Digital Sanskrit Buddhist Canon

अथैकोनपञ्चाशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Athaikonapañcāśaḥ paṭalavisaraḥ

अथैकोनपञ्चाशः पटलविसरः।



अथ ता देवता भगवन्तं शाक्यमुनिं सर्वांश्च बोधिसत्त्वां सर्वश्रावकप्रत्येकबुद्धांश्च त्रिः प्रदक्षिणीकृत्य शिरसा प्रणम्य बुद्धं भगवन्तं निरीक्षमाणाः स्थिताः अभूवं निरीक्षमाणाः समन्त्रतन्त्रकल्पविस्तराणि च। भाषन्ते स्म स्वमुद्राणां चौषध्यो यथाभिमतं भाषन्ते स्म। अनुज्ञाता तथागतेनार्हता सम्यक्सम्बुद्धेन सत्त्वानामर्थाय सर्वमुद्रामन्त्रपटलविसरं भाषते स्म स्वकं स्वकं मुद्रापटलमोषधीनां च कल्पं भाषन्ते स्म॥



तुम्बुरुः सार्थवाहो एवमाह - “आदौ तावद् गन्धेन हस्तावुद्वर्त्य चन्दनमिश्रेण वान्यैर्वा सुगन्धजातिभिर्देवीनामग्रतः प्राङ्मुखः स्थित्वोदङ्मुखो वा वामहस्तेन दक्षिणहस्ताङ्गुष्ठं मुष्टियोगेन गृहीत्वा अवसव्येन भ्रामयित्वा नाभिदेशे स्थापयेत्। मुष्टियोगेन शिरःस्थाने वा न्यसेत्। एष भगवं ! तुम्बुरेः सार्थवाहस्य समयमुद्रा मम। तदेव हस्तौ कर्मार्थसाधका वामहस्तेनाङ्गुष्ठमभ्यन्तरे प्रक्षिप्य दृढं प्रगृह्य मुष्टियोगेन नाभिदेशे न्यसेत्। एष भगवं ! मम जयाया मुद्रा सर्वकर्मकरा। तदेव मुष्टिं तर्जन्यां विकास्य तर्जयेत्। दक्षिणां दिशि सर्वबिघ्ना प्रनश्यन्ते। एष द्वितीयो महामुद्रः द्वितीयमङ्गुलिमुत्क्षिप्य पश्चिमां दिशि मावर्जयेत्। एष द्वितीयो महामुद्रः सर्वदुष्टा नागां स्तम्भयति निर्विषीकरणे च प्रयोक्तव्यः। तृतीयमङ्गुलिमुत्क्षिप्य उत्तरायां दिशि आवर्जयेत् सर्वयक्षयक्षीकिन्नरमहोरगकूष्माण्डाश्च वश्या भवन्ति। आकृष्टा एषा तृतीया महामुद्रा भवति। सर्वाशापारिपूरिका। सर्वकर्माश्चाभिमुखा भवन्ति। चतुर्थमङ्गुलिं विकास्य अभ्यन्तरस्थितमङ्गुष्ठं सङ्कोच्य हस्ततले पूर्वायां दिशि आवर्जयेत्। सर्वे देवा वश्या भवन्ति। देवानामग्रतः प्राङ्मुखो भूत्वा दर्शयेत्। सर्वभूता वश्या भवन्ति। सर्वसत्त्वानां च प्रियो भवति। एषा चतुर्था महामुद्रा सर्वकामफलप्रदा। द्वौ हस्तौ संयम्य सर्वमङ्गुलिं विकास्य अञ्जल्याकारेण मूर्धन्यास्पृशेत्। ऊर्ध्वमधश्चावलोकयेत्। आब्रह्मस्तम्बपर्यन्तात्। अधश्च रसातलम्। सर्वदेवदानवां वशमानयति। एष पञ्चमो महामुद्रः सर्वकर्मार्थसाधकः। एतदेव भगवं ! पञ्च महामुद्रा सर्वकामफलप्रदा भवती” ति॥



