Digital Sanskrit Buddhist Canon

अथ सप्तत्रिंशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Atha saptatriṁśaḥ paṭalavisaraḥ

अथ सप्तत्रिंशः पटलविसरः।



अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। अस्ति मञ्जुश्रीः ! त्वदीये मूलकल्पे अपरमपि मुद्रा परमगुह्यतमम्। सर्वेषां मुद्रातन्त्रविधानं सर्वमन्त्राणां सम्मतं सर्वमन्त्रैश्च सह संयोज्य सर्वकर्मप्रसाधकं सम्यक् सम्बोधिमार्गविशोधकं सर्वभवमार्गविनाशकं सर्वसत्त्वोपजीव्यं आयुरारोग्यैश्वर्यसर्वाशापारिपूरकं सर्वबोधिपक्षधर्मपरिपूरकं सर्वसत्त्वसन्तोषणकरं सर्वसत्त्वमनाशाभिरुचितसफलाभिकरणं सर्वकर्मकरं सर्वमन्त्रानुप्रसाधकं सर्वमुद्रामन्त्रसमेतम्। शृणु कुमार ! मञ्जुश्रीः !।



आदावेवोष्णीषलक्षणं भवति। प्रसृतसमोहानोभयपाणिना जिह्वा आनामिकाङ्गुल्यौ करमध्ये नखे नखं परिधाय अङ्गुष्ठाग्रेणोपगूढाः कन्यसौ सूच्याकारेण संहताग्रा तथैव मध्यमा समनखशिखासंसक्तमध्यगौ प्रदेशिन्यौ सूच्याकारसमन्तावभासोष्णीषमहालक्षणं नाम महामुद्रा। भवति चात्र मन्त्रः - आः मः हं। तदेव प्रदेशिन्यौ सञ्चार्य नखेन नखमालभेत्। मण्डलाकारसूच्याभिः कुदृष्टिशल्यविपर्यासदाहनं नाम महाधर्मचक्रमुद्रा। मन्त्रं चात्र भवति - ॐ धुन पातय छिन्द चक्रे वज्रिणि हूं समयिरवो भागे प्रदेशिन्यो निर्गुगुगुल्याकातृकं चतुर्मारारिशयनी। वज्रवीरा चलाचलमहा महीक्लेशासनी नाम महामुद्रा। मन्त्रं चात्र भवति - ॐ वज्राननि हूँ फट्।



पर्यक् तु मुद्रा मन्त्रा च संयुक्ता सर्वकर्मसु।

नश्यन्ते सर्वविघ्ना वै शरदैव यथाम्बुदा॥

चतुर्मारकृता ये च ये च विघ्ना ससुरासुराः।

नश्यन्ते दृष्टमात्रं वै मुद्रं पर्यमुत्तमम्॥

परतस्तुल्यमुद्दिश्य तृतीया मुक्तप्रदेशिनी।

सङ्कुचिताग्र्या शुभा चैव मुष्टिस्तथागती स्मृता॥



त्रैलोक्येन महामहेश्वरगभस्तिमालिनी नाम महामुद्रा। मन्त्रं चात्र भवति - ॐ विजये हः। तथागतमुष्टिमुद्रा च। एभिरन्यतमैर्मुद्रै हस्तद्वयेनावबध्वा साधनकाले पूर्वसेवाकाले वा सकृदुच्चार्य यावदिच्छं जपेत् निषण्णो स्थितो वा। एवं सर्वविघ्नविनायकाः अवतारं न लभन्ते। सिद्धिश्चाभिमुखीभवति॥



ता एव प्रदेशिन्यः सञ्चार्य मध्यमयोपरि संसक्ताग्रां कारयेत्। उद्गतोष्णीषमुद्रा। मन्त्रं चात्र भवति - ॐ ज्वलोज्ज्वल दीप्तोद्गतोष्णीष धुन धुन हूँ॥



ता एव प्रदेशिन्यो सञ्चार्य मध्यमसूच्या सदा नखशिखरसंसक्ता निर्भुग्नगुल्फकुण्डलाकारमुद्रा सितातपत्रोष्णीष। मन्त्रं चात्र भवति - ओं म म म म हूं निः॥



ता एव प्रदेशिन्यौ परतस्तुल्यमुद्यम्य आश्लेष्य मध्यमसूच्ये तेजोराशिमुद्रा। मन्त्रं चात्र भवति - ओं तथागतोष्णीष अनवलोकितमूर्ध्नि तेजोराशि हूं ज्वल ज्वल एक एक दर विदर च्छिन्द भिन्द हूं हूं स्फट् स्फट् स्वाहा॥



ता एव प्रदेशिन्याग्रसंसक्तमध्यमसूच्ये मण्डलाकारो जयोष्णीषमुद्रा। मन्त्रं चात्र भवति - ओं जयोष्णीष ज्वल ज्वल बन्ध बन्ध दम दम ङ्रँ ङ्रँ ङ्रँ हः हन हूं जयोष्णीषमन्त्रा॥



तयैव प्रदेशिन्याग्रा सञ्चार्य मध्यमध्यमसूच्या नखस्योपरि तृतीयभागे श्लिष्टा चक्रवर्तिमुद्रा। ओं नमो अप्रतिहततथागतोष्णीषाय अनवलोकितमूर्ध्नि चक्रवर्ति हूं ज्वल ज्वल धक धक धुन धुन विधुन त्रासय मारयोत्सादय हन हन अं अं अः अः कः कः प्रोंखिनि प्रोंखिनि कुण्डलिनि अपरोजितास्त्रधारिणि हूँ फट्। चक्रवर्ति ता एव प्रदेशिन्याग्रा सञ्चार्य मध्यमसूच्या नखस्याधस्तात् तृतीयभागे संयुक्ता मन्त्राधिपस्य चक्रवर्त्तिने मुद्रा। ता एव प्रदेशिन्याग्रा सञ्चार्य सूच्या नखस्याधस्तात् संसक्ता मन्त्राधिपस्य मुद्रा। ता एव प्रदेशिन्याग्रा सञ्चार्य मध्यमसूच्या नखपर्वयोरन्तरे संसक्ता महाचक्रवर्त्तिने मुद्रा। ता एव प्रदेशिन्याग्रा सञ्चार्य मध्यमसूच्य तृतीये पर्वे अधस्तात् संसक्ता कुण्डलाकारेण महाचक्रवर्तिने मुद्रा। ता एव प्रदेशिन्याग्रा सञ्चार्य तृतीये पर्वे मध्यमसूच्या पर्वयोरन्तरे संसक्ता मन्त्राधिपस्य महाचक्रवर्तिने मुद्रा। ता एव प्रदेशिन्याग्रा निर्भुग्नगुल्फसत्रिकं मध्यमसूच्या मध्यमपर्वयोरधस्तात् संसक्ता पर्वतृतीयेन अपराजितोष्णीषचक्रवर्त्तिन हृदयमुद्रा। मन्त्रं चात्र भवति - ॐ अपराजिता धिक्॥



