Digital Sanskrit Buddhist Canon

अथ एकचत्वारिंशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Atha ekacatvāriṁśaḥ paṭalavisaraḥ

अथ एकचत्वारिंशः पटलविसरः।



अथ खलु भगवां शाक्यमुनिः, पुनरपि शुद्धावासभवनमवलोक्य, मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। अस्ति मञ्जुश्रीः! सर्वबुद्धानुमोदिते त्वदीयमहाकल्पराजमहाविसरे महामन्त्रचर्यानुवर्तके सर्वसमयानुप्रविष्टे महामूलकल्प्रप्रविष्टास्पदभूते पञ्चमसर्वभूतरुतज्ञानाभिज्ञानं सर्वभूतरुतज्ञानाचिन्त्यगोचरं एष ते पक्षिराट् गरुत्मा स्वमन्त्रचर्यानुवर्तनरुतज्ञानाभिज्ञानां सर्वमन्त्राणां सर्वमन्त्राणां सर्वकल्पानां स्वसमयमनुप्रविष्टसर्वलौकिकानाम् एष एव ते भाषिष्यति सर्वतिर्यग्योनिगतानां सर्वपक्षिराजगरुत्मनां सर्वमन्त्रकल्पगोचररुतज्ञानं च चरितं चेति॥



अथ खलु तस्मात् पर्षन्मण्डलाद् वैनतेयो गरुत्मा बोधिसत्त्वाधिष्ठानेनानेकैर्गरुडशतसहस्रैः परिवृतः उत्थायासनात् पर्षन्मण्डलं प्रदक्षिणीकृत्य, येन मञ्जुश्रीः, तेनोपसङ्क्रम्य, महाबोधिसत्त्वस्य पादौ कृताञ्जलिपुटः, मञ्जुश्रियमेतदवोचत् -



‘अहं महाबोधिसत्त्व ! अस्मिं महाकल्पराजे सत्त्वानामर्थाय हिताय सुखाय कर्मान्तरशतं सरहस्यं भाषिष्ये। तत् साधु महाबोधिसत्त्व ! अनुमोदतु।’



अथ मञ्जुश्रीर्वैनतेयमेतदवोचत् - ‘भाष भाष महासत्त्व ! सत्त्वानुकम्पया।’



अथ वैनतेयो बुद्धाधिष्ठानेन स्वकीये आसने निषद्य, प्रहृष्टमनसि कर्मोत्तरशतं सरहस्यं भाषति स्म।



नमः समन्तबुद्धानामप्रतिहतशासनानाम्। तद्यथा - ओम् शकुन ! महाशकुन ! विततपक्ष ! सर्वपन्नगनाशक ! खख खाहि खाहि ! समयमनुस्मर। हुम् तिष्ठ बोधिसत्त्वो ज्ञापयति स्वाहा। कर्मोत्तरशतं भाषते स्म।



नागाकर्षणं, नागदमनं, नागनिग्रहणं दष्टमदष्टावेशनं, वाचया सर्पमावाहानं, सर्पनिग्रहकरणं विषक्रीडनं, सर्वविषक्रामणं, वाचा मनसा बुद्ध्या वा, पोषधिको त्रिरात्रोषितः, शुक्लद्वादश्यां नदीतीरे शुचौ देशे पञ्चरङ्गिकसूत्रेणाष्टहस्तं मण्डलकं कृत्वा, अष्टपद्मप्रतिष्ठितं, तत्र मध्ये भगवां धर्मं देशयमानः लिखेत्। तस्य दक्षिणेनार्यमञ्जुश्रियं कृताञ्जलिपुटो भगवतो मुखमवलोकयमानं लिखेत्। भगवतो बुद्धस्य वामे नारायणं चतुर्भुजं लिखेत् सर्वप्रहरणहस्तम्। तत्समीपे गरुडं विकृतरूपम्। तदनन्तरं विनताभरणं च लिखेत्। आर्यमञ्जुश्रियस्य पृष्ठतः आर्याक्षयमतिं सुधनं सुभूतिं च लिखेत् कृताञ्जलिपुटा। एवमभ्यन्तरमण्डले लेख्य, पूर्वद्वारे बाह्यतः शुल्कभस्मना वज्रं समालिखेत् दक्षिणेन कृष्णवर्णिकया खड्गम् उत्तरेण पीतवर्णिकया गदं लिखेत्। पश्चिमेन रक्तवर्णं पाशं समालिखेत्॥



