Digital Sanskrit Buddhist Canon

अथैकोनचत्वारिंशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
अथैकोनचत्वारिंशः पटलविसरः।



अथखलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य सर्वांश्च लोकधातुं बुद्धचक्षुषा सर्वसत्त्वानामवलोक्य पुनरपि मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। अस्ति मञ्जुश्रीः ! त्वदीयमन्त्रतन्त्रमुद्रापटलविसरे सर्वलौकिकलोकोत्तरसमयमण्डलानुप्रविष्टे सामान्याविधानचर्यानिर्हारे समनुप्रवेशसत्त्वामाश्रये अचिन्त्याचेष्टित सर्वमन्त्राणां सर्वमुद्राणां सर्वमण्डलानां सर्वसत्त्वानां सर्वमन्त्रानुप्रविष्टानां निधाननिर्देशचर्या समासतो व्याचक्षते तच्छ्रूयताम्॥



अथखलु मञ्जुश्रीः कुमारभूतो बोधिसत्त्वो महासत्त्वः भगवतश्चरणयोर्निपत्य अध्येषयति स्म। अध्येषयतु मे सुगतः अस्माकमनुकम्पायै लोकस्यानुग्रहाय। तद् भविष्यति महतो जनकायस्यार्थाय हिताय सुखाय लोकानुकम्पायै। तद् वदतु मे सुगत ! सर्वमन्त्राणां जपहोम‍आप्यायनपूजननियमसर्वतन्त्रमुद्रेषु समयप्रवेशानुनिगमसाधनोपयिकविधानं सर्वमण्डलेषु सर्वलौकिकलोकोत्तरविधिविशेषणोपयिकपटलविसरम्।