ता एवोष्णीषमूलमुद्रायान्यतमेन वा सोपचारविन्यास सर्वकर्माणि कारयेदङ्गुष्ठाग्रैश्चलितैरनामिका परामृज्योत्कर्षयेदावाहनम्। मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय एहि एहि भगवं! धर्मराज ! प्रतीच्छेयं अर्ध्यं गन्धं पुष्पं धूपं बल्यं दीपं च। मां चाभिरक्षाप्रतिहतबलपराक्रमाय स्वाहा। आवाहनं शुक्लपुष्पैः स्वरूपेणार्ध्यपाद्यमाचमनीयमासनोपविशने तदानेनैव दिशि विदिशि अध ऊर्ध्वं च बन्धयेत्॥



ता एवानामिकौ अङ्गुष्ठाग्रैरपमृज्याथ नामयेत्। मध्यमे पर्वे स्पृश्योत्क्षिपेत्। विसर्जनार्घेण स्वदेवताया अपसव्येन भ्रामयेत्। मुद्रा दिशाबन्धा मुक्ता भवन्ति। मन्त्रं चात्र भवति - नमोऽप्रतिहतोष्णीषाय गच्छ गच्छ भगवं ! धर्मराज ! प्रतीच्छ मयार्ध्यं गन्धं पुष्पं धूपं मां च रक्षाप्रतिहतबलपराक्रमाय। मुद्रा मन्त्रविसर्जनार्घेण॥



ता एव प्रदेशिन्यौ अधस्तात् तृतीये पर्वे मध्यमसूच्ये संसक्तावन्योन्य अङ्गुष्टौ सह कन्यसैः निःपीडितमुष्टिः मध्यमसूच्यौ। मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय ॐ ॐ ह्रौं बन्ध हूँ फट्। अप्रतिहतोष्णीष तेजोराशे। मुद्रामन्त्रा सर्वबन्धादिषूपयुज्यते सर्वकर्मिकः॥



ता एव प्रदेशिन्यौ आकुञ्चिताग्रा मध्यमसूच्या तृतीयपर्वे दीषिदसंसक्ता विकरणोष्णीषमुद्रा। मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय विकरण धुन धुन हूँ विकरणोष्णीषः भगवतो विद्याधिपते महाविद्याराजा उष्णीषतन्त्रे सर्वविघ्नविनायकोपघोतष्वभिषेकमात्मरक्षादिशाबन्धमण्डलबन्धादिषु सर्वकर्मेषु प्रयुज्यते॥



ता एव प्रदेशिन्यौ विकसिताकुञ्चिताग्रा चलिताकृष्टौ अग्नेरावाहनं पश्चाद्धोमयामीति। एष एव विसर्जनं विक्षिप्तैः प्रदेशिन्यौ ज्वालामालिन्योष्णीषमुद्रा। अप्रतिहतः सर्वकर्मसु। मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय एह्येहि तेजोमालिने अग्नये स्वाहा॥



ता एव प्रदेशिन्यौ आकुञ्चिताग्रा मध्यमसूच्या तृतीये पर्वे मध्यमपर्वयोरन्तरे संसक्ता बलोत्कटोष्णीषमुद्रा। मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय इमं गन्धं पुष्पं धूपं बलिं दीपं च प्रतीच्छ हर हर सर्वबुद्धाधिष्ठिते धर्मराजाप्रतिहताय स्वाहा॥



गन्धादिषु मन्त्रः - विपर्यस्तानामिके तृतीये तृर्वाङ्गुष्ठे संसक्ता प्रदेशिन्यः सूच्याकारः वज्रतेजोष्णीषमुद्रा। अप्रतिहतः सर्वविनायकानाम्। अनेन निग्रहं कुर्यात् सहायानां दिक्कालानां च। एवमेभिर्मन्त्रमुद्रैः रक्षा जपकाले साधनकाले मण्डलेऽपि सर्वकर्माणि कर्तव्यानि। मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय सर्वविघ्नविध्वंसनकराय त्रोटय स्वाहा॥



अनामिकयोरङ्गुष्ठमूले कुण्डलाकारस्तथैव च प्रदेशिन्यौ सूच्याकारः सर्वत्राप्रतिहतोऽपराजितोष्णीषमुद्रा। मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय सर्वत्रापराजिताय समये शान्ते दान्ते धर्मराजभाषिते महाविद्ये सर्वार्थसाधनि स्वाहा। घृतहोमादिषु शान्तिकपौष्टिकानि कर्माणि कुर्यात्॥



एतावनामिकायाः कुण्डलयोः प्रदेशिन्यौ कुञ्चिताग्रा प्रतिहतेत शङ्करोष्णीषमुद्रा। मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीष ओं शङ्करे स्वाहा। रक्षा सर्वकर्मसु॥



अङ्गुष्ठाग्रौ अनामिकयोस्तृतीये पर्वेनाक्रान्ता तथैव प्रदेशिन्यौ सूच्या वज्राप्रतिहतसमयोष्णीषमुद्रा सर्वत्र समयसाधारणः। मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय। ओम् सङ्करे समयं स्वाहा॥



अङ्गुष्ठाग्रौ अनामिकयोर्मध्ये पर्वेणाक्रान्ता प्रदेशिन्यौ कुञ्चिताग्रा मध्यमसूच्या मध्यमपर्वसंसक्ताप्रतिहतमहासमयोष्णीषमुद्रा देवासुरेषु युज्यते समये स्थापिता। मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय ॐ शङ्करे महासमयं स्वाहा। अनया मण्डलबन्धं कृत्वा जपेच्चक्रवर्त्तिनमपि समये तिष्ठ तिष्ठ। अन्यांश्चक्रवर्तिनांश्चाभिभवति। तत्रैव स्थाने जपं कुर्वं सर्वलौकिकलोकोत्तराणां गन्त्राणां असक्तादन्योन्यं विद्याप्रभावबलविघातं कर्त्तुम्। एकस्मिं स्थाने सर्वजापिनाम्। एवमाद्या उष्णीषराजानः असङ्ख्येयानि भवन्ति। विस्तरेण कर्त्तव्यं सर्वतथागतकुलम्॥



इह हि मञ्जुश्रीः कल्पराजे अपरिमाणानि मन्त्राणि भवन्ति। मुद्राश्चैव विविधाकारा। संक्षेपतोऽहं वक्ष्ये। यदि विस्तरशो कथेयम् अशक्यं सर्वमानुष्यैः आमानुषैश्च कल्पसहस्रेणापि कालप्रमाणेनोद्गृहीतुं धारयितुं वा। तस्मात् तर्हि मञ्जुश्रीः संक्षेपतः कथयिष्यामि समासेनोपधारय॥



