Digital Sanskrit Buddhist Canon

अथ सप्तचत्वारिंशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Atha saptacatvāriṁśaḥ paṭalavisaraḥ
अथ सप्तचत्वारिंशः पटलविसरः।



अथखलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य तं च महापर्षन्मण्डलं अनन्तव्यूहालङ्कारसर्वज्योतिप्रभास्वरविकुर्वाणानन्तगुह्यतमं सर्वगुह्यतमं सर्वमन्त्रानुचरितं नाम समाधिं समापद्यते। समनन्तरसमापन्नस्य भगवतः ऊर्णाकोशाद् रश्मयो निश्चरन्ति स्म। सर्वतश्च समन्ता दशसु दिक्षु रित्यूर्ध्वमधस्तिर्यक् महतावभासेनावभास्य सर्वमन्त्रां सञ्चोद्य पुनरपि भगवतः ऊर्णाकोशान्तर्हिता। समनन्तरान्तर्हिते रश्मिभिः चतुर्दिक्षु च आधश्चोर्ध्वं चत्वारः कुमार्यो भ्रातृसहिता तस्मिन्नेव महापर्षन्मण्डले अधः सुमेरुपर्वतराजसमीपे बुद्धाधिष्ठानेनाधिष्ठितोऽभूत्। सन्निपतिता सन्निषण्णा महाबोधिसत्त्वकुमारभूतं रिद्ध्या विक्रीडनसन्दशर्नार्थं महामन्त्रचर्यानिर्हारार्थं सर्वलोकोत्तरलौकिकमन्त्रचर्याक्रीडासमनुप्रवेशवशमाकर्षसमाश्वासनचर्यासमनुप्रवेशनार्थम्॥



अथखलु भगवां शाक्यमुनिर्वज्रपाणिं बोधिसत्त्वं महासत्त्वं तस्मिन्नेव पर्षदि सन्निपतितम् ईषिन्निरीक्ष्य सर्वं च बोधिसत्त्वगणम्॥



अथ सा सर्वावती पर्षदिह महापृथिवी च देवतागणपरिवृता महाभूतैकमन्त्रालयं ओषध्यो महाज्योतींषि नगां सञ्चाल्य प्रचलिता रणिता प्ररणिता क्षुभिता सम्प्रक्षुभिता दक्षिणा दिगुन्नमति, उत्तरा दिगवन्नमति, पश्चिमदिगुन्नमति पूर्वा दिगवनमति, अन्तादवनमति, मध्यादुन्नमती, अन्तादुन्नमति, महतस्य चावभासस्य लोके प्रादुर्भावोऽभूत्॥



अन्यानि चाप्रमेयानि असङ्ख्येयानिश्चर्याद्भुतानि प्रातिहार्याणि सन्दृश्यन्ते स्म। ताश्च देवसङ्घा निःप्रपञ्चमहतालम्बनज्ञानशान्तिपदं नाम समाधिं समापद्यते स्म। यन्न शक्यं सर्वप्रत्येकबुद्धार्हत्त्वमहाबोधिसत्त्वैरपि ज्ञातुम्। कः पुनर्वादः समापद्येतुं अन्येषां सर्वलौकिकलोकोत्तराणां तीर्थायतनानां अभिभवनार्थं सर्वमन्त्रतन्त्रानुप्रवेशनार्थं सर्वविमोक्षधर्मपरिपूरणार्थं सर्वसत्त्वानां च शान्तिपदमनुप्रापणार्थं सर्वभूतमनुकम्पाभूतकोटितथताचिन्त्यबोधिमण्डवज्रासनमाक्रमणतिष्ठपदमनुप्रापणार्थं च भगवां शाक्यमुनिः ध्यायन्तः स्थितोऽभूत्॥



अथखलु मञ्जुश्रीः कुमारभूतो बोधिसत्त्वो वज्रपाणिं बोधिसत्त्वं महायक्षसेनापति आमन्त्रयते स्म - भाष भाष त्वं भो ! जिनपुत्र ! सर्वमन्त्रचर्यानुप्रवेशं सर्वलौकिकमन्त्राणां सारभूतं तमं परमरहस्यं सर्वभूतसत्त्वानां समयानुप्रवेशं यथाशयमनोरथसर्वपारिपूरकं अनुज्ञातस्त्वं भो ! जिनपुत्र ! सर्वबुद्धैर्भगवद्भिः अतीतानागतप्रत्युत्पन्नैस्तथागतमन्त्रकोशसर्वज्ञतापरिपूरणार्थं इह कल्पराजपटलविसरे सर्वविक्रीडालीलाचिन्त्याश्चर्याद्भुतविकुर्वणसन्दर्शनार्थं सर्वज्ञज्ञानमुद्भावनार्थम्॥



