Digital Sanskrit Buddhist Canon

अथ एकपञ्चाशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Atha ekapañcāśaḥ paṭalavisaraḥ

अथ एकपञ्चाशः पटलविसरः।



अथ खलु वज्रपाणिर्गुह्यकाधिपतिः सर्वावन्तं महापर्षन्मण्डल मवलोक्य सर्वांस्तां शुद्धावासोपरिनिषण्णां भूतसङ्घानामन्त्रयते स्म। शृण्वन्तु भवन्तो मार्षा यमान्तकस्य क्रोधराजस्यापरिमितबलपराक्रमस्य दुर्दान्तदमकस्य वैवस्वतजीवितान्तकरस्य दुष्टसत्त्वनिग्रहतत्परस्य महाबोधिसत्त्वस्य मञ्जुश्रियभाषितस्य महाबोधिसत्त्वस्यादौ तावत् पटविधानं भवति॥



न तिथिर्न च नक्षत्रं नोपवासो विधीयते।

अरीणां भयमुत्पन्ने पटमेतं लिखापयेत्॥

गृह्य कृष्णे निशापक्षे चतुर्दश्याष्टमौ तिथौ।

श्मशाने मृतकं प्राप्य ब्राह्मणस्य अम्बरं तम्॥

गृह्य ततो रात्रौ असृणां रङ्गयेत् ततः।

भूयो जलशौचं तु सुशुष्कं कारयेत्ततः॥

क्रूरं चित्रकरं क्रुद्धं भीषणे चापि लेखयेत्।

श्मशाने कृष्णपक्षे च त्रिरात्रेणैव समापयेत्॥

अष्टमीं चतुर्दशीरात्रौ महावसादीपदीपितः।

तत्र स्थितः चित्रकरः दक्षिणाभिमुखः सदा॥

कपाले मानुषासीने कृतरक्षः समाहिते।

स्वयं वा आलिखेन्मन्त्री अरिदुःखभयार्दितः॥

प्रथमे रात्रिमारब्धे अरीणोऽपि महद् भयम्।

द्वितीये महाज्वरेणापि आविष्टः शत्रुमूर्च्छितः॥

तृतीये मुञ्चते प्राणां परलोकगतो भवेत्।

कुतस्तस्य भवेच्छान्ति अप्रसन्नेन मन्त्रिणा॥

देहं शुष्यति शत्रोर्वै गृहभङ्गोपजायते।

लिखनात् पटमेवं तु यमान्तस्य महाभये॥

पण्मुखं षट्चरणं लेख्यं कृष्णवर्णं वृकोदरम्।

क्रुद्धं व्याघ्रचर्मनिवसनम्॥

नानाप्रहरणं घोरं दण्डहस्तं भयानकम्।

रक्तनेत्रं सरोषं च त्रिनेत्रगतिचिह्नितम्॥

ऊर्ध्वकेशं सजालं वै धूम्रवर्णं क्वचित् तथा।

कृष्णाञ्जननिभं घोरं प्रावृण्मेधसमप्रभम्॥

कृतान्तरूपसङ्काशं महिषारूढं तु आलिखेत्।

क्रूरकर्मं महाभीमं रौद्रं रुद्रघातकम्॥

यमजीवितनाशं वै उद्यन्तं सत्त्वघातकम्।

क्रूरं भृशं सर्वकर्माणं भीषणापतिदारुणम्॥

भयस्यापि भयत्रासं मारकं सर्वदेहिनाम्।

एतत् क्रुद्धवरं लिख्य आत्मशोणितवर्णकैः॥

व्यतिमिश्रमुज्ज्वलैर्लेख्य महावसागव्यमिश्रितैः।

कपालभाजनैश्चापि मानुषास्थिसुसम्भवैः॥

कूर्चकैर्वर्किकैर्मुक्तो मृतकेशसुसम्भवैः।

अभुञ्जानस्तथालिख्य स्वयं वा चित्रकरेण वा॥

प्रभूतबलिपुष्पाद्यैः रक्तमाल्यैर्वरचन्दनैः।

महामांसवसाधूपैर्वसादीपैश्च भूषितम्॥

कारयेत् पटवरमादौ अन्ते मध्ये च पूजना।