एवमुक्ते भगवां मञ्जुभाणी तदन्तरमभूत् सर्वज्ञ वान्यं तूष्णीं तस्थौ तदन्तरम्॥



तुष्टः मञ्जुरवो धीरः सुगतज्ञ प्रतीच्छयम्।

सर्वबुद्धाश्च सर्वत्र सर्वधातुसमागता॥

बोधिसत्त्वास्तु सर्वे वै सर्वश्रावकखड्गिणः।

सर्वसत्त्वा त्रिधा ये च अनादिभवचक्रके॥

निबद्धा योनिजा ये च गतिपञ्चसुयोजिता।

सर्वभूतगणाध्यक्षा राक्षसोरगमानुषा।

दैत्यदानवयक्षाश्च कूष्माण्डकटपूतना।

देवमुख्या गणाध्यक्षा मातराश्च महर्द्धिकाः॥

सर्वे ग्रहगणा लोके चन्द्रसूर्या परेस्तथा।

ब्रह्मेन्द्रधनदा रुद्रा विष्णुस्कन्दविरूढका॥

धृतराष्ट्रकुबेराश्च सर्वे वै वसवस्तथा।

सर्वभूताश्च सर्वत्र सत्त्वधातुसमाश्रिताः॥

शुभाशुभफलै कर्मैः निबद्धा गतिसूत्रके।

मुक्तामुक्तश्च सर्वत्र आगता समये स्थिताः॥

बुद्धाधिष्ठानबला ऋद्ध्या शृण्वन्तेह त्रिधा स्थिताः।

शुभयोनिजसम्भूता अशुभैश्चैव स्वकर्मभिः॥

शृण्वन्ते सर्वबुद्धा वै शुद्धावासपुरे तदा।

तदा धर्मं सौगतं चार्यं अग्रधर्मशुभोदयम्॥

मन्त्रमुद्रत्रिधायुक्तं नियतं चापि कीर्तितम्।

क्षेमं शिवतमं मार्गं आर्याष्टाङ्गिकं तदा॥

त्रिधा कर्मपथं श्रेष्ठं निर्वाणपुरगामिनम्।

दानशील तदा ध्यानं तृधा मार्गोपदेशितम्॥

भगवानुवाच सर्वज्ञ मन्त्रमार्गाङ्गप्रवर्तनम्।

ईषस्मितमुखो धीर मञ्जुघोषं निरीक्ष च॥

वाक्यं च शुभया युक्तं इदं ब्रह्मरवो तदा।

शृण्वन्तो भूतगणाः सर्वे स्थिता सौम्या विशारदाः॥

मा वो समयाद् भ्रंशो भविष्यति अनर्थकम्।

अहितं दीर्घरात्रं वो बुद्धवाक्यमजानकाः॥

प्रतिष्यथ तमस्यन्धे वत्स दूरीभविष्यथ।

इदं वः श्रेयसे युक्ता मन्त्रमुद्रा समीरिताः॥

करिष्यथा सदा लोका सदानुग्रहनिग्रहम्।

मन्यथा मत्क्रियायुक्तं क्रोधो वै च यमान्तकः॥

करिष्यति न सन्देहः सदा निग्रहतां युगे।

आदौ पुष्पाभिकीर्णे वै विविक्ते विजने सदा॥

कर्तव्ये मण्डले बुद्ध्या ध्यानेनावर्ज्य सर्वतः।

आदौ च सर्वबुद्धानां पद्मं ध्यायीत बुद्धिमाम्॥

द्वितीयं पद्ममुद्यन्तं अर्कस्यैव महाद्युतिम्।

तत्रस्थो मञ्जुवरः श्रीमां कुमाराकारचिह्नितः॥

पञ्चचीरकमूर्धानो जानुकर्णककोर्परः।

फलितः कृताञ्जलिपुटो बालो पृच्छन्तं सुगतं विदुम्॥

वाचं च शुभया युक्तां वदन्तो सुगतालये।

यो वै सर्वबुद्धानां महापद्मं स्फटिकोद्भवम्॥

वैदूर्यमयं पद्मं किञ्जल्कं हेमजोद्भवम्।

महामरकतीनालां कर्णिकां सह हेमजम्॥

महाविटपसंघातं महारत्नविभूषितम्।

पद्मरागमयैः कलिकैः अनेकाकारसुभूषितैः॥

अश्मगर्भमयैर्दिव्यैः अङ्कुरैश्च विभूषितम्।

पद्मं मुनिवरे ध्यात्वा महोच्चं गगनाश्रितम्॥

तस्मान्न्यूनतरं पद्मं समचिह्नं सुशोभनम्।

तन्मनः धामतो ध्यायेन्मन्त्री प्रत्येकार्हश्रावकाम्॥

तस्मान्न्यूनतरं पद्म तृतीयं चित्तेन यत्नधीः।

चतुर्थं पद्ममावर्तं तस्माद्ध्रस्वतमं विदुः॥

ध्यायीत पञ्चमं पद्मं ह्रस्वाह्रस्वतमं सदा।

समाकारसमोद्योतं व्योमं संस्थितसर्वतम्॥

कुर्यात् तस्य विदो पद्मं चित्तया सप्तगे स्थितम्।

वज्रपाणेः तथा पद्मं उदयन्तं रवेर्यथा॥

दक्षिणेन विदोः पद्मे तथा मञ्जुरवः सदा।

ततो ह्रस्वतरं पद्मं लोकीशस्य महात्मनः॥

तृतीयं पद्ममित्येव समन्तद्योतिलाभिने।

चतुर्थं पद्ममित्येव अक्षयप्रतिभानता॥

ईषिद् विमलगते ह्रस्वं कमलं पञ्चमतत्त्विते।

तस्मात् षष्ठतमो यो पद्मः आर्यं चाधर्मसंज्ञितम्॥

अधश्चैव समन्ताद् वै उदधिं चापि चिन्तयेत्।

महानागेऽर्धनिर्यान्तोऽनन्तः नन्दोपनन्दकौ॥

सर्वश्वेता महानागाः सर्वालङ्कारभूषिताः।

अब्धोर्जाता स्मितमुखो गगनालम्बनदृष्टयः॥

सप्तशीर्षमहाभोगो मणिकुण्डलभूषिता।

पुरुषाकारदिव्यास्तु अर्धभोगोरगस्तथा॥

सप्तस्फटा ससौम्यास्तु अर्धचक्षुर्गतोर्ध्वार्मा।

वामतो मुनिवरा पद्मे पञ्चमुष्णीषसंस्थिताम्॥

चक्रवर्ति तथाद्यन्तां शक्रायुधसुतेजिताम्।

एकाक्षरश्चक्रवर्तिस्तेजोराशिः सितोन्नतः॥

अभ्युन्नतो जयोष्णीषविद्याराजमहर्द्धिकः।

वज्रपाणिश्च यक्षेशः अधश्चैव सुचिन्तयेत्॥

एतेषु चित्तं धीमां रूपिभिः सर्वदा सदा।

