Digital Sanskrit Buddhist Canon

अथाष्टचत्वारिंशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
अथाष्टचत्वारिंशः पटलविसरः।



अथ खलु विजया नाम देवी तत्रैव पर्षदि सन्निपतिता सन्निषण्णाभूवम्। स स्वकं मण्डलोपचर्या साधनविधिं भाषयति स्म॥



आदौ तावद् विविक्ते देशे प्रच्छन्ने रहसि पञ्चरङ्गिकचूर्णेन शुक्लकृष्णपीतरक्तहरितैः चूर्णैः पञ्चम्या शुभे सितकृष्णयोः पक्षे चतुर्थ्या वा मण्डलमालिखेत्। चतुर्हस्तप्रमाणं समन्ताच्चतुरस्रं चतुःकोणं चतुस्तोरणभूषितम्। समन्तान्मण्डलमध्ये महोदधि समालिखेत् चतुर्मुद्रालङ्कृतम्। मध्ये सार्थवाहश्च मुद्रामण्डलाकारं इन्दुवर्णाभं पूर्वोत्तरे कोणे जया मुद्रा अर्धचन्द्राकारसितं दक्षिणपूर्वकोणे विजया मुद्रा तृकोणाकारं पीतनिर्भासं, पश्चिमदक्षिणकोणे अजिताया मुद्रं बन्धाकारं रक्तावभासं उत्तरपश्चिमकोणे अपराजिताया मुद्रं वज्राकारं कृष्णनिर्भासं सर्वतश्च मुद्राणां ज्वालामालिनः कर्त्तव्याः॥



पूर्ववचौक्षसमाचारेण भूत्वा चतुःकोण चत्वारः पूर्णकलशाः स्थापयितव्याः आम्रपल्लवप्रच्छादितमुखाः सर्वव्रीहिरत्नपरिपूर्णगर्भाः। मध्ये तु सार्थवाहस्य तुम्बुरेः पञ्चमं कलशं तथैवाम्रपल्लवप्रच्छादितमुखं प्रत्यग्रवस्त्रावकुण्ठिताश्च कार्याः। तच्च तथैव बलिनिवेद्यपुष्पादयो यथा मुद्रास्तथैव कार्या। तद्वर्णश्च पूष्पधूपगन्धादयः तत् सर्वं तथैव कार्यम्। चतुर्दिशं च बलिः क्षेप्तव्या। अर्धरात्रे मध्याह्ने चाभिचारुके प्रत्यूषे पौष्टिके अपराह्ने शान्तिकमस्तं गते वा सवितरि कर्मत्रयं चापि यथाकालोपदिष्टमण्डलहोमजपसाधनेषु प्रयोक्तव्यम्॥



शुचिनो दक्षशीलाश्चं स्त्रीपुरुषादयः अव्यथिताश्च प्रवेशयितव्याः सरदारिकाश्च गुह्यमन्त्रधारिणो आदौ प्रवेशयितव्याः। प्राङ्मुखं स्थापयित्वा विजयाया मूलमन्त्रेणोदकमभिमन्त्र्य सप्ताभिमन्त्रितं कृत्वा सर्वेषामभ्यषिञ्चेत्। सकृदहोरात्रोषितानां शुचिवस्त्रप्रावृतानामष्टौ प्रभृति यावदेकं प्राङ्मुखं पश्चाद्‍द्वारेण प्रवेशयेत् प्रत्यग्रमुखप्रच्छादितां कृत्वा एकैकं विजयाया मुद्रं बद्‍ध्वा अञ्जलिं कृत्वा पीतपुष्प दत्वा क्षिपापयेत्। विजयाया मन्त्रं कृत्वा मुखमुत्साद्य मण्डलं दर्शापयेत्। प्रदक्षिणं च कारापयेत्। सर्वेषां मुद्रां दर्शयेत्। ततोऽनुपूर्वतः सर्वे प्रवेशयितव्या यावदष्टाविति॥



पूर्वं तावद् देवीनामाह्वाननमन्त्रेण भ्रातृसहितानां मूलमन्त्रेण यथोचित्तैः पुष्पैरावाहयेत्। पूर्वं पश्चाद् धूपं दत्वा यथोचितं नमस्कारं कृत्वा यत्रोत्सहते शिष्यः स्त्रीपुरुषदारकदारिका वा स तस्मिं मण्डले बहिरभिषेचयितव्यः राजवत् सर्वोपकरणैः यथाभिरुचितैर्वा मन्त्रं मण्डलाचार्यस्य तुष्टिर्येन वा तुष्येत तयाभिषेचयेत्। अभिषिच्य च एक वा त्रयो वा अभिषेचनीयः आर्याभिषेकेण। एकं च वक्तव्यम्। शृणु कुलपुत्रकुलदुहितुर्वा लब्धाभिषेकस्त्वमनुज्ञातः सर्वदेवताभिश्च सभ्रातृसहितैश्च स्वमन्त्रतन्त्रेषु यथेष्टं मण्डलमालिख्य स्वमन्त्राणां विधिनियमचर्याकल्पविस्तरां ददस्वेति वक्तव्यः। तदन्ये विद्याभिषेकेणाभिषेचयितव्या। द्वित्रयो वा जनाः। शेषास्तु स्वमन्त्रचर्यायाः शिक्षापयित्वा विसर्जयितव्या॥