हृदयस्य मुने मुद्रा कथ्यते प्रवरा इह।

ततो देवातिदेवस्य मुद्रा वै श्चक्रवर्त्तिनः॥

अवलोकितचन्द्रस्य बोधिसत्त्वस्य धीमतः।

वज्रपाणेस्ततो मुद्रा यक्षेन्द्रस्य प्रकीर्त्तितः॥

ततोऽन्येषां तु मुद्राणां महताममितौजसाम्।

दूतदूतीगणां सर्वां चेटश्चेटी तथा पराम्॥

यक्षा यक्षीस्तथा देवां नागनागी तथापराम्।

किङ्करः किङ्करीणां च पिशाच पिशाचीनां च॥

महर्द्धिका राक्षसीनां तथान्यां सुरयोषित्।

दैत्यमङ्गनां सिद्धविद्याधराणां च सर्वेषां च॥

अमानुषाणां नामानुष्यांश्चापि सर्वेषां त्रिभवे जन्मनिःसृताम्।

सर्वेषां तु जन्तूनां मुद्रा ह्युक्ता पृथक् पृथक्॥

मन्त्रास्तु विविधाकारा नानाकर्मसमाधिका।

राजकुले मानिकुले चापि तेषां मुद्रा पृथक् पृथक्॥

अर्हप्रत्येकबुद्धानां उभौ मुद्रौ शुभोदयौ।

सर्वेषां बोधिसत्त्वानां दशभूमिप्रतिष्ठिताम्॥

मुद्रा हृदयमन्त्रा च एकैकः परिकीर्त्तिता।

दिव्ययक्षकुले चापि ऋषिगन्धर्वपूजिते॥

कुले सप्तमके प्रोक्ता मुद्रा गन्धर्वमाश्रिता।

तथाष्टमके मुद्रा कुलेभ्यो परिकीर्तिता॥

सर्वे मुद्रा समाख्याता अपराश्च सुगताह्वया।

पृथक् पृथक् मन्त्रेषु लौकिकेषु ससौगते॥

मुद्रासहितो मन्त्रः दीप्रो भवति कर्मसु।

मुद्राक्षेपादिकुशलं नानुयान्ति विनायकाः॥



अथ खल्वेषां महामुद्रादीनां लक्षणं भवति। बुद्धानां भगवतां हृदयमुद्रालक्षणं भवति। हस्तद्वयेनान्योन्यमङ्गुलीः सन्नियम्याङ्गुष्ठौ दर्शयेत्। सैषा तथागतानां हृदयमुद्रा। एषैव दक्षिणेनाङ्गुष्ठेन एकैकदर्शितेन पद्मधरस्य मुद्रा भवति। वामेतरस्य पूर्वमुष्टिं कृत्वा मध्यमाङ्गुलियुगलं प्रमुञ्च प्रसृतं कृत्वैकतः वज्राकारम्। एषा वज्रधरस्य मुद्रा। एकसूचीमवनाम्य एषा गन्धहस्तिने बोधिसत्त्वस्य मुद्रा पुनरेवोत्क्षिप्य मण्डलाकारं कुर्यात्। एष गजगन्धस्य मुद्रा। उभयोरप्येकं पर्वं कुञ्चयेत्। एषा मणिकुले मुद्रा। सर्वेषां मणिचराणां जम्भले जलेन्द्रादीनां मन्त्रैः तैरेव योजयेत्। तर्जनीयुगलं द्विपर्वं कुञ्चितान्योन्यनखसंयुक्तम्। एषा यक्षकुले मुद्रा पञ्चकादीनां यक्षमहर्द्धिकानाम्। अन्योन्यनखसंयुक्तं अङ्गुष्ठं नखोपरि धारयेत्। तथैव हस्तौ पूर्ववत् कारयित्वा मध्यमाङ्गुलियुगलं उत्थाय सूचिकाकारं कारयित्वा एषा सर्वदेवानां मुद्रा दिव्यकुले अकनिष्ठादीनां दिवौकसाम्। भूयस्तथैव हस्तौ संयम्य मुष्टिं बध्वा अङ्गुष्ठौ दर्शयेत्। सौषा प्रत्येकबुद्धार्यश्रावकानां मुद्रा॥



इत्येतामष्टौ मुद्रासु कुला चाष्टसमावृता।

सर्वेषां जिनपुत्राणां मुद्रामेकं तु वक्ष्यते॥

प्रसृताञ्जलिविन्यस्तं ईषित्सङ्कुचितं पुनः।

स एषा कथिता मुद्रा बोधिसत्त्वां महीयसाम्॥

चिन्तामणिः खखरकं सङ्घाटी पात्रचीवरम्।

दंष्ट्राभयहस्तं च मुद्रैताः सप्तकं मुनेः॥

दृष्टिमैत्रीप्रभाजालदशनतोर्ण सुगतः स्थितिः।

इमाप्यसा परा मुद्रा जिनस्यात्मशरीरजा॥

द्वौ सप्तकौ गणावेतौ मुद्रा पञ्च मया स्मृता।

हृदयस्य मुनेः सहितानि विंशत्युक्तादिस्वयम्भुवैः॥

पुरा कथिता ह्येते मुद्रा आदिजिनैः तदा।

परिवारः समाख्यातो विंशकश्चक्रवर्त्तिनः॥

परमं परसङ्ख्याता मुद्रा मन्त्राश्च निश्रिता।



उद्गतं कुण्डलीकृत्य चिन्तामणिमुद्रा। पर्यङ्के वामदक्षिणे मुष्टिमंसदेशे धारये। खखरकमुद्रा भवति। हस्तसम्पुटेनान्योन्यमभिमुखं सङ्घाटीमुद्रा भवति। पात्रं सम्पुटाधारः चीवरं वामहस्तेन दंष्ट्रा हृदयमुद्राया वाममेकमङ्गुष्ठमुन्नतम्। अभयहस्तमभयावनतः वामचीवरावलम्बतः अभयहस्तः सम्पुटे मध्यमाङ्गुलियुगले तर्जन्यौ बहिः कुञ्चितौ निवेशयेत् मध्याङ्गुष्ठौ। एषा बुद्धलोचनमुद्रा भवति। एषैव एवा पर्वकुञ्चिते तर्जनी एकतः कुर्याद् बुद्धमैत्री। अञ्जलि विरलाङ्गुलिं कृत्वा तर्जन्यनामिका गोपयेत् सूचीत्रयेण। मामकी मुद्रा भवति। अञ्जलिं कृत्वा तर्जनीमध्यमाङ्गुलिबहिः तृतीयपर्वे कुञ्चिते सन्दध्यादङ्गुष्ठौ पृथक् अङ्गुल्याकारेण भोगवतीमुद्रा। वामहस्तेन तर्जन्या मध्यमया च विजया। दक्षिणया त्र्यङ्गुले वज्रं कटिदेशे धारयेत्॥



एवमेवाष्टौ महामुद्रा आत्मना शिरसि विद्याराजमुद्रा बध्वा सर्वकर्माणि कारयेत्। समये वा मण्डले पुष्पाणि क्षिपेत्। पूर्वनिर्दिष्टेन वा विधिनानेन वा कुर्यात्। यथेप्सतः सर्वकर्माणि कारयेत्। विद्यामन्त्राभिहितानि समयानि भवन्ति मुद्रैः समुद्रितानि मुद्राप्रभावानि। यन्मुद्रं सहसा अस्थाने बध्नीयात् स एवास्य समयभङ्गो भवति। यद् वज्रं तच्छूलम्। त्रिशूलवज्रयोर्विशेषो नास्ति। यदूर्ध्वं तद् वज्रधरस्य मुद्रा भवति। अधरस्ताच्च महेश्वरस्य। मध्ये आचार्यगुरुदक्षिणीयां सर्वेषा च मनुष्याणां एकाङ्गुलिमुच्छ्रिते सर्वेषा मनुष्याणां द्विपदचतुष्पदबहुपदापदविभवसंस्थितानां सत्त्वानां मुद्रा भवति। द्विरुच्छ्रितै सर्वेषां यक्षयक्षीणां मुद्रा भवति। त्रिमुच्छ्रितैः सर्वविद्याधरविद्याधरीणां मुद्रा भवति। चतुरुच्छ्रितैः समपाणितलविन्यस्तैः ससुरासुराङ्गनानां मुद्रा भवति। कृताञ्जलिविधिन्यस्तौ हस्तौ शोभनाकारसंस्थितौ सर्वेषां रूपाधचराणां देवानां मुद्रा भवति। तदेव हस्तौ आरुप्याधचराणां देवानां मुद्रा भवति। तदेव हस्तौ सुषिरसम्पुटाकारौ मुष्टिनिबन्धनौ कामधात्वेश्वरप्रभृतीनां सर्वेषां कामधातुस्थितानां सनरतिर्यक्प्रेतयामलौकिकानां सत्त्वानां मुद्रा भवति। तामेव मुद्रामेकमङ्गुलिमुत्सृज्य सर्वेषां पिशाचपिशाचीनां मुद्रा भवति। द्विमुत्सृतै राक्षसराक्षसीनां। त्रिमुत्सृतैः सर्वक्रव्यादादीनां ग्रहमातरकूष्माण्डादीनां पिशिताशिनां सर्वेषां च डाकिनीनां व्यन्तरादीनां च सकश्मलां चतुर्भिरङ्गुलीभिः सङ्कुचितैः सर्वकश्मलां मुद्रा भवति। मुद्रैराकृष्टैराकर्षणं मुद्रैरुत्क्षिप्तैर्विसर्जनम्। स्वचित्तेन सर्वकर्माणि कारयेत्॥



एभिरेव मुद्रैः यथेष्टतः स्वकं स्वकं मन्त्रं नियोजयेत्। नान्येषां नान्यकर्माणि कारयेत्। तस्मिं तस्मिं नियुञ्ज्याद् यस्मिं यस्मिं मन्त्रा भवन्ति।



अनुल्लङ्घ्या ह्येते मुद्रा सर्वबुद्धैरधिष्ठिता।

अशक्ता सर्वसत्त्वा वै मुद्रां दृष्ट्वापि कोपितुम्॥



मुद्रोलङ्घनाद् विनाशमाप्नुवन्ति। मुद्राणां विनाशात् समयभ्रंशः सर्वविद्याव्यतिक्रमश्च निष्ठायां रौरवे गतिः अवीच्यायां वा महानरकोपपत्तिः गाढतरमेवाप्नुवन्ति विघ्नकर्तारो। ये च मुद्रासमयमधितिष्ठन्ते तेषां चिरसौख्यमनल्पकं भवति महादिवौकसोपपत्तिश्च गतिनिष्ठायां नियतं बोधिपरायणो भवति। संक्षेपतो मुद्रा बहुप्रकारा प्रकाशिता आदिबुद्धैः बोधिसत्त्वैश्च महर्द्धिकैः। न शक्यमस्य पर्यन्तं गन्तुं सङ्ख्यागणनां वा कर्तुम्। सर्वसत्त्वैश्च उद्ग्रहीतुम्। संक्षेपतः जिनकुले विद्याराजचक्रवर्ति एकमक्षरं रक्षार्थं तस्य मुद्रा भवति॥



वामेतरस्य पूर्वं मुष्टिं कृत्वा मध्यमाङ्गुलियुगलं प्रमुचे प्रसृतं कृत्वैकतः। उभयोरप्येकं पर्व कुञ्चये। तर्जनीयुगलं द्विपर्व कुञ्चितः अन्योन्यनखसंयुक्तं अङ्गुष्ठनखोपरि धारयेत्। एष चक्रवर्त्तिमुद्रा सर्वकर्मिका प्रवरा सर्वमन्त्राणां निर्दिष्टा लोकतायिभिः। पूर्वनिर्दिष्टेन एकाक्षरचक्रवर्त्तिना संयुक्ता सर्वकर्मिका भवति। अनेन साधितेन सर्वं तथागतकुलं सर्वाश्च लौकिकलोकोत्तराः मन्त्राः सिद्धा भवन्ति। अनेन जप्यमानेन सर्वमन्त्रा जप्ता भवन्ति॥



अन्यदवश्यं साधकेन पूर्वतः अस्मिं कल्पराजे प्रचोदिते मन्त्रवरे अष्टसहस्रं जापः कर्तव्यः। एवमेते सर्वविद्याः आमुखीभवन्ति आशु सिद्धिं प्रयच्छन्ति। क्षिप्रं च वरदा भवन्ति। नियतं बोधिपरायणः पद्मधरमुद्रायाः एकाक्षरावलोकितेश्वरहृदयेन संयुक्तः सर्वकर्मां करोति। पण्डरवासिन्या वा विद्यामुद्रेण वा संयुक्ता तथैव सर्वकर्मां करोति। वज्रधरस्य मुद्रया तस्यैव एकाक्षरहृदयेन संयुक्तः तथैव सर्वकर्मां करोति। मामक्या वा महाविद्यया॥