परिस्फुटं तु फटं कृत्वा वित्तं दत्त्वा तु शिल्पिने॥

प्रभूतं चापि मूल्यं वै येन वा तुष्यते सदा।

अवध्यं तस्य कर्तव्यं धर्मं चापि सहाभयम्।

यथेप्सितं तस्य कुर्वीत वीरमूल्यं समासतः।

सफलं शिल्पिने कर्म निरामिषं चापि वर्जयेत्॥

तथा तथा प्रयुञ्जीत यथासौ सम्प्रतुष्यते।

महारक्षा च कर्तव्या अन्यथा मृयते ह्यसौ॥

सकुटुम्बो नश्यते कर्मी आत्मनश्चापि रक्षयेत्।

जप्तविद्येन कर्त्तव्यं नान्येषां विधिरुच्यते॥

परिस्फुटं तु पटं कृत्वा दृष्ट्वा वा मनसेप्सितम्।

सर्वां च कारयेत् कर्मां रौद्रां शत्रूपघातकाम्॥

गृह्य पटवरं गच्छेद् यथेष्टं यत्र वाञ्छितम्।

महायक्षां महाराज्ञां महावित्तसगर्विताम्॥

महामानातिमानानां क्रूरां क्रूरकर्मिणाम्।

रत्नत्रयापकारीणां नास्तिक्यां मन्त्रवर्जिताम्॥

अपूजकानां तु मन्त्राणां तद्भक्तासृतनिन्दकाम्।

जापिनां निन्दका ये च तेषां चैव पराभवा॥

तेषां प्रयोगः कर्त्तव्यः विधिदृष्टेन कर्मणा।

अधर्मिष्ठां तथा नित्यां सर्वसत्त्वानुतापिनाम्॥

तेषां तु कर्म प्रयुञ्जीत सद्यः प्राणोपरोधिनम्।

गृह्यारिष्टफलं पत्रं त्वचं चापि समूलतः॥

काञ्जिकं आम्लसंयुक्तं मानुषास्थिसचूर्णितम्।

कटुतैलविषं चैव अम्लवेतसमार्द्रकम्॥

राजिकं रुधिरं चैव मानुषोद्भवसम्भवम्।

गृह्य सर्वं समायुक्तं पटं स्थाप्य विवेकतः॥

दक्षिणाभिमुखो भूत्वा पटश्चापि उदङ्मुखः।

कृत्वाग्निकुण्डं यथेष्टं वै शुक्लकाष्ठैः कटुमुद्भवैः॥

ज्वालयं कटकैश्चापि तस्मिं कुण्डे समाहितः।

पुह्यात् सर्वसमायुक्तं विधिनिर्दिष्टहौमिकम्॥

अग्निराहूय मन्त्रैस्तु क्रोधराजस्य वै पुनः।

बद्ध्वा शूलमुद्रं तु सर्वकर्मेषु वा इह॥

सहस्राष्टमाहुतिं दद्यादग्निकुण्डे सरोषतः।

प्रथमे पुत्रमरणं सत्त्वे प्राप्ते तु तं भवेत्॥

द्वितीये चापि भार्या वै पार्षद्याः सनायकाः।

तृतीये मरणं तस्य यस्योद्दिश्यं हि तत् कृतम्॥

अर्धरात्रे यदा जापः क्रियते पटसन्निधौ।

शत्रूणां च वधार्थाय तत् तथैवानुवर्तते॥

राष्ट्रभङ्गं भवेत् तस्य सेनायां मारिसम्भवम्।

अग्निदाहं महावातं महावृष्टिश्च जायते॥

समस्तं सर्वतश्चक्रं परचक्रेण हन्यते।

विविधोपद्रवा तस्य महाव्याधिसमाकुलम्॥

देहं शुष्यति सर्वं वै तस्य राज्ञो न संशयः।

अमानुषाकीर्ण सर्वन्तं गृहं तस्य समाकुलम्॥

धृतिं न लभते शय्यां आवर्तं च महीतले।

राक्षसैः प्रेतक्रव्यादैः गृहं तस्य समावृतम्॥