ततो मण्डलाचार्येण चन्दनोदकेनाभ्युक्ष्य अर्घं दत्त्वा स्वमन्त्रेणैव धूपपुष्पादिभिः देवतां विसर्जयितव्या। सर्वं चोपकरणं आत्मना ग्रहेतव्यम्। गृह्य च स्वं प्रत्यंशं त्रितीयभागं सर्वमनाथेभ्यो दातव्यम्। शेषमुदके प्लावयितव्यम्। तं पृथिवीप्रदेशं सुलिप्तं कृत्वा सुशोभितं विगतरजस्कं यथेष्टयो गन्तव्यम्। यथा स्वमन्त्रचर्यासु च तथा शिक्षापयितव्याः। सर्वे शिष्याः प्रच्छन्ने रहसि विगतजनसम्पाते स्वदेवतामुद्रांश्च बन्धापयितव्याः। तैरेव मन्त्रैः पूर्वनिर्दिष्टैर्मन्त्रैः सुविशेषतः सर्वमन्त्रा सिद्धिं गच्छन्तीति॥



आशु सिद्धिक्रियायुक्तिमन्त्राणां च विशेषतः।

जयाख्ये मण्डले ह्युक्तं पूर्वनिर्दिष्टहेतुभिः॥

तत्कर्मविधिनिर्दिष्टः विजयाख्ये मण्डले शुभे।

द्वितीयं मण्डलमित्याहुः निर्दिष्टं तत्त्वार्थमन्त्रिभिः॥

विजया नामतो ज्ञेया सर्वकर्मार्थसाधिका।

ईप्सितां साधयेदर्थां सर्वमन्त्रेषु मन्त्रवित्॥

पूर्वं जप्तो मन्त्रस्तु सर्वकर्मेषु मानवी।

तत्यात्मदेवता रक्षा विजयाया तु कीर्त्यते॥

पराभवश्च विघ्नानां आरम्भश्च फलोन्मुखः।

मण्डले विजयाख्ये तु द्वितीये सर्वार्थसाधने॥

दर्शनान्मुञ्चते पुंसः सर्वकल्विषमायतैः।

जपाद् योगाच्च मन्त्रज्ञः पापशुद्धिश्च जायते॥

पराभवश्चान्येषां मन्त्राणां तु भूतले।

परिपक्षगतां देषां स्वदुष्टादुष्टयोनिजाम्॥

नाशये तत्क्षणान्मन्त्री विजयाख्ये मण्डलावृतीः।

सर्वकर्मिकमित्याहुः वश्याकर्षणभूतिकम्॥

सफलं कर्मजं लोके पुष्टिशान्त्यर्थसाधकम्।

सर्वार्थसाधको ह्येष मण्डलोदधिसम्भवो॥

विजयाख्ये बहुमतः पुण्यः प्रशस्तः सोमपूजितो।

नित्यं नित्यतमो पुण्यो मङ्गलो मघनाशनः॥

सुरूपो रूपमन्तश्च धन्यः सर्वार्थसाधकः।

लिखनान्मन्त्रिभिः क्षिप्रं ऊर्ध्वगामर्थसाधकमितिदिति॥

अजितादेवमित्याहुः प्रसन्ना बुद्धशासने।

मण्डलं त्रयमेक वै कथितं लोकपूजितम्॥

पूर्वं रिषिवरैर्मुख्यैः कथितं लोकचिह्नितैः।

अधुना च प्रवक्ष्येऽहं अजिताख्यं मण्डलम्॥

यद्व तत् यथैव नियोजयेत्।

किन्तु वर्णवरं रक्तं रक्तैश्चापि चूर्णकैः॥

तथैव बलिपुष्पाद्यां गन्धधूपादिभिः क्रमैः।

सर्वरक्तमयं बाह्यमसृग्ग्रस्ताङ्गशोभनम्॥

तथैव मुद्रां सर्वत्रं भीमां चैव वियोजयेत्।

बलिहोमक्रियायुक्तिः रक्तैश्चापि नियोजयेत्॥

कलशाश्चैव रक्ताभां रक्तवस्त्रांश्च दापयत्।

तथैव मुखवेष्टं वा रक्तच्छत्रं तथैव च॥

आसनं शयनं यानं रक्तं चैव समालभेत्।

तथैव रक्तमन्त्राणां स्त्रीपुंसार्थकारणम्॥

रागार्थं आवृते मन्त्रां रागिणस्यैव युज्यते।

नान्यमन्त्रेषु मन्त्रज्ञो मतिं कारेथ कत्तृणाम्॥

बुद्धिमन्तः सदायोगी मन्त्रज्ञो मन्त्रमीरयेत्।

