Digital Sanskrit Buddhist Canon

अथाष्टात्रिंशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Athāṣṭātriṁśaḥ paṭalavisaraḥ

अथाष्टात्रिंशः पटलविसरः।



अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। शृणु मञ्जुश्रीः !



संक्षेपतः मुद्राणां लक्षणं मन्त्राणां च सविस्तरम्।

संक्षेपतश्च मण्डलानां विधिः समयानुवर्तनम्॥

+ + + + + + + ++ + मुद्रास्थानं च तेषु वै।

सरहस्यं सर्वमन्त्राणां सर्वमन्त्रेषु मण्डलम्॥

एतत् सर्वं पुरा प्रोक्तं सर्वबुद्धैर्महर्द्धिकैः।

मन्त्राणां गतिमाहात्म्यं कथितं सर्वकुलेष्वपि॥

आदिमद्भिः पुरा बुद्धैः सत्त्वानां हितकारणात्।

प्रवर्त्य मन्त्रचक्रश्च धर्मचक्रमनुत्तरम्॥

शान्तिचक्रानुगा याता भूतकोटिं समाशृताः।

शान्तिं जगाम सर्वे ते बुद्धा लोकमहर्द्धिका॥

एतत् सर्वं पुरा ख्यातमादिमद्भिस्तथागतैः।

अहमप्यपश्चिमे लोके देशेयं त्वयि मञ्जुश्रधीः॥

एतत् कृत्वा तदा वाच्यं बुद्धस्येदं महाद्युतेः।

कुमारो मञ्जुघोषो वै प्राञ्जलिं कृतमग्रतः॥

उवाच वदतां श्रेष्ठं सम्बुद्धं द्विपदोत्तमम्।

वदस्व धर्मं महाप्राज्ञ ! लोकानां हितकारणम्॥

संक्षेपार्थमविस्तारं गुणमाहात्म्यफलोदयम्।

एवमुक्तस्तु मञ्जुश्रीस्तूष्णीम्भूतस्तस्थुरे॥

अथ ब्रह्मेश्वरः श्रीमां कलविङ्करुतस्वनः।

कथयामास तत् सर्वं मुद्रामण्डलसंस्थितम्॥

मन्त्रं तन्त्रं तदा काले शुद्धावासोपरि स्थितो।

कथयामास सम्बुद्धः शाक्यसिंहो नरोत्तमः॥

शृणु त्वं कुमार ! मञ्जुश्रीः ! मुद्राणां विधिसम्भवम्।

मन्त्राणां तन्त्रयुक्तीनां गुणमाहात्म्यविस्तरम्॥

आदौ सर्वतथाचिह्नं सत्त्वासत्त्व यथा च तम्।

आकारं चरितं चेष्टा सर्वमिङ्गितभाषितम्॥

द्विहस्तपादयोर्मूर्ध्ना एकहस्ताङ्गुलयोजना।

सर्वं तं मुद्रमिति प्रोक्तं आदिबुद्धैः पुरातनैः॥

कलशं छत्रं तथा पद्मं ध्वज पताकं तथैव च।

मत्स्य वज्र तथा शङ्खः कुम्भश्चक्रस्तथैव च॥

विविधा प्रहरणा लोके यावन्तस्ते परिकीर्तिता।

उत्पलाकारमुद्रं च सर्वे ते मुद्रानुमण्डले॥

अनुपूर्वमिह स्थिता तथैते विधियुक्तमुदाहृता।

सदृशाकारस्वरूपेण सर्वासां चैव लिखेत् सदा॥

मण्डले मुद्रमित्युक्त्वा सामान्येष्वेव सर्वतः।

यथास्थानसुविन्यस्तं मुद्रास्ते परिकीर्तिताः॥

मण्डलेष्वेव सर्वेषु स्वाकारं चैव योजयेत्।

चक्रवर्ती तथा चक्रं उष्णीषे सितमुद्भवे॥

सितातपत्रं मुख्येन मण्डले तु समालिखेत्।

बुद्धानां धर्मचक्रं वै पद्मं पद्मकुले तथा॥

वज्रं वज्रकुले प्रोक्तं गजं गजकुलोद्भवे।

तथा मणिकुले कुम्भं नियुज्यात् सर्वमण्डले॥

दिव्यार्यौ च कुलौ मुख्यौ श्रीवत्सस्वस्तिकौ लिखेत्।

आलिखेद् यक्षकुले श्रेष्ठे फलं फलजसम्भवम्॥

महाब्रह्मे हंसमालिख्य शक्रस्यापि सवज्रकम्।

महेश्वरस्य लिखेच्छूलं वृषं चापि समालिखेत्॥

त्रिशूलं पट्टिशं चापि स्कन्दस्यापि सशक्तिकम्।

विष्णोश्चक्रमालिख्य गदांश्चापि सदानवाम्॥

नानाप्रहरणा देवा विविधासनसम्भवाम्।

याना च विविधाश्चापि तेषां मध्यं लिखेत् सदा॥

सरूपसंक्रान्तिप्रतिबिम्बं यथास्थितम्।

एषामन्यतरं ह्येकं लिखेत् सर्वत्र मण्डले॥

एकद्विकसमायुक्ता तृप्रभृत्यमसङ्ख्यका।

मण्डला जिनवरैः प्रोक्ता वेदिकापङ्क्तितत्समा॥