एवं बाह्यमण्डलेभ्यः मूलमन्त्रेण सर्वदेवाह्वाननं कृत्वा, सर्वपुष्पैः सर्वगन्धैरभ्यर्च्य, गुगुळुधूपं, त्रिमधूरेण च बलिं दत्त्वा, तेषामग्रतः खदिरसमिद्भिरग्निमुपसमाधाय, सर्वसत्त्वेभ्यः कारुण्यचितमुपस्थाप्य, नागासनोपविष्टः सर्पकण्टकानां दधिमधुघृताक्तानामष्टसहस्रं जुहुयात्॥



ततः सिद्धिनिमित्तं सर्पा आगच्छन्ति। अर्घ्यो देयः। एवं सिद्धिर्भवति। स्वमन्त्रमावर्त्य वदेत् - ‘मम सिद्धिं विधाय गच्छत।’ ततो गच्छन्ति॥



ततो विसर्ज्य मूलमन्त्रेणैव समभ्युक्षयेत्। ततः कर्मं समारभेत्। सर्वं च बलिद्रव्यमप्सु क्षिपेत्। पश्चाद् वाचामात्रेण सर्वविषकर्माणि करोति॥



विद्वेषणं कर्तुकामः सर्पास्थीनि विषाक्तामेकविंशत्याहुतिं जुहुयात्। विद्वेषो भवति॥



