिक्रान्तैः नित्यस्था भवति भार्या सर्वकामदा। यथा रूपमभिलषितं तथा रूपं कृत्वां उपतिष्ठते। यथाभिरुचितमात्मानमभिनिर्मिनोति। साधकस्येच्छया सर्वेषां यक्षीणामयं विधानः यथा निर्दिष्टानां अत्र अन्यत्र॥



जयाय मन्त्रः - ॐ जये ! सुजये ! जापयति सर्वकार्याणि कुरु मे स्वाहा।



कनकाभा चित्राङ्गी नीलकुञ्चितमूर्धजा।

सर्वाङ्गशोभना देवी भोम्य च सुभगा शुभा॥

प्रियंवदा प्रमदाश्रेष्ठा सुरूपा चारुदर्शना।

प्रशस्ताकाररुः शुक्रः सर्वलोकसुपूजिता॥

ईषिद्रक्तेन वस्त्रेण जयां तामभिनिर्दिशेत्।



अस्याः कल्पः - आदौ लक्षमेकं जपेत्। पूर्वसेवा कृता भवति। ततो महारण्यं प्रविश्य फलाहारः तावज्जपेद्यावत् स्वरूपेणोपतिष्ठते। आगता च ब्रवीति - ‘किं करोमी’ ति। यदि माता भवति। मातृवत् सर्वाशां परिपूरयते। राज्यं ददाति। महाधनपतिं करोति। दीर्घायुष्कतामधितिष्ठते। अथ भगिनी यथेप्सितं स्त्रीमानयति याजनसहस्रस्थितामपि। दीनारलक्षं दिने दिने ददाति। स च व्ययीकर्तव्यः। अथ भार्या भवति स्वभवनं नयते दिव्यविमानाभिरूढो तया सार्धं रमते। दीर्घकालं त्रिंशद् वर्षसहस्राणि यथेष्टं विचरते। महायक्षप्रतिरूपो भवति॥



प्रमोदाया मन्त्र - ॐ ष्ठ्रीः। ह्रीँः महानग्नि हूं फट् स्वाहा। अस्याः कल्पः - अर्धरात्रे अपरिमाणो जापः कर्तव्यः। भूयो निद्रां गच्छेत्। मासाभ्यन्तरेण नियतमागच्छति। भार्या भवति सर्वकामदा। दिनेदिने पञ्चविंशति दीनारामनुप्रयच्छति। आत्मना च सङ्कोशं दीर्घकालं च जीवापयति॥



एवमपरिमाणानि यक्षिणी शतसहस्राणि भवन्ति। एवं पिशाचाः पिशाचमहर्द्धिकाः नागकन्याः असुरकन्याः अप्सरा सुरयोषिद् दैत्यकन्या। एवं विद्याधरीणां सर्वेषां सर्वतः मानुषीणाममानुषीणां च मन्त्राणि भवन्ति। असङ्ख्येयानि तथैव यक्षाणां देवानां नागानां ऋषीणां गन्धर्वाणां असुराणां प्रेतानां राक्षसानां च महाब्रह्मणः महेश्वरस्य महाविष्णोः मातराणां ऐन्द्राणि चामुण्डिवाराहिप्रमुखानां मन्त्राणि भवन्ति पृथक्पृथक् सर्वे च समये आकृष्टाः इह क्रोधराजेन यमान्तकेन आनीता ग्रस्ता समये स्थापिता मञ्जुघोषस्योपनामिता अनुपरिवारा अनुपूर्वस्थिता परिचारिका सर्वेषां संक्षेपतः यत्र प्रतिमा स्वयं वा प्रतिकृतिं कृत्वा क्रोधराजानं यमान्तकं तावज्जपेद्यावत् प्रतिबिम्बं प्रकम्प्य प्रचलते प्रस्विद्यति वा। अयं स्वरूपेणागच्छन्ते। यदुच्यते तत् सर्वं सम्पादयन्ते॥