यदोद्दिश्य मण्डलं प्रोक्तं तं मध्ये तु निवेशयेत्।

आलिखेज्जिनकुले गर्भे बुद्धं वापि सुमध्यमे॥

अभ्यन्तरस्थं तदा बिम्बं शास्तुनो चापि मालिखेत्।

द्वितीयं पद्मकुले न्यस्तं तृतीयं वज्रकुलं लिखेत्॥

एवं सर्व तदालिख्य अनुपूर्व्या सुरासुराम्।

सर्वभूम्यां ततः पश्चाद् यक्षराक्षसमानुषाम्॥

तीर्थिकानां ततो लिख्य अनुपूर्व्या यथास्थितम्।

दिक्पालां च तथालिख्य सर्वांश्चैव विविधागताम्॥

संक्षेपादेकबिन्दुस्तु द्विप्रभृत्यमसङ्ख्यकाम्।

आलिखेन्मण्डलं यावदुपर्यन्तं दिशमाशृतम्॥

अप्रमेय तदा प्रोक्ता क्ष्मातलो मण्डलेऽस्य वै।

एकबिन्दुप्रभृत्यादि अपर्यन्ते वसुधातले॥

मण्डलस्य विधिः प्रोक्तो निर्दिष्टं त्रिविधस्य तु।

उत्तमं मध्यमं चैव कन्यसं चैव कीर्तितम्॥

उत्तमे उत्तमा सिद्धिर्मध्यमे मध्य उदाहृतम्।

कन्यसे क्षुद्रसिद्धिस्तु कथितं जिनवरैः पुरा॥

त्रिधा सर्वे मनोभिश्च सिद्धिरुक्ता जिनोत्तमैः।

महासत्त्वैर्महासिद्धिर्मध्यसत्त्वे तु मध्यमा॥

तृतीया क्षुद्रजन्तूनां क्षुद्रकर्म उदाहृतम्।

चित्तं प्रसादे बुद्धत्वं उत्तमे सफलोदयम्॥

नियतं प्राप्यते सत्त्वो मण्डलादर्शनेन वै।

मध्यचित्तस्तदा काले प्रत्येकं बोधिमाप्नुयात्॥

इतरे नियतं प्रोक्तां श्रावकत्वमनादरात्।

अबन्ध्यं फलमाहात्म्यं गतिशान्ति उदाहृतम्॥

मण्डलादर्शनस्वर्गं नियतं तस्य भविष्यति।

एव मुद्रवरां सर्वां मन्त्राश्चैव सविस्तराम्॥

नियुक्तास्त्रिविधाश्चैव त्रिःप्रकारा सुखावहा।

मुद्रा मण्डला प्रोक्ता मन्त्राणां कथ्यते हितम्॥

एकाक्षरप्रभृत्यादि यावत्सङ्ख्यं प्रमाणतः।

कथिता वचना मन्त्रे यावन्त्यस्ता प्रकीर्तिताः॥

वाक्प्रलापां रुदितं हसितं क्रन्दितं तथा।

सर्वजल्पप्रजल्पं वा सर्वमन्त्रहितं भवेत्॥

त्रिविधा ते च मन्त्राश्च त्रिप्रकारा समोदिता।

यथैव मण्डले ख्यातः मुद्रामन्त्रेषु वै तथा॥

विधिरेषा समायुक्ता निर्दिष्टा लोकनायकैः।

तथैव तत् त्रिधा याति अनेकधा चापि सहस्रधा॥

त्रिविधं त्रिःप्रकारं तु त्रिधा चैवमसङ्ख्यकाः।

चित्तायतं हि मन्त्रं वै न मन्त्रं चित्तवर्जितम्।

चित्तमन्त्रसमायुक्तः संयुक्तः साधयिष्यति।

तथागतकुले ये मन्त्रा ये च पद्मकुले तथा॥

ये च पद्मकुले गीता कुलेष्वेव च मापरैः।

सलौकिका सर्वमन्त्रा वै सर्वे त इह निःसृताः॥

जिने जिनसुतैर्यो मन्त्रो भाषितः सत्त्वकारणात्।

तां जपेद् योऽभियुक्तश्च नियतं बुद्धो हि सो भवेत्॥

मध्यस्था ये तु मन्त्रा वै तं जपेद् योऽभिजापिनः।

प्रत्येकबुद्ध आख्यातो नियतं तस्य गोत्रतः॥

येऽन्यमन्त्रे प्रवृत्ता वै प्रत्येकार्हभाषितैः।

सलौकिकैश्च सत्त्वे वै अभियुक्तो मन्त्रजापिनः॥

स भवेन्नियतं गोत्रस्थो श्रावकाणां महर्द्धिकाम्।

तत्रापि कर्म प्रयोक्तव्यः उत्कृष्टेऽधममध्यमे॥

शान्तिके बुद्धबोधिः स्यात् पौष्टिके वापि खड्गिनाम्।

इतरैः क्षुद्रमन्त्रैस्तु श्रावको बोधिमुच्यते॥

तत्रापि चित्तं द्रष्टव्यं तत् त्रिधा परिभिद्यते।

पुनश्च भिद्यते बहुधा असङ्ख्यं चापि भेदत इति॥



आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात्

महायानवैपुल्यसूत्रात् षट्त्रिंशतिमः मुद्रामण्डल-

तन्त्रसर्वकर्मविधिपटलविसरः

परिसमाप्त इति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project