उत्सादयितुकामः सर्पनिर्मोकखण्डानामेकविंशत्याहुतिं जुहुयादुत्सद्यति। काकपक्षाणामेकविंशत्याहुतिं जुहुयात् सद्यः काकवद् भ्रमति। स्त्रीपुरुषवशीकरणे सर्षपाणां घृताक्तानामेकविंशत्याहुतिं जुहुयाद् वश्या भवन्ति। राजानं राजमात्रं वशीकरणे परमान्नस्य घृताक्तस्य एकविंशत्याहुति जुहुयाद् वशो भवति। लोष्टकमभिमन्त्र्य, अग्नौ प्रक्षिपेत् न तपति। तृणेन मोक्षः। उक्तेन मत्स्या न बध्यन्ति। चेतनमचेतनं वा सत्त्वं छोटिकया आकर्षयति। सर्वव्याधिने उदकाभिषेचनेन स्वस्थो भवति। दण्डमभिमन्त्र्य द्वारमाहरेत्, अपावृतं भवति। तमेव दण्डं नीलपटप्रावृतं गृह्य सङ्ग्रामे गच्छेत्, परसैन्यं दर्शनाद् भिद्यति। स्वशाटके ग्रन्थिबन्धनेन सर्वमन्त्राः स्तम्भिता भवन्ति। मुक्ते मोक्षः। सर्पवदनं भस्मना पूरयेत्। यस्य नामं गृह्य करोति, स मूको भवति। गण्डविषं सकृज्जप्तेन उदकेन हनेत्। गण्डं सङ्कुचति। पतति च परविद्या। अनेन बध्नीत। तथैव मोक्षयति। इष्टकमभिमन्त्र्य मावर्त्त्य जपेत्। परबद्धग्रन्थिं स्तोभयति। एवं वर्षापयितुकामः पूर्वोक्तं मण्डलकं लेख्य, पूजां कृत्वा, अग्निमुपसमाधाय, वरुणसमिधानामष्टसहस्रं जुहुयात्; आढकं वर्षति। एवं यावद्दशाढकं वर्षति। पिप्पलामभिमन्त्र्य हस्तेन गृह्य, यावद्दिशं क्षिपति; तत्र अशनं सङ्क्रामति। अग्निदाहेप्येष एव विधिः। उदकमवतरणमेवं कर्तव्यम्। नागानुत्सारयति। मृन्मयं सर्पं कृत्वा यमिच्छति तं दशापयति। अङ्गारसर्पस्य एष एव विधिः। पुनरपि मोक्षयति। सर्षपान् सप्तजप्तान् चतुर्दिशं क्षिपेत्। सर्पा आगच्छन्ति। मण्डलबन्धः कार्यः। पानीयेनाभ्युक्ष्य विसर्जयेत्। उदकेन मोक्षणं लेष्टुना नागाकार्षणं पांसु परिजप्य उदके क्षिपेत्; निर्विष भवन्ति। धनुं गृह्य अलोहाश्चत्वारः शराः चतुर्दिशं क्षेप्तव्या। सर्पं शरचलितं गृह्य आगच्छन्ति। स च नागो वक्तव्यः। विषं प्रतिपिबेति। पिबति दष्टकोत्तिष्ठति। अथ सर्पाणि शल्लयितुं पानीये पानीयेनाभ्युक्ष्य तस्य तस्य शराः पतन्ति। सर्पश्चाक्षतो भवति। वल्मीकमृत्तिकया चत्त्वारो नकुला कर्तव्या। पानीयमभिमन्त्र्याभ्युक्षयेद्ः; गत्वा सर्पापहाया गच्छन्ति। आगता वक्तव्याः - ‘विषं प्रतिपिबस्वे’ति। पिबन्ति मृतक उत्तिष्ठति। अङ्गारमभिमन्त्र्य, रेखां कृत्वा, अर्कलतया ताडयेत्; ततः सर्पो वध्यैराकृष्यमाणो आगच्छति। विषं प्रतिपिबेति पिबति। दष्टको निर्विषो भवति। ध्वजं छत्रं वाभिमन्त्रयेत्। यावन्तो मृतकाः विषपीतकाश्च सर्वे निरीक्ष्य निर्विषा भवन्ति वादित्रमभिमन्त्र्य वादयेत्। श्रुत्वा निर्विषा भवन्ति। पांसुना पञ्चरङ्गिकेण मण्डलमालिख्य तालशब्दं दातव्यम्। ततो नागाः सर्पाश्चतुर्दिशमागच्छन्ति। ते मण्डलं प्रविशन्ति। न भेतव्यम्। शिखाबन्धमात्मरक्षां च कारयेत्। अक्षिण्यभिमन्त्र्य क्रुद्धौ निरीक्ष्य वामाङ्गुष्ठं निपीडयेत्। तत्क्षणादेव पतति। सर्प इव रूपेण कुरुते। मुक्ते मोक्षः। एवं वाचया दष्टमदष्टं वा वेशयति मोक्षयति। विष्णुनिर्माल्यमभिमन्त्र्य यत्र रथ्यायां गृहे वा क्षिपति, तत्क्षणादेव सर्पो मानुषं दशति। पानीयेनाभ्युक्षिता निर्विषा भवन्ति। हस्तोत्क्षेपेण षण्मासिकमुपस्तोभम्। आत्मान अभिमन्त्र्य सर्पैर्यथेष्टं दंशापयेत्। विषोऽस्य न क्रमते। कटककेयूरकुण्डलैरात्मान रलङ्करोति। पांसुमभिमन्त्र्य कर्णे जपेत्। उदकेनापि व्यजनेनापि मनसा सिद्धिर्मन्त्रमावर्त्य भूमौ पांसुं दद्यात्। मृतक उत्तिष्ठति। महामांस घृतेन सह धूपः पुष्टिकरणम्। मानुषास्थिचूर्णं काकोलूकपक्षाणि च धूपः मारणम्। मदनं तुषबीजानि उत्सादनो धूपः। सर्षपराजिकाधूपं ज्वरकरणं, कोद्रवबिडालविष्ठं विद्वेषणं, कपालचूर्णमधूकचूर्णं चैकतः कृत्वा मधुना सह धूपः उत्सादने। मोरङ्गी एरण्डनालं उत्सादने धूपः। गोपित्तं मानुषास्थि च घृतेन शत्रोर्मारणे धूपः।



