Digital Sanskrit Buddhist Canon

अथ द्विचत्वारिंशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Atha dvicatvāriṁśaḥ paṭalavisaraḥ

अथ द्विचत्वारिंशः पटलविसरः।



अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य, मञ्जुश्रियं कुमारभूतमामन्त्रये स्म। अस्ति मञ्जुश्रीः ! त्वदीयसर्वसाधनोपयिकमण्डलविधाने सर्वमन्त्रतन्त्रेषु मुद्रापटलसमयरहस्यम् यैः सर्वसन्त्रासमयं नातिक्रमन्ति, समयसञ्चोदितमनुप्रविष्टा भवन्ति सर्वलौकिकलोकोत्तरमण्डलेषु सामान्यसाधनोपयिकसर्वमन्त्रतन्त्रेषु सर्वे सुदह्येते परमरहस्यतमा परमसौभाग्यतमा परमाश्चर्याद्भुततमाः। यैर्विना न शक्यन्ते सर्वमन्त्रा आराधयितुं साधयितुम्। पूर्वं सर्वतथागतैर्भाषितवन्तः। एतर्हि अहं च भाषिष्ये सर्वसत्त्वानामर्थाय हिताय सुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय सर्वमन्त्रजापिनां महामन्त्रको शनित्यौत्सुक्यधर्मधात्वचिन्त्यमहायाननैरात्म्यधर्ममेघमनुप्रवेशनतायै कतमं च तत् भाषिष्येऽहम्॥



