Digital Sanskrit Buddhist Canon

अथ चतुश्चत्वारिंशः पटलविसरः।

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Atha catuścatvāriṁśaḥ paṭalavisaraḥ
अथ चतुश्चत्वारिंशः पटलविसरः।



अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य सर्वतथागतधर्मवरोत्वचिन्त्यगुणव्यूहालङ्कारभूतकोटिनिष्ठासङ्ख्येयजिनमुद्रामुद्रितं सर्वसत्त्वचिह्नभूतं मुद्रापटलपरमगुह्यतमं सर्वलौकिकलोकोत्तरश्रेयसमन्त्रतन्त्रकल्पविकल्पितं सर्वसत्त्वैः परमार्थदर्शनपथप्रवृत्तिभूतं सर्वमन्त्रसर्वसंज्ञासाधारणभूतमिहैव जन्मनि सर्वसत्त्वानां सर्वाशापारिपूरकं सर्वबुद्धबोधिसत्त्वानामाराधनपरसुखहेतुकबोधिसम्भारपरिपूरणनिमित्तम् आह्वाननविसर्जनगन्धपुष्पधूपसर्वमाल्योपहाराविद्याविद्यावेशनदर्शनसर्वकार्यार्थसाधनसर्वदेवनागयक्षगन्धर्वासुरगरुडकिन्नर-महोरगयक्षराक्षसपिशाचकूष्माण्डरौद्रसौम्यभावदमकाध्यक्षभूताधिपतिसर्वकार्यसन्दर्शनज्वलनाकाशगमनान्तर्द्धानवशीकरणबोधिसम्भारनिमित्ताश्चर्याद्भुतं सर्वमन्त्रतन्त्रार्त्थानुनीतं सर्वविद्याराजनमस्कृतं सर्वविद्यासाधकं सर्वबुद्धमात्रामन्त्रितं यथेप्सितार्त्थसत्त्वमनोरथापरिपूरकं सर्वासां सर्वमन्त्राणां दृष्टधार्मिकहेतुनिष्पादकं संक्षेपतो यथा यथा युज्यते, यथा यथा साध्यते तथा तथा साधयते। एषा मञ्जुश्रीः ! परमार्त्थपटलसर्वबुद्धानां परमार्त्थगुह्यतमं भाषिष्ये। पूर्वं भाषितवां सर्वबुद्धैः भाषिष्यन्तेऽनागता बुद्धा भगवन्तः। एतर्ह्यहं भाषिष्ये, तच्छ्रूयतां महासत्त्व ! भाषिष्ये। तच्छ्रूयतां महासत्त्व ! भाषिष्ये। साधु च सुष्ठु च मनसि कुरु मञ्जुरव ! मनोज्ञप्रतिभानवां वक्ष्येऽहं वक्ष्येऽहमिति॥