एवं राजकुले एकाक्षरराजगन्धबोधिसत्त्वहृदयेन एवं तेनैव मुद्रया मणिकुले यक्षकुले दिव्ये आर्ये तेष्विह एकाक्षरहृदयैः तेष्वेव मुद्रैः सर्वकर्माणि कर्तव्यानि। एवं सर्वत्र सर्वमुद्रैः सर्वमन्त्रैश्च सर्वकर्माणि कर्तव्यानि। यथायुक्तितः विद्यामन्त्रबलाधाना न्यसेत्। नान्यतः कर्माणि कर्तव्यानि॥



एवं दक्षिणकरविन्यस्तं स्वस्त्योद्यतः ब्राह्मणस्य सहाम्पतेः एकलिङ्गमुद्राया महेश्वरस्य चक्रमुद्राया विष्णोः अञ्जलिराकोशविरलविन्यस्तः गरुत्मनः एवं ऋषीणां शापोद्यतहस्तमुद्रं एवं गन्धर्वाणां ससुरासुराणां वामहस्तमङ्गुष्ठसभ्यन्तरीकृतमुखमुपदर्शनमष्टिस्थितं चतुःकुमार्यमुद्रा तेनैव मन्त्रेण एवं कार्तिकेयस्य शक्तिमुद्रया एवं यमवरुणकुबेरयक्षराक्षसपिशाचमहोरगादीनां सर्वेषां त्रिभवसंस्थितानां सत्त्वानां सर्वगतिपर्यापन्नानां सत्त्वधातुसन्निःश्रितानां सर्वेषां ग्रहमातरक्रव्यादकश्मलादीनां सत्त्वानां सर्वतः सर्वेषां मुद्रान्युक्तानि। मन्त्राश्चैव सर्वतः नियुज्यानुपूर्वशः क्रमशः सर्वतः सर्वं भवति नान्यतः॥



आदौ तावत् साधकेन अस्मिन् कल्पराजे तथागतगतिः शुभा महामुद्रा मन्त्राश्च तदङ्गा निश्रिता आर्यसमन्तभद्रमहास्थानप्राप्तविमलगतेः त्वदीया मञ्जुश्री उत्पलमुद्रा एतेषां च बोधिसत्त्वानां च मुद्रा अवश्यं साधकेन पूर्वाभिमुखस्थितेन आदित्याभिमुखेन प्रातरुत्थाय शुचिना शुचिस्थानस्थितेन एतेषां मुद्राणामन्यतरं बध्वा आत्मशिरस्योपरि क्षिपेदूर्ध्वम्। एतेषामन्यतमं च मन्त्रं जपेदष्टशतम्। सर्वव्याधिविनिर्मुक्तो भवति। दीर्घायुषः सर्वविघ्नैश्च नाभिभूयते। सर्वसत्त्वानामधृष्यो भवति। सर्वमन्त्राश्चाभिमुखीभवन्ति। आशु सिद्धिं प्रयछन्ति। सर्वबुद्धैश्चाधिष्ठितां भवति। नियतं बोधिपरायणो भवति। मञ्जुश्री कुमारभूतश्चास्य कल्याणमित्रो भवति यावद्राबोधिमण्डात्। कतमा च ते मुद्रा मन्त्राश्च भवन्ति॥



आदौ तावन्महावीरमुद्रा वक्ष्यते। हस्तद्वय सम्पुटं कृत्वा अन्तरिताङ्गुलिमङ्गुष्ठमुन्नतौ पर्वतृतीयभागाकुञ्चितौ एषा महावीरमुद्रा सर्वतथागतैर्भाषिता। मन्त्रं चात्र भवति - आः वीरं हूं खं। अनेन मन्त्रेण संयुक्तः मुद्रोऽयं सर्वकर्मकृत्॥



तदेव हस्तद्वयं सम्पुटं कृत्वा भूयो विकसितमङ्गुलीभिः समन्ततो विकसितां वज्राकारम् एषा विकासिनी नाम मुद्रा वरा आदिबुद्धैः प्रकाशिता। मन्त्रं चात्र भवति - ॐ गगनसम्भवे दीप्त दीप्त ज्वालय ज्वालय बुद्धाधिष्ठिते विकाशय विकाशय सर्वबुद्धान्। हूं हूं विकासिनि फट् फट् स्वाहा। एषा विकासिनी मुद्रा। अनेन मुद्रेण संयुक्ता सर्वकर्मिका भवति। ग्रहाविष्टानां प्रज्ञापयति। जल्पापयति ग्रहगृहीतां क्रव्यादकश्मलगृहीतानां विषमूर्छितानां वा यथा यथा प्रयुज्यते, तथा तथा तत् सर्वं करोति। एष संक्षेपतः सर्वार्थसंसाधनी विद्याविकासिन्या मुद्रया युक्ता असिद्धा च क्षिप्रमर्थं करोति।



हस्तद्वय सम्पुटं कृत्वा अन्तरिताङ्गुलिसमं कारयद् हृदयमुद्रा। हृदयं सप्तवारां हृदयमभिमन्त्र्य मोक्तव्या। एवं सर्वत्र। मन्त्रं चात्र भवति - ॐ गोदरे वीर स्वाहा। तथागतहृदय॥



तदेव हस्त सम्पुटं विच्छुरिताङ्गुलिमन्योन्यसर्वाग्राङ्गुलिमध्ये सुषिरा उष्णीषमुद्रा। मन्त्रं चात्र भवति - ॐ द्रोँ बन्ध स्वाहा। एष सर्वकर्मिकः॥



दक्षिणहस्तेनाङ्गुष्ठं मुक्तं मुष्टिं बध्वा खखरकमुद्रा। मन्त्रं चात्र भवति - ॐ धुनाजितरण हूँ। खखरकमन्त्रा सर्वकर्मिकः॥



अनेनैव मुद्रया संयुक्त वामं चीवरसंसक्तं कृत्वा चीवरमुद्रा। मन्त्रं चात्र भवति - ॐ रक्ष रक्ष सर्वबुद्धाधिष्ठितात्मचीवर स्वाहा। तथागतचीवरः। अनेनैव मुद्रेण सर्वकर्मां करोति। चीवरं चास्याभिमन्त्र्य प्रावरेत्, सुभगो भवति। महारक्षा कृता भवति। सर्वग्रहमातरपिशिताशिनक्रव्यादसकश्मला सर्वविघ्नाश्च दृष्टमात्रा प्रपलायन्ते॥



वामाङ्गुष्ठदक्षिणकनिष्ठिकान्योन्यासक्तौ कृत्वाधः हस्तसम्पुटाधारः पात्रमुद्रा। मन्त्रं चात्र भवति - ॐ लोकपालाधिष्ठित धर धारय महानुभाव बुद्धपात्र स्वाहा। अनेनैव मुद्रेणायं मन्त्रः संयुक्ता सर्वकर्मिकाः भोजनकाले स्मर्तव्यः। सर्वगरविषा न प्रभवन्ति॥