मत्स्याण्डं प्रसन्ना च कर्पासास्थिसमन्वितम्।

देशान्तरगतस्य धूपः शीघ्रमानयति नरम्॥

विदलानि मसूराणां मांसं कुक्कुटाण्डस्य तु।

एष प्रविशतस्य धूपो देयः अकार्षणमतः परम्॥

भल्लातकस्य वीजानि तिलतैलेन योजयेत्।



एषाकर्षणधूपः दद्यादाकर्षणस्य। घृतगुग्गुलुं दद्यात्। धूपो रोगनाशनम्। तिलसर्षपैर्धूपं दत्वा तान्येव जुहुयात्। सप्तरात्रं त्रिसन्ध्यं यस्य नाम्ना वशः। लवणं राजिकाहुतिमष्टसहस्रं जुहुयात् त्रिसन्ध्यं सप्तरात्रम्। महापुरुषवशीकरणम्। कपालचूर्णं सहस्राभिमन्त्रितं कृत्वा यमिच्छति तं चूर्णेन संस्पृश्य वशमानयति। श्मशानभस्मसहितेन यं चूर्णयति तं ज्वरेण गृह्णापयति मोक्षयति। नकुलरोमाणि सर्षपाणि च सर्पनिर्मोकं यस्य नाम्ना धूपो दहति स सर्वलोकविद्विष्टो भवति। तिलैर्वशीकरणं, अर्थोत्पादनानि च कुरुते। तिलतण्डुलैर्घृताक्तैर्नारी वशमानयति। यवतिमण्डूकवसां नागस्थाने त्रिरात्रं जुहुयात्। देवां वर्षापयति। मृण्मयं गरुडं कृत्वा करसम्पुटेन गृह्य अंसमात्रमुदकमवतीर्य अर्द्धरात्रं जपेत्, यस्य नाम्ना स वशो भवति। श्मशाने तण्डुनां प्रकीर्य देवहृदयं स्थाप्य प्रहरणं जपेत् वृत्तिं कल्पयति, सपरिवारस्य। नकुलमूषकरोमाणि कर्पासास्थिधूपः सर्वभूतवशङ्करः। विषं भल्लातकं मधुना सहधूपः वशीकरणम्। कुक्कुटाण्डकपालानि कटुतैलेन सह धूपं वशीकरणम्। पलाशं सुरसबीजामि मदनपुष्पाणि धूपो वशीकरणे। शतपुष्पा देवदारुं पुरीषं मण्डूकं चटकस्य धूपो वश्यार्थः। यवास्तिला दूर्वा च गोमूत्रेण धूपो वशीकरणे। हरितालं काकजिह्वा च शोणितेन धूपः मूकीकरणे। मानुषरोमाणि गोमांसेनैकतस्तैलेन संयुक्तो धूपो रोगकरणे। काकपक्षोलूकपक्षाणि च निम्बतैलेन उच्चाटने। गुग्गुलुघृतं सीधुसहितं धूपोऽयं सर्वसत्त्वप्रियङ्करः। पत्रकं त्वचं तुरुष्के धूपं सर्वसत्त्वानुबन्धकरम्। आज्ञाकरो भवति। तुरुष्कं चन्दनं कर्पूरेण सह अञ्जनं राजवशीकरणम्। पूजाबलिविधानं कृत्वा विष्णुप्रतिमाया अग्रतः उपरिष्टान्महामांसाहुतीनष्टौ हुत्वाष्टसहस्रं जपेत् त्रिरात्रम्, द्रव्यं यमिच्छति। श्मशानभस्मना प्रतिकृतिं कृत्वा महामांसधूपं दत्त्वा कुशविण्डकोपविष्टः अष्टसहस्रं जपेत् रात्रौ श्मशाने, यमिच्छति तमानयति। आज्ञां करोति। उच्चाटने कर्पासातुषां जुहुयात् काकपक्षैः क्षणादुच्चाटनो भवति। श्मशान उदुम्बरसमिधाभिरग्निं प्रज्वाल्य कपालोपविष्टः सर्पकञ्चुकं जुहुयात्। अन्नमक्षयं भवति। श्मशानास्थिचूर्णं सर्षपसहितमष्टसहस्रं जुहुयात् यस्य नाम्ना, स योजनशतादागच्छति। सर्वकामेषु कर्तव्यः। देवो श्वेतचन्दनेन विततपक्ष सर्वनागाभरणं तीक्ष्णघोरं विकृताननं विकृतनखं पद्मोपविष्टं अधोदत्तदृष्टिं निम्नतरं काष्ठे कुट्ये भित्तौ वा पोषधिकेन कर्मकारेण कारापयेत्। वितस्तिमात्रं कृत्वा तस्याग्रतः सर्वकर्माणि कुर्यात्। पलाशे पुष्टिकामेन, बैल्वं वश्यार्थहेतुना, उदुम्बरं च पुत्रकामाय, गोकामः शिरीषमयं मधुकं वा द्रव्यकामः कारयेद् विधिवत्। सूकरमांसेन फलकामम्। अश्वमांसेनापत्यं भवति। कृष्णसारमांसेन श्रियार्थी, पृथुतमानुकीर्तिकामो वा स्त्रीकामः पृथिवीकामो वा, व्याघ्रमांसं व्यवहारदिविजयार्थी महामांसम् वस्त्रार्थी हस्तिबला राजवशिकरणे अतिबला राजामात्यवशीकरणे अश्वगन्धां जुहुयात्। उत्सादे हस्तिरोमाणि, पिचुमर्दमभिचारे तु एते काष्ठा प्रोक्ताः॥