विजयां एवमाह - “पञ्च एव भगवं ! मम महामुद्रा भवन्ति। वामहस्तेनाङ्गुष्ठाभ्यन्तरं कृत्वा यथा नखा न दृश्यन्ते तथा कार्यं दृढं मुष्टिं कृत्वा प्रहारमार्जनयोगेनाधः अवलोकयेत्। एष प्रथमा महामुद्रा। द्वितीयमपि ऊर्ध्वमवलोकने। तृतीयं दिग्दक्षिणमवलोकने चतुर्थं सर्वदिग्ग्रहणे। पञ्चमं शिरसि न्यस्तम्। एत एव पञ्चमहामुद्रा सर्वकामफलप्रदा भवन्ति” इति॥



अजिता एवमाह - “उभौ हस्तौ संयम्य उभौ अङ्गुष्ठमध्ये प्रक्षिप्य सुषिरञ्जल्याकारं कृत्वा मध्यमाङ्गुलिसूचिकौ कन्यसाङ्गुलिमुच्छ्रितौ पाशाकारं कृत्वा तर्जन्यौ तथैव चानामिकाववष्टभ्य अजिता नाम महामुद्रा भवति। दुर्दान्तदमका पुण्या सर्वकर्मार्थसाधकः। तदेव मुद्रं दक्षिणां दिशि मावर्जयेत्। द्वितीया महामुद्रा विजया नाम भवति। एवं पश्चिमायां दिशि मावर्जयेत्। जया नाम महामुद्रा भवति। एवमुत्तरायां दिशि मावर्जयेत्। अपराजिता नाम भवति महामुद्रा। एवं पूर्वायां दिशि मावर्जयेत्। महासार्थवाहो नाम महामुद्रा भवति। एत एव पञ्चमहामुद्राः सर्वाशापारिपूरका भवन्ति इति॥



अपराजिता एवमाह - “पञ्च एव भगवं मम महामुद्रा भवन्ति। पूर्ववत् हस्तौ प्रक्षाल्य कृष्णपक्षे बन्धयितव्याः। तेनैव विधिना यथा साधनेऽस्मिं तथा योज्याः। दक्षिणाभिमुखं स्थित्वा देवीनामग्रतः उभौ हस्तौ संश्लिष्य मध्यमानामिकातर्जन्यादिभिः त्रिसूच्याकारं तृशूलं कृत्वा कनिष्ठिकाङ्गुलिमध्यमङ्गुष्ठौ च मध्ये प्रक्षिप्य हस्ततलेऽस्मिं मूर्ध्नि स्थाने तदा न्यसेत्। प्रथमं महामुद्रः अपराजिता नाम एवं सर्वे प्रयोक्तव्याः। यथा अजितायाः। यन्नामिका भगिन्यः भ्रातृसहिताः तन्नामकाः सर्वेषां महामुद्रा भवन्ति। यदेष हस्ततले एतत् सागरम्। यदेतदङ्गुष्ठं यद् भ्रातुस्तुम्बुरोः यदेतदङ्गुल्यः सर्वे भगिन्यः अनुपूर्वसंज्ञकाः। तर्जनी जया मध्यमा विजया अनामिका अजिता कन्यसा अपराजिता। एतदनुपूर्वक्रमेण पद्भ्यामेव योज्यः। ध्याताः नमस्कृताश्च सान्निध्यं कल्पयन्ति। चिन्तिता नाचिन्तिता मुद्रा भवन्ति। सर्वकर्मकराः सर्वाशापरिपूरकाः विषमस्थे चिन्तयितव्या महामुद्राः। भयं न भवति” इति॥