एवं यापि ताः चतुःकुमार्यः महायक्षिण्यः भ्रातुः तुम्बुरुसमेता दिव्यरूपिण्यः अम्बुराशिसमाश्रिताः नौयानसमारूढाः सर्वलो(क)सुपूजिता सत्त्वानुग्रहकारिकाः तेषामप्येष एव विधिः। यदुत



पटभित्तिफलके समाकीर्णो लिखितापि वा।

नौयानसमारूढा भ्रातुर्ज्येष्ठानुनेयिका॥

अम्बुधे अन्तर्गता कन्या चतुरेवसमानुगा।

तेषां प्रच्छन्नतः स्थाप्य क्रोधं जाप्य समारभेत्॥

चलः कम्पः तथा स्वेदः जायतेषु च सर्वतः।

ततः सिद्धा इति ज्ञात्वा मन्त्रजापी जपं त्यजेत्॥

स्वरूपेणैव रात्र्यन्ते कथयन्ति शुभाशुभम्।

सर्वथा साधका ते वै भवन्ते ह सजापिने॥

सर्वं कुर्वन्ति आज्ञप्ताः क्रोधमाकृष्टमूर्च्छिताः।

सोमाद्यैर्ग्रहवरैर्नित्यं ऋषिभिः राक्षसैस्तथा॥

पिशाचैर्गरुडैश्चापि सुपूजिता ते महर्द्धिकाः।

महेश्वराद्यैस्तथाभूतैः पूजिता ते महर्द्धिकाः॥

एतैश्च भाषिता कल्पा मन्त्रतन्त्राः सविस्तराः।

ते तु सर्वे प्रयोक्तव्या सकल्पा कल्पविस्तराः॥

सर्वे ते क्रोधराजस्य वशे तिष्ठन्त्ययत्नतः।

यावन्ति केचिन्मन्त्रा वै उच्छुष्या कश्मलोद्भवाः॥

सर्वे ते क्रोधराजस्य नियुक्ता ते प्रकाशिता।

आर्या ये च मन्त्रा वै विशिष्टा सर्वतोगताः॥

उत्कृष्टाः प्रवरा ह्यग्राः भाषिता जिनवरैस्तथा।

तथा मन्त्रधरे मन्त्रा मया चैव प्रभाषिता॥

ये चान्ये मन्त्रमुख्यास्तु कुलेष्वेव हि पञ्चसु।

भाषिता जिनपुत्रैस्तु लौकिकाश्चापि महर्द्धिका॥

सर्वांस्तां समाकृष्य क्रोधराजो महर्द्धिकः।

सर्वेषां मन्त्रतन्त्रास्त्रनिबद्धास्ते इह शासने॥

यो येषां विधिराख्यातः तेनैवायं नियोजितः।

क्रोधराजा यमान्तस्तु उत्कृष्टः सर्वकर्मिकः॥

तारां च भृकुटी चैव तथा पण्डरवासिनीम्।

महाश्वेतां तथा विद्यां मामक्यां कुलिशोद्भवाम्॥

उष्णीषप्रभां सर्वलोचनां चैव देवताम्।

सर्वां तथागतिं विद्यां मञ्जुघोषं च धीमतम्॥

महास्थामं समन्तं च तथा पद्मवरं प्रभुम्।

ययापि लोके यक्षेशं बोधिसत्त्वं महर्द्धिकम्॥

यदुक्तं जिनपुत्रं तु सर्वाङ्गं लोकविश्रुतम्।

वज्रसेनं सुषेणं च मत्सुतां चापि धीमताम्॥

मया ये भाषिता मन्त्रा नावज्ञां कारयेज्जपी।

ते सर्वा पूजयेन्नित्यं अलङ्घ्यास्तेषु भाषिता॥

न जपी योजयेत् तत्र क्रोधराजं सुपूजितम्।

विद्याच्छेदं न कुर्वीत तेषु मन्त्रेषु सर्वदा॥

सर्वांश्चैव यथा कर्मां लौकिकां मन्त्रदेवताम्।

उमाशङ्करब्रह्माद्यां हरिं चापि सुपूजितम्॥

यथा तन्त्रेषु मन्त्राणां सर्वेष्वेव तथा कृता।