पटकरणं भवति। धातुसौवर्ण पौष्टिके प्रक्तिः। रजतादीं कीर्तिवृद्धये। काकपक्षहोमेनोत्सादयति। गृध्रपक्षैर्मारयति। कौशिकपक्षैर्विद्वेषयति। मयूरपक्षैर्विद्वेषयति। मयूरपक्षैर्धनानि दद्यात्। तित्तिरिपक्षैः स्त्रीं मगुलिपक्षैः पुत्रां, काकपक्षैः सुवर्णम्, टिट्टिभिपक्षैर्मोहनम्। श्वमांसेनोत्सादयति, महिषमांसेनाकर्षयति, आभिचारुके महामांसेन, शान्तिके मृगरोमाणि कन्यार्थी उलूकरोमाणि देशघातेच्छा गलरोमाणि विद्वेषणे मानुषरोमाणि आभिचारुके मानुष्यरोमाणि शत्रुनाशने सर्वेष्वेव तेषु त्रिसन्ध्यं सप्ताहिको होमः। स्मरणमात्रेणाहं सर्वविषकर्माणि करोमि। सततजपेन सर्वकर्माणि करोमि। यो मम भगवं अस्मिं कल्पराजे मन्त्रं साधयमानः त्रिसन्ध्यमुदीरयिष्यति, तस्याहं सर्वविषोपद्रवचिकित्सां करिष्यामि। पृष्ठतोऽनुबद्धो भविष्यामि॥



अथ तस्मिन् समये स्वरूपमुद्रां भावयति स्म। अङ्गुष्ठौ परस्परवेष्टितौ कृत्वा शेषाङ्गुल्यो पक्षवत् संस्थिता स्याद्। गरुडरूपमेव मम प्रोक्तं पिनाकिना मुद्रा॥