कामार्थं सम्पदं प्राप्ता वश्याकर्षणहेतुकम्॥

प्राप्नुयात् सम्पदां सर्वां अजिताख्ये मण्डलेऽद्भुताम्।

सर्वभूतवशार्थाय मण्डलं भुवि मुच्यते॥

कथितं मन्त्रिभिर्नित्यं चित्तविक्षेपकारणात्।

आकृष्य महोजं कर्म वश्या भौतिकचेष्टितम्॥

विक्षिप्तचित्तो मर्त्यो वै आविष्टाविरलेक्षिताम्।

दासभूतं समायातं सर्वज्ञासम्प्रतीच्छकम्॥

विवशं वशमायातं किङ्करानुवशवर्तिनम्।

तादृशं मानुषं दृष्ट्वा पुनरेव सम्प्रमोक्षयेत्॥

स्त्रियं वा यदि वा पुंसं दारकं वाथ दारिकाम्।

भूयोऽपि मूलमन्त्रेण अजितेनैव मोक्षयेत्॥

पूर्वनिर्दिष्टकर्मैश्च विधियुक्तैर्महीतले।

आलिखेन्मण्डलं धीमां सर्वदैव प्रयोजयेत्॥

सफलं कर्म निर्दिष्टं समन्त्रं मन्त्रकर्मणि।

पूर्वमन्यप्रयोगैस्तु साधयेद् विधिमुत्तमाम्॥

साध्यमाना हि सिद्ध्यन्ते सर्वे माहेश्वरा गणाः।

विधानज्ञापतो रूपं मुद्रं मन्त्रार्थतन्त्रता॥

क्रियायोगप्रमाणं तु कथ्यमानातिविस्तरा।

एतत् प्रमाणतो ज्ञेयं मण्डलेऽस्मिन् निबोधताम्॥

हस्ता च दष्टसप्ता वा षट्पञ्चचतुरस्तथा॥

द्विहस्तहस्तमात्रं वा वृता मण्डलमुद्भवेत्॥

ज्येष्ठमष्टस्तथा हस्तं सप्त षट् पञ्च मध्यमाः।

चतुर्हस्तद्विहस्तं वा हस्तमात्रं तु कन्यसम्॥

ज्येष्ठे शान्तिकं कुर्या तथा मध्ये तु पौष्टिकम्।

आभिचारुकमन्त्रेषु कुर्यात् कन्यसमण्डले॥

वश्यार्थं सर्वभूतानां नित्यं जम्भनमोहने।

कुर्यात् सर्वकर्माणि जापी मन्त्ररतः सदा॥

अजिताख्यं मण्डल निर्दिष्टं सर्वग्रहविमोक्षणम्।

यत्र भूताः पिशाचाश्च ग्रहमातरपूतनाः॥

दृष्टमात्रा वशमायान्ति नित्यं जम्भितमोहिताः।

दर्शनान्मण्डले नित्यं क्षिप्रं गच्छन्ति वश्यतामिति॥

अपराजिता तु देव्या वै प्रणम्य जिनवरात्मजम्।

वज्रकं गुह्यकेन्द्रं तु मञ्जुघोषं सुभूषणम्॥

सर्वां बुद्धसुतांश्चैव महौजसाम्।

सभ्रातृपञ्चमां देवीमिमां वाचमुदीरयेत्॥

अहमप्येवंविधं कार्यं मण्डलार्थेति युक्तिजम्।

वव्रे च शुभसङ्गीतं युक्यर्थाक्षरसंसृष्टिरेष प्र॥

महाप्रभावं महौजस्कं दुर्दान्तदमकं मतम्।

सकृष्णं कृष्णवर्णाभं कालरात्रिसमप्रभम्॥

यमदूताख्यवर्णाभं।

साक्षात् विवस्वतं घोरं परप्राणहरं भयम्॥

यथावत् पूर्वनिर्दिष्टं देवीनां तु मण्डले।

तथैव तत् कुर्यात् सर्वं वर्जयित्वा तु वर्णतो॥

श्मशाने नित्यमालेख्यं पुरे दक्षिणतः सदा।

सधूमे ज्वालामालीढे अस्थिकङ्कालवेष्टिते॥

मध्यस्थे सवसृजे देशे तत्रस्थे तु महीतले।

श्मशानभस्मना लेख्यं कृष्णवर्णे तु भूतले॥

यथैवं पूर्वनिर्दिष्टं मन्त्रैरर्चविधिक्रमम्।

तत् सर्वं क्षिप्रतो मन्त्री सर्वं चैव नियोजयेत्॥

स्वमन्त्रं मन्त्रनाथं च तुम्बुरुं सार्थवाहकम्।

महोदधिसमावृताम्॥