शाक्यसिंह नरश्रेष्ठो सम्बुद्धो ऋषिसत्तमः।

सत्त्वमर्त्थमभिज्ञाय परमार्त्थार्त्थदर्शनम्॥

गुह्यमात्रार्त्थमुद्रा वै भाषसे मुनिपुङ्गव !।

शुद्धावासपुरे रम्ये शुद्धसत्त्वसमाश्रिते॥

समापर्षद्वरे श्रेष्ठे वीतरागालये तदा।

भाषिते कल्पराजे तु मञ्जुभागीततत्त्विते॥

बुद्धपुत्रैस्तदामात्यैः परमार्त्थविदैर्विदैः।

शाक्यसिंहस्तदा आह शृणुध्वं पर्षत् कथे॥

बुद्धपुत्रस्तथा ज्येष्ठ महायानाग्रधर्मिणः।

नाम्ना समन्तभद्रो वै इत्युवाच गिरां वराम्॥

बालरूपी महारूपी कुमारस्त्वं वर्ण्यसे जिनैः।

शाक्यस्य कुलजो दक्षः श्रीमां बुद्धो निरीक्ष्यते॥

त्वं हि विश्वमहाप्राज्ञो लोकानुग्रहकाम्यया।

त्वदीयं कल्पविसरं मुद्रामुद्रितं त्विदम्॥

अध्येषय महावीरं ! बुद्धपुत्र ! महर्द्धिक।

सारभूतं कल्पस्यास्य महर्द्धिकम्॥

एवमुक्तस्तु वीरेण बुद्धपुत्रेण धीमता।

मञ्जुमां त्वरितो जात बालक्रीडाभिनिर्मित॥

प्रणम्य सुगतं नाथं जगदेकान्तचक्षुषम्।

उवाच मधुरां वाणीं करुणार्द्रम्रेडितेन तु॥

कथयेयु भगवां बुद्धः प्रज्ञाबलतत्त्ववित्।

कथं तु सर्वमन्त्रा वै सिद्ध्यन्ति जपिनां ध्रुवम्॥

कथं वै ह्यविकल्पेन अमोघान् गच्छन्ति प्राणिनाम्।

सिद्ध्येयुः क्षिप्तजप्ताभिः सर्वार्त्थेषु न योजिता॥

आ भवाग्राच्च संसारादा वीच्यान्ताश्च नारकाः।

एतेष्वाश्रिता ये च प्राणिनोर्धत्रिधातुका॥

आहूयन्ते निगृह्यन्ते आवेश्यन्ते च पश्यताम्।

सर्वकर्मार्त्थयुक्ते च तुष्टिपुष्ट्यर्थकारणैः॥

दशभूम्याश्रिता ये च सौगते वर्त्मनि स्थिता।

बोधिसत्त्वा विबुद्धाश्च प्रत्येकां वा बोधिमाश्रिताः॥

वीतराग महात्मन आहूयन्ते सुपूजिता।

समयैर्मन्त्रिभिर्युक्ता इमैर्मुद्रैः समुद्रिता॥

कथयन्ति यथाभूतं स्वतन्त्रा चापि दर्शिनम्।

पूर्ववृत्तमवृत्तं वा वर्तमाने च योगिनः॥

स्वर्गलोककथाचिन्त्या परदेहाश्रितापि वा।

अनागतं च यथातत्थ्यं निदर्शनं चापि वर्णितम्॥

कथयन्ति यथान्यायं मन्त्रमुद्रसमीरिता।

सिद्धिं चापि तथा क्षिप्रं दद्यान्मुद्रैश्च पूजिताः॥

मन्त्रिज्ञैः मन्त्रिभिर्युक्तः बलिहोमसुपूजिताः।

कुर्यात् क्षिप्रतरं सिद्धिं बुद्धा बुद्धसुतास्तथा॥

अर्हन्तोऽपि महात्मानः खड्गिणः सिद्धिदा सदा।

लौकिका ये च मन्त्रा वै तथा लोकोत्तरा परे॥

ये च सिद्धास्तथा यक्षा गन्धर्वा मथ किन्नरा।

असुरा सुरा सदा सत्त्वा सर्वसत्त्वा त्रिधा स्थिता॥

अपर्यन्तेषु दिक्ष्वेषु लोकधात्वन्तरेषु च।

गतिपञ्चसु ये सत्त्वा युक्तायुक्ताश्च सर्वदा॥

सिद्धिं गच्छेयु तत् क्षिप्रं इमैर्मुद्रैः सुमुद्रिता।

एष विख्यातः सुगतैर्मन्त्रज्ञैस्तु मुनिभिः विमलम्॥

विटकं विधिवद् ज्ञेयं विसरं पटलोत्तमम्।

सर्वबुद्धैस्तथा लोके श्रेयसार्थमुदाहृता॥

मुद्रा पञ्चशिखेत्याहुः सर्वबुद्धैः प्रकाशिता।

श्रेयसार्थं हि भूतानां मञ्जुघोषस्य धीमते॥

सर्वतः शिरजा ज्ञेया मूर्ध्नजास्तु तथागताम्।

सा तु सर्वार्थदा ज्ञेया धर्मकोशप्रपूरणी॥

पूरणार्थं तु मन्त्राणां मुद्राणां च महर्द्धिकम्।

सर्वेषां लोकोत्तरां श्रेष्ठां लौकिकानां च सर्वदा॥

मञ्जुघोषस्य तन्त्रे तु अग्रा ह्यग्रतमा मता।

प्रभावतः सर्वकर्माणि क्षिप्रं कुर्यार्थनामतः॥

शुचिर्भूत्वा शुचौ देशे बध्नीयान्मुद्रवरं प्रभुम्।

आदौ हस्तौ थ कृत्वा वै सुषिराकारसम्पुटौ॥

आकोशविरलाङ्गुष्ठौ न्यस्ताङ्गुष्ठौ थ सूचितौ।

पञ्चसूचिकविन्यस्तौ मुद्रा पञ्चशिखा भवेत्॥

शिरःस्थाने सदा न्यस्ता एकसूच्याथ अङ्गुलैः।

मुद्रा एवचीरा तु मूर्ध्नि स्थानेषु योजिता॥

कन्यसाङ्गुलिविन्यस्ता सुश्लिष्टा मध्यमौ तथा।

अङ्गुष्ठौ सूचितौ उभौ॥

त्रिसूच्याकारसमायोगात् तृशिखा मुद्रमुदाहृता।

सर्वैरङ्गुलिभिर्युक्तैः आकोशा सुषिरसम्भवैः॥

शिरःस्थाने सदा न्यस्ता मुद्रा शिरवरा भवेत्।

स एव उच्छ्रिताङ्गुल्यौ ईषित् सङ्कुचिताग्रकौ॥

महावीरा तु सा ज्ञेया महामुद्रा महर्द्धिका।

एते पञ्च महामुद्रा पूर्वं जिनवरैस्तदा॥

निर्दिष्टा सर्वमुद्राणां कथयन्ति मनीषिणौ।

ज्येष्ठा मुद्रमुख्यनां + + + + + + मुद्रिताम्॥

लोकोत्तरां तु सर्वा वै लौकिकानां च सर्वतः।

एता पञ्च महामुद्राः प्रयोगा सिद्धिहेतवः॥

सुसिद्धा सिद्धतमा ह्येता अग्रा ज्येष्ठाश्च भाषिता।

मञ्जुघोषस्य मूर्धजा प्रभावात्यद्भुतचेष्टिता॥

यावन्ति सौगता मुद्रा सर्वेषां सिद्धिहेतवः।

मुद्रा मुद्रेति विख्याता श्रीमन्तं किसलयोद्भवम्॥

मञ्जुघोषस्य मूर्धजं महापुण्यतमं शिवम्।

यं बध्वा महासत्त्वा नियतं बोधिमवाप्नुयात्॥

महामुख्यावतंसं तं श्राद्धम् अविकलेन्द्रियम्।

सदा यज्ञं प्राज्ञयुक्तं च विधिवत् कर्ममाचरेत्॥

तादृशेन तु युक्तेन सत्त्वेनैव सुयोजिता।

मुद्रेयं कुरुते ह्यर्थां यथेष्टा चापि पुष्कलाम्॥

उपदेशात्तु विद्वांसः मतिमन्तोऽर्थसाधकाः।

आचार्यसम्मता लोके शिष्या ग्राह्यास्तु सर्वदा॥

विधिवत् कर्मदृष्टेन पुरुषेणेह भक्तितः।

महायानगतैर्नित्यं मुद्रेयं सम्प्रयुज्यते॥

सर्वेषां तु मुद्राणां त्रिधा मन्त्रेषु योजिताम्।

अग्रा ह्यग्रतमा लोके एते मुद्रा प्रभावतः॥

सिद्ध्यर्त्थं सिद्धिकामानां तथा मन्त्रैः सुयोजिताम्।

क्षिप्रमर्थकरा ह्येते सर्वसौख्यफलप्रदाः॥

मञ्जुघोषः स्वयं तिष्ठेन्मुद्रैरेतैः समाहित।

यस्मिं स्थाने तु वश्चैताः स्वयं मञ्जुरवः सदा॥

रक्षा ह्यग्रां प्रकल्पीत जिनपुत्रो महर्द्धिकः।

बालरूपी महात्मा वै विश्चरूपी महर्द्धिकः॥

बहुरूपी च सत्त्वानां मुद्रारूपी थ देहिनाम्।

बालिशानां तु सत्त्वानां संसारार्णवचारिणाम्॥

तेषामर्थकरः क्षिप्रं मुद्रारूपेण तिष्ठते।

मञ्जुघोषस्य शिरजाः सर्वमूर्ध्नि प्रतिष्ठिता॥

सर्वार्थसम्पदा ह्येते जप्तमात्रैस्तु योजिता।

मूलमन्त्रेण संयुक्ता हृदयस्यानुगतेन वा॥

सर्वे सौगतिभिश्च मन्त्रैभिश्च सुयोजिता।

ये तु अब्जकुले मन्त्रा वज्रिणे चापि कपर्दिने॥

सर्वैश्च लौकिकैश्चापि मुद्रैर्युक्तार्थफलप्रदा।

एते पञ्च महामुद्रा मन्त्रयुक्तार्थफलप्रदा॥

विकल्प्या मन्त्रगतां त्यज्य मुद्रैर्वाथ फलप्रदा।

महारक्षा महापुण्या बद्धमात्रेण देहिनाम्॥

स्मरितैह्येभिर्महामुद्रैर्महारक्षा विधीयते।

कः पुनर्जप्तमात्रैस्तु मन्त्रमुद्रासमाश्रितैः॥

यावद् वा जापिनः सर्वे नियतं बोधिमाप्नुयात्।

अपरे तु महामुद्राः शूलपट्टिशसम्भवाः॥

महाशूलोऽथ मुद्राणां घोरदारुणमुच्यते।

क्रोधराजेन मुख्येन यमान्तेनेह योजिता॥

करोति विविधां कर्मां दारुणां प्राणरोधिनाम्।

महाभयप्रदां मुद्रां विपस्यस्यापि महात्मने॥

दुष्टसत्त्वां विनाशाय सृष्टास्तृभवालये।

तैरेव योजिता मन्त्रा विविधां मुद्रमाशृता॥

तेषां विनाशनायैव सृष्टा जिनवरैः सदा।

मन्त्रचर्यार्त्थयुक्तायाः शासनार्थाय कल्पिता॥

विहिता लोकनाथैस्तु मुद्रा तन्त्रार्त्थदर्शना।

दुष्टसत्त्वप्रयुक्तानां गरकिल्बिषरोगदाम्॥

तेषां निर्नाशनार्थैव उक्तां सर्वाथकर्मिकाम्।

यमशासननाशाय मृत्युपाशाय मोक्षणाः॥

नित्यं प्राणहरा मुद्रा प्रयुक्ता मन्त्रयोजिता।

यमदूतहरा पुण्या मृत्युर्नाशनी स्मृता॥

यमशासननीतामानेता प्राणदा स्मृता।

सर्वरोगनिवाशार्थं यमस्यापि भयप्रदा॥

मुनिमुख्यैस्तथा युक्ता प्राणसन्धारणी हिता।

शासनेऽस्मिन् प्रसन्नानां हिता रक्षा विधीयते॥

सफला नाशनी दुष्टां गीता मञ्जुरवे हिता।

सर्वार्थप्रापणी देवी महामुद्रा प्रगीयते॥

महाप्रहरणे त्वाहुः अपरा मुद्रपरावरा।

तथैव हस्तौ संन्यस्य तर्जन्यौ पाशसम्भवौ॥

कन्यसौ सूचयेन्नित्यं मुष्टियोगेन योजितौ।

हस्तौ सम्पुटितौ नित्यौ अङ्गुष्ठाबुच्छ्रितावुभौ॥

एष मुद्रा महापुण्या महाशूले समागता।

विविधा लोकनाथैस्तु विचित्रप्रहरणोद्भवा॥

यो यस्य चिन्तयेज्जापी शत्रोः प्रहरणानि वै।

तेनैव च्छिन्दयेद् गात्रं चित्तोत्पादाच्च तद् भवेत्॥

नियतं नाशयेच्छत्रुं मुद्रा मन्त्राश्च योजिता।

निहन्याच्छत्रुगणां सर्वांमन्त्राश्चापि महर्द्धिकाम्॥

यमदूतगणां विघ्नां ग्रहांश्चापि समातराम्।

पूतनास्कन्दरुद्रश्च प्रेतांश्चापि महर्द्धिकाम्॥

जप्ता वैवस्वतां लोकां कृत्स्नां चैव सवासवाम्।

यमान्तकक्रोधराजेन नान्यं मन्त्रं प्रयोजयेत्॥

मुद्रैरेतैः प्रयुञ्जीत महाशूलसमैस्तदा।

सद्यं वैवस्वतं हन्यात् कः पुनर्भुवि मानुषाम्॥

सर्वप्रहरणी मुद्रां सर्वदुष्टां विनाशिनीम्।

विहिता लोकमुख्यैस्तु सम्बुद्धैर्द्विपदोत्तमैः॥

तथैव हस्तौ संन्यस्त मध्यमां शृत्य कारयेत्।

तथैव हस्तौ कृत्वेह मुष्टियोगेन कारयेत्॥

अङ्गुष्ठाग्रौ तु पीडितौ।

सुषिरावाङ्गुलिसंयुक्तौ मध्याङ्गुल्यसमुच्छ्रितौ॥

सूचिकाग्रौ तथा नित्यौ तर्जन्याङ्गुलिमाश्रितौ।

एषा मुद्रा वरा घोरा शूलेत्याहुर्मुनिवराः॥

महाशूला भवेत् साधुः तर्जन्याकुञ्चितावुभौ।

विसृतैः पट्टिशा ज्ञेया महामुद्रवरा परा॥

तदेव सङ्कुचाग्रौ तु अङ्गुल्यास्त्रिभिरुच्छ्रिता।

एष सा त्रिशूलमुद्रेति प्रवदन्ति मनीषिणः॥

विचित्रप्रहरणा ज्ञेया अङ्गुष्ठावुभयोच्छ्रितौ।

महाशूलसमा ह्येते महावीर्या भयानकाः॥

पापसत्त्वविनाशाय तन्त्रेऽस्मिं मञ्जुरवे वरे।

दुर्दान्तदमिता ह्येता महामुद्राद्भुतचेष्टिता॥

रौद्रप्राणहरा ते विकृताकारसम्भवा।

महाघोरतमा रौद्रा महाक्रूरतमाहिता॥

महाघोरवरा ज्येष्ठा बहुरूपिण्यः प्रकाशिता।

सर्वत्र जापिनो बुद्धा जराव्याधिविवर्जिता॥

विचरन्ति इमां लोकां संसिद्धा जापिनः सदा।

विहिता मृत्युनाशाय सम्बुद्धैर्मुनिपुङ्गवैः॥

जराव्याधिविनाशिन्यः मृत्युनाशाय संसृजेत्।

योजिता मन्त्रिभिः क्षिप्रं कृतान्तस्यापि भयानका॥

सृजेत् प्रभुवरः श्रीमां शुद्धावासपुरे वरे।

मुनिसत्तमजे मुद्रा शाक्यसिंहे नरोत्तमे॥

न बुद्धा मन्त्र भाषन्ते न मुद्रा क्रूरकर्मिणाम्।

सत्त्वकारणवात्सल्यात् सर्वज्ञार्थप्रपूरणा॥

ऋद्धिविक्रीडनार्त्था वा बोधिसम्भारकारणा।