करयुगावनद्धमुष्टौ तर्जन्यौ मध्यकुञ्चितौ। एषा सा चिन्तामणिमुद्रा। मन्त्रं चात्र भवति - ॐ तेजो ज्वल सर्वार्थसाधक सिध्य सिध्य चिन्तामणिरत्न हूँ। चिन्तामणिरत्नम्। अनेनैव मुद्रेण संयुक्तो सर्वकर्मकरं शुभम्। अनेन चाभिमन्त्र्य सर्वाभरणालङ्कारविशेषां आबन्धीत चात्मनो महारक्षा कृता भवति। परमसुभगश्च भवति। स्वयमलङ्कृत्य धर्मं चाभिमन्त्र्य सङ्ग्राममवतरेन्न चास्य काये शस्त्रं निपतति। अधृष्यो भवति सर्वशत्रूणाम्। स्वसैन्यं पालयते। परसैन्यं चाक्रामति॥



एवमादीनि कर्माणि अपरिमाणानि असिद्ध एव करोति। पद्मरागमरकतादीनामन्यतम रत्नविशेषं गृहीत्वा अष्टशताभिमन्त्रितं कृत्वा ध्वजाग्रे आत्मनो शिरसि वा हस्तिस्कन्धे वा शङ्ग्रामशीर्षेणावतीर्णोनाबन्धयितव्यम्। नियतं परसैन्यमयुद्धेनैव दृष्ट्वा भङ्गमुपजायते। महांस्तम्भितत्वं वा भवति। भग्नसैन्या वा प्रपलायन्तेऽधिपतिस्तेषाम्॥



अन्योन्यासक्ताङ्गुलिमुष्टिं कृत्वा मध्यमाङ्गुलिस्थाने तयोस्तृतीयपर्वभागे मध्यकुञ्चिते तर्जन्योन्य स एषा धर्मचक्रमुद्रा। मन्त्रं चात्र भवति - ॐ छिन्द भिन्द हन दह दीप्त चक्र हूँ। धर्मचक्र॥



वामपादमुक्तट्कदक्षिणजानुभूमिस्थं वामेन पृष्ठतः प्रसारिते प्रहारहस्तेन दक्षिणेनाहुङ्कृतेन सावष्टम्भः। एषा अपराजितमुद्रा। मन्त्रं चात्र भवति - ॐ हुलु हुलु चण्डालि मातङ्गि स्वाहा। अपराजिता धर्मचक्रापराजितमन्त्रः। एभिरेव मुद्रैः संयुक्तैः सर्वकर्मिका भवति। संक्षेपतः सर्वदुःखानि छिन्दति। यथा यथा प्रयुज्यते तथा तथा सर्वकर्माणि कुर्वन्ति॥



वेण्योत्सङ्गे तथैव हस्तं कृत्वा दक्षिणेन धर्मदेशनाहस्तेन तथागतशक्तिमुद्रा भवति। मन्त्रं चात्र भवति - ॐ विजये महाशक्ति दुर्धरि हूँ फट् विजयिनि फट् मङ्गले फट्। तथागतशक्तिः। अनेनैव मुद्रेण संयुक्ता सर्वकर्मिका भवति। सर्वविघ्नां सर्वदुष्टां सर्वशत्रूं सर्वदेवांश्च स्तम्भयति। एषा अपर्यन्तगुणा यथा यथा प्रयुज्यते तथा तथा सर्वकर्माणि करोति॥



तथैव हस्तौ परस्पराङ्गुलिरुत्तानौ करौ तर्जन्याग्रौ सूच्याकारेण मीलितौ विपर्यस्तमधोमुखं ललाटे न्यसेत्। एषा ऊर्णामुद्रा बुद्धानां भगवतामादिबुद्धैः प्रकाशिता। मन्त्रं चात्र भवति - नमः सर्वतथागतेभ्योऽर्हद्भ्यः सम्यक्सम्बुद्धेभ्यः। हे हे बन्ध बन्ध तिष्ठ तिष्ठ धारय धारय निरुन्ध निरुन्ध ऊर्णामणि स्वाहा। तथागतोर्णामन्त्रः। अनेनैव मुद्रेण संयुक्ता सर्वकर्मिका भवति। गोरोचनया ललाटे तिलकं कृत्वा जपता शत्रुमध्येऽवतरेत्। अधृष्यो भवति। सर्वदुष्टैश्च न हिंसते। सङ्ग्राममध्यं वा अवतरेत्। परसेनाभङ्गं दृष्ट्वा करोति। नादृष्ट्वा अपरिमाणां कर्मां करोति। अपरिमाणैश्च बुद्धैर्भगवद्भिर्भाषिता॥



अञ्जलि निरन्तरमन्योन्यासक्तां कृत्वा तर्जन्यान्योन्यमध्यकुञ्चितौ अङ्गुष्ठोङ्गुष्ठौ। एषा तथागतलोचना मुद्रा। मन्त्रं चात्र भवति - ॐ रु रु स्फुरु ज्वल तिष्ठ सिद्धलोचने सर्वार्थसाधनि स्वाहा। एषा तथागतलोचना मन्त्रा अनेनैव मुद्रेण संयुक्ता सर्वकर्मिका भवति। अक्षीण्यभिमन्त्र्य शत्रुमध्यमवतरेत्। दृष्टमात्रा विगतरोषा भवन्ति। मैत्रचित्ता हितैषिणो भवन्ति। मित्रत्वमधिगच्छन्ति। सङ्ग्रामशीर्षो वा अक्षिणी मभिमन्त्र्य परसेनां निरीक्षयेत् सौम्यचित्ता भवन्ति। न प्रतिप्रहरसमर्था अयुद्धेनैव निवर्तन्ति। साहाय्यं तावत् प्रतिपद्यन्ते॥



उभौ हस्तौ तथैव पुस्तकाकाराङ्गुलिरचितौ अन्योन्याग्राश्लिष्टौ तिर्यक् स्थितौ। एषा प्रज्ञापारमिता मुद्रा। मन्त्रं चात्र भवति - नमो भगवति चारुदर्शने ॐ थ। एषा भगवती प्रज्ञापारमिता अनेनैव मुद्रेण संयुक्ता सर्वकर्मिका भवति। मन्त्रं जपता हृदयं परामृशेत् स्मृतिमां भवति। दुष्टारिमध्ये जपं कुर्वन् तेषां चित्तमपहरति। सङ्ग्राममध्ये वा द्विपदचतुष्पदादीं सत्त्वां प्रत्यर्थिकां विमोहयति। चित्तविक्षेपं वा करोति संक्षेपतः। एषा भगवती यथा यथा प्रयुज्यते तथा तथा सर्वकर्माणि करोति। संक्षेपतः अपर्यन्तगुणा अपर्यन्तं चास्य कल्पं भवति। अपर्यन्तास्तथागतानां मुद्रा मन्त्राश्च भवन्ति। यथा सन्निपातपरिवर्ती चोक्तं तथागतानां परिवाराः तेऽत्र सर्वे मुद्रा मन्त्राश्च प्रयोक्तव्या। अन्यत्र चासङ्ख्येयानि कल्पानि भवन्ति। मुद्रा मन्त्राश्च तेऽस्मिं कल्पराजे नियोक्तव्या॥