अजितायामाशु निर्दिष्टा विजया खड्गपाणिनी।

धनुर्हस्तां सदा देवी जया तामभिनिर्दिशेत्॥

विचित्रप्रहरणा ह्येता विचित्राभरणभूषिता।

विचित्रगतिसत्त्वाख्या विचित्रा वेषचेष्टिता॥

आलिख्य मण्डले ह्यत्र कृष्णवर्णा तु भूतले।

परप्राणहरं ह्येतत् मण्डलं भुवि चेष्टितम्॥

विविधार्थक्रिया मन्त्रा कर्ममुद्भवा।

तत् सर्वं पूर्ववत् कृत्वा पश्चात् कर्म समारभेत्॥

जपहोमक्षया मन्त्रा मण्डलांश्चैव दर्शनम्।

प्रवेशं मण्डले ह्यस्मिन् तत्पूर्वं विधिमुद्भवैः॥

एष संक्षेपतो ह्युक्तः कथ्यमानोऽतिविस्तरम्।

मण्डलं देविमुख्यायाः कन्यसाया तु कीर्त्तितम्॥

अपराजिताख्यनामतः ज्ञेयो मण्डलं भुवि विश्रुतम्।

अजितं सर्वतः पूर्वं राक्षसेश्वरकिन्नरैः॥

भूतैर्दैत्यमुख्यैस्तु यममातरसग्रहैः।

कूष्माण्डे व्यन्तरैश्चापि पिशिताशैः सपूतनैः॥

तन्त्रे तु सर्वतो मन्त्रैः क्रव्यादैस्तु सकश्मलैः।

असुराध्यक्षैः महाघोरैः सर्वभूतमहोदयैरिति॥

अथ तुम्बुरुः सार्थवाहो वैस्वं मण्डलमभाषयम्।

तुम्बुराख्यं वामतो मर्त्यां वज्रधृक् तं निबोधताम्॥

पूर्वनिर्दिष्टमित्याहुः पुनरेव महीतले।

प्रणम्य वज्रिणं मूर्ध्ना इमां वाचमुशिक्षिरे॥

सर्वं पूर्वनिर्दिष्टं मण्डलं चतुरोदयम्।

प्रथमं सर्वकर्मान्तं द्वितीयं तु इहोच्यते॥

व्यतिमिश्रं तथा युक्त्या अनुपूर्वमिहागतम्।

मण्डलं चतुराख्यं तु सर्वभूतप्रसाधकम्॥

शून्यवेश्म तथा नित्यं शून्यदेवकुले सदा।

प्रच्छन्ने रहसि विस्रब्धे स्वगृहे वाववरकेऽपि च॥

विचित्रैरङ्गनेपथ्यै विचित्रैश्चारुपूर्णकैः।

पञ्चरङ्गिकचूर्णैस्तु विविधैर्वा फलोद्भवैः॥

शालितण्डुलपिष्टैस्तु विचित्रैरङ्गमुज्ज्वलैः।

शुक्लचूर्णैस्तथा युक्तैः चन्दनागरुधूपितैः॥

विमिश्रैश्चन्दनचूर्णैस्तु कुङ्कुमागरुयोजितैः।

कर्पूरकस्तूरिकासिक्तैः प्रियङ्गुकेशरादिभिः॥

स्पृक्कासीरसमायुक्तैः कृष्णागरुसुधूपितैः।

चूर्णैर्विविधगन्धैर्वा नित्यं मण्डलमालिखेत्॥

त्रिःस्नायी जपहोमी च त्रिचेलपरिवर्तिनः।

व्यतिमिश्रयक्षे तथा मन्त्री सितासितसुचिह्निते॥

यथेष्टं तिथिनक्षत्रे नित्य मण्डलमालिखेत्।

चतुर्हस्तप्रमाणं वै यथोक्तं विधिपूर्वके॥

तत् सर्वमालिखेद् धीमां मन्त्रं यत्नाद्धि चेतसा।

चतुःकोणं चतुर्द्वारं चतुस्तोरणसंयुतम्॥

मध्ये सरिपतिर्नित्यं मण्डलेऽस्मिं समालिखेत्।

मध्यस्थं पद्ममारूढं धर्मचक्रानुवर्तिनम्॥

शाक्यसिंहं महावीरं मन्त्री बुद्धं समालिखेत्।

शेषं मुद्रवरैः क्षिप्रं स्वभ्रातृसहपञ्चमम्॥

आलिखेत् सर्वतो मन्त्री चतुःकोणे तु सर्वतः।

ज्येष्ठात् पद्मवरे तस्थौ अधस्ताद् बुद्धस्याम्बुधेः॥

तुम्बुरे मुद्रमालेख्यं सितवर्णोऽथ सर्वतः।

सर्वे शुक्लवर्णाभा कुन्देन्दुशशिप्रभा॥