अस्य सन्दर्शनान्नागा विद्रवन्ति भयार्दिता।

अघोमुखास्तु अङ्गुल्यः मन्त्रेणानेन मन्त्रवित्॥



‘ॐ जः’॥



नागदमनीति विख्याता नागानां दर्पनाशनी।

पद्मकोशप्रतीकाशौ अङ्गुल्यः पार्श्वतः स्थितौ॥

अङ्गुष्ठौ मध्यतः स्थाप्य निष्पीड्याङ्गुल्यं तु यत्नतः।

नागदमनीति विख्याता दिव्या दिव्येषु कर्मसु॥

अनामिका तर्जनी चैव मध्यमेन सुसंस्थितम्।

अङ्गुष्ठौ वक्त्रसंस्थानं शेषा पार्श्वतः स्थिताः॥

गरुडनादेति विख्याता सर्वनागानुत्रासिनी।

यानि च मयोक्तानि सर्वमन्त्रेषु साधने॥

लौकिके गारुडे शास्त्रे + + + + + + + ।

सर्वे तेऽनेनैव कर्तव्या सर्वसत्त्वानुकम्पया॥

किञ्चित्कार्या अशेषास्तु मूलकल्पार्थसाधका।

अस्मिं कल्पवरे नित्यं सर्वसत्त्वानुवर्णिते॥

प्रसिद्धाः सर्वकर्मार्थाः सर्वसत्त्वार्थपुष्कलाः।

ते वै मन्त्रमुख्ये तु प्रयोक्तव्याः कर्मविस्तरे॥

इह कल्पवरे मूले प्रतिष्ठा क्ष्मातलेन ते।

समुषत्सर्वभूतानामिह मन्त्रसृतैर्गुणैः॥

विस्तरेज्ञः सर्वतो दृष्ट्या सर्वसत्त्वानुकम्पने।

प्रसिद्धं सिद्धिकामानां हेतुयुक्तिसमाश्रिताम्॥

कुर्युः सर्वतः सिद्धिः सर्वमन्त्रेषु देहिनाम्।

सर्वसत्त्वाश्च सान्निध्यं कल्पेषु मनसेप्सितम्॥

इतिहासपुरावृत्तं वर्तमानमनागतम्।

कथयन्त्येष संयोगान्मन्त्रमुद्रसमीरणात्॥

आकृष्टा एष भूतानां मन्त्रोऽयमपराजितः।

ईशानः सर्वभूतानां रुद्रोऽयं सुरपूजितः॥

तम्बको त्र्यक्षराज्ञेयो कल्पस्थोऽथ महीतले।

हिमाद्रिनिलयो नित्यं उमापतिमहेश्वरः॥

तृशूली खड्गधृग् ज्ञेयः पिनाकी वृषभध्वजः।

गणाध्यक्षः शूलिनश्चैव महेशाख्योऽथ महर्द्धिकः॥

अक्षरोऽक्षरमित्याहुः कपर्दी तु गदायुधः।

एष मन्त्रो महार्थस्तु सर्वभूतार्थकम्पकः॥

कुर्यात् सर्वाणि कर्माणि सर्वकर्मेषु साधनम्।

एष देवो महात्मा वै महादेवेति कीर्त्यते॥

प्रसिद्धः सर्वकर्मार्थे फलहेतुसदाप्रदे।

तस्य मन्त्रं प्रवक्ष्यामि शृणुध्वं भूतिकांक्षिणः॥

“ॐ स्थः नमः सर्वबुद्धानामप्रतिहतशासनानाम्।

त्रैलोक्यगुरूणामचिन्त्याद्भुतरूपिणाम्॥

शिवोद्भवोद्भव भुवनत्रयपूजिताय हूँ हूँ फट् फट्।”