अथखलु वज्रपाणिः बोधिसत्त्वो महासत्त्वः मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। शृण्वन्तु भो! धर्मधर सर्वतथागतानां समतानुरक्षणदक्षकथायास्यहं चतुःकुमारीणां भ्रातृसहितानां सरहस्यं पटविधानहोमजापकालक्रियानियमः प्रतिमाविधानमण्डलसमय आह्वाननविसर्जनापूजनार्घदीपगन्धधूपमाल्यविलेपनचूर्णवस्त्रनिवेदनध्वजपताकघण्टामालप्रदीपस्रग्विधिसाधनसाध्योपायनियमक्रमः शान्तिकपौष्टिकाभिचारुक अन्तर्द्धानाकाशगमनपादप्रचारिकवशीकरणावेशनविद्वेषणोत्सादनशोषणमोहनस्तम्भनमारण विविधसत्त्वाकारकरणपीडनतर्जनभर्त्सनबहुपदापदकरणक्रियो मार्गसन्दर्शनयथेष्टकर्मफलः बन्धनरोहणावन्ध्यकरणसर्वकर्ममन्त्रतन्त्रसाधनोपयिकेषु स्थानेषु नियोजनः सिद्धिपरिपूरणा। तछ्रूयतां भो ! जिनपुत्र !॥



अथ वज्रपाणिः श्रीमां प्रणिपत्य सुगतं विभुम्।

उवाच मधुरां वाणिं शब्दार्थभूषिताम्॥

अनर्थां कर्णसुखां चैव मधुरार्थसुकूजिताम्।

बह्वार्थकरीमिष्टां सर्वमन्त्रास्पदकरी ब्रह्मस्वरनिनादिनीम्॥

कलविङ्करुताघोषा स्पष्टगम्भीरसंयमी।

सूक्ष्मार्थतत्त्वावचोदनीम्॥

सर्वमन्त्रेश्वरीं श्चैव वाचं भाषेऽथ वज्रधृक्।

शृणोथ भूतगणाः सर्वे देवसङ्घा महर्द्धिका॥

वक्ष्यमाणां तथा कल्पं सविस्तरं सर्वकर्मिकम्।

चतुर्मूर्तिर्महौजस्क चतुर्दिक्षु समागमम्।

चतुर्वर्णसमायुक्तं चतुरक्षरभूषितम्॥

चतुर्मन्त्रसमोपेतं स पुमां पञ्चमाशृताम्।

चतुर्थगतिमाहात्म्यं चतुर्भूतसमागमम्॥

सभ्रातृपञ्चमं ज्येष्ठं महाभूताकाशमुद्भवम्।

सर्वत्राप्रतिहतं श्रेष्ठं सर्वमन्त्रार्थसाधनम्॥

सर्वकर्मकरं पूज्यं ज्येष्ठं मङ्गल्यमघनाशनम्।

प्रवृत्तं सर्वभूतानां मन्त्ररूपेण श्रेयसाम्॥

चतुःकुमार्येति विख्याता कुमारा पञ्चमात्मका।

वाय्वम्बुज्योतिषिं पृथिवीं खपञ्चमात्मकाम्॥

तेषां मन्त्ररूपिण्यां विपाको भवति देहिनाम्।

पञ्चमो श्रेयसो मुख्यो भ्रातृरूपेण मन्त्रराट्॥

तेषां मन्त्रां प्रवक्ष्यामि अपराख्य शृणोथ मे।

अथ ते सर्वभूता वै प्रहृष्टमनसा अभूत्॥

निषण्णा धर्मतां ज्ञात्वा सौम्यचित्ता समाहिता।

श्रोतुकामा हि वै सर्वो निश्चलायतलोचना॥

अथ मञ्जुवरः श्रीमां ऊर्ध्वक्ष्य सुगतात्मजम्।

वज्रपाणिं महायक्षं सर्वमन्त्रेश्वरालयम्॥

कृपावकृष्टहृदयो अपरोऽभूत् तदन्तरे।

सर्वबुद्धा वै प्रत्येकार्हश्रावका॥

बोधिसत्त्वा महासत्त्वा दशभूमिसमाशृता।

सर्वसत्त्वा तथा लोके मुख्या अग्रतमाश्च ये॥

निषण्णा सर्वतः सर्व गतिपञ्चसुयोजिताः।

जन्मिनो वरमुख्याश्च पराः परपूजिता॥

भवाग्रा ह्यावीचिपर्यन्तां अनन्तां धातुमाशृताम्।

त्रिजन्माध्यक्षपर्यन्ता दशभूमाधिपा परा॥

श्रोतुकामा हि वै सर्वे निपेतुस्तं समागमम्।

अथ वज्रधराध्यक्षो विदित्वा सर्वमागताम्॥

सत्त्वां बोधिसत्त्वांश्च सर्वमन्त्रेश्वरालयाम्।

सुरज्येष्ठां तथा देवां दशभूम्येश्वराम्॥

सर्वसत्त्वां विदित्त्वैनां प्रसन्नां बुद्धशासने।

मन्त्रं प्रत्याहरेद्धीमां मन्त्रनाथेश्वरस्तदा॥



नमः सर्वबुद्धानामप्रतिहतशासनानाम् अचिन्त्याद्भुतरूपिणाम्। ॐ तुरु तुरु हुलु हुलु मा विलम्ब समयमनुस्मर मम कार्यं साधय हूँ हूँ फट् फट् स्वाहा॥ सर्वकर्मिकोऽयं मन्त्रः। हृदयोऽयं सर्वबुद्धबोधिसत्त्वानां सर्वलौकिकलोकोत्तराणां सर्वव्याधिराजाधिपतीनां च मूलमन्त्रोऽयम् अनेन सर्वकर्माणि कारयेत्॥