उपायसत्त्ववैनेया महायानाग्रनियोजना॥

महासंसारपूरणा।

अधिमुक्ति वसां सत्त्वां मन्त्रमुद्रामुदाहृताम्॥

आकाश चेति या बुद्धा न बुद्धा वाचाय कल्पिता।

निःप्रपञ्चार्थयुक्तानां कुतः सङ्कल्पगोचरम्॥

धर्मधातुसमा निष्ठा भूतकोटिसमा च या।

मन्त्रयुक्तानां निष्ठा मुद्रा समुद्रिता॥

कथयन्ति भवाङ्गानां मुक्त्यर्थं हेतवां सदा।

सर्वज्ञमुद्रमाख्याता सर्वज्ञानार्थप्रपूरणा॥

युक्तियुक्तार्थपूजार्थं मुद्रामुद्रमुदाहृता।

बुद्धैश्च बुद्धपुत्रैश्च अचिन्त्याचिन्त्यगोचरैः॥

सर्वज्ञदर्शिनो मुद्रा उष्णीषाद्याः प्रभाविताः।

अवलोकितमुद्रा तु वज्रपाणे थ लौकिकाः॥

कथिताः कथयिष्यन्ति श्रेयसार्थं हि देहिनाम्।

यावद् बुद्धसुतैर्मुद्रा मुनिश्रेष्ठैश्च भाषिताः॥

सर्वार्थपूरणा मुद्रा प्रभावाचिन्तचिन्तिता।

विकल्पार्थं हि भूतानां त्रिधा मन्त्रास्तु भाषिता॥

एक एव भवेन्मन्त्रः यो बुद्धैस्तु भाषितः।

सौगतार्थं तु मन्त्राणां मन्त्रो ह्येकः प्रगीयते॥

उष्णीषाधिपतिः श्रीमां एकवर्णौथ वि सदा।

चक्रवर्ती भवेन्नित्यं तकारो रेफसंयुत॥

ऊकारसहितो नित्यं युक्तोऽथ प्रगीयते।

स भवेच्चक्रिणः श्रीमां बुद्धानां मूर्द्धजो वरः॥

भापरं मन्त्रमित्याहुर्बुद्धपुत्रस्य धीमतः।

प्रभावात् तत्समो ज्ञेयः मकारोऽन्त्यार्त्थ गीयते॥

मञ्जुघोषस्य विख्यातः हृदयोऽयं बुद्धमूर्ध्नजः।

प्रभावातिशयो ज्ञेयः महापुण्य महर्द्धिकः॥

सर्वार्थपूरणो मन्त्रः।

मुद्रा पञ्चशिखोपेतौ उभयार्थार्थपूरणौ॥

मुद्रा पञ्चशिखा वापि मकारे चापि योजितौ।

परमार्थं बोधयेच्चार्थं इहैवार्थं तु भोगदौ॥

अपरं मन्त्रमित्याहुः।

जकारं रेफसंयुक्तं अवोष्मार्थपूजितम्॥

एष मन्त्रवरो ह्यग्रः अब्जकेतोऽथ मूर्ध्नजः।

मुद्रे पद्मवरे युक्तो आर्या पुष्ट्यार्थजन्मिनाम्॥

जापिनां कर्मसिद्धिं तु कुर्यात् सर्वार्थसम्पदाम्।

अपरं वज्रिणे मन्त्रां ह्रंङ्कारं बाहुमूर्धजम्॥

एष मन्त्रवरो ह्यग्रः चण्डोऽथ गीयते।

प्रयुक्तो वज्रालये मुद्रे कुर्यात् प्रायार्थकर्मिणाम्॥

दुर्दान्तदमको घोरो मन्त्रोऽयं नाशहेतवः।

उक्तार्थं शासनार्थं च यथोक्तं विधिमाचरेत्॥

न कुर्यात् पापकर्माणि सत्त्वनिग्रहमादरात्।

न योजयेन्मन्त्रवरं नित्यं सौम्यसत्त्वेषु नित्यश॥

नापराध्येऽल्पदोषेण सत्त्वनाशयतोत्सृजेत्।

न कुर्यादादरान्मोहादल्पदोषेषु जन्तुषु॥

शासने दुष्टचित्तानां अप्रसन्नां प्रसदनाम्।

