Digital Sanskrit Buddhist Canon

अथ चत्वारिंशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Atha catvāriṁśaḥ paṭalavisaraḥ

अथ चत्वारिंशः पटलविसरः।



अथखलु भगवां शाक्यमुनिः शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। अस्ति मञ्जुश्रीः ! त्वदीये महाकल्पराजे पटलविसरे ध्यानजेऽनाश्रवे परमशिवशान्तीभूते अत्यन्तभूतकोटिधर्मधातुप्रविष्टे सर्वतथागतधर्मनेत्रीमनुगते परमनिर्वाणमार्गां सानुप्रविष्टे आर्यपथक्षेमशान्तीभूते महाधर्मनैरात्म्यशून्यतास्वभावमनुप्रविष्टे सर्वलौकिकलोकोत्तरतत्त्वावतारध्यानानुगतमनुप्रविष्टे सर्वमन्त्रचर्यासाधनविधिसमासक्रीडानाटकबालचर्याविस्फूर्यानानुगतसन्तोषणसत्त्वचर्यानुगतैः। कतमं च तत्॥



शृणु त्वं मञ्जुरव ! थ्रीमां सर्वसत्त्वानुवर्तनम्।

ध्यानं सर्वज्ञतो ज्ञेयं सर्वमन्त्रार्थसाधनम्॥

पूरणं सर्वमन्त्राणां शोधनं पापकर्मिणाम्।

यं ध्यात्वा च जनाः सर्वे सिद्धिं प्राप्स्यन्त्यनांविलाम्॥

सर्वाकारवरोपेतां ध्यानसौख्यमचिन्तिताम्।

बोधित्वं त्रिविधं प्राप्य उत्तमाधममध्यमाः॥

अतुलां मन्त्रसिद्धिं च अस्तुवन्ति जना भवेत्।

सर्वार्थसाधनं लोके यशःकीर्त्तिसुखोदयम्॥

दीर्घायुष्कतां लोकेऽस्मिं देवानां च महद्गतिम्।

सर्वाशावाप्तितां क्षिप्रं प्राप्नुवन्ति न संशयः॥

द्विप्रपञ्चानुत्तरां बोधिं लप्स्यते ध्यानचिन्तकाः।

सर्वसत्त्वाहितह्यग्रं सर्वमन्त्रेषु कीर्त्यते॥

स्मरणादेव मन्त्रेषु सर्वतन्त्रेषु च पुनः।

सिद्धयः सिद्धिहेतूनां क्षिप्रमाशानिबन्धनम्॥

आशास्यं भुवि तां मर्त्या पुनर्गच्छन्ति देवता।

आजहार पुरं दिव्यं देवतामन्दिरेष्विह॥

तिष्ठन्ते मन्त्रराट् सर्वे तन्मुखापिध्यायिने।

आगत्य च पुनः सर्वं देवतामन्त्ररूपिणाम्॥

कथयन्ति यथातथ्यं शुभाशुभफलोद्भवम्।

वाचां प्रबुद्धः स्वप्ने प्रत्यक्षं वाथ जापिने॥

शुभोदयं फलं कर्म प्रत्यक्षं वापि देवताम्।

पश्यन्ते स्वप्नगताः सर्वे मन्त्रिणा वापि तदन्तरे॥

इतरां चापि न पश्यन्ते जापिनो मन्त्रलौकिका।

ध्यानेन पापं क्षीयेत जपे चापि सुपुष्कले॥

सिध्यन्ते मन्त्रराट् सर्वे अचिरात् तस्य मन्त्रिणः।

प्रभावा ध्यानयोगस्य अचिन्त्याद्भुतचेष्टिता॥

एवमुक्तस्तु धीरेण शाक्यसिंहेन तापिना।

भून्मञ्जुरवस्तूष्णीं शुद्धावासपुरे तदा॥

सर्वे देवगणा मुख्या त्रिधा धातुसमाश्रिता।

अमुचद् वाक्यवरं शुद्धं सर्वमन्त्रेश्वरं गुरुम्॥

साधु साधु महावीर ! साधु धर्मेश्वरो विभोः।

यस्त्वं हि सर्वसत्त्वानां हितार्थं मन्त्रजापिनाम्॥

ध्यानां च तत्त्वनिर्दिष्टं पूर्वनिर्दिष्टतामिति।

इदानीं तु महावीर + + + + + + + + + + + + ॥

एवमुक्ताः सुराः स + अग्रा ह्यग्रतमे हिताः।

तूष्णीम्भूतास्ततस्तस्मिन् शुद्धावासपुरे पुरे॥

इत्युवाच महाधीरो मुनिस्तेजो + + + + +।

शुभया वाचाया दिव्यां लोकतत्त्वार्थदर्शनम्॥

कथयामास सम्बुद्धः मधुराक्षरघोषजम्।

शृणोथ भूतगणाः सर्वे स्थिता त्रिविधालया॥

ध्यानं च भवनिर्देशं कथ्यन्तः समाहिताः।

अनेकार्थमनानात्वं नैरात्म्यं तत्त्वदर्शनम्॥

सर्वमन्त्रार्थरिधिंसार्थं विविधार्थं तु लौकिके।

सर्वधर्मेश्वरा लोके येनायान्ति सुचिन्तिता॥

क्षिप्रं च जापिनां सर्वे आशु मन्त्रार्थसिद्धये।

आदौ ध्यायीत महावीरं रत्नकेतुं तथागतम्॥

रत्नशैलनिषण्णं तु गुहायां रत्नजोद्यते।

पद्मरागमयं दिव्यं महापद्मं महोन्नतम्॥