शृणु मञ्जुरव ! सर्वगुह्यमुद्रासमोदिताम्।

यथा तथा स्वयं वाच्यं पुरा गीतमृषिसत्तमैः॥

कृत्स्नमुद्रागणं ह्यग्रं गुह्यमन्त्रार्थिनां सदा।

सर्वकालेषु योज्येदं सर्वकर्मेषु मण्डले॥

अथ मञ्जुरवः श्रीमां विहसन् पङ्कजेक्षणः।

निरीक्ष सुगतं श्रेष्ठं सर्वधर्मीश्वरं प्रभुम्॥

कृताञ्जलिपुटो वीरः जिनपुत्रो महर्द्धिकः।

उवाच मधुरां वाणीं दिव्यशब्दार्थभूषिताम्॥

साधु साधु महाप्राज्ञ ! धर्मचक्रानुबर्तकम्।

धर्मतत्त्वार्थमन्त्रत्वं यस्त्वं भाषयसे विभोः॥

एवमुक्त्वा तु सुगतं शाक्यसिंहं नरोत्तमम्।

अथ मञ्जुरवः श्रीमां तूष्णीं तस्थुस्तदन्तरे॥

इत्याह भगवां बुद्धो धर्मधात्वेश्वरस्तदा।

शृणोथ भूतगणाः ! सर्वैः ! देवसङ्घा ! महर्द्धिका !॥

मण्डले भुवि मर्त्यानां दरिद्रा वाथ दुःखिताम्।

आलिखन्तानां भुवि मुद्राणां सान्निध्यं वो भविष्यथ॥

ये च वै सर्वबुद्धानां प्रत्येकार्हथखड्गिणाम्।

श्रावकानां तु ये मुद्राः कथिता मुनिवरैः॥

सर्वलौकिकमुद्रास्तु जिनाब्जकुलवज्रिण।

सर्वमुद्रास्तु सर्वत्र सर्वकर्मेषु योजिता॥

तानहमभिसंक्षेपाद् वक्ष्येऽहं सर्वमन्त्रिणाम्।

यत् पूर्वं कथितं मन्त्रं सर्वं मण्डले च कर्मसु॥

स्थानं होमो जपः कर्म तं तथैव प्रयोजयेत्।

मण्डले आदितो लेख्य मुद्रोऽयं बुद्धनिर्मितः॥

सितं छत्रोऽथ बुद्धानां समन्तज्वालोऽथ भूषणम्।

पञ्चरङ्गिकचूर्णैस्तु समन्तान्मणिराजितम्॥

विचित्ररङ्गोज्ज्वलं श्रेष्ठं इन्द्रायुधसमप्रभम्।

एष मुद्रो महामुद्रो बुद्धानां मूर्द्धजो वरः॥

तस्य दक्षिणतः पात्रं समन्ताज्ज्योतिमालिनम्।

तदनन्तरे खखवरकः दंष्ट्रा जीबरजो पर॥

श्रीवत्सस्वस्तिकश्चक्रकरकं चापि वर्णितम्।

पुस्तको ध्वजमित्याहुः पताकं च तदन्तरे॥

घण्टा पश्चिमजो मुद्रः कथितं लोकपुङ्गवैः।

छत्रे वामतः पद्मं मणिमुद्रो तदन्तरे॥

तदन्तरे वज्रमित्याहुस्त्रिसूच्याकारसम्भवम्।

उत्पलं तु गतामुद्रः सलिलः सलिलाश्रितः॥

तोयश्च तदन्त्ये वै तोयधाराभिनिःश्रितः।

तदन्ते कुण्डलौ ज्ञेयौ भूषालौ शोभनौ तथा॥

तदन्तेऽथ महाशैलः चतुरत्नोऽथ उज्ज्वलः।

तदन्ते महोदधिर्लेख्यः विचित्रो रङ्गोज्ज्वलः॥

तदन्तेऽथ महावृक्षः सफलो दलभूषितः।

एष बृक्षो महामुद्रो वामपार्श्व जान्तजाम्॥

सितातपत्रोऽथ बुद्धानां मुद्रोह्युक्तो वरोग्रजः।

मन्त्रेऽथ खड्गिनां ज्ञेयः प्रत्येकजिनयो वरः॥

चीवरं मुद्रवरो ह्युक्तः सर्वश्रावकसम्भवः।

आर्याणामर्हतां लोके दंष्ट्रा चैव प्रगीयते॥

तत्फलोदधिगतां लोके श्रीवत्सो मुद्रमिष्यते।

खखरकश्च महामुद्रः पत्येकजिनजोऽपरः॥

धर्मचक्रोऽथ मुद्रो वै सर्वदृष्टिविदालकः।

कथितं धर्ममुद्रं तु कारकाक्षेपजः स्मृतः॥

प्रज्ञापारमितां लोके जिनधातुर्मुद्रोऽथ पुस्तकः।

ध्वजपताका महामुद्रौ विघुष्टौ लोकपूजितौ॥

सर्वाकृष्टौ महावीर्यौ सर्वमुष्णीषसम्भवौ।

घण्टापश्चिमो मुद्रः प्रत्येकार्हमूर्धजः॥

बुद्धमुद्रे तु वामे वै पद्मो लोकेशसम्भवः।

मुनिमुद्रस्तथा ज्ञेयः समन्तज्योतिलाभिने॥

वज्रं वज्रिणेमुद्रा बोधिसत्त्वस्य धीमतः।