एवं पद्मकुले पद्ममुद्रेण सहिता। मन्त्रं भवति - ॐ जिः जिः जिनाङ्गभृद्भयभेदिने स्वाहा। एष मन्त्र अवलोकितेश्वरस्य बोधिसत्त्वस्य पद्ममुद्रया संयुक्तं सर्वकर्मिकं भवति। अनेन जप्तेन सर्वं पद्मकुलं जप्तं भवति। अनेन सिद्धेन सर्वं पद्मकुलं सिद्धं भवति। पण्डरवासिन्या वा महाविद्यया। मन्त्रं चात्र भवति - ॐ कटे विकटे निकटे कटङ्कटे कटविकटकटङ्कटे स्वाहा। मुद्रेणैव योजयेत् पद्ममुद्रेण वा सर्वकर्मिका भवति। रक्षा च कर्तव्या सर्वश्मशानगतेन॥



एवं तारा भ्रुकुटी चन्द्रा हयग्रीवस्येति विद्याराजसन्निपातपरिवर्ते वा ये कथिताः सर्वमसङ्ख्यं चा पद्मकुलं प्रयोक्तव्यम् मुद्रा मन्त्रैश्च कल्पविस्तरैः॥



एवं ध्वजकुल उभयवज्रमुद्रसहितम्। मन्त्रं चात्र भवति - हूँ। एष वज्रपाणेः साक्षादनेन साधितेन सर्वं वज्रकुलं सिद्धं भवति। अनेन जप्तेन सर्वं जप्तं भवति। उभयवज्रमुद्रासंयुक्तेन पूर्वनिर्दिष्टेन साधकेच्छया सर्वकर्माणि करोति। विरुद्धान्यपि जिनवरैः सत्त्ववैनेयवशात्। अतिक्रूरतरोऽयं महायक्षं मामक्या वा कुलन्धर्या महाविद्यायाः सर्वकर्माणि करोति। मन्त्रं चात्र भवति - ॐ कुलन्धरि बन्ध बन्ध हुं फट्। एषा सर्वकर्मिका मामकी नाम महाविद्या सर्वबुद्धैर्निर्दिष्टा पूर्वप्रयुक्तेन मुद्रेण मामक्याया महाविद्यया संयुक्ता सर्वकर्मिका भवति। साधकेच्छाया निदानपरिवर्ति पूर्वनिर्दिष्टे वज्रपाणिपरिवारेण सर्वं वाशेषं वज्रिकुलं मुद्रामन्त्रमन्त्रसंयोगैश्चात्र प्रयोक्तव्यम्॥



एवं राजकुले गजगन्धस्य बोधिसत्त्वस्य मन्त्रं भवति - ॐ गजाह्वये हूँ खचरे स्वाहा। पूर्वनिर्दिष्टेन मुद्रेण संयुक्तः सर्वकर्मिकः। एवं पूर्ववत् सर्वं गजकुलः सिद्धो भवति॥



एवं समन्तभद्रस्य मन्त्रः - ॐ समासमजिनसुत मा विलम्ब हूँ फट्॥



महास्थानप्राप्तस्य मन्त्रः - तिष्ठ तिष्ठ महास्थाने गतबोधः समयमनुस्मर हूँ फट् फट् स्वाहा॥



विमलगते मन्त्रः - ॐ विमले विमले विमल मुहूर्तं धक धक समयमनुस्मर स्वाहा॥



गगनगञ्जस्य मन्त्रः सर्वबोधिसत्त्वस्य मुद्रसंयुक्तः सर्वकर्मिको भवति। एषमपायजहसदाप्ररुदितक्षितिगर्भरत्नपाणिमैत्रेयप्रभृतीनां दशभूमिमनुप्राप्तानां सर्वमहाबोधिसत्त्वानामसङ्ख्येयानां मुद्रा मन्त्राश्चासङ्ख्येया भवन्ति। तस्मिं कल्पराजे नियोक्तव्यानि भवन्ति। सविस्तरता सर्वलौकिकलोकोत्तरोत्तरता सर्वलौकिकाश्च सर्वमन्त्रमुद्राकल्पविस्तरो महासमयासमयमनुप्रविष्टा सर्वकल्पविकल्पा त इह कथितानि साध्याश्च ते इह सर्वमन्त्राः॥



एवंमणिकुलयक्षकुलदिव्यार्यकुलेष्वपि प्रयोक्तव्यानि। सर्वतन्त्रमन्त्रमुद्राश्च त्र्यध्वाश्रिता एक एव कुलं भवति नान्यं यदुत तथागतकुलम्। त्वं च मञ्जुश्रीः ! कुमार ! तथागतकुले द्रष्टव्यः। सर्वबुद्धबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धाः सर्वाश्च लौकिकलोकोत्तराः साश्रवानाश्रवमन्त्रा मुद्राविकल्पास्तथागतकुलानि प्रविष्टा इति धारय। न तद् विद्यते मञ्जुश्रीः ! सर्वविमुद्रातन्त्रमन्त्ररहस्यं यस्तथागतकुले तथागतसमये अनुप्रविष्टः। प्रविष्टमेव मञ्जुश्रीः ! कुमार ! धारय। यस्मात् तथागत अग्रमाख्यायते तस्मात् तथागतकुलं अग्रमाख्यायते। एवं तर्हि मञ्जुश्रीः ! अयं कल्पराजा अयं च कुलाग्ररत्नः आदिमद्भिर्बुद्धैः प्रकाशितं देशितं प्रस्थापितं विवृण्वीकृतम् भगवां संकुसुमितराजेन भगवता शालराजेन्द्रेण भगवता सङ्कुसुमितगन्धोत्तमराजेन भगवता रत्नकेतुना भगवता अमिताभेन भगवता पुण्याभेन कुसुमोत्तमेन सङ्कुसुमेन सुपुष्पेण अमितायुर्ज्ञानविनिश्चयराजेन्द्रेण कनकमुनिना काश्यपेन क्रकुत्सन्देन शिखिनाविश्वभुवा भगवता कोनाकमुनिना। मयाप्योतर्हि शाक्यमुनिना प्रकाशितवां प्रकाशिष्यन्ते च॥