कुमुदाकारसङ्काशा सर्ववस्तुसुशुक्लका।

पूर्वनिर्दिष्टयोगेन देवीनां तु विधानवित्॥

तत् सर्वं कुर्यान्मन्त्री सर्वकर्मार्थसाधनमिति।

यथैव मण्डलं सर्वपटे स्मित प्रयोजयेत्॥

त्रिविधं पटनिर्दिष्टं मण्डलेऽस्मिं यथाविधि।

शेषं यथेष्टवत् कुर्यात् पटमण्डले भूतले॥

आलेख्यं मन्त्रतन्त्रेऽस्मिं यथाविहिते मते।

फलके पट्टके वापि यथाकाष्ठसमुद्भवैः॥

आलेख्याः देवताः सर्वे सभ्रातृसहपञ्चमाः।

यथैव मण्डले सर्वं तत् सर्वं आलिखेत् पटे॥

अम्बरे वापि निर्दिष्टं यथोचितसमुद्भवे।

निर्दिष्टं पटमन्त्रज्ञैः प्रतिमानां तु कीर्त्यते॥

चन्दनं मलयमित्याहु रागं चापि सकेसरम्।

पुन्नागं चैव मन्त्रज्ञैः नित्यं प्रतिमासु योजयेत्॥

पियालं पद्मकं विन्द्यात् रोध्रकाष्ठं महीतले।

सरलं देवदारुं च काश्मीरं चैव सघण्टकम्॥

कुटजार्जुनजम्बूकं प्रियङ्गुष्ठोमकोद्भवम्।

रक्तचन्दनकाष्ठं तु विशेषात् पटमुच्यते॥

प्लक्षोदुम्बरकाष्ठं च सहकारं विशेषतः।

पुण्डरीकं ससर्जं वै सिन्दुवारं सिद्धोद्भवम्॥

वकुलं तिलकं चैव काष्ठं सप्तच्छदं तथा।

विविधा वृक्षजातीनां पुंसस्त्रीनपुंसकाम्॥

सर्वेषां ग्रहणं काष्ठे मूलगण्डे ततोर्ध्वगम्।

शाखासु सर्वतो ग्राह्या मधुकस्तिक्तकाष्ठयो॥

पिचुमन्दं तथा काष्ठेऽरिष्टे भूततरौ तथा।

पुत्रञ्जीवककाष्ठेषु नित्यं चैवाभिचारुके॥

अश्वत्थे शान्तिकं विन्द्यात् काष्ठे चापि महीतले।

पौष्ट्यर्थं काष्ठमित्युक्तं अशोकं शीर्षमेव वा॥

सर्वकर्माणि सर्वत्र सर्वकाष्ठेषु योजयेत्।

मूलकाष्ठेन प्रतिमाग्रा मूलनक्षत्रयोजिता॥

ततस्तम्भकृते काष्ठे ज्येष्ठनक्षत्र योजयेत्।

ततः शाखाकृतं काष्ठं सर्वनक्षत्र योजयेत्॥

ततोर्ध्वनक्षत्ररेवत्या इन्दुवारेण कारयेत्।

मूल आदित्यवारे वै स्तम्भः शुक्राद्यमीक्ष्यते॥

सर्ववारैस्तथा मुख्यैः सर्वग्रहगणादृते।

मूले रसातलं गच्छेत् आसुरिं तनुमाविशेत्॥

ततस्तम्भकृतैः काष्ठैः गाण्डैश्चापि समुद्भवैः।

वश्याकर्षणभूतानां जम्भस्तम्भ‍अमोहनाम्॥

कुर्यादाभिचारं वै तेषु प्रतिमा समाविशेत्।

ततो।र्ध्वं नभस्तलं गच्छेदूर्ध्वकाष्ठसमुद्भवैः॥

प्रतिमां देव्य समायुक्ते सुरयानसमाश्रयाम्।

शाखासु सर्वतो गच्छेदन्तर्धानसुखोदयाम्॥

दिशां च सर्वतो मन्त्री यथेष्टं वा कर्म समारभेत्।

काष्ठाः सर्वे तु निर्दिष्टाः प्रतिमालक्षणमिष्यते॥

नौयान च समारूढा देव्याकारसुभूषिताः।

कुमार्याकारचिह्नस्तु पञ्चचीरकमूर्धजाः॥

तथैव करविन्यस्तौ मण्डलेऽस्मि हि बोधिताः।

तुम्बुरुः सार्थवाहो वै कर्णधारो महाद्युतिः॥

करवालकरन्यस्तो वाहमन्तोऽथ सव्यके।

तिर्यग्नावगता मन्त्रा त्र्यङ्गुलद्व्यङ्गुलोद्भवा॥

दीर्घशो वितस्तिमात्रं वा नावं चैव सुकारयेत्।