उत्पलं मञ्जुघोषस्य कुण्डलः क्षितिगर्भिण्ये॥

महातोयतो मुद्रः कथितो गगनालये।

महाशैलोऽथ मुद्रेयं सर्वदृष्टिविदालिने॥

महोदधि तथा मुद्र सुगतात्मज ! सागरे।

महावृक्षस्तथा मुद्र उद्घुष्टो लोकविश्रुतः॥

सर्वांश्च जिनपुत्रांस्तु मुद्रोऽयं त्रिभवालये।

घण्टासमीपजे स्थाने आलिखेज्जिनवर्णितम्॥

मुद्रं सर्वमुद्राणां चतुरस्राकारसम्भवम्।

विचित्रं रङ्गजोपेतं चारुवर्णं विराजकम्॥

+ + + + + समन्तान्मणिभूषितम्।

ज्वालामालिनं दीप्तं पञ्चरङ्गोज्ज्वलं शुभम्॥

पिण्डिकाकारमुद्यन्तं इन्दुमर्कनिभं शुभम्।

+ + + + + विराजन्तं महाद्युतिम्॥

एष मुद्रो महावीर्यः सर्वमन्त्रालयः शुभः।

त्रिविधानां तु मन्त्राणां ज्येष्ठमध्यमकन्यसाम्॥

स्थानोऽयं मुद्रमुख्योक्तः सर्वकर्मार्थसाधकः।

एतदभ्यन्तरं लेख्यो महामुद्रागर्भमण्डले॥

यो यस्य मण्डले मन्त्रः संयोक्ता लोकविश्रुते।

तदेव मध्ये आलेख्यं छत्रस्येव महीतले॥

तन्मध्ये मण्डले चापि रूपकं मुद्रमेव वा।

वरदा रूपका लेख्या मञ्जुघोषोदयस्तथा॥

सर्वे वै मन्त्रनाथास्तु सर्वमन्त्रार्थवा सदा।

न चेद् भुवि मुद्राणामालिखेद् विधिचेष्टिताम्॥

तन्न्यस्तौ पूर्णकुम्भस्तु विजयेत्याहुर्मनीषिणः।

बहिःस्था मण्डले चापि मुद्रामालिखेद् व्रती॥

यथोक्तैः पूर्वनिर्दिष्टैर्द्वितीये मण्डले जपी।

स्थानेष्वेव सर्वत्र दिग्विदिशश्चापि सर्वतः॥

आलिखेत् सर्वदेवानामृषियक्षगरुत्मनाम्।

मुद्रामालिखेद् धीमां पिशाचोरगराक्षसाम्॥

परतीर्थ्येमतां सिद्धां किन्नरा कटपूतनाम्।

क्रव्यादव्यन्तरांश्चैव सकूष्माण्डं दूषको नारकोत्सहाम्॥

सर्वसत्त्वां भृवांश्चैव रूपारूप्यकामजाम्।

द्वितीये मण्डले नित्यं आरूप्यं सुरजोद्भवम्॥

आलिखेन्मुद्रनित्याग्रं त्रिकोणाकारसम्भवम्।

पूर्वायां दिशि मासृत्य रेखमाश्लिष्टमुज्ज्वल॥

एतत् सुरमुख्यानामारूप्यानां महर्द्धिकाम्।

मुद्रा समाधिजेत्याहुरादिबुद्धैस्तु वर्णितम्॥

ततोत्तरे तु तथा रेखे ब्रह्मणः पद्मजोद्भव।

रूपावचरमित्याहुर्मन्त्रं त्रिभुवनालये॥

तदेव दक्षिणा रेखा गर्भमण्डलतो बहिः।

दक्षिणं दिशमाशृत्य मुद्रेः कामजो वरः॥

निर्दिष्टो मुनिमुख्यैस्तु कामधात्वेश्वरे परे।

मुद्रोऽयं निर्मितो लोके सर्वदेवसमन्दिरे॥

रुद्रेन्द्रवसुमुख्यानां विष्णुतीर्थ्यां दिगम्बराम्।

अर्कवासवमौषध्यां विवश्वयमचिह्विताम्॥

लोकपालां बहिस्तां तां यथामन्दिरदिक्षु ताम्।

तथाचालिखेत् सर्वांस्तथा मुद्रांस्तु योजयेत्॥

यो यस्य वाहनः ख्यातः प्रहरणावेषधारिणम्।

तं तथैव तथा मुद्रो निर्दिष्टो लोकपूजितैः॥

एष मुद्रगणो ह्युक्तः सर्वलोकोत्तरः शुभः।

लौकिकामथ सर्वत्र सर्वकर्मेषु साधकः॥

निर्दिष्टा मुद्रमुख्याश्च सर्वमुद्रोऽथ मन्त्रिणाम्।

आलेख्य तु भुवि मर्त्त्यैस्तु जापिभिः सिद्धिकामदैः॥

— बोधितत्त्वलिप्सुरिति॥



बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात्

आर्यमञ्जुश्रियमूलकल्पात् चत्वारिंशतिमः

महाकल्पराजविसरात्

सर्वकर्मसाधनोपयिकः

परिसमाप्त इति।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project