भगवां तत्र निषण्णस्थं पर्यङ्के धर्मदेशितम्।

ध्यायन्तं महावीरं पद्मसम्भवमेव तु॥

पद्मोत्तरं च सम्बुद्धं पद्माभं चैव बुद्धिमाम्।

ध्यायीत मुनिवरां पञ्च रत्नाभं च तथागतम्॥

समतः सुप्रतिष्ठिता ज्ञेया गुहेष्वेव पञ्चसु।

सर्वां शैलमयां साद्रि पद्मरागमयं क्वचित्॥

भिन्नेन्द्रनीलमाभासं क्वचित् स्फटिकसन्निभम्।

उच्छ्रयं मरकताभासं प्रमाणं चापि शताष्टकम्॥

योजनानां सहस्रं तु लक्षषोडशविस्तरम्।

उपरिष्टात्तु सम्बुद्धा अपर्यन्ता नरोत्तमा॥

इत्यूर्ध्वमधः सर्वदिग्विदिशश्चापि सर्वतो।

प्राप्तं मुनिवरैः सर्वं सम्बुद्धैर्द्विपदोत्तमैः॥

चन्द्राभासं च निर्भासैः श्वेतपुण्डरिकासनैः।

हंसगोक्षीरनिर्भासैः शङ्खकुन्देन्दुहिमप्रभैः॥

सम्बुद्धैः सर्वमिदं व्याप्तं इत्यूर्ध्वमधस्सप्ततिर्यकम्।

सद्व्योम्नि पुष्पवर्षाद्यैः सुरमुख्यैः समन्ततः॥

अदृश्यकायसारूप्यैः उपरिष्टात् खसमागतैः।

अधश्चात्मानं सदा चिन्तेत् पर्यङ्केनोपविष्टकम्॥

पद्मपत्रे स्थितं मुख्यं शरीरं चापि निर्मलम्।

अभिषिञ्चन्तं सदापश्यन्तं तोयधाराभिः सर्वतः॥

असङ्ख्येयैर्मुनिमुनिमुख्यैः सम्बुद्धैः द्विपदोत्तमैः।

प्रसृतैर्दक्षिणाग्रकरैः समन्तादङ्गुलिभिः सदा॥

शुक्लतोया बहुभिः बहुधाराभिरूर्ध्वतः।

समन्तात् सर्वतश्चैव मूर्त्ति चात्मान एव तु॥

अष्टाङ्गसलिलधाराभिः सुगन्धैर्लयशीतलैः।

अच्छैरनाविलैश्चैव सर्वव्याधिहरैस्तथा॥

जरामृत्युविनाशिन्यैः भिन्नस्फटिकसन्निभैः।

तादृशैस्तोयधाराभिः आत्मानं चापि चिन्तयेत्॥

अभिषिञ्च्यात्मतो चिन्त्या तैश्चाप्यायितमानसः।

समन्ताद् वारिधाराभिस्ततो ध्यायी सुखी भवेत्॥

सन्तुष्टमानसो धीमां पश्येद् ज्ञानं तदासनम्।

चित्ते समाधितां लिप्स्ये पञ्चाभिज्ञासु चिन्त्यधीः॥

एवं युक्तः सदा योगी पश्येद् धर्मां तदा स्वयम्।

दिव्यं श्रोत्रं तथा ज्ञानं पूर्वजातिमनुस्मरम्॥

ऋद्धिविक्रीडितं ज्योतिर्दिव्यं चक्षुरनावृतम्।

परचित्तगत्तिं चिन्तां सर्वसत्त्वाश्रयं तम्॥

सर्वं ज्ञास्यति योगीशो तदा युक्तेः समाहितः।

अनिवर्त्त्यः सदा बोधो अनुत्तरायां न संशयः॥

बुद्धभूमिगतां धर्मां प्रथमायामविकल्पतः।

प्राप्स्यतेऽसौ सदा जापी अनिवर्त्योऽमृते पदे॥

अनाभोगेनैव सम्यङ्मन्त्राः सिध्यन्ति सर्वतः।

ये च लोकोत्तराः सर्वे अभिमुख्यैः प्रभाषिताः॥

बोधिसत्त्वैस्तु सर्वत्र अब्जा वज्रोद्भवाश्च ये।

लौकिका ये च मन्त्रा वै ब्रह्मरुद्रेन्द्रभाषिता॥

यक्षमुख्यगणैः सर्वैः।

मातृभूतग्रहगणैः यक्षराक्षसकिन्नरैः॥

देवैर्नागगरुडैश्च सिद्धविद्याधरैस्तदा।

कूश्माण्डैर्व्यन्तरैश्चापि कश्मलैः पिशिताशनैः॥

परप्राणहरैश्चापि राक्षसैः प्रेतदुःस्वपैः।

पिशाचैः भृतयक्षैश्च अनेकाकारजातिजैः॥

ये मन्त्रा भाषिता लोके + + + + +।

ते तस्य योगिनो यान्ति ईषद् बोधाय बोधिता॥

क्षिप्रं सिद्धितां यान्ति मन्त्रा सर्वार्थसाधकाः।

वचनं तस्य वै मन्त्रः क्षिप्रं तत्त्वार्थदर्शिने॥

ऋषयो ये च वै देवाः मानुषोद्भवाः।

प्रसह्य वृत्ता मुख्याश्च स्त्रीपुंसाश्चापुंसकाः॥

सर्वे महर्द्धिकाश्चापि उत्तमाधममध्यमाः।

सर्वे लौकिका चापि ये मन्त्रा लोकपूजिता॥

तैश्चाप्यथ मनैश्च मन्त्रैश्चापि मन्त्रजाः।

भाषिता मुनिमुख्यैश्च सर्वे सिद्ध्यन्ति योगिने॥

तन्त्रमन्त्रगताश्चापि ओषध्यो मणिभूषणाः।

सर्वे मन्त्रवरा तस्य उत्तमाधममध्यमाः॥