एवमेतद् बुद्धपरम्परायातं अयं तव मञ्जुश्रीः ! कुमार ! कल्पराजा तथागतकुलाग्ररत्नभूतं महानुशंसं नियतं धर्मधातुनिश्रितं न शक्यमस्यानुशंसं कल्पसहस्रेणापि कथयितुं महागुणविस्तारा विस्तरशः कथयितुम्। दृष्टधर्मवेदनीयाः साम्परायिकबोधिपरायणाश्च वक्तुं सर्वसत्त्वैर्वा श्रोतुम्। त्वत्सदृशैरेवमस्यापरिमाणा महागुणविस्तारफलोदया दृष्टधार्मिकसाम्परायिकाश्च भवन्ति। यः कश्चित् श्राद्धे अविचिकित्सः धारयेद् वाचये स्मिं तन्त्रेऽभियुक्तो विकल्पतः मन्त्रं साधये जपेद् वापि मुद्रां वापि बध्नीयात् सतताभियुक्तश्च भवेत्। स दृष्ट एव धर्मैरष्टौ गुणानुशंसां प्रतिलभते। अस्खलितश्च भवति सर्वप्रत्यर्थिकैः। अपितु भयं चास्य न भवति। विषं चास्य काये नाक्रामति। शस्त्रं चास्य काये न पतति। बुद्धबोधिसत्त्वैश्चाधिष्ठितो भवति। दीर्घायुः सुखमेधावी भवति। मञ्जुश्रियश्चास्य कुमारभूतः कल्याणमित्रो भवति। रात्रौ वास्य प्रत्ययं स्वप्ने दर्शनं ददाति। सर्वमन्त्राश्चैनं रक्षन्ते। मुद्रां चास्य स्वप्ने कथयन्ति। दुष्टराष्ट्रं दुष्टसत्त्वानां चाहितैषिणामवध्यो भवति। नियतं बोधिपरायणः॥



इमेऽष्टानुशंसा श्राद्धस्याविचिकित्सतोऽभियुक्तस्य द्रष्टव्याः। गृहेणो वा प्रव्रजितस्य वा स्त्रियस्य वा पुरुषस्य वा महासत्त्वानां शासनोपकारिणाम्। नान्येषां पापकर्मप्रवृत्तानां विपर्यस्तमधस्ताद् भवति रौरवादिषु। यदुक्तं पूर्वाह्ने मुद्राबन्धः दीर्घायुष्यता जयेति। तथागतमन्त्रपरिवारेण हृदयोष्णीषाद्यालोचनाद्याः मुद्राः सत्कर्तव्यम्। मञ्जुश्रियः कुमार ! त्वदीयमुद्रामन्त्रैर्वा तुल्यवीर्या ह्येते तुल्यप्रभावा। यदुक्तं शुचिना शुचिवस्थानस्थितेनेति। स्थानं मध्यं भूप्रदेशं अशल्योपरुद्धं अपतितगोमयोपलिप्तं सुगन्धशुक्लपुष्पाभिकीर्णम्। तत्र स्थितः मन्त्रं जपे। मुद्रां बध्नीयात्। नान्यत्र नान्येषामन्यतरमेकं जपेन्मुद्रसहितम्॥



यदुक्तं शुचिनेति अस्तं गते भानोः स्नायीत शुचिना जलेन निःप्राणकेन



प्रत्यग्राम्बरनिवासी उष्णीषकृतरक्षः।

ग्राम्यधर्मविवर्जी शुचिचौक्षरक्षरतः शुभ॥

उष्णीषकृतरक्षा वै श्चक्रबन्धानुवर्तिनः।

ध्यात्वा तथागतां तत्र स्वप्ने यामविनिर्गते॥



कन्याकर्तितसुत्रेण ब्राह्मण्या वा अरतिसम्भवाया गृहीत्वा अष्टशताभिमन्त्रितं कृत्वा अनेन मन्त्रेण - ॐ हर हर बन्ध बन्ध शुक्रधारणि सिद्धार्थे स्वाहा - मामक्यया मुद्रासंयुक्ता मन्त्रं जपेत्। ततः सूत्रकं कट्यां बन्धयेत्। त्रिगुणपरिवेष्टितं कृत्वा शुक्रबन्धः कृतो भवति। कामधात्वेश्वरोऽपि शक्तः स्वप्ने मनोविघातमुत्पादयितुम्। किं पुनः स्वप्नविनायकाः। विधिना नाविधिना सरागस्य न वीतरागस्य कामधात्वेश्वरस्यापि ऋषिणो दुहितरश्च अशक्ता मनोविघातमुत्पादयितुं विविधरूपधारिण्यः रागिणाम्। किं पुनः तदन्यः स्त्रियः मानुषामानुषोद्भवाः॥



एवं विधिना प्रातरुत्थाय विसर्ज्य दन्तधावन मुखं प्रक्षाल्य शुचिना जलेन स्नात्वा निष्प्राणके विमलोदकेन पूर्ववद् विधिना पूर्वाभिमुखस्थितेन मुद्रां बन्धीयात्। मन्त्रांश्च जपेत्। दीर्घायुषो भवति सर्वकर्मसमर्थः। महाव्याधिभिर्मुच्यते। सर्वजनप्रियो भवति। अमित्राणां प्रत्यङ्गिरमुपजायते। दृष्टमात्राश्च सर्वग्रहक्रव्यादकश्मलादयः प्रपलायन्ते। परबलं स्तम्भयति। दर्शनमात्रेणैव सर्वकर्मां करोति शुचिनाशुचिना विधानेनाविधानेन॥



एवमस्य असङ्ख्येया मुद्रामन्त्रगणपरिवृतोऽयं कल्पराजा। असङ्ख्येयैश्च बुद्धैर्भगवद्भिर्भाषिता भाषिष्यन्ते च। मयाप्येतर्हि शाक्यमुनिना तथागतेनार्हता सम्यक् सम्बुद्धेन भाषितो महता पर्षन्मण्डलमध्ये। न्वमपि कुमार ! मञ्जुश्रीः ! सन्नियुक्तोऽयं शासनपरिसंरक्षणार्थं धर्मधातुचिरसंरक्षणार्थं च मयि परिनिर्वृते धर्मकोटिनिश्रिते भूतकोटिपर्यवसाने शान्तीभूते महाकरुणावर्जितमानसेन सत्त्वानां हितार्थाय भाषितोऽयं मया युगान्ते महाभैरवे काले वर्तमाने रत्नत्रयापकारिणां दुष्टराज्ञां दुष्टसत्त्वानां च निवारणार्थाय विनयनार्थाय च भाषितोऽयं कल्पराजा विस्तरविभागशः सर्वसत्त्वानामर्थायेति॥



आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात्

महायानवैपुल्यसूत्रात् पञ्चत्रिंशतिमः

मन्त्रमुद्रानियमकर्मविधिपटलविसरः

परिसमाप्त इति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project