सुसृष्टं श्वेतसङ्काशं शङ्खेन्दुधवलसन्निभम्॥

जया कारयेद् धीमान् तुम्बुरुं च विशेषतः।

विजयां पीतनिर्भासामजितां चैव सुरक्तिकाम्॥

अपराजिता कृष्णवर्णा वै शुक्लां चैव अनामिकाम्।

प्रसन्नां तुम्बुरुमूर्त्त्या जयां चैव विनिर्दिशेत्॥

ईषिद्भ्रुकुटिनो देव्या विजया चापराजिता।

अजिता सौम्यवेशा तु कर्तव्य थ सर्वतः॥

अङ्गुष्ठपर्वमात्रं वा कन्यसाङ्गुलिमात्रता।

सवाः प्रमाणवेषाख्या कथिता सर्वमन्त्रिणैः॥

दन्ती भोगगदा ख्याता सौवर्णपार्थिवोद्भवाः।

पृथिव्यामधिपत्योर्वा कुर्यामेतां सुशोभनाम्॥

रौप्यं ताम्रमयीं वापि प्रतिमा ख्याता वशावहा।

आकर्षणं च भूतानां कांसी ह्युक्ता महीतले॥

त्रपुसीसकलोहैश्च प्रतिमा ह्युक्ताभिचारुके।

समारै रत्नविशेषैश्च प्रवालस्फटिकसम्भवैः॥

कुर्यात् प्रतिमां सौम्यां आशु सिद्धिलिलुप्सुभिः।

कपालास्थिमयैः प्रतिमैः कर्म कश्मलजोद्भवम्॥

शृङ्गैः विविधमुख्याद्यैः यथान्यस्तार्थलाभिनाम्।

सिद्ध्यन्ते सर्वमन्त्रा वै क्षुद्रमन्त्राश्च भूतले॥

यथासम्भवतो लाभा यथाप्राप्तार्थसम्भवा।

सिद्ध्यन्ते सर्वतः कृत्वा प्रतिमाभिश्च योजिता। इति॥



अथ तुम्बुरुः सार्थवाहः सर्वेषां साधनविधानं समाचक्षते सामान्यतः। दन्तमयीं प्रतिमां कृत्वा देवीनां कन्यसाङ्गुलिप्रमाणामतिगुप्ते प्रदेशे आहूय मूलमन्त्रैः वामहस्तेन धूपं दत्वा जयाया मूलमन्त्रं जपेत्। अष्टसहस्रमष्टशतं वा जपं कृत्वा यन्मनीषितं तत् सर्वं स्वप्ने कथयति। त्रिसन्ध्यं सप्तदिवसानि जपः कर्तव्यः। यथेप्सितं तत् सर्वं सम्पादयन्ते। वश्याकर्षणग्रहविमोक्षणादीनि सर्वाणि क्षुद्रकर्माणि कुर्वन्ति। यथेष्टं वा सत्त्ववशीकरणे उत्तमसाधनादिषु कर्माणि निमित्तानि दर्शयति। जातीकुसुमैर्देवीनां प्रतिमां ताडयेत्। राजा वश्यो भवति। जातीकलिकैः देवीनां प्रतिमां ताडयेत्। अष्टशतवारां पञ्चकलिकाभिः त्रिसन्ध्यं सप्तं दिवसानि। यामिच्छति राजकन्यां महाधनोपेतां वराङ्गरूपिणीं तां लभते। जातीपुष्पैः पञ्चभिः कुसुमैः प्रतिमा एकैका आहन्तव्या त्रिसन्ध्यं सप्तदिवसानि अष्टशति। यामिच्छति वराङ्गनां तां लभते। तामेव प्रतिमामादाय मूर्धनि धारयेत्। केशावृतं कृत्वा भर्ता चास्य दासत्वेनोपतिष्ठति। ऊरुमध्ये संन्यसेत्। परमसौभाग्यं लभते। गृहीत्वाध्वानं वज्रेत्। चोरैर्न मुष्यते। परबलं दृष्ट्वा स्तम्भयति। सङ्ग्राममवतरेत्। शस्त्रैर्न हन्यते। अरिं मोहयति। परसैन्यं हस्त्त्यश्वरथपर्यटतीं स्तम्भयति। अञ्जनमभिमन्त्र्याक्षीणां जपेत्। यं प्रेक्षति सोऽस्य दासभूतो भवति। गोरोचनामभिमन्त्र्य आत्मवक्त्रे तिलकं कृत्वा यं प्रेक्षति सोऽस्य वशो भवति। यावत् तिलकास्तिष्ठते। तावन्मैथुनेऽव्यवच्छिन्नरतो भवति॥