एष मन्त्रो महामन्त्रः सर्वशत्रुभयप्रदः॥

आयुषत् सर्वभूतानां कर्म शान्तिकपौष्टिके।

सर्वेष्वेव हि कर्मेषु प्रयोक्तव्यो मनसोद्भवै॥

सर्वभूतरुतज्ञानं अभिज्ञज्ञानचेष्टितम्।

अभिज्ञवशिता चैवं सर्वशास्त्रज्ञतां समम्॥

प्राप्नुयात् पुष्कलां चार्थां फलहेतुसमुद्भवाम्।

यावन्त्यो लौकिका मन्त्रा सर्वाश्च सुपुष्कला॥

तां सर्वां प्राप्नुयान्मन्त्री सिद्धमन्त्रस्तु बुद्धिमां।

यावन्तो लौकिका मन्त्रा शैवाश्चापि सुपूजिता॥

मन्त्रा गुरुत्मने चापि सिद्धिहोमफलोन्मुखम्।

सर्वलौकिकमन्त्रास्तु इन्द्ररुद्रोद्भवोद्भवा॥

ते स्युर्मन्त्रराट् सर्वे निबद्धा विधिहेतुतः।

याम्याग्निवायुतोयानां कुबेरो मातरो दया॥

सङ्ख्या द्वादशका ह्येषा ब्रह्मेशानपूरकाः।

सवितुः शक्रदेवानां पितामहसुपूजका॥

कामधात्वेश्वरा ख्याता ये मन्त्रामरचारिणाम्।

सर्वे ते वशमायान्ति मन्त्रे नामीरिताधिप॥

+ + + स्वयाम्यदग्निनां दिवौकसजलौकसाम्।

दिङ्मन्दिराश्रया ये च विदिक्षु श्चापि चारिणः॥

तदोर्ध्वं नभस्तले चापि अधः पातालधामकाः।

पथोश्रयसमापन्ना फणिनो ये महर्द्धिका॥

हिमाद्रिकुक्षिसंविष्टा विन्ध्यकुक्षौ समाश्रिता।

महाधातुवरे चित्रे महाशैलेऽथ विश्रुते॥

नानादेवगणाकीर्णे सिद्धचारणसेविते।

अप्सरोगणसङ्गीते सुमेरो रविरिवोज्ज्वले॥

यत्रस्था येऽत्र नागा वै ये तु भूतगणाश्रया।

विचित्ररूपिणो ये वा ततः स्था ये समागता॥

सर्वे ते वशमायान्ति मन्त्रेणानेन योजिता।

ये च दिव्यगणा मन्त्रा सर्वभूतभयप्रदा॥

सर्वे ते वशमायान्ति मन्त्रेणानेन योजिता।

गिरिगह्वरदुर्गेषु विचित्रैः कन्दरोदरैः॥

मन्दिरैर्हेमसङ्काशैर्निवसन्ति महीतले।

सर्वभूतगणाध्यक्षा विविधा हारिणो जनाः॥

+ + + + + + + + निवासेष्वभिकीर्तितैः।

दिव्यभूतगणाध्यक्षा विचित्राश्चैव रूपिणः॥

सर्वभूतगणाश्चैव विचरन्ति महीतले।

विविधाकारमुख्यास्तु विचित्रा रूपगताश्रया॥

विविधाकारविचारस्थौ विविधाम्बरभूषणा।

ते सर्वे मन्त्रमुख्येन पथेवारपश्यता॥

अनेता सर्वमन्त्राणां लौकिकानां महर्द्धिकाम्।

सर्वभूतवशं कर्ता प्रभ्रमन्तेश्वरो वरः॥

सर्वमन्त्रेश्वरां मुख्यां यमरुद्रेन्द्रवासवाम्।

मन्त्रनाथोऽथ मुख्यस्तु सर्वलौकिकमग्रजी॥

विभर्ति सर्वतो मन्त्रां कल्पांश्चैव सुपुष्कलाम्।

एष मन्त्रेश्वरो देव अधिपतिः सर्वमन्त्रराट्॥

सर्वविघ्नेश्वरो मन्त्री स्मर्तव्यः सर्वजापिभिः।

उग्रमुग्रेऽथ मन्त्राणां प्रभुरेव प्रगीयते॥

सर्वस्मिं शैवतन्त्रे वै सर्वलौकिकचेष्टितैः।

चरितं चापि भूतानां रुतं चापि जपेत् सदा॥

मन्त्रिभिः सर्वकालं वै प्रयोक्तव्यः सिद्धिकांक्षिभिः।

वैनतेयस्तदा पक्षी प्रणम्य जिनवरात्मजाम्॥

मञ्जुश्रियं तथा नित्यं सर्वां बुद्धसुतान् तथा।

उवाच मधुरां वाणीं पक्षिराट् स महाबलः॥

भाष भाष महासत्त्व ! गम्भीरार्थसुनिश्चित !।

धर्मनैरात्म्यतत्त्वस्य अग्रधर्मप्रतिष्ठित !॥

मयोक्तं कल्पविस्तारं मूल्यमन्त्रार्थगोचरम्।

अभिसंक्षेपतो ज्ञेयं सर्वमन्त्रेष्वराधिकम्॥

लौकिकेष्वेव मन्त्रेषु प्रयोज्यः सर्वसाधने।

नाभ्यन्तरपदं मन्त्रं मयोक्तं यं प्रशस्यते॥

जिनपुत्रैस्तु महावीरैः सर्वश्रावकखड्‍गिभिः।

नान्योत्कृष्टतमं मन्त्रं मयि बुद्धिः प्रयुज्यते॥

ईषिस्मितमुखो धीर मञ्जुघोषमथाब्रवीत्।

अथाह मधुरं वाक्यं शब्दार्थास्पदभूषणम्॥

एष ते सुवर्णमाख्यातः धर्मस्वामी नरोत्तमः।

विसृक्षुः सर्वमन्त्राणां धर्मनैरात्म्यदेशकः॥

जगद्गुरुर्महावारो बुद्ध आदित्यबान्धवः।

प्रणेता सर्वमन्त्राणामग्रमन्त्रेश्वरो वरः॥

प्रभुरेकमनार्थो धर्मधात्वीश्वरो गुरुः।

सर्वसत्त्वानुकम्पार्थ अस्माकं च सुखोदयः॥

धर्मकोटिगतो निष्ठो भूतकोटिमनालयः।

एष ते सर्वमन्त्राणां कथयन्त्याशु महाद्युतिः ॥



बोधिसत्त्वपिटकावतंसकान् महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रियमूलकल्पाद्

एकूनचत्वारिंशतिमो गरुडपटलपरिवर्तः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project