सर्वं च सर्वतो मन्त्रां सर्वं चैव समारभेत्॥

सर्वमन्त्रप्रवृत्तिस्तु दृश्यते क्रोधसम्भवा।

एष मन्त्रो महाक्रोधः यमान्तो नाम नामतः॥

आकृष्य घातयेत् क्षिप्रं यमस्यापि महात्मने।

वैवस्वतं कृतान्तं वै शक्रश्चापि महात्मनः॥

आकृष्टा वसिता घीरा दुर्दान्तदमको प्रभुः।

एष मन्त्रो महामन्त्रः कथितो मञ्जुभाणिना॥

सर्वकर्मकरः क्रूरः सर्वमन्त्रप्रसाधकः।

इत्येवमुक्त्वा ततः श्रीमां वज्रपाणिर्महर्द्धिकः॥

प्रणम्य बुद्धं महावीरं शाक्यसिंहं नरोत्तमम्।

मन्त्रं च काश्रितो वज्री मन्त्रं भाषे महर्द्धिकम्॥

शृण्वन्तु सर्वे सत्त्वा वै सर्वभूतगणाः शुभाः।

सर्वमैत्रगणाध्यक्षा भाषेऽहं मन्त्रमुत्तमम्॥

भाषितं बोधिसत्त्वेन मञ्जुघोषेण धीमता।

दुर्दान्तदमकं घोरं सर्वदुष्टनिवारणम्॥

विनेयार्थं तु सत्त्वाना बोधिसत्त्वेन भाषितम्।

अहं च भाषहे ह्यत्र पर्षन्मध्ये सुदारुणम्॥



नमः समन्तबुद्धानां अभावस्वभावसमुद्गतानाम्। नमः प्रत्येकबुद्धार्यश्रावकाणां नमो बोधिसत्त्वानां दशभूमिप्रतिष्ठितेश्वराणां बोधिसत्त्वानां महासत्त्वानाम्। तद्यथा - ॐ ख ख खाहि खाहि दुष्टसत्त्वदमक असिमुसलपाशपरशुहस्त चतुर्भुज चतुर्मुख षट्चरण गच्छ गच्छ महाविघ्नघातक विकृतानन सर्वभूतभयङ्कर अट्टहासनादिने व्याघ्रचर्मनिवसन कुरु कुरु सर्वकर्मां च्छिन्द च्छिन्द सर्वमन्त्रां आकर्षाकर्षय सर्वभूतां निर्मथ निर्मथ सर्वदुष्टां प्रवेशय प्रवेशय मण्डलमध्ये वैवस्वतजीवितान्तकर कुरु कुरु मम कार्यं दह दह पच पच मा विलम्ब मा विलम्ब समयमनुस्मर हूं हूं फट् फट् स्फोटय स्फोटय सर्वाशापारिपूरक हे भगवं किं चिरायसि मम सर्वार्थं साधय स्वाहा॥



एष सः मार्षाः सर्वदेवगणाः यमान्तको नाम क्रोधराजा यमराजानमप्यानयति घातयति शोषयति पाचयति दमयति। एवं सर्वमन्त्रां सर्वदेवां किं पुनर्मानुषं प्रति दुःखितम्। दशभूमिप्रतिष्ठितामपि बोधिसत्त्वानानयति। किं पुनर्लौकिकां मन्त्राम्। एवमपरिमितबलपराक्रमोऽयं क्रोधराजा। एवं सर्वमन्त्रतन्त्रभाषितेष्वपि सर्वकर्माणि कुरुते। सर्वमन्त्राणा यथा यथा प्रयुज्यते तथा तथा करोति। पठितसिद्ध एष क्रोधराजा यमान्तको नाम परिसमाप्त इति॥



आयमञ्जुश्रीमूलकल्पाद् बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रात् पञ्चाशतिमः यमान्तकक्रोधराजासर्वविधिनियमः तृतीयः पटलविसरः परिसमाप्त इति॥



नमो बुद्धाय। समाप्तं च यमान्तकस्य क्रोधराजस्य कल्पमिति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project