सर्वद्रव्याणि साधयेत् सर्वकर्मकरो विभुः।

अनेन तु सदा कर्म कुर्यात् क्षिप्रार्थसाधने॥

तत्र मन्त्रं प्रवक्ष्यामि देवसङ्घा शृणोथ मे।



ॐ देव स्वाहा। सार्त्थवाहायस्तुम्बुरेर्मन्त्रः। ॐ जये स्वाहा। ॐ अजिते स्वाहा। ॐ पराजिते स्वाहा। एते मूलमन्त्रा सभ्रातृसहितानां चतुर्भगिनीनां लोकपूजितानां हृदयानि भवन्ति। तासाम् ॐ रूपिणी ॐ विरूपिणी विश्वात्मने। एते हृदयोद्भवा मन्त्रास्तुम्बुरेर्हृदये मन्त्रा भवन्ति। ॐ देवेशाय स्वाहा। उपहृदयानि भवन्ति।ॐ वामनि पिशाचि ॐ महाराक्षसि स्वाहा। ॐ विकृतरूपिणि स्वाहा। ॐ प्रकीर्णकेशी कृतान्तरूपिणि स्वाहा। ॐ वज्ररूपिणि कृतान्तरात्रि भयानकि स्वाहा। तुम्बुरेः सार्थवाहस्योपहृदयं भवति। ॐ चतुर्वक्त्रविभूषितमूर्ति त्रिनेत्रा लम्बोदर बहुरूपि स्वाहा। ॐ धु धु ज्वलय सर्वदिशां स्वाहा। सर्वेषां भगिनीनां भ्रातृसहितानां दिव्यस्तु मन्त्रोऽयम्। ॐ हूँ सर्वेषां शिखा। ॐ ह्रीः जः सर्वेषां शिरः। ॐ ध्यायिनि स्वाहा। सर्वेषां मन्त्रः। ॐ दृक् सर्वेषां नेत्रः। ॐ भगिनीनां भ्रातृसहितानां चन्दनकुङ्कुमानुलिप्तानां समया च रक्षितानां हिमवन्तससागरचारिणां दृढव्रतानां बुद्धधर्मसङ्घानुज्ञातानां श्रीः। ह्रीः। रीम्। व्रीः। भुजः। एष सर्वभगिनीनां सर्वभ्रातृसहितानां गात्रे महामन्त्रः। सर्वकर्मिकः प्रसिद्धः सर्वकर्मसु। परमगुह्यतमः। ॐ आयाहि महादेव विश्वरूपिणे स्वाहा। ॐ तुम्बुरे सार्थवाहस्याह्वाननमन्त्रा। ॐ गच्छगच्छ महादेव विश्वात्मने स्वाहा। तम्बुरेः सार्थवाहस्य विसर्जनमन्त्रा। ॐ आयाहि देवि कुमारिके किं चिरायसिसमयमनुस्मर। मम कार्यं सम्पादय स्वाहा। जयायाह्वाननमन्त्रा। ॐ आयाहि महाभोगिनि कार्यं मे साधय समयमनुस्मर स्वाहा। ॐ महायोगान्धरि विस्तीर्णधनप्रिये स्वाहा। अजिताया आह्वाननमन्त्रा। ॐ श्मशानवासिनि रूपपरिवर्तिनि देहानुचरे स्वाहा। अपराजिताया आह्वाननमन्त्रा पुनरेव सर्वमण्डलां लौकिकलोकोत्तरामालिखेत्। सर्वकर्मेषु च योजयेत्। परकल्पविधानेनापि ईप्सितमर्थं साधयेत्। अस्मिन्नेव कल्पविसरे मूलकल्पराजपटलसमतासम्मतश्चतुःकुमारिणां कुमारसहितानामादिमाख्यायते मन्त्रोऽयं बुद्धात्मजो यमिच्छति।



सर्वकर्मिकमित्याहुः बुद्धपूत्रा महर्द्धिका।

कुलाग्रा मन्त्रमुख्याश्च सर्वमन्त्रेश्वरो विभुः॥

करोति विविधां कर्मां विचित्रां साधुवर्णिताम्।

प्रसह्यं चापि भूतानां चित्तं हरति तृजन्मिनाम्॥

गत्यर्थवश्यताहेतुनापत्यार्थसमुद्भवम्।

प्रसह्यं कुरुते कर्म गतियोनिविनिर्गतः॥

चतुर्भगिन्येति विख्याता।

सभ्रातृसहिता नित्यं महोदधिनिवासिनः॥

नौयानसमारूढा सभ्रातृसहपञ्चमा।

कर्णधारोऽथ चित्तासां तुम्बुरुर्नाम संज्ञितः॥

विचरन्ति महीं कृत्स्नां सत्त्वानुग्रहतत्पराम्।

विचित्ररूपधारिण्यो विचित्राभरणभूषिताः॥

विचित्रैव फलं तासां विचित्रोपकरणपूजिताम्।

पर्यटन्ति महीं सर्वां सशैलसहसागराम्॥

तासां मन्त्रो महाज्येष्ठः तुम्बुरुर्नाम इष्यते।

सार्थवाहस्य मन्त्रो वै त्र्यम्बकस्य जनाधिपे॥

चतुरक्षरसंयोगा ओङ्कारसपञ्जकः।



प्रथमः सर्वमन्त्राणां चार्चनं कुर्यात् गन्धधूपदीपमाल्योपहारविशेषैः बलिविधानं दत्वा जपं कुर्यात्। अनाकुलपदाक्षरैः। गुह्यप्रदेशे एषामन्यतमं श्रेष्ठं मन्त्रं गृहीत्वा त्रिःकालमष्टसहस्रं जपेत्। आगताया अर्घं दत्वा सर्वकर्माणि कारयेत्। अर्घमन्त्रं चात्र भवति। ॐ प्रविगृह्णतु भगिन्यः सभ्रातृसहिता चार्घम्। समयमधितिष्ठन्तु स्वाहा। अर्घमन्त्रा सर्वेषां भ्रातृसहितानां सर्वोपचारमन्त्राणि भवन्ति। ॐ ज्वल ज्वल महाहुताशार्चि महाद्युतीनां स्वाहा। सर्वेषां प्रदीपमन्त्रा। ॐ धूँ धूँ। अरितवासिनि धूपशिखे सुरभिगन्धमनोहरे प्रतिगृह्णतु देव्यः भ्रातुसहिताः ध्यायन्तां स्वाहा। धूपमन्त्रः सर्वेषाम्। ॐ कुसुमवासिनि कुसुमाढ्ये सुरभिमाले सुगन्धिमनोहरे वने कुसुमा जाताः सुकुमाराः सुगन्धिनः। तां निवेदितो भक्त्या प्रतिगृह्णध्वं मनोजवा स्वाहा। पुष्पमन्त्रा। अनेन पूजां कुर्वीत। ॐ गन्धगन्धाधिवासे स्वाहा। गन्धमन्त्रा। ॐ बलिते बलिनि स्वाहा। बलिमन्त्रा। ॐ लालावति स्वाहा। निवेद्यमन्त्रा। ॐ सू। वस्त्रमन्त्रा। ॐ फट्। घण्टामन्त्रा। ॐ स्वरव्यञ्जनमन्त्रा। ॐ छादय छत्रमन्त्रा। ॐ दोधूयते धूयते स्वाहा। चमरमन्त्रा। ॐ केलिमहोकलिहृदयङ्गमे स्वाहा। सर्वद्रव्योपकरणाञ्जनरोचनादर्शप्रसाधनमन्त्रा। ॐ समस्तव्यापिनि स्वाहा। सर्वदिग्बन्धवज्रप्राकारमन्त्रा। ॐ मण्डलिने स्वाहा। इत्यूर्ध्वमधः बन्धमन्त्रा। सर्वतश्च समन्ताशेषबन्धं भवति। ॐ नमः सर्वबुद्धानामप्रतिहतशासनानाम्। ॐ हूँ हः। सर्वकर्मिकोऽयं महाविद्याराजा शासनो नाम। वशिता सर्वभूतानां चतुःकुमारीणां सभ्रातृसहितानां पीडनो शोषणो रोधनो बन्धनः वशयिता निग्रहानुग्रहे रतः सर्वभूतग्रहमातर सर्वकर्मेषु अप्रतिहतशासनः गुह्ये प्रदेशे अववरके वा जप्यमानश्चतुर्भगिनीनां सभ्रातृसहितानां यं रोचते तं कारयति। याच्यमानस्तु यं बरं रोचते तं वरं याचयितव्या शीघ्रं वरमनुप्रयच्छति। एवं बन्धनताडनतर्जनतर्जनमारणादीनि कर्माणि कुर्वन्ति। अनेनैव विद्याराजेनोपतप्यमाना सह जप्यमाना सर्वकर्माणि कुर्वन्ति। आसां मन्त्राणि भवन्ति। विसर्जनाध्येषणादीनि कार्याणि कुर्वन्ति॥ ॐ रूपिणी गच्छ गच्छ समयमनुस्मर स्वाहा। जयाया विसर्जनमन्त्रा। ॐ वामने पिशाचि प्रकीर्णकेशि विश्वरूपिणि गच्छ गच्छ मम कार्यं साधय स्वाहा। विजयाया विसर्जनमन्त्रः। ॐ लहु लहु रूपिणि गच्छ गच्छ समयमनुस्मर मम कार्यं समादाय स्वाहा। अजिताया विसर्जनमन्त्रा। ॐ विश्वरूपिणि विकृते विकृतानने सर्वदुष्टनिवारणि गच्छ गच्छ ममार्थं साधय स्वाहा। अपराजिताया। विसर्जनमन्त्रा एते विसर्जनाध्येषणमन्त्रा। यन्मनीषितं कार्यं। विचित्रकुसुमैरञ्जलिं पूरयित्वा याचयित्वा प्रसाद्य च देवीनामग्रतः सभ्रातृसहितानां क्षेप्तव्याः। ततस्ता मुक्ता भवन्ति। सभ्रातृसहिता सान्निध्यं च कल्पयन्ते। यथेष्टं च वरमनुप्रयच्छन्ति विचरन्ति यथासुखमिति। वाचा वक्तव्या प्रतिदिनं च कर्तव्यमेवमुपरुध्यमाना मोक्षणाच्च सान्निध्यं न परित्यजन्ति। सततक्रिया अन्यथा उपरुध्यमाना नावतिष्ठन्ते कर्तव्यम्॥



अथ ते भगिन्यः सभ्रातृसहिताः थरथरायमानाः पीड्यमानाश्च वेपथुरुपजातशङ्का बोधिसत्त्वानुभावेन चतुर्दिक्षु रागत्य एवं वाचमुदीरयन्ते - परित्रायस्व भगवं वज्रपाणि परित्रायस्व। पीडिताः स्म भगवं सुपीडिताः स्म। गतिरन्या न विद्यते। त्वमेव भगवं शरणम्। त्वमेव त्राणमिति॥





अत्रान्तरे विद्याराजेन शासने सुशासिता सर्वदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्या सर्वसत्त्वाश्च सर्वगतिसङ्गृहीताश्च सुविनीताश्च सुशासिता महाविद्याराजेन वज्राधिपतिनानुभावेन ताः भगिन्यः भ्रातृसहिताः भीताः सुविनीता आर्तस्वरं क्रन्दमानाः अवतिष्ठन्ते॥



अथ खलु मञ्जुश्रीः बोधिसत्त्वो महासत्त्वः तां देवतां भ्रातृसहितानामन्त्रयते स्म। मा भैष्टत भगिन्यः मा भैष्टथ। बुद्धं शरणं गच्छध्वम्। द्विपदानामग्रं धर्मं शरणं गच्छध्वम्। विरागाणामग्रं सङ्घं शरणं गच्छध्वम्। गणानामग्र्यम्॥



अथ ता भगिन्यः सभ्रातृपञ्चमाः बुद्धं शरणं गच्छन्ति। एवं शरणं गच्छन्ति। सङ्घं शरणं गच्छन्ति स्म। ततस्ताः सुखसौमनस्याः परमेण सुखसौमनस्येन समन्वागता अभूवन्। मुक्तगाढबन्धनात्मानं सञ्जानते स्म। प्रीतीसुखसमर्पिताः लब्धप्रसादपरमसञ्जातहृष्टरोमकूपाः इदमुदानमुदानयन्ति स्म॥



अहो आश्चर्यमिदं प्राप्तो रत्नत्रयोद्भवे।

सुखिताः स्म क्षणाल्लब्धात् सर्वदुर्गतिघहिताः॥

सुगतौ स्वर्गमोक्षो च सदा बुद्धिनिवेशिता।

ततस्तां तुष्टमनसो मञ्जुघोषं निरीक्ष च॥

प्रणिपत्य चरणौ मूर्ध्ना इदं वाचमुदीरयम्।

त्रातस्त्वं सर्वदुःखेभ्यः गतिस्त्वं भो महाद्युतेः॥

यस्त्वं सर्वधर्माणां गभीरपदमक्षरा।

त्वं देशयसे नाथ बन्धुभूत नमोऽस्तु ते॥

आज्ञापय महावीर मन्त्रनाथं जिनात्मजम्।

किमानीताः स्म देवेन आज्ञां किं करवानि ह॥

एवमुक्तास्तु वीरो वै सर्वबुद्धात्मजो विभुः।

उवाच मधुरां वाणीं देवताभिः स चोदितः॥

गच्छ त्वं शरणं भूयः वज्रपाणिजिनात्मजे।

अवैवर्तिकसङ्घो वै बोधिसत्त्वाग्रजोद्भवेत्॥

तृरत्नमादौ कृत्वा वै वंशजं जिनवरात्मजम्।

चित्तं च बोधो ईरध्वं मैत्रचित्ता भवोत्सुका॥

ततो वा सर्वतः कृत्वा जघ्नुः स्वस्थतास्पदम्।

ततस्ता देवताः सर्वे प्रणिपत्य जिनात्मजम्॥

आज्ञां सम्पाद्य सर्वं वै येन वज्री तदोन्मुखा।

नमस्कृत्वा तु तां क्षिप्रं वज्रपाणिं महाद्युतिम्॥

अभिष्टुत्य ततः सर्वे स्थिताः तन्मुखोद्भवाः।

प्रसमीक्ष्य तदा कन्या सभ्रातृसहपञ्चमा॥

वज्रपाणिं च यक्षेशं निरीक्षमाणाः स्थिताः।

अभूवं नित्यार्थमास्पदा देव्यः अनित्यार्थार्थभूषिताः॥

प्रणेममधुरां वाचामात्ममन्त्रार्त्थशोभनाम्।

नमस्ते सर्वबुद्धानां बोधिसत्त्वां महर्द्धिकाम्॥

प्रत्येकार्हसङ्घं च असतांश्चैव योगिनाम्।

आत्ममन्त्रार्थविस्तारं कथयामो महाद्युते॥

यथातत्त्वावबोधार्त्थं जनानां तु महीतले।

सरहस्यं गुह्यमन्त्राणां त्वद्वक्षान्निसृतात्मनाम्॥

अनुरक्षार्थमन्त्राणां आस्पदार्थार्त्थभूषणाम्।

एवमुक्ते तु मन्त्रेशः वज्रपाणिर्महाद्युतिः॥

ईषिस्मितमुखो भूत्वा विलोक्य विकसन्मुखः।

पूजायामास तां कन्यां सभ्रातृसखीजनाम्॥

अनुज्ञातं मया यूयं निर्विशङ्क भविष्यथ।

संश्राव्य कल्पविस्तारं सरहस्यं समण्डलम्॥

जन्तुभिः पूजिताः नित्यं वरं वो दास्यथ सर्वदा।

ऋषिभिः पूजिता यूयं यक्षराक्षसकिन्नरैः॥

गरुडैर्देवगन्धर्वैः असुरैश्चापि महर्द्धिकैः।

कूष्माण्डैः मातरैश्चापि समग्रैः सोमभास्करैः॥

लोकपालैः धनाध्यक्षैः पतद्भिः वसवैस्तथा।

तैरिवेयं सुराध्यक्षैः पिशाचोरगमानुषैः॥

भूताध्यक्षैः निशाध्यक्षैः पिशिताशनव्यन्तरैः।

राक्षसाधिपमुख्यैश्च रौद्रचित्तैर्विहेठकैः॥

दैत्यदानवसङ्घैश्च यमैः प्रेतमहर्द्धिकैः।

मानुषामानुषैश्चापि ब्रह्मविष्णूमहेश्वरैः॥

सुरमुख्यैर्महाज्येष्ठैः सिद्धचारणपूतनैः।

योगिभिर्जिनपुत्रैश्च पूजिता वो भविष्यथ।

+ + + + न सन्देहो प्रभावा वरक्रमा।

जयाया मन्त्रमित्याहुः कल्पविस्तारविस्तरा॥

नव कोट्यस्तु मन्त्राणां तन्त्रकल्पसविस्तरा।

विजया चैव मन्त्राणां षष्टिर्लब्धा प्रकीर्तिता॥

अजिताया तु भवेन्मात्र लक्षषोडशकोद्भवा।

अपराजिताया तु कन्याया चतुःकोट्यः उदाहृताः॥

तुम्बुरेः सार्थवाहस्य नवकोट्योऽथ गायतः।

तत्प्रमाणा भवेत् कल्पा नृसुरासुरपूजिताः॥

सर्वं शैवमिति ख्यातं सर्वैर्भूतलवासिभिः।

मयैव निगदितं पूर्वं कल्पे मस्मिं सविस्तरे॥

पश्चादन्यो जनः प्राहुः कल्पमन्त्रां पृथक् पृथक्।

तुम्बुरुः सार्थवाहस्य त्र्यम्बकस्य तु धीमतेः॥

अनन्ता कल्पविस्तारा शर्वस्यास्य कपर्दिने।

यत्प्रभावार्त्थं मन्त्राणां सिद्धिं यास्यन्ति भूतले॥

अनुज्ञाताथ वै यूयं कलराजेऽथ वै सदा।

भाषध्वं मन्त्रतन्त्राणां सरहस्यं सविस्तरम्॥

सगुह्यं गुह्यतमं चापि सर्वसत्त्वसुखोदयम्।

इत्युक्त्वा वज्रधृक् श्रीमां वज्रमाशृत्य लीलया॥

तूष्णीम्भूत तदा तस्थौ रत्नपङ्कजमुच्छृते।

अथ ताः कन्यकाः क्षिप्रं सभ्रातृमथपञ्चमाः॥

प्रणिपत्य मन्त्रनाथं वै यक्षेशं जिनवरात्मजम्।

वज्रपाणिं महावीरं मन्त्रनाथेश्वरं विभुम्॥

उवाच मधुरां वाचां एकैकामनुपूर्वतः।

मण्डलं तु समासेन वक्ष्येऽहं भुजयोदयम्॥

ज्येष्ठमण्डलमित्याहुः जया ज्येष्ठमगायत।

विजने रहसि सम्पाते विगते चैव महाजने॥

प्रच्छन्नेऽग्रप्रसम्बाधे सरित्तीरे शिलोच्चये।

विविक्ते कानने रम्ये बुद्धाध्युषितमन्दिरे॥

शून्ये देवकुले चापि शून्ये वेश्ममु शोधिते।

एकवृक्षे शुभे रम्ये महोदधिसमाश्रये॥

एकलिङ्गे श्मशाने च विगते धूमपांसुभिः।

वज्रासनमहापुण्ये धर्मचक्रे सुशोभने॥

यत्र शान्तिं गतो बुद्धः यत्र जातो महामुनिः।

एते स्थाना भवेन्मुख्या मण्डलालिखने शुभा॥

गङ्गातीरेऽथ सर्वत्र सद्वीपपुलिनाश्रये।

सरिद्वराश्च मुख्या ये कीर्त्तिता लोकविश्रुता॥

तेषु तीरेषु सर्वत्र नित्यं मण्डलमालिखेत्।

समन्तात् सर्वतोयान्ता महोदधिसमप्लवा॥

हिमवन्तविन्ध्या तोयान्ता प्रस्थिता निम्नगाम्बुधेः।

सरिद्वरिष्ठेषु तीरेषु युक्तो मण्डलमालिखेत्॥

अन्ये वा रहसि भूभागे उडये वा सुशोभिते।

देवायतनरम्येषु स्तूपे चापि महोच्छ्रिते॥

धातुगर्भे तथा चैत्ये वापीकूपासु वीथिकैः।

तेषु तीरेषु सर्वत्र मध्ये चापि सुशोभितै॥

गोष्ठे पद्मसरत्सर्वां क्वचित् तोयाश्रयोद्भवैः।

अन्यैर्वा स्थानाग्रैर्नित्यं विहारारामभूपितैः॥

यथिष्टमनसो तुष्टिः मुनिजुष्टे महीतले।

पर्वताग्रैर्ग्रहैश्चापि कन्दरैः सानुचिह्नितः॥

शान्तैरावसथैर्दिव्यैः ग्रहैश्चापि विजन्तुभिः।

ध्यानानुकूलैः प्रशस्तैश्च ऋषिमुख्यैर्निषेवितैः॥

यत्र वा मनसो तुष्टिः तत्र मण्डलमालिखेत्।

एषु स्थानेषु वै नित्यं यथोदिष्टैः सुपूजितैः॥

निपेतुर्देवताः क्षिप्रं सान्निध्यं चापि कल्पयेत्।

तत्र स्थाने तदा नित्यं जपहोमक्रमो विधिः॥

ये साध्या मन्त्रमुख्याश्च उत्तमाधममध्यमाः।

सिद्ध्यन्ति मन्त्राः सर्वे वै सिद्धक्षेत्रेष्विहोदिते॥

सिद्ध्यन्ति सर्वमन्त्रा सर्वे वै ज्येष्ठमध्यमकन्यसा।

विविधा हि भवे सिद्धिः त्रिविधैव क्रियाविधिः॥

त्रिप्रकारस्तु मन्त्राणां त्रिधा कालप्रभेदतः।

त्रिसन्ध्यं सर्वमन्त्राणां त्रिधा कर्मफलोन्मुखाः॥

शान्तिकं कर्म निर्दिष्टं जयाख्ये मण्डले शुभे।

विजयाख्ये तु पौष्ट्यर्थं अजिताख्ये चाभिचारुकम्॥

अपराजिताख्ये तथा नित्यं निर्दिष्टं क्षुद्रकर्मसु।

सर्वकर्मसु मन्त्रज्ञः तुम्बुराख्यं समालिखेत्॥

पञ्चैव मण्डला ज्ञेया अम्भोधे तु निवासिनाम्।

समन्ताच्चतुरस्रं वै उक्तिमात्रं खनेद् भुवि॥

चतुर्हस्ताष्टहस्तं वा संशोध्य पाणिना पुनः।

कठण्णः शर्कराङ्गारः तुषकेशमवस्कराम्॥

कपालास्थिशकृदुष्टां संशोध्य पाणिना ततः।

स्वयं चापि परैस्तत्र सर्वावस्करतां जपेत्॥

कृमिजन्तुसमाकीर्णाः संशोध्यः यत्नतो व्रती।

आपूर्यारन्यमृत्तिकैः शुचिभिश्च सुगन्धिभिः॥

नदीकूलोद्भवैर्मेध्यैस्तथा वल्मीकाग्रसम्भवैः।

गोष्ठभूतलयोर्मध्ये तदन्यैर्वा पार्थिवोद्भवैः॥

सिकताभिः समन्ताद् वै सञ्छाद्य प्रसन्नधीः।

अथवा गोमयमिश्रैर्वा मृत्तिकाभिः समन्ततः॥

समन्तमालेपयेत् क्षिप्रं पञ्चगव्यसमासृतैः।

कुङ्कुमाक्तैस्तथा स्निग्धैः विविधैः गन्धमिश्रितैः॥

मृत्तिकाभिः समन्ताद् वै मण्डलं तु समन्ततः।

आलेप्य भुवि यत्ना वै मन्त्रविन्मन्त्रतन्त्रवित्॥

पञ्चाङ्गिकचूर्णैस्तु विविधैः धूपवासितैः।

आलिखेन्मण्डलं दिव्यं समन्ता चतुर्हस्तकम्॥

अष्टहस्तप्रमाणं वा ज्येष्ठं मण्डलमुच्यते।

चतुर्हस्तोऽथ कनिष्ठं मध्यमं परिकीर्त्यते॥

पञ्चहस्तोऽथ विख्यातः षट् हस्तोऽथ मुक्तवाम्।

सर्वेषां तु देवीनां सभ्रातृसहितात्मनाम्॥

मण्डलप्रमाणमित्युक्तः समन्ता च्चतुरश्रितम्।

चतुर्द्वारं चतुःकोणं चतुस्तोरणभूषितम्॥

आलिखेन्मण्डलं दिव्यं प्रशस्तं चारुरूपिणम्।

मध्ये कुमारमालिख्य बालरूपसुभूषणम्॥

कुङ्कुमाकारवर्णाभं वाममध्येऽथ संस्थितम्।

नीलोत्पलं समन्ताद्यकरलग्नोपशोभितम्॥

दक्षिणे करविन्यस्तं श्रीमालं फलमायतम्।

किञ्चिद्वरदं देवं मञ्जुघोषं महाप्रभुम्॥

किंचिदुन्मीलिताक्षं तु ईषित्प्रेक्षणदेवताम्।

दक्षिणेन समन्ताद् वै महोदधि समालिखेत्॥

तत्रस्था नावारूढं देव्यां भ्रातृपञ्चमाम्।

आलिखेन्मन्त्रविद्यानां सुवेषां चारुरूपिणाम्॥

विचित्राभरणविन्यस्तां विचित्रप्रहरणोद्यताम्।

कुमार्याकारचेष्टानां सभ्रातृकुमारविक्रमाम्॥

नौयानसमारूढां सभ्रातृसहपञ्चमाम्।

कर्णधारसमोपेतां तुम्बुरुः सार्थवाहिकाम्॥

महोदधि समन्ताद् वै मण्डलाभ्यन्तरं स्थितम्।

ऋषाद्यै प्राणिभिर्युक्तं स्फोटकं वारिपूजितम्॥

आलिखेन्मण्डलं धीमां गुप्ते रहसि सर्वतः।

यथा हि विधिनिर्दिष्टं तत्त्वं चापि कीर्त्तितम्॥

तत् सर्वं कारयेत् क्षिप्रं लौकिकेष्वेव योजयेत्।

यावन्ति शैवतन्त्रेऽस्मिं ये तन्त्रे चापि गारुडे॥

ब्रह्माद्यैरृषिमुख्यैश्च भृग्वाङ्गिरसकाश्यपैः॥

मार्कण्डमुनिवरैश्चापि पुलस्त्यागस्तिसम्भवैः॥

वासवैः शक्रदेवैश्च रुद्रेन्द्रसभास्करैः।

विविधैः सत्त्वमुख्यैश्च यमाद्यैः प्रेतमहर्द्धिकैः॥

ग्रहमातरकूष्माण्डैः यक्षराक्षसपूजितैः।

मानुषामानुषे लोके चित्तनाथैर्महर्द्धिकैः॥

पूजिता कल्पविस्तारा विष्णुरुद्रसवासवैः।

कथिता कल्पमहात्म्यं निखिलाश्चैव भूतले॥

तस्मिं मण्डले योज्या सिद्ध्यन्तीह न संशयः।

विविधा योनिमुख्यैस्तु विविधाकारचेष्टितैः॥

कथिता कथयिष्यन्ति देवीनां कल्पविस्तराम्।

तस्मिं समये नियोक्तव्या जयाख्ये मण्डले भुविरिति॥



बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रादार्यमञ्जुश्रीमूलकल्पात् पञ्चचत्वारिंशतमः पटलविसरात् प्रथमः चतुर्भगिनीमण्डलमनुप्रवेशसमयगुह्यतमपटलविसरः परिसमाप्त इति।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project