एवं वस्त्रधूपगन्धमाल्यपुष्पोपकरणविशेषांश्च यज्ञोपवीतदण्डकमण्डलुकाष्ठोपानहाशयनयानासनभोजनादिषु सर्वोपकरणविशेषां सप्ताभिमन्त्रितां कृत्वा आत्मना परैर्वा कारापयेत्। सर्वसत्त्वा वश्याभवन्ति किङ्करानुवर्त्तिनः। माषजम्बुलिकां सप्ताभिमन्त्रितां कृत्वा प्रच्छन्ने स्थाने देवीनामग्रतः अग्नौः अष्टसहस्रं जुहुयात् त्रिसन्ध्यं सप्त दिवसानि सर्वे रण्डाः सर्वे डाकिन्यः सर्वे भूतग्रहाः सर्वे च कश्मलाः वशा भवन्ति। किङ्करानुवर्तिनो योजनशतगमनागमने च गोमूत्रेण पिष्ट्वा पूर्वाहे पिण्डारकबन्दकं आम्रबन्दकं च गृह्य सहस्रसम्पादितं कृत्वा पादं लेपयेत्। दिव्योदकेन ज्येष्ठोदकेन वा सर्वकर्मसु योज्य सर्वपूजितेषु च कल्पेषु परमन्त्रविधानेनापि। किन्त्वय विशेषः। यत्र मण्डले सार्थवाहस्य तुम्बुरुर्भगवां धर्मस्वामी बुद्धः सर्वसत्त्वानामग्रः शाक्यमुनिरभिलिखितः तस्मिं मण्डले दृष्टसमयस्य कर्माणि कर्तव्यानि। आशु सर्वकर्माणि सिद्ध्यन्तीति। दशसहस्राणि पूर्वसेवाजापः कार्य इति॥



जया स्वकल्पं भाषते। मरकतेन्द्रनीलपद्मरागस्फटिकादिभिः प्रवालाङ्कुराश्मवैदूर्यरत्नविशेषैः सुवर्णरूप्यमयैर्वा प्रतिमां कृत्वा देवीनां कन्यसाङ्गुलप्रमाणा यवफलमात्रं वा मुक्ताफलं वा प्रतिमां कृत्वा नौयानसमारूढा चतुर्भगिनीनां सभ्रातृसहितानामन्तशः प्रतिमां कृत्वा पूर्ववद् यथाभरणप्रहरणविशेषाणां देवीनां शुचौ देशे चन्दनकुङ्कुमकर्पूरोदकाभ्यषिक्ते तैरेव मण्डलं कृत्वा अतिगुप्ते स्थाने मार्गशीर्षमासे कार्त्तिकपूर्णमास्यां वा अन्ये वा सितपक्षे प्रातिहारककुसुमागमे अन्ये वा शुक्लेऽहनि प्रशस्ते तिथौ चन्द्रभार्गववारे रोहिणीरेवत्यनुराधाज्येष्ठनक्षत्रा भिक्षाहारेण उदकसक्तवाहारेण वा हविः फलभक्षणे वा मोचाम्रफलसनालिकेरैः पूर्वं जयायाः अक्षरलक्षं जपेत्। जप्ता कृतपुरश्चरणः तथागतबिम्बोदयमण्डलं तुम्बुरुर्दृष्ट्वा कृतरक्षः शुक्लाम्बरधरः स्रग्वी मालतीकुसुमावबद्धशिरस्कः अहोरात्रोषितो भूत्वा साधनमाविशेत्। पूर्ववदर्घं कृत्वा जातीकुसुमौघं महाकृपापिण्डीतगरनागकेसरपुन्नागैर्वा एतेषामन्यतमेन नवैर्वा महतीं पूजां कृत्वा मालतीकुसुमानां पञ्च पञ्च गृहीत्वा देवीनां ताडयेत्। सभ्रातृसहितानां लक्षत्रयेण। षड्भिः मासैः विद्याधरो भवति। क्षणेन ब्रह्मलोकमपि गच्छति। दिव्यरूपी यथेष्टगतिरन्तरकल्पं जीवति। अन्यकल्पविधानेनापि सर्वलौकिकैः मन्त्रैः सिद्ध्यतीति॥



अजिता स्वकल्पं भाषते चैव मन्त्रिणी। उभावप्येतौ महादेव्यौ स्वमन्त्रयोनिजौ सर्वकर्माणि कुर्वन्ति पूर्ववत्। किन्तु एतेषामयं विशेषः। विजयायाः पीतपुष्पैः अजितायाः रक्तपुष्पैः तद्वर्णैश्चोपकरणविशैषैः सर्वकर्माणि साधयेत्। विजयाप्येवमाहुः। प्रतिमा पीतरक्ता कार्या। पूर्ववत् तथागतमण्डलं कृत्वा तुम्बुरोः सार्थवाहस्य अजितायास्ताम्रमयी रक्तचन्दनमयीं वा मम कल्पे तु रूप्यरागमयी पीतनिर्भासः गोरोचनकुङ्कुमाक्ता च कार्या। तथैव सर्वं पूर्वनिर्दिष्टम्। उभौ परस्परतः देव्यावेवमाहुः। विजया अजिता च। यथाभिलषितमनसेप्सितं सर्वकर्माणि साधय इति॥