सर्वाशावाप्तये वापि अक्षरे क्षरते यदा।

सिद्ध्यते तस्य बैं युक्तस्य मन्त्रिणे एवं युक्तस्य मन्त्रिणे॥

एवमुक्तस्य मन्त्रस्य धीमन्तस्य विशेषतः।

प्रथमं चिह्नलिङ्गस्तु मन्त्राणां सिद्धिहेतवः॥

शरीरं जायते श्रेष्ठं पद्माभासं सुखोदयम्।

गात्रस्य शैत्यता चापि चन्दनेन्दीवरगन्धिता॥

कर्पूरागरुसौगन्ध्यं पद्मकिञ्जल्कवर्णतः।

वक्त्राद् रोमकूपेभ्यः गन्धो वान्ति सचाम्पकम्॥

जातीयूथिकपुन्नागं नागकेसरवकुलम्।

धानुष्कारी ससौगन्धी जातिमल्लिककोलजम्॥

विविधां धूपमुख्या वा विविधा पुष्पजातयः।

विविधा गन्धमुख्याश्च विविधा द्रव्यजातयः॥

विविधा सर्वगता गन्धाः शुभकर्मसमोचिताः।

तेषां गन्धवरं हृद्यं अभिभूयोभिप्रवर्तते॥

दिव्यं मान्दारवं गन्धं सकिञ्जल्कं सकोकणम्।

सकस्तूर्यकं लोके अभिभूयं तां प्रवायते॥

ततश्चिह्नमिमां ज्ञात्वा गात्रे वै चापि शैत्यताम्।

चित्तैकाग्रतां चैवं मुखं चैव विवेकजम्॥

प्रथमं ध्यानजं चैवं चित्तं ज्ञात्वा तु तीरितम्।

सुखदुःखमुपेक्षाय निर्वृते चापि विरागताम्॥

उपेक्षं स्मृतिपरिशुद्धिं द्वितीये प्रेरयते जापी।

तृतीयं चित्ततो ध्यानं चतुर्थं अश्रयतो व्रती॥

यथा मुनिवरोद्दिष्टं ध्यानं सर्वतो शुभम्।

तथा मन्त्रगतो जापी ध्यायेदेकाग्रमनोमयम्॥

ये निर्दिष्टाद्याबुद्धैस्तु वर्तमानमनागतैः।

सम्बुद्धैः श्रावकैश्चापि सूत्रान्ताश्चापि कीर्तिताः॥

तेषु योगेषु मन्त्रज्ञाः अनुपूर्व्या ध्यानमाचरेत्।

निर्वर्त्त्यं श्रावकी बोधि प्रत्येकजिनमुद्भवाम्॥

महाकरुणानुभावीत महामैत्रीं चापि यत्नतः।

यद् यद् गोत्रागतं चित्तं तथा चित्तं तु भावयेत्॥

परहितचित्तान्मैत्री परदुःखकृपालुता करुणा।

परतुष्टिमुदिता परदोषमुपेक्षणमुपेक्षा॥

इत्युवाच महाभागा सम्बुद्धा द्विपदोत्तमा।

अनित्यदुःखमनात्माशून्य तत्त्वं शिवं पदम्॥

क्षेमं शिवं परं स्थानं निर्दिष्टं लोकनायकैः।

क्षणिकः सर्वसंस्काराः त्रिविधास्तत्त्वेष्वचेष्टिता॥

त एवासंस्कृता धर्मास्त्रिविधा बोधिसंस्थिता।

त एव शिवतमा लोके कथिता बोधिपरायणैः॥

पुद्गलाभावनैरात्म्यं तीक्ष्णपतनवर्णितम्।

तं नास्ति शिवे मार्गे क्षेमे बुद्धोपदेशिते॥

अत्यन्तनिष्ठे धर्मेऽस्मिं भूतकोटिसमाश्रिते।

धर्मधातुसमानं ते अस्तिनास्तिविवर्जिते॥

शुभे धर्मोदये बोधो त्रिप्रकारसमोदिते।

अत्यन्तनिष्ठे मोक्षे च बहुधा भेदमाश्रिते॥

सुप्रयुक्ते सुनिर्दिष्टे सर्वबुद्धैः सुदेशिते।

मार्गे स्थितेऽथ मन्त्रज्ञः सर्वपापहरे शिवे॥

ये धर्मा मुनिवरैः सर्वैः प्रतीत्योत्पन्ना शुभाशुभाः।

सर्वे ते जातिभिर्योगे ध्यातव्या मुनिहेतुभिः॥

श्रावकानां तु या शिक्षा अधिशीलानुप्रवर्त्तते।

अधिचित्तं च यद् ज्ञानं श्रावण्यफलहेतुकम्॥

अनास्वरं सस्वरं ज्ञेयं जापिभिः सर्वदा स्वयम्।

ज्ञातव्यं खड्गिणा शिक्षा प्रत्येकार्हसम्भवाम्॥

सर्वसत्त्वाख्यसत्त्वैवं सुस्वरं त्रिदिवोदितम्।

यथाजिनैश्च निर्दिष्टं मार्गतत्त्वानुगामिनम्॥

साश्रवानाश्रवं ध्यानं संवरं च शुभोदयम्।

यथावृत्ति यथालिङ्गं तथा शिक्षासु व्यवस्थितम्॥

तद्धर्मासेवतो जापी मन्त्रसिद्धि समश्नुते।

ध्येयं च ध्यानजं पुण्यं पुण्यं ब्रह्मशुभोदयम्॥

तस्य सिद्धि सदा ज्ञेया ध्यानैः पुण्यैश्च बृंहितैः॥

उपोह्य सर्वतो मन्त्री जपहोमरतो व्रती॥

ध्यातव्यः सर्वतो मुख्यः जिनपुत्रो महर्द्धिकः।

मञ्जुघोषो महावीरः कुङ्कुमाकारसमत्त्विषः॥