विनयार्थं तु सत्त्वानां दमनार्थं पिशिताशिनाम्॥

निग्रहार्थं तु दुष्टानां सौम्यसत्त्वप्रसादनाम्।

उक्तो मन्त्रवरो ह्यग्रः न कुर्यात् प्राणान्तिकं कदा॥

सर्वलौकिकमन्त्राणां वज्रिणे च महर्द्धिकाम्।

अग्रो मन्त्रवरो ह्युक्तः सर्वलौकिकदेवताम्॥

अपरो मन्त्रवरो ह्येष सर्वलौकिकदेवताम्।

मन्त्राणां मूर्ध्नजो ज्ञेयः शिव एकाक्षरो ह्यतः॥

ईश्वरः सर्वलोकानां मन्त्राणां तु लौकिकां प्रभुः।

परमेश्वरमित्याहुः स्वकारो ता विदुर्बुधाः॥

सर्वमन्त्रास्तु गीयन्ते यावन्त्यो लौकिकाः स्मृताः।

सर्वे ते यत्र वै मन्त्रे निबद्धा सर्वत्र पूजिता॥

विहिता मुनिवरै ह्येता मुद्रा सर्वत्र योजिता।

मता शिवतमा श्रेष्ठा लौकिकाग्रा समाहिता॥

ईश्वराद्यान्तर्भूता वै विपश्यग्रहमातराम्।

कटपूतनयक्षाद्यां राक्षसां पिशिताशिनाम्॥

गरुडध्वजविष्णोश्च ब्रह्मणश्चापि कीर्तिता।

मुद्रा ह्येताः समादिष्टा दुर्दान्तदमने हिता॥

प्रशस्ता मङ्गला ह्येता मुद्रा ह्युक्ता मनीषिभिः।

वश्यावेषणभूतानां आकृष्टा हेतवोहिताम्॥

विविक्ते तु सदा देशे शुक्लपुष्पैः सुशोभिते।

सुमृष्टे सिद्धगन्धैस्तु श्वेतचन्दनकुङ्कुमैः॥

जातीकुसुममालाभिः अभ्यर्च्य सुगतं प्रभुम्।

शाक्यसिंहं महापुण्यं सर्वमन्त्रेश्वरं विभुम्॥

सर्वज्ञं सर्वदा भक्त्या प्रणिपत्य तथागतम्।

मन्त्रनाथं च लोकेशं वज्रिणं चापि शक्तितः॥

मञ्जुश्रियं महात्मानं धर्मधात्वेश्वरं गुरुम्।

सर्वं बुद्धसुतां बुद्धां अनुपूर्व्या समाहितः॥

कुशविण्डे पल्लवे चैव सक्षीरे सार्द्रे सुशोभने।

उपविष्टः प्राङ्मुखः शुचिः॥

उदङ्मुखः शान्तिकर्मे तु पश्चादाह्वानने न मुखे।

न कुर्युः सर्वकर्माणि यथादैवतमन्दिराम्॥

प्रवृत्तः सर्वभूतेषु दयावां मुद्रकर्मणि।

सर्वत्र योजिता मुद्रा कुर्यात् सर्वसाधनम्॥

पूर्वाभिमुखे पौष्टिकं कर्म मन्त्राणामानयने ध्रुवम्।

पश्चान्मुखे तु कुर्वीत वश्यार्थं सर्वभौतिकम्॥

उदङ्मुखे शान्तिकं विन्द्यात् सर्वव्याधिप्रणाशने।

दक्षिणे पापकर्मं तु न कुर्यात् प्राणान्तिकं सदा॥

ऊर्ध्वं विघ्ननाशं तु उत्तिष्ठोत्तमसिद्धिदः।

असुरपुरे कर्म पातालाधिपते तदा॥

अघोमुखश्च कुर्वीत सर्वत्राप्रतिपूजिता।

विदिक्षु च सर्वत्र यथा यथा च समासृता॥

तेषु तेषु कुर्वीत सिध्यन्ते सर्वदेहिनाम्।

कुर्यात् सर्वत्र मुद्राणां विधिहोमसमा जपी॥

तत्रस्थां सिद्धिमायान्ति तन्मुखाश्चापि मुद्रिता।