अपराजिता एवमाह। अहमपि कल्पं भाषे। यन्मयोदितं मण्डलेऽस्मिं सर्वं तथैव कर्तव्यं स्वमन्त्रेणैव। श्मश नाङ्गारेण श्मशानभस्मेना वा देवीनां प्रतिमां लिख्य कृष्णपुष्पैरभ्यर्च्य शत्रोर्नामं गृह्य जपेत् गुह्ये प्रदेशे श्मशाने वा। तत्क्षणान्मृयते। उन्मत्तको वा भवति। अपस्मारेण वा गृह्यति। गोत्रोत्सादनं वा करोति। साधकस्येच्छया तत्रैव श्मशाने महामांसं जुहुयात्। अरीन् नाशयति स्तम्भयति शोषयति महाराक्षसेन गृह्णापयति गोत्रोत्सादं वा करोति साधकस्येच्छया। सर्वविषयजनपदं महामार्योपसर्गेण गृह्णापयति पुनः स्वस्थीकरोति। एवं सर्वकर्माणि क्रूराणि परप्राणहराणि सद्योपघातानि। कृष्णपक्षे चतुर्दशीनबम्यष्टमीषष्ठीचतुर्थ्यादिभिस्तिथौ कार्याणि। आदित्याङ्गारकशनैश्चरवारैरहोभिः सर्वकर्माणि सिद्ध्यन्ति। अयत्नेनैव श्मशानाङ्गारं गृह्य चण्डालकपाले नाममालिखेत् प्रतिबिम्बं वा स्त्रियः पुरुषस्य वा लिखेत्। तत्क्षणादेव सन्ध्यन्ति। भगेऽङ्गुलिं दत्वा च प्रतिबिम्बे कपालस्थे तत्क्षणाद् दह्यमाना स्त्री आगच्छति योजनशतादपि। कपालं गृह्य जपद् अदृश्यो भवति। कज्जलं गृह्यं अक्षीण्यञ्जयेत्। मदनाग्निना दह्यमाना स्त्री आगच्छति। सर्वकर्माणि कर्तव्यानीति॥



एवमुक्ता देव्यो भगवन्तं याचयन्ति स्म। तद् वदतु भगवां धर्मस्वामी बुद्धो स्वमन्त्रं च। या चास्माकमनुकम्पार्थं सर्वसत्त्वानां च हिताय सुखाय स्वमन्त्रचर्यात्॥



अथ भगवां तथागतः शाक्याधिराजतनयः तां कन्यांमीषदवलोक्य भ्रातृसहितामिमां वाचमुदीरयन्ति स्म। न यूयं कन्यका भ्रातृपञ्चमा तथागतस्य गुणमहात्म्यं मन्त्रचर्याप्रभावं श्रोतुं चर्यां वा प्रतिपद्येतुम्। कोऽन्य सदेवके सश्रमणब्राह्मणिकायां पूजायां श्रोतुं चर्यां वा प्रतिपद्येतुम्। वर्जयित्वा उत्पादितबोधिचित्तानां दशभूमिप्रतिष्ठितेश्वराणां बोधिसत्त्वानां सर्वमन्त्रचर्यानिर्हारसमनुप्रवेशसर्वतथागतज्ञानमायाप्रतिविशिष्टमूर्ध्वजः कोऽन्यं शक्तः श्रोतुं ज्ञातुं वा निर्देशं मन्त्रचर्यासमनुप्रवेशमाचक्षितुं सर्वसत्त्वानां च प्रकाशयितुम्। वर्जयित्वा तथागतानामर्हतां सम्यक् सम्बुद्धानां तत्प्रतिपन्नानां च सत्त्वानामुत्पादितवोधिचित्तानाम्। न यूयं कन्यकाः ! शक्यथ। तेन हि बोधिचित्तमुत्पादयध्वम्। सर्वसत्त्वानामन्तिके मैत्रचित्ता हितचित्ता भवथेति॥



एवमुक्त्वा ताः कन्यकाः तृशरणपरिगृहीताः उत्पादितबोधिचित्ताश्च निषण्णा धर्मश्रवणाय तूष्णीम्भूता इति॥



आर्यमञ्जुश्रीमूलकल्पात् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् षट्चत्वारिंशतिमः पटलविसराद् द्वितीयसाधनोपयिकमण्डलप्रवेशानुविधिश्चतुःकुमार्यपटलविसरः परिसमाप्तमिति।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project