ईषिस्मितमुखो देवो सव्यामाभोगमण्डलः।

प्रसन्नमूर्त्तिः पद्मस्थः समन्तरश्म्यावभासितः॥

पूर्वनिर्दिष्टजे स्थाने स्वमूर्त्त्याभिषेकसेविते।

उपरिष्टात् तोयताराणां मध्ये जिनवरालये॥

तत्रस्थं तु सुखासीनं ध्यायीतं मञ्जुरवं शुभम्।

सर्वबुद्धोर्ध्वकं दृष्टिं सनमस्कारं शुभं प्रभुम्॥

वामे करविन्यस्तं नीलोत्पलं शुभम्।

दक्षिणेन करे ह्युक्त शुचिस्थाने सदाशुभे॥

सनमस्कारं सदा बुद्धं ईषच्छीलासबालिशम्।

तं ध्यात्वा मुनिपुत्रे वै सदा मन्त्री पुनः पुनः॥

तत्रस्थो ध्यानजो धीमां आतुरायां तु पश्यति।

सर्वे ते व्याधिनिर्मुक्ता दृष्टमात्रेण मन्त्रिणा॥

अधश्च पश्यत्पातालं सर्वे भूमिगता धना।

वशिता सर्वमन्त्रज्ञः नित्योच्चाटनमन्त्रिणाम्॥

यदूर्ध्वं समपश्येत् सिद्धां व्योम्नानुगामिनाम्।

सर्वं वशयिता लोके सिद्धद्रव्याणि सर्वतः॥

अथोत्तरां दिशां पश्येद् यक्षाध्यक्षांश्च सर्वदा।

कूष्माण्डा वित्तदाश्चैव वित्तेशश्च महर्द्धिका॥

ईशानो भूतपतिश्चैव + + + + + + + + ।

औषध्यो हमेजाः सर्वे रुद्रश्चैव सहोमया॥

किन्नरा मरुगन्धर्वा ऋषयो गरुडस्तथा।

सर्वसत्त्वाश्रया ये च तथोत्तरा विदिशे॥

विदिक्षु चैव सर्वत्र तथा स्थावरजङ्गमाः।

सर्वे स्युर्वशमायान्ति दृष्टमात्रेण जापिने॥

एवं पश्चिमतो ज्ञेयं वरुण महर्द्धिकः।

महानागैः सदा सर्वं दृष्ट्वा यान्ति सम्मूर्च्छिता॥

एवं वैवस्वतां लोकां यमश्चैव महर्द्धिकः।

सर्वे ये राक्षसा दुष्टा घोररूपा महर्द्धिका॥

ससुता भृत्यवर्गैश्च परप्राणहराः खगाः।

पिशिताश्चनरूपाश्च भीमरूपानुगाः सदा॥

व्यन्तरा कश्मलाश्चैव प्रेताप्रेतमहर्द्धिका।

पिशाचा भूतक्रव्यादा व्यालश्चैव महर्द्धिकाः॥

अनेकाकाररूपास्तु अनेकाकारयोनिजाः।

रूपा मनोजवाश्चैव सत्त्वा हिण्डन्ति मेदिनीम्॥

दारुणा रुधिरगन्धेन समन्ताद् योजनं शतम्।

सहस्रं पुनरायान्ति सप्तसप्तेऽनुगे सदा।

मानुषाणां विहेठन्तां पर्यटन्ति महीतले॥

आहारार्त्थिनः केचित् केचित् क्रीडानुगामिनः॥

सर्वे स्युर्वशमायान्ति दृष्टमात्रेण जापिने।

एवं पूर्वयां तथा दिक्षि पूर्वाध्यक्षादिशानुगः॥

सवितुः सर्वनक्षत्रा सज्योतिग्रहचन्द्रमा।

महोत्पादोपग्रहां सत्त्वे विराजाश्चैव दिशां पतिः॥

ससुतो सपरिवारो वै शस्त्री वा चापि सर्वतः।

सर्वे ते वशमायान्ति ध्यानेनावर्जिते जिता॥

विदिक्षुश्चैव सर्वत्र सर्वं सर्वासु दिक्षुषु।

सुरश्रेष्ठा सुरश्चैव स्त्रीपुंसादये भुवि॥

सर्वसत्त्वा तथा लोके मानुषा अमानुषोद्भवा।

सर्वे ते वशमायान्ति ये सत्त्वा त्रिषु स्थावरा॥

ये तु धातुजा मुख्या तथा मध्यमकन्यसाः।

सर्वे ते वशमायान्ति अदृश्यो दृश्याश्च ध्यायिने॥

त्रिविधं ध्यानजं कर्म ज्येष्ठमध्यमकन्यसम्।

ज्येष्ठे उत्तमां बोधिं प्राप्य ध्यायी निवर्त्तते॥

अनुत्तरं च पदं शान्तं प्रत्येकं मार्गखड्गिणाम्।

कन्यसा श्रावकी बोधिः प्राप्यते परनिश्रिता॥

प्रतीत्योत्पत्तिकधर्माणां हेतुसम्भूतलक्षणम्।

तेषां निरोधधर्माणां एवं वादी नरोत्तमः॥

साक्षात्क्रियेन मर्हत्त्वं चतुरो पटलसम्भवाम्।

हेत्वाभासविद ज्ञानं शून्यता दुःखसम्भवम्।

नैरात्म्यधर्मतो निष्ठं अत्यन्तं भूतकोटिजम्।

निरोधमार्गवद् ज्ञेयनर्हत्वं चापि कन्यसम्॥

आलयोद्धातनो वर्त्त्मापर्छेदो वदनात्मताम्।

पिपासा प्रतिपच्छोषावर्त्मोपछेदोऽथ देहिनाम्॥

कामनद्यां सहतृष्णां शोकशल्योऽथ देहिनाम्।