आत्मनश्च धियो युक्तो मन्त्रविन्मन्त्रराड् जमे॥

तत्रस्थं नियमस्थं वै पद्मपत्रोपविष्ट वै।

ध्यायीत अधश्चात्मानं पर्यङ्केनोपविष्ट वै॥

सर्वपापांश्च देशी मुनिनामन्तिके सदा।

तत्रस्थो नियमजो रूषी अध्येष्य मुनिवरां वराम्॥

धर्मचक्रानुवर्तन्तां तिष्ठन्तां सुगतात्मजाम्।

तेषां पुण्यमतुलम् अनुमोद्येव जापधीः॥

सुशुक्लमालतीकुसुमां पुन्नागं नागकेसराम्।

चम्पकाशोकतिलकां तगर्यांश्चैव समल्लिकाम्॥

क्षिपेत् पुष्पाञ्जलिं दिव्यां सव्यांश्चैव सुशोभनाम्।

सभूतामप्यभूतां वा धिया युक्तां सुशोभनाम्॥

विविधां पूजावरां कुर्युर्विद्या च इव मनोरमाम्।

विविधां धूपवरांश्चैव तथा गन्धानुलेपनाम्॥

चित्तेनेव तु तत् कुर्यात् सभूता मध्यभावतः।

निवेद्य वलिमन्त्रैर्वै प्रदीपांश्चैव तदा न्यसेत्॥

विविधाकारसम्पन्ना विचित्रश्चित्रभोजनाम्।

अनेकाकारसम्पन्नां दध्योदनमशालिकाम्॥

यबगोधूममुद्गैश्च खाद्यभोज्यसुभूषितैः।

निवेद्य सुगते भवत्या दद्याच्चात्मानमेव तु॥

तथ्येन नान्यथा चापि चित्त येनापि शिष्यते।

एषा श्रद्धा मया पूजा सर्वपूजेषु शिष्यते॥

मं ध्यात्वा जापिनः सर्वे नियतं बोधिमवाप्नुयात्।

सफला मन्त्रसिद्धिश्च जायते च न संशयः॥

इहैव जन्म निःसत्त्वा सिध्यन्ते मन्त्रदेवता।

अन्यजन्मान्तरे वापि केचित् सिद्ध्यन्ति मानवाः॥

विचित्रां भोगसम्पत्तिं विशेषांश्चापि पुष्कलाम्।

विविधा कालमनोवाग् ध्यानं चापि त्रिधा पुरा॥

बुद्धैर्बुद्धशतैश्चापि प्रत्येकार्हश्रावकैः।

त्रिःप्रकारा तथा बोधिः प्राप्नुवन्तो यशस्विनः॥

एतैस्त्रिप्रकारैस्तु मन्त्रसिद्धिरिहोदिता।

त्रिप्रकारैस्तु सत्त्वाख्यै उत्तमाधममध्यमे॥

त्रिधा कर्मसमुद्दिष्टम्।

प्रणीतं ध्यानतां प्रोक्तं मध्यमं शीलजं स्मृतम्॥

कन्यसं दानजं मुख्यं तच्चैव तु पुनस्त्रिधा।

प्रणीतं धर्मदानं तु मध्यमं तु गतं तथा॥

वाक्यमामिपदानं तु कन्यसे व तु कीर्त्यते।

शीलं चापि त्रिधा प्रोक्तमित्युवाच मुनिः पुरा॥

बुद्धत्वपरिणामाख्यं अग्र्यं शीलमिति स्मृतम्।

प्रत्येकबोधो मध्यं तु कन्यसं श्रावकोद्भवम्॥

एतल्लोकोत्तरं शीलं लौकिकं तु प्रकथ्यते।

तच्चापि त्रिविधा ज्ञेयं सास्रवोत्पत्तिकारणम्॥

मुमुक्षुबुद्धिभिर्भक्त्याधिज्ञप्त्या अभिज्ञसम्भवा।

श्रेष्ठा ज्येष्ठतमा लोके कथ्यन्ते ऋषिवरैः सदा॥

एतदग्रमयं लोके शीलमाहुर्मनीषिणः।

मध्यमं देवज ज्ञेयं कन्यसं तु नृपद्वराम्॥

तच्चापि त्रिप्रकारैस्तु त्रिधा कर्मेषु योजितैः।

त्रिधा च त्रिविधैश्चैव पुनर्मुक्तं त्रिद्विसप्तपञ्चशः॥

त्रिसप्तं सप्ततिं तच्चापि त्रिधा भिन्नम्।

प्रादुर्भूतोऽङ्कुरोऽङ्कुराः ध्यानजं चैवमत्यन्तो॥

सुरेश्वरौ पुनः त्रीणि पुनरष्टाष्टभूषितम्।

यथैव पूर्वनिर्दिष्टं ध्यानेष्वेव च कथ्यते॥

एवं तरङ्गवद् भिन्नं पुनर्ज्वालेव गच्छति।

बुद्‍बुदाकारवद् ज्ञेयं क्षणोत्पत्तिप्रभङ्गुरम्॥

एवमेवाद्यप्रयोगेन शतधा भिद्यते पुनः।

सहस्रशश्च सदा ज्ञेयमसंख्येयाद्यलक्षितम्॥

साध्यते ध्यानजं कर्म अग्र्यं मानसोद्भवम्।

तस्माद् ध्यानवतं मन्त्रं चित्तं बोधाय नामितम्॥

अयनेनैव ते सिद्धिं लप्स्यन्ते मन्त्रदेवताम्।

तस्मात् सर्वप्रयत्नेन जापिभिः सिद्धिलिप्सुभिः॥

कर्तव्या मानसी पूजा बुद्धानां सर्वतः सदा।

इहैव जन्मनि सिद्धिं नित्यं ध्यानरतस्य तु॥

सर्वत्राप्रतिहतो ह्येष ध्यानजो शीलसंवरः।

दानतो विभवो धर्मः शीलतो सुरवरोदयम्॥

उत्पत्तिध्यानादाना श्रवे।

एतत् संक्षेपतो ह्युक्तं जापिनां मन्त्रसिद्धयै॥

यं बुध्वा मन्त्रिणः सर्वे क्षिप्रमन्त्रेषु सिद्धये।

क्षिप्रं चानुत्तरां बोधिं प्राप्नुवन्ति न संशयमिति॥



बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रात् आर्यमञ्जुश्रियमूलकल्पात्

सप्तत्रिंशतिमः महाकल्पराजपटलविसराद् उत्तमसा-

धनोपयिकसर्वकर्मार्थसाधनतत्त्वेषु

प्रथमः ध्यानपटलविसरः

परिसमाप्त इति।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project