विधिः श्रेष्ठः कथ्यतां तां निबोधताम्॥

शुचिर्वस्त्रशुचिर्भूत्वा सुखशौचसमाहितः।

इमां मुद्रां प्रयुञ्जीत सर्वार्थां च सुसमाधिकाम्॥

हस्तावुद्धृत्य गन्धैश्च श्वेतचन्दनकुङ्कुमैः।

सुधूपैः प्राण्यङ्गरहितैः कर्पूरागरुचन्दनैः॥

युक्तिकुङ्कुममुख्यैश्च कुर्याद्धूमवरं विदा।

निवेद्य विविधा कर्मां आचरेद् विधिवत् सदा॥

आचरेत् पूर्वनिर्दिष्टं कर्मं सर्वत्र कल्पभाषितम्।

प्राङ्मुखोऽथ ततो भूत्वा उभौ हस्तौ सुसम्पुटौ॥

मिश्रीकृतां ततोऽन्योन्यां अङ्गुल्या वेणितः स्थितौ।

मध्यमौ कन्यसौ ज्यष्ठौ अनामिकाग्रौ च योजितौ॥

अङ्गुष्ठौ निश्चलौ ज्ञेयौ समौ चापि प्रतिष्ठितौ।

शिरस्थाने तदा कुर्या ललाटदेशे तु भक्तितः॥

नमस्कारं तथा मन्त्रं षड्वर्णोथ योजिताम्।

ॐ वाक्येद नमः। वाक्यं स्वाहाकारवर्जितम्॥

हुङ्कारापगतं श्रेष्ठं फट्कारापगतं सदा।

पवित्रं मङ्गलं ज्येष्ठं हृदयं तु सदा जपेत्॥

एष मञ्जुवर ! श्रेष्ठं बालरूपिसुरूपिणे।

पश्चान्मे विश्वरूपे तु हृदयोऽयं प्रकीर्त्यते॥

षडेते षडक्षरा ज्ञेया मन्त्रा श्रेष्ठा हृदयोत्तमा।

तेषामग्रतरा ह्येषा प्रवृत्तः सर्वकर्मसु॥

इदं मुद्रोत्तमं मन्त्रं कुर्यात् सर्वकर्मसु।

मूर्ध्नि स्थाने दत्त्वा ललाटोद्देशे तु युक्तितः॥

मध्यमाङ्गुल्यं तु चालेद् वश्यार्थं सार्वभौतिकम्।

अङ्गुष्ठाग्रावुभौ नाम्यौ आकृष्टार्थं च देवताम्॥

तैरेव विसृतौ नित्यं विसर्ज्यं मन्त्रदेवताम्।

मध्यज्येष्ठौ तथा श्रावकांश्च मुनिवरम्॥

तर्जन्यौ कुञ्चितौ नित्यौ बोधिसत्त्वां कुलिशोद्भवाम्।

दशभूम्येश्वरा ये च आह्वयन्ते न संशयम्॥

कन्यसाङ्गुलिसंयुक्ता आकुञ्च्यात् सराह्वये।

यक्षराक्षसप्रेतांश्च कूष्माण्डा कटपूतनाम्॥

दैत्यदानवसङ्घांश्च यक्षिण्याश्च धनदप्रिया।

मातृवत् कुरुते ह्येतां मुद्रेयं सम्प्रपूजिता॥

अर्थानर्थां तथा नित्यमिष्टानिष्टा फलप्रदाम्।

महामुद्रेति विख्याता गीयते तृभवालये॥

एष मुद्रमहामुद्रा बद्धा मूर्धसु पण्डितः।

अधृष्यः सर्वभूतानां भवते नात्र संशयः॥

दूराद् दूरं नमस्यन्ति सर्वविघ्नविनायका।

महाब्रह्मसमं पुण्यं नियतं बोधिमवाप्नुयादिति॥



बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रात्

आर्यमञ्जुश्रियमूलकल्पात् द्विचत्वारिंश-

तिमः महामुद्रापटलविसरः

परिसमाप्त इति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project