रुध्यन्ते सर्वतो ध्याने मार्गेऽस्मिं ध्यानजे हिते॥

त्रिप्रकारं तथा कर्म अनेकाकारचिह्नितम्।

त्रिधा चैव समुख्याणां त्रिविधा बोधिकीर्तिता॥

कन्यसं श्रावके बोधिः प्रत्येकार्हखड्गिणाम्।

मध्यमे च सदा लोके निर्दिष्टा जिनवरैः पुरा॥

उत्तमं तु सदा बोधिं सम्यक् सम्बुद्धतां गतिम्।

एवमाद्या प्रयोगेन त्रिधा कर्मक्रियाक्रमम्॥

शतधा भिद्यते तत्र सहस्रोऽथ मसङ्ख्यकम्।

व्रीह्यङ्कुरवद् ज्ञेयं पुनः क्षेत्राङ्कुरवत् सदा॥

ततोऽङ्कुराङ्कुरवन्नित्यं सन्तत्या सम्प्रकीर्तिताम्।

वीजोषधवत् कर्म शुक्लधर्मसमन्वितः॥

सत्त्वविज्ञानसन्तत्या पुनस्तोयतरद् भवत्।

प्रवर्तते ध्यानजा धर्मा पुनध्यीयीत बुद्धिमाम्॥

यथा ध्यानगता योगी शुद्धिं पश्येत् सर्वतः।

त्रिधिधं त्रिप्रकारं तु अनेकाकारसम्भवाम्॥

सिद्धिं मन्त्रयुक्तिं च समाधिं चैव कीर्तितम्।

धारण्या बोधिसत्त्वानां त्रिविधैव समोदिता॥

अनेकाकारवरोपेता मन्त्राश्चैव सुपूजिता।

लौकिका लोकमुख्याश्च तथा लोकोत्तरा सदा॥

सौगतीवर्त्ममास्थाय ध्यानं ध्यानपरम्परा।

सिध्यन्ते सर्वमन्त्रा वै सर्वसत्त्वार्त्थदर्शनाम्॥

प्राप्नुवस्तं जनाः सर्वे ध्यायतां सर्वतो हिताम्।

यशः कीर्तियथायुष्यं सर्वव्याधिप्रणाशनम्॥

मार्गतत्त्वार्थदं ज्ञानं जीवितं चापि सुपुष्कलम्।

प्राप्नुवध्वं नराः श्रेष्ठाः नित्यं ध्याने समाहिताः॥

एष योगः समासेन निर्दिष्टो मुनिवरैः पुरा।

अधुना च मयोक्तेदं विधियोगं समाहितम्॥

मयाप्यनुत्तरां बोधिं सम्प्राप्ते मेऽमृते पदम्।

एभिरेव समायोगैः मन्त्रैश्चापि सुपूजिताः॥

ध्यानकर्मगतैः दिव्यैः शुभैश्चापि समाधिभिः।

प्राप्यमनुत्तरं ज्ञानं बुद्धत्वं भगवानाह॥

अपरं तु प्रवक्ष्यामि तन्मे निगदतः शृणु।

क्रीडार्थं सर्वमन्त्राणां क्रीडाशतकर्मजम्॥

ध्यानजेनैव प्रयोगेण शृणु मञ्जुरवो जनाः।

सदा हिताहितं ज्ञेयं मन्त्रिणां च विकुर्वणम्॥

ध्यानजेनैव योगेन कुर्याद् बालिशबुद्धिनाम्।

आदौ तावद् सदा ध्यायेन्महानागोच्छ्रयं जले॥

महोदधिः समन्ताद् वै शैलराजविभूषितम्।

रत्नशृङ्गं महोच्चं वै चतुरन्तमयं शुभम्॥

तत्रासीनं महात्मानं बुद्धं त्रैलोक्यविश्रुतम्।

सुनेत्रं धर्मभूयिष्ठं अमिताभं च जिनोत्तमम्॥

जिनपुत्रं सदा श्वेतं लोकेशं च यशस्विनम्।

पद्मकेतुं महासत्त्वं महाकरुणजोद्भवम्॥

सुनेत्रे मुनिवरे स्थाने कुमारं बालरूपिणम्।

सदा मञ्जुरवं विन्द्याद् विचित्रो भूतिलक्षणम्॥

इन्दीवरकरं वामे दक्षिणे सुगतानभम्।

जले योऽत्र महानागो अनन्तो नाम नामतः॥

सर्वश्वेतस्तथा नित्यं सप्तशीर्षजैः स्फटैः।

तं ध्यात्वा चिन्तयेज्जापी विचित्रालङ्कारभूषितम्॥

सुगतात् सम्प्रतीच्छन्तं तन्मुखं चापि चिन्तयेत्।

एवं नन्दोपनन्दौ च नागराजौ महर्द्धिकौ॥

तत्प्रमाणोच्छ्रितौ वृद्ध्या द्विगुणं चापि सर्वतः।

अनन्तकर्कोटकस्तुल्यैः पद्मश्चापि महर्द्धिकः॥

कुलिकः शङ्खपालश्च कपिलश्चापि वर्णतः।

महापद्मोऽथ नागेन्द्रः पद्माभश्च लते सदा॥

वासुकिस्तक्षकश्चैव ईषित्किञ्जल्कवर्णतः।

पद्माभौ सर्वतो ज्ञेयौ विचित्राकारभूषणौ॥

शङ्खश्चैव महानागो शुक्लाभो वर्णतः शुभौ।

शङ्खपालो मणिर्नागः श्वेताभो ईषि वर्णतः।

सागरश्च महानागः मुचिलिन्दश्चैव विश्रुतः॥

कृष्णनागोऽथ सर्वत्र कृष्णवर्णाः प्रकीर्तिताः।

सर्वे तुल्यप्रमाणास्तु नन्दोपनन्दोऽथ सुर्च्छ्रितौ॥

एलपत्रोऽथ नागेन्द्रो भोगवां लोकविश्रुतः।

सागरो ह्युरगाध्यक्षः अचिन्त्याद्भुतचेष्टितः॥

करोति विविधां कर्मां शुक्लांश्चैव निबोधताम्।

मृतकं विषसुप्तां वा सागरे नैव कारयेत्॥

वस्त्रेनावृत कृत्वा वै ध्यानयोगेन धीमता।

आकृत्य सागरे स्थाने शीघ्रमुत्तिष्ठते मृतः॥

विषसुप्तस्य सदा नागो पादेनाक्रम्य चालयेत्।

तं न्यसेत् सागरे स्थाने निर्विषो भवति तत्क्षणात्।

एवं ज्वरपिशाचांश्च क्रव्यादां व्यन्तरां शुभाम्॥

रक्षसां प्रेतकूष्माण्डां पिशाचोरगमातराम्।

ग्रहश्चैव सदा लोके परप्राणहरां नराम्॥

+ + + + + + +विचित्रा श्रममाश्रिता।

मानुषिं तनुमाश्रित्य तिष्ठन्ते भुवि मानुषाम्॥

गृह्णन्ते बालिनां सत्त्वां तेषां ध्यानेनानेन चिन्तयेत्।

सागरस्य तु नागेन्द्रा चिन्त्यादग्रतोत्थितम्॥

ध्यायीत मातरं सत्त्वं क्षिप्रं मुञ्चति बालिसम्।

एवं दष्टमदष्टानां कीटलूतोत्थितां नृणाम्॥

दद्रुकिटिमकुष्ठानां पामाकण्डूविचर्चिकाम्।

अन्यां चोत्थितां चैव नित्यं भगन्दररोहिताम्॥

प्लीहमेदोदरां चैव तथा पद्मं सुपद्मकम्।

यक्षाणां सपद्मकं चैव तथा पद्मोत्तरं कृशम्॥

ज्वररोगगतां सर्वां बाध्यन्तां नृजबालिसाम्।

सर्वां सागरे स्थाने सन्यसेत् पन्नगोत्तमे॥

विविधायासदुःखानां सर्वव्याधिगदर्त्तिनाम्।

सन्यसेत् सागरे स्थाने ध्यानचिन्त्याहितेन वै॥

क्षिप्रं मोचयते नागः सुगताज्ञां प्रतीच्छकः।

एवञ्चमुरगैः सर्वैः सर्वकर्मकरैः शिवैः॥

उरगाध्यक्षैस्तदा सर्वं व्याप्तमम्भोदतिर्यगम्।

समन्तात् सर्वतो श्रेष्ठा उरगाध्यक्षा महर्द्धिकाः॥

समयज्ञा मञ्जुघोषस्य आज्ञे दीक्षणतत्पराः।

दैवयक्षाश्रिता नित्यं मानुषाणां शुभोदयाः॥

व्यतिमिश्रैस्तु कर्मज्ञैर्व्यतिमिश्रफलोदया।

काले वर्षधरा नित्यं धार्मिकां वृत्तिमाश्रिताम्॥

समन्तात् तोयधाराभिः + + + + + + +।

सस्यौषध्ये तथा ब्रीह्यां निष्पन्ने फलति हैतुकम्॥

मेघरूपेण माश्लिष्टा पर्यटन्ति महीतले।

महर्द्धिका महेशाख्या कल्पस्था महोदया॥

तेषां भोगवती नाम पुरी अम्भोदमाश्रिता।

यदा धर्मपरा मर्त्त्या जम्बूद्वीपेषु सर्वतः॥

ततो तिष्ठन्ते महानागाः परिवाराश्च तेषु वै।

तदा देवासुरे युद्धे अनुभूय जयैषिणः॥

जम्बूवृक्षगता तस्थुः जम्बूद्वीपं च मध्यतः।

पुनः पुनर्नरां भेजे सर्वत्राप्रतिगोचराः॥

सर्वशुक्लगतां कर्मां तेषु नागेषु योजयेत्।

कुर्वन्ति समये भ्रष्टा ये नागा जलमाश्रिता॥

कीटवोपद्रुतां सर्वां विषां स्थावरजङ्गमाम्।

मुमुचुः सर्वतो नागा आसुरो पक्षमाश्रिताः॥

प्रमाथी झलुझलुश्चैव कपर्दी चापि महोदधिः।

भीमो भीषणश्चैव दुर्मुखो बहुमुखस्तथा॥

एते चान्ये महानागा अतिदर्पाभिमानिनः।

कृष्णकर्मे स्थिता नित्यं व्यतिमिश्रेण वा परे॥

महेशाख्या भीमरूपाश्च विषोग्रथिजनाजने।

अधर्मिष्ठा यदा मर्त्त्या जम्बूद्वीपनिवासिनः॥

तदा महाभयं कुर्युर्विषमूर्च्छातिदारुणम्।

छर्दिर्भ्रमिश्च जायेत महामार्योपद्रवां बहूम्॥

दुष्टशरीसृपां लोके विसृजन्त्यहितोदया।

एवं ते च महानागा बहुप्रकारोपद्रवाशुभा॥

अनावृष्टि अनावृष्टिं विसृजन्त्यहिते रता।

तेषां च दर्पनाशाय इदं ध्यानं समारभेत्॥

मञ्जुघोषं महाधीरं बोधिसत्त्वं महर्द्धिकम्।

वामोत्पलकरं सव्यं दक्षिणेन वरप्रदम्।

भिन्नगोरोचनाभासं हेमकुङ्कुमविद्विषम्॥

गरुडं पक्षिराजानं आरूढं सुगतात्मजम्।

ध्यायीत मस्तके तेषां दंष्ट्रिणां सर्वविषोत्कटाम्॥