आर्त्तो बिभेति सर्वत्र तीव्रदुःखैः सुदुःखितः।

अशक्ता रक्षितुं तस्य महेश्वराद्या भुवि देवता॥

ब्रह्माद्या लोकपालाश्च शक्राद्या त्रिदशेश्वराः।

सर्वमन्त्राः सर्वदेवाश्च सर्वलौकिकसम्भवा॥

दुष्टारे मानिने क्रुद्धे तदन्तं तस्य जीवितम्।

अर्धरात्रे तु मध्याह्ने भाषितो यत्र जापिनः॥

क्रुद्धो वेवस्वतः साक्षाद् यमराजावकल्पते।

यथेष्टं कृष्णपक्षे च पटं संस्थाप्य महीतले॥

महतिं पूजां बलिं कृत्वा श्मशानारण्यसम्भवे।

एकवृक्षे तथा लिङ्गे शैले प्रान्ते गुहासु वा॥

एकाकी अद्वितीयश्च सदा कर्म समारभेत्।

महारण्ये विविक्ते च शून्ये देवकुलेषु च॥

शून्ये मन्दिरे नद्यां अम्बुधेः तटमाश्रिते।

तत्र देशे समीपे वा तत्रस्थे वा यथेप्सितम्॥

योजनाशतमभ्यन्तर सदा कर्माणि कारयेत्।

एतत् प्रमाणकर्माणि कारयेच्छुचिना सदा॥

अप्रमेयस्थितो वापि गतदेशामितः शुचिः।

अचिन्त्यमन्त्रविषये अचिन्त्यं मन्त्रगोचरम्॥

अचिन्त्यो ऋद्धिमन्त्राणां अचिन्त्यं सिद्धिजापिनाम्।

अचिन्त्यं दृश्यते कर्म फलं चापि अचिन्त्यकम्॥

क्रोधराजस्य यमान्तकस्य महात्मने।

कर्मं ऋद्धिविषयं विकुर्वणं च महोदयम्॥

अचिन्त्यं रूपिणां सिद्धि दृश्यते ह महीतले।

अशक्ता रक्षयितुं सर्वे बोधिसत्त्वा महर्द्धिकाः॥

किं पुनर्लोकिका मन्त्राः सग्रहा मातराश्च ताः।

ईशानश्च सविष्णुर्वा स च स्कन्दो पुरन्दरः॥

समये धारिता तेऽपि सजिना जिनपुत्रकाः।

बोधिसत्त्वा महात्मानो दशभूमिसमासृताः॥

प्रत्येकबुद्धा ह्यर्हन्त वीतरागा महर्द्धिकाः।

अशक्ता रक्षयितुं तेऽपि समयं तैः पुरा कृतम्॥

संक्षेपेण तु वक्ष्यामि शृणुध्वं भूतकांक्षिणा।

नान्यो निवर्त्तने शक्तः अप्रसन्नेन जापिने॥

कुतस्तस्य भवेच्छान्तिरतुष्टे मन्त्रवरे इह।

यदा प्रसन्नमनसः करुणार्द्रा व भवेत् कदा॥

जापिनः क्रोधराजस्य यमान्तस्य महात्मने।

तदादौ लभते शान्तिं धृतिं वा जीवधारणम्॥

पिचुमन्दं कटुतैलं च काञ्जिकं विषपञ्चमम्।

रुधिरं मानुषं मांसं लवणं त्रिकटुकं पुनः॥

राजिकं शङ्खचूर्णं च अम्लवेतसमार्द्रकम्।

धुर्धूरकस्य तु मूलानि कोशातक्या तथैव च॥

एरण्डमूलं यवक्षारं कुसुम्भं चापि कण्टकम्।

मदनोद्भवमूलं च लशुनं गृञ्जनकं तथा॥

पलाशशाखोटकं चैव ससुरासवा।

सर्वान्येतानि समं कृत्वा जुहुयात् अग्नौ पटसन्निधौ॥

हुते सहस्रमष्टे तु शत्रुनाशः समूलतः।

सर्वां वा राजिकां हन्या पारिषद्यां शुभाशुभाम्॥

समूलोद्धरणं तस्य द्वितीये सन्ध्ये तु जुह्वता।

