Digital Sanskrit Buddhist Canon

अथ षट्‍त्रिंशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Atha ṣaṭtriṁśaḥ paṭalavisaraḥ

अथ षट्‍त्रिंशः पटलविसरः।



अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। अस्ति मञ्जुश्रीः ! परमगुह्यतमं त्वदीयं मूलमुद्रासमेत सपरिवारं मुद्रालक्षणं सर्वकर्मेषु चोप योज्यं सर्वसम्पत्तिदायकं सफलं सर्वमन्त्रानुवर्त्तनं सर्वकर्मार्त्थसाधकम्। संक्षेपतः शृणु मञ्जुश्रीः !॥



आदौ तावत् प्रसृताञ्जलