Digital Sanskrit Buddhist Canon

अथ षट्चत्वारिंशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Atha ṣaṭcatvāriṁśaḥ paṭalavisaraḥ
अथ षट्चत्वारिंशः पटलविसरः।



अथखलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। शृणु त्वं मञ्जुश्रीः ! पञ्चममुद्रापटलविसरं त्वदीयं सर्वतथागतधर्मकोशानुप्रविष्टं परमगुह्यतमं धर्मधात्वसंख्येयाचिन्त्यमुद्रामुद्रितं सर्वमन्त्रचर्यानुप्रविष्टं परमरहस्यतमं सर्वलोकोत्तरोत्कृष्टतमं सर्वलौकिकानुचरितां मोद्यतमं कतमं च तद् भाषिष्येऽहम्। पूर्वं तथागतैः भाषितवन्तः॥



अथ मञ्जुश्रीः कुमारभूतो बोधिसत्त्वो महासत्त्वः पुनरपि उत्थायासनाद् भगवतः चरणयोर्निपत्य भगवन्तमेतदवोचत्। तत् साधु भगवां देशयतु सर्वमन्त्रचर्यानुप्रविष्टां सर्वसत्त्वानामर्थाय अस्माकं चानुकम्पामुपादाय महाप्रणिधानमहानिर्हारमहाबोधिमण्डोपसङ्क्रमणचर्यापरिपूरणताय पञ्चमं महामुद्रापटलविसरं संक्षेपतः पञ्च चैव महामुद्राः। अपर्यन्ता च स्थितमुद्रां आह्वाननविसर्जनसर्वकर्मार्थसर्वमनोरथमाशापारिपूरणतायै सर्वमन्त्रतन्त्रमहामुद्रानुप्रवेशनतायै सर्वसत्त्वसन्तोषणमहासमयसर्वमुद्रानुप्रवेशनतायै यस्येदानीं कालं मन्यश्चेति॥



एवमुक्तस्तु भगवतो शाक्यसिंह नरोत्तम।

मञ्जुप्रतिभो धीमां तूष्णीं तस्थौ तदान्तरे॥

इयं वसुमती कृत्स्ना षड्विकारं प्रकम्पिरे।

सर्वभूतगणा त्रस्ता क्षुभितं चापि ऋषालयाः॥

तृधातुगतयः सत्त्वास्तत्क्षणादेव मागताः।

दृष्ट्वा आगतां सत्त्वा वव्रे वाणी ऋषिसत्तमः॥

शाक्यकुलजो दक्षः मुद्रां देशे तु तत्क्षणात्।

यं बद्‍ध्वा पुरुषा प्राज्ञा नियतं बोधिपरायणाः॥

सर्वमन्त्राश्च सिद्धेयु सौगता ये च लौकिका।

पञ्च चैव महामुद्रा बद्धा मुनिवरैः पुरा॥

अधुना शाक्यमुद्देक्ष्यः बद्‍ध्वैता तृभवालये।

स्वयमेव भगवां शास्तु हस्तोत्तानतां कृथा॥

वेणिकाकारमावेष्ट्य मध्यमाङ्गुलि नामयेत्।

कन्यसौ संस्पर्शयेद् धीमां उभा अङ्गुष्ठ उच्छ्रये॥

अङ्कुञ्च्यमञ्जल्याकारं दर्शयेन्मञ्जुरवेहिताम्।

एषा मुद्रा महामुद्रा सर्वबुद्धानुवर्णिनी॥

सर्वथा साधिता देवी पूर्णेति च गीयते।

तदेव हस्तौ भ्रामयित्वा तु नाभिदेशे तु संन्यसेत्॥

आशासम्पादिनी क्षिप्रं महापुण्या हिता हि सा।

मनोरथेति समाख्याता दुर्दान्तदमनी सदा॥

तदेव हस्तौ संन्यस्य मुष्टियोगेन वेष्टयेत्।

उरः स्थाने सदा न्यस्या तृतीया भवति सुनिर्मला॥

चतुर्थी तु भवेत् सा तु शिरःस्थाने सुमुद्रया।

पञ्चमी तु भवे ज्येष्ठा मुक्ता सर्वगतां नु गुणान्॥

लोकधात्री तु सा ज्ञेया प्रसिद्धा सर्वकर्मसु।

एष एव सदायोगः प्रयोक्तव्यः सर्वकर्मसु॥

आकृष्टावङ्गुलितर्जन्यौ आकृष्य वश्यता हिता।

विक्षिप्तैर्विसर्जनं कुर्यात् मनसा मोक्ष एव तु॥

सर्वे दर्शयेत् क्षिप्रं सर्वकर्मार्थसाधयोदिति॥



आर्यमञ्जुश्रियमूलकल्पात् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् चतुःचत्वारिंशतिमः महामुद्रापटलविसरः परिसमाप्त इति।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project