ततस्ते भिन्नहृदयाः त्रस्तोद्विग्नमानसाः।

पुनर्निवर्त्त्य गच्छन्ते प्रविशन्ते च रुषालयम्॥

उत्पातां बहुविधां दृष्ट्वा अशुभांश्चैव सशब्दकाम्।

एवं ध्यायीत मन्त्रज्ञ मञ्जुघोषं समाहितः॥

बहुप्रकारा मन्त्रज्ञ नागदंष्ट्रां प्रकल्पयेत्।

अनेकाकाररूपास्तु अण्डजांश्च प्रदंशिनाम्॥

वक्ष्ये सम्यग्बुद्ध्या शास्त्रदृष्टेन कर्मणा।

तद्गोत्रजश्च उरगा वै दशन्ते भुवि मानुषाम्॥

तेषां विधिदृष्टेन शास्त्रेणैव गरुत्मना।

कुर्यात् सर्वाणि कर्माणि पक्षिराजेन देहिनाम्॥

कृष्णशुक्लादयो नागा ये नागा भुवि मण्डले।

विचरन्ति महीं कृत्स्नां सूर्यरूपेण देहिनाम्॥

साध्यासाध्ये ततो ज्ञात्वा विषं च चतुरो हिताम्।

पित्तश्लेष्मगतं चैव वायुव्यतिविमिश्रिताम्॥

श्लेष्मणा वारुणेत्याहुः शुक्लवर्णोऽथ मण्डलः।

पित्तमज्ञेयजं नाम तृकोणाकारसम्भवाम्॥

अग्निवर्ण सदा रक्तमीषद् बाहुभपिङ्गलम्।

कुलस्थमिव बन्धान्तं चतुरस्रं व्यतिमिश्रितम्॥

माहेन्द्रमिति तं ज्ञेयं कृष्णवर्णं महोन्नतम्।

श्लेष्माणां च गजेत्याहुः पित्तजं द्वेषसम्भवम्॥

मोहं वायुजं ज्ञेयं व्यतिमिश्रं कृष्णवर्णितम्।

तदेव सात्त्विकं विन्द्याच्छेलष्मणं शुक्लवर्णितम्॥

राजतं पैत्तिकं ज्ञेयं पीतरक्तावभासितम्।

तामसं वातिकं ज्ञेयं व्यतिमिश्रहितोत्वताम्॥

व्यन्तरेष्वपि सर्वेषु कीटविस्फोटकादिषु।

सरीसृपेषु च सर्वत्र व्यतिमिश्रं लिङ्गमीक्षयेत्॥

कृष्णाभं तत्रमुद्यन्तं मञ्जुघोषं सुचिन्तयेत्।

गरुत्मस्थं सुखासीनं बालरूपं सुखोदयम्॥

चिन्तयेद् व्यन्तरैर्दुष्टं मानुषेषादसन्धिषु।

ततोऽर्द्धं चिन्तयेद् दिव्यं कुमारं बालरूपिणम्॥

विश्वरूपं महात्मानं गरुत्मत्तोपरिस्थितम्।

तदासीनं महाभागं शरत्काण्डाकारविद्विषम्॥

ऊसभ्यां चिन्तयेद् धीमान् नाभिस्यादध्योमगम्।

पीताभं चिन्तयेद् ध्यायी उरःस्थाने सुसुप्तिगम्॥

मञ्जुघोषं महावीर्यं पक्षिराजाग्रवाहनम्।

शिरःस्थाने तथाचिन्त्यः ध्यायीत गरुडध्वजम्॥

शुक्लाभं वैनतेयस्थं बहिस्थं चाथ चिन्तयेत्।

सात्त्विके विषमूर्च्छा तु श्लेष्मं वमन्ति सर्वतः॥

लाला च स्रुवतेऽजस्रं निमज्जते च मुहुर्मुहुः।

तं विद्यात् सात्त्विकं दष्टं शुक्लपक्षाहितो भवेत्॥

भ्रमते कम्पते चैव स्तब्धे क्षोभे सर्वेश्वरः।

विषे च पित्तजे मूर्च्छा दाघो जायति दारुणाम्॥

राजसे दंष्ट्रिणे दष्ट्रो एतद् भवति चेष्टितम्।

तामसे तमसं मोहः मूर्च्छा निद्रा च जायते॥

व्यतिमिश्रैर्व्यतिमिश्रं तु चेष्टा भवति दारुणम्।

सत्त्वे भवति शुक्लाभः दंष्ट्रे भवति मानुषे॥

राजसी पीतवज्ज्ञेयः छविवर्णाश्च किञ्चन।

कृष्णवर्णाथ मोहात्मा छविवर्णाथ जायते॥

व्यतिमिश्रे धूम्रवर्णस्तु आपाण्डुश्चापि क्वचित्तथा।

सात्त्विको राजसश्चैव शुक्लपक्षाहिजोद्भवा॥

तामसो मिश्रिणश्चैव अहिजा कृष्णवर्णिनाम्।

तत्कुलाकुलिनो ह्येते उरगाध्यक्षेश्वरो सु वे॥

आसुरं पक्षमाश्लिष्टा विचरन्ति महीतले।

दंशतेषां मानुषां लोके अधर्मिष्ठा नागजातयः॥

क्रूराः क्रूरतरा लोके आहारार्थपरा सदा।

केचिद् विहेठनार्थाय दंष्ट्रिणो प्राणहरा परे॥

विषनिर्नाशनार्थाय सर्वदंष्ट्रोपजीविनाम्।

इदं ध्यानवरं मुख्यं यथालिङ्गानुवर्निनम्॥

सन्न्यसेत् प्राणिनां चिन्त्या क्षिप्रं मुञ्चति तद्‍विषम्।

सर्वदा सर्वकालं तु सर्वव्याधिषु योजयेत्॥

सर्वोपद्रवां हन्ति ध्यानेष्वेव प्रतिष्ठिता।

यथा नागा तथा सत्त्वा राक्षसा ग्रहमातरा॥