तृतीये समनुप्राप्ते सन्ध्ये जुह्वत जापिना॥

दुर्भिक्षं भवते तस्य जने चापि सनैगमे।

अनावृष्टिमहामार्यः राक्षसाकीर्णसर्वतः॥

अग्निदाहं शिलापातं वज्रनिर्घातसाशनिः।

जनपदं देशविषयं वा यवाः तस्य नराधिपे॥

बह्नोपद्रवसम्पातं वरचक्रागमं तथा।

अनेकधा बहुधाश्चापि तस्य देशे उपद्रवाः॥

जायन्ते विविधाकाराः महालक्ष्मीप्रणाशनैः।

धुर्धूरकमूलं जुहुयादेकं उन्मत्तिस्तस्य जायते॥

कटुकं जुह्वतो नित्यं महादाहेन गृह्यते।

अत्यम्लं जुह्वतो मग्नौ महाज्वरं शीतसम्भवम्॥

सम्भवेत् तस्य देहस्थः दुष्टराज्ञां बलगर्विताम्।

महायक्षां धनिनां क्रूरां महासैन्यसमासृताम्॥

द्विरात्रे सप्तरात्रे वा मरणं तस्य जीवितम्।

यो यस्य देवताभक्तः नक्षत्रो वा नामतो लिखेत्॥

श्मशानाङ्गारैः कृतिं कृत्वा पटस्याग्रतभूसृतम्।

आक्रम्य पादतो मूर्ध्ना सङ्क्रुद्धो जपमाचरेत्॥

अकस्माद् विविधैः शूलैः गृह्यतेऽसौ नराधिपः।

महाव्याधिसमाक्रान्तः मृयते वापि तत्क्षणात्॥

पशुना हन्यते चापि व्यङ्गो वा भवते पुनः।

भक्ष्यते राक्षसै क्रूरैः कश्मलामानुषोद्भवैः॥

क्रव्यादैः पूतनैश्चापि पिशाचैः प्रेतमातरैः।

तत्क्षणाद्धन्यते चापि आत्मनश्चापि सेवकैः॥

अथ वज्रधरः श्रीमां इत्युक्त्वा परिषेत्तदा।

सर्वबुद्धां नमस्कृत्य तूष्णीम्भूतो ततः स्थिरे॥

लोकानां हितकाम्यार्थं पुनरेवमुमूचत।

सर्वां यक्षगणां मन्त्रः यक्षीणां च स सर्वतः॥

उवाच बोधिसत्त्वो वै यक्षसेनापतिस्तदा।

यक्षीणां पटलं वव्रे सर्वकर्मोपसंहितम्॥

सर्वाकर्षं वशं चैव सर्वशल्याननुद्धरम्।

मैथुनार्थी यदा मन्त्री रागान्धो वाथ मूढधीः॥

न शक्य प्रतिपक्षेण सुगताज्ञैर्निवारितुम्।

अनादिमति संसारे पुराभ्यस्तं सुदुःखितैः॥

दुःखा दुःखतरं तेषां गतिरुक्ता तथागतैः।

शोभनां गतिमाप्नोति ब्रह्मचारी जितेन्द्रियः॥

भद्रं शिवं च निर्दिष्टमन्त्रे शान्तिमवाप्नुयात्।

त्रियानसमतारूढः माप्नुयान्ते सुनिर्वृतिम्॥

विपरीताः कुगतिग्रस्ता ये रागान्धा तपस्विनाम्।

संसारगहने घोरे भ्रमन्ति गतिपञ्चके॥

तेषां दुःखितामर्थे कामभोगं तु वर्ण्यते।

ते निर्वृता सर्वपापा तु त्रिधा दोषनिवर्तिता॥

शास्तुराज्ञासमाविष्टा मुच्यन्ते सर्वबन्धना इति॥



आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद् एकूनपञ्चाशतिमः यमान्तकक्रोधराजाभिचारुकनियमः द्वितीयः पटलविसरः परिसमाप्तः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project