तुम्बुरुः सार्थवाह एवमाह - “अथेषां सामान्यतः अगदाभिधानं भवति। अस्माकं च ओषधीनां प्रभावो येन वश्या भवन्ति सर्वभूताः। कतमं च तत्। अश्वत्थन्यग्रोधशुङ्गां गृहीत्वा क्षीरेण पीषयित्वा गोक्षीरेणालोड्य सितपक्षे अश्विनिनक्षत्रेण इन्दुवारे तिथौ सप्तम्यां पूर्वाह्ने ऋतुमत्याः स्त्रियाया अप्रसवनधर्मिन्याः सार्थवाहमन्त्रेण परिजप्य सप्तवारां तथैव मुद्रां बध्वा पाययेत् पूर्वाभिमुखां कृत्वा नारी गर्भं ग्रहेष्यते। पुत्रं जनयते दीर्घायुष्यं सुपतिना च सह स्वप्तव्यम्। तेषामेव मूलं गृहीत्वा मूलनक्षत्रेणोत्तरायां दिशि गतायां शिलायामादित्यवारेण सूक्ष्मचूर्णानि कारयेत्। यस्य ददाति स वशो भवति आहारपानभोजनादिषु गन्धमाल्यताम्बुलादिषु प्रयोक्तव्यम्। यथा शरीरेषु विशति तथा कार्यम्। स्पृशति वाचा सत्त्वेनोपतिष्ठति। तदेव शुङ्गौ तेनैव विधिना यथा स्त्रिया तथात्मना पिबेत्। स्त्रीशतमपि गच्छति अव्यवच्छिन्नरेतः। तथा स्त्रियामपि बृहल्लिङ्गतामभिनिर्वर्त्तयति। गोर्जरुकः शतपादी वा नरशक्रफलानि तथैव चूर्णमिदं पयसा सह पेयं यस्य गृहे प्रमदाशतमस्ति। एवमनेन प्रकारेण पूर्वमूलां स्वमुद्रां मन्त्रेणोपेताः वर्जयित्वा विषमुपविषं च सर्वं योज्यम्। सर्वकर्मिषु च सर्वभूतानां वशीकरणमुत्तमं साधनीयाश्चे” ति॥



जया एवमाह - “जयन्तीमूलं गृह्य तथैव कर्त्तव्यं यथा तुम्बुरेः सर्वकर्माणि साधयति। अथाकाशगमनमिच्छेत्। जयन्तीमूलं तृलोहपरिवेष्टितं कृत्वा पुष्ययोगेन सोमवारेण शुक्लपक्षसप्तम्यां सपूर्णमास्यां चतुर्दश्याष्टम्यां त्रिरात्रोषितेन शुचिना कुङ्कुममिश्रं कृत्वा मुखे प्रक्षेप्तव्याः। चन्द्रग्रहे मुक्ते अन्तर्हितो भवति। स्वमन्त्रं अक्षरलक्षं जप्त्वा गुडिकां प्रक्षिप्य चन्द्रग्रहे मुक्ते विद्याधरो भवति कामरूपी यथेष्टगतिः विंशतिवर्षसहस्राणि जीवति। उद्गीर्णे पुनर्दृश्यति। मानुषे पुनः एवं सर्वकर्माणि करोती” ति॥



विजया एवमाह - “किन्तु अयं विशेषः। अगस्तिवन्दाकं गृह्य ज्येष्ठोदकेन दिव्यवारिणा वा पिष्ट्वा स्वमन्त्रेणाभिमन्त्र्य पादौ म्रक्षयेद्योजनशतं गमनागमनं करोति। अखिन्नं यावन्न त्यजते। विजयामूलं गृह्य तथैव कर्तव्यम्। तथा जयायाः सर्वं करोति” इति॥



अजिता एवमाह - “अजितमूलं सङ्गृह्य तथैव कर्त्तव्यम्। सर्वं साधयति” इति।



अपराजिता एवमाहं - “अपराजितामूलं गृह्य शुक्लकृष्णौ सपत्रफलमूलौ सर्वं तथैव कर्तव्यं यथा सार्थवाहस्येति। किन्त्वयं विशेषः। आशुकारि क्षिप्रं सिद्ध्यतीति।