परप्राणहराश्चैव दुष्टचित्ताथ मानुषाः।

सर्वव्याधिमता लोके लिङ्गेष्वेव तु योजयेत्॥

ध्यानं ध्येयं तथा मुक्तिं कर्मं चापि सदा न्यसेत्।

कुमाररूपं माङ्गल्यं पवित्रमघनाशनम्॥

मञ्जुघोषं महावीरं जिनपुत्रं महर्द्धिकम्।

सगरुत्मन्ते सुखासीनं उदयन्ते रविमण्डले॥

ध्यायीत सर्वतो मुख्यं मन्त्रनाथेश्वरं विभुम्।

सर्वत्र चिन्तितो ध्यानसर्वव्याधिप्रनाशनः॥

सर्वकर्माणि कुर्वीत सर्वसत्त्वेषु सर्वदा।

सर्वं स्तम्भयते ह्येष सर्वं शोभयते शुभम्॥

सर्वमन्त्राश्च लोकानां अस्मिन् ध्याने निबोधिता।

सिद्धिं गच्छन्ति ते क्षिप्रं परकल्पेऽपीहोदिता॥

ये च ताथागता मन्त्रा वज्राब्जकुलयोरपि।

+ + + + + शक्रेन्द्रब्रह्मरुद्रयोः॥

आदित्यवसवेन्द्राणां नक्षत्रग्रहज्योतिषाम्।

गरुडोरगयक्षाणां ऋषिमुख्या सपूतनाम्॥

सर्वमन्त्राश्च सिद्ध्यन्ते अस्मिं कल्पे तु ध्यायिने।

परतन्त्रविधानेऽपि स्वतन्त्रेणाभ्यन्तरेण वा॥

कुर्यात् कर्मसिद्धिं च क्षिप्रं ध्यानगतेन वै।

आदित्यमण्डले ध्यात्वा उदयन्ते विश्वरूपिणम्॥

कुमारं बालिशाकारं शिशुभूषणभूषितम्।

आरूढमण्डले दीप्तं गरुत्मन्तेऽथ वैनते॥

मीदृशाकारमव्यक्तं मूर्जे चापि सुचिन्तिते।

दृष्ट्वा परबलस्तम्भं जायते च मनीषितम्॥

सर्वे च दष्टाः स्तभ्यन्ते नृत्यन्ते च परस्परम्।

हसन्ते आतुराः सर्वे ग्रहाविष्टाश्च देहिनाम्॥

ज्वरार्ता मूर्च्छिता ये च उत्तिष्ठन्ते द्रुतं ततः।

क्रन्दन्ते विविधा आर्ता भीमनादं करोति वै॥

ग्रहमातरकूष्माण्डैः गृहीतानां भुवि मानुषाम्।

एभिर्लिङ्गैस्तदा मन्त्री लक्षयेदेतां समाहितः॥

इच्छया मोचयेत् क्षिप्रं विषसङ्क्रमणं तु वै।

क्रीडापयति भूतानां तदा योगी रिरिंसया॥

आदित्यमण्डले नाडी प्रयोक्तव्या विषमूर्च्छिते।

रविनाडीप्रयोगेण सर्वप्राणि स चालयेत्॥

निर्विषो भवते सुप्तः विषस्थावरजङ्गमः।

ततोत्तिष्ठते क्षिप्रं विषसुप्तो न संशयः॥

अन्यश्च वर्द्धते क्षिप्रं विषार्त्तो भुवि भूतले।

पुनरन्यो पुनश्चापि अन्यादन्यतरोऽपि वा।

एवम्प्रकारैः सर्वत्र शतशोऽथ सहस्रः।

यावन्नाडीप्रयोगेण तावद् भूतानि पाचयेत्॥

वस्त्रकुद्यस्तथा कुम्भे अस्मतोयहुताशने।

क्षणेन चालयेन्नाडीं तत्रस्थं विषमाविषे॥

सर्वे ह्यातुराः स्वस्थास्तत्क्षणादेव भूतले।

एवमाद्यप्रयोगेण कुर्यात् कर्म शताष्टकम्॥

असङ्ख्यं च विधिं कुर्यात् परमन्त्रासृतेन वा।

एष प्रयोगः समासेन ध्यानो ह्युक्तोऽथ जापिनाम्॥

प्रयोक्तव्यः कल्पनिखिलः परतन्त्रो गरुत्मनः।

मतं सङ्कल्पजं प्रोक्तं शैवं चापि विशेषतः॥

सर्वे च लौकिका मन्त्रा प्रयोक्तव्या ध्यानविस्तरे।

इह मञ्जुरवे कल्पे ध्यानेनैव विशेषतः॥

सर्वतन्त्रप्रयोगैश्च मन्त्रैश्चापि सुपूजिते।

मतयो येऽपि कल्पार्थाः प्रयोक्तव्या इह ते सदा॥

योगेऽस्मिन् ध्यानये दिव्ये कल्पराजोदिते हह।

ध्यानेन सर्वे नियोक्तव्या युक्तिहेतुनिरञ्जने॥

सूक्ष्मश्चित्तविषये मन्त्रसिद्धिनिबन्धने।

मुनिपुत्रोदिते शुद्धे सर्वबुद्धार्थमोदिते॥

जापिनो ध्यायते नित्यं सर्वसिद्धिसुपुष्कला॥



इति बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रियमूल-

कल्पाद् अष्टत्रिंशतिमः महाकल्पराजपटलविसराद् द्वितीयसर्व-

लोकतत्त्वार्थतारक्रीडाविधिसाधनोपयिकसर्वकर्मध्यानपटलनिदेशः

परिवर्तः समाप्तः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project