पुत्रञ्जरी कृताञ्जली सहा च सहदेवा च महोषधी।

छत्राधिच्छत्रा तथा देवी महाकालश्च विश्रुतः।

नाकुली गन्धनाकुल्यौ तथा सङ्कुचितकर्णिका॥

एतेषां मूलमादाय शूर्जचूर्णानि कारयेत्।

अनेन पृष्टमात्रस्तु वशमायान्ति देहिनः॥

रक्तशालितुषं चैव कुङ्कुमं सहचन्दनम्।

कस्तूरिकासमायुक्तं दिव्यवारिसमप्लुतम्॥

त्रिलोहाकारयेवेष्टं वै गुटिकां कुर्वीत मन्त्रवित्।

अक्षमात्रं ततः कृत्वा गुटिकां वक्त्रे तुं तां न्यसेत्॥

चन्द्रग्रहेऽथ रात्रौ वा जपेन्मन्त्रं समाहितः।

प्रभाते सिद्धमन्तस्तु यथेष्टं याति देहजः॥

परिवर्तयते जापं वक्त्रस्था गुटिका सदा।

यथेष्टपशुरूपी वा समन्ताद्धिण्डति मेदिनीम्॥

उद्गीणे तथा युक्तिः स्वदेही भवति जापधीः।

अन्यथा यदि वक्त्रस्था विश्वरूपा भवेत् सदा॥

स्वमन्त्रेणात्मरक्षं तु कृतजापी विशिष्यते।

अन्यथा हृयते गुटिका यदि रक्षां न करोति जापी॥

सर्वमन्त्रास्तु सिद्ध्यन्ते मन्त्रराट् सर्वलौकिकाः।

पूजनात् सर्वकल्पानां सर्वसर्वैश्च भाषिताम्॥

तेऽस्मिं सिद्धिमायान्ति मन्त्रतन्त्राभिभाषिताम्।

विचरन्ति महीं कृत्स्नां विचित्रा वेषधारिणो॥

गतियोनिविदेहस्थाः श्वानवायसरूपिणः।

मार्जार तथोलूकाः मूषमण्डूकवृश्चिकाः॥

सर्वयोनिसमाकीर्णाः विदेहा देहविस्थिताः।

पर्यटन्ति महीं कृत्स्नां सर्वभूतरुताविनः॥

सर्वसत्त्वे वशा वेषा सर्वभूते प्रियोदया।

कुर्वन्ति च सदा मर्त्या तदा तेषां नियोजयेत्॥

नान्येषां कथ्यते लोके पूजिताश्चैव देवतैः।

सर्वं च सर्वतो ज्ञेयं सर्वमन्त्रप्रसाधकम्॥

कथितं कथयिष्यन्ति ये चान्ये भुवि मानवाः।

तत् सर्वं कल्पविसरं इह चोक्तं लोकमातरैः॥

एवमुक्तास्तु देवा वै सूत्रान्तसहपञ्चमाः।

तूष्णीम्भूता ततस्तस्थु प्रणम्य जिनपुङ्गवम्॥

निषण्णो धर्मश्रवणाय तस्मिं पर्षद्वरेद्वरे।

अधिष्ठानां च बुद्धानां अशेषाणां च जिनात्मजाम्॥

अध्येष्य च महावीरं तूष्णीम्भूतास्तदनन्तरे।

अथ वज्रधृक् श्रीमां पूजयामास देवताः॥

साधुकारमदात् तेषां सत्त्वानुग्रहकाम्यया।

साधु साधु ततः कन्य समये तिष्ठध्व यत्नतामिति॥



आर्यमञ्जुश्रियमूलकल्पात् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् सप्तचत्वारिंशतिमः पटलविसरात् तृतीयः चतुःकुमार्योपयिकसर्वसाधनजपनियममुद्रा‍ओषधितन्त्रमन्त्रसर्वकर्मपटलविसरं परिसमाप्त इति॥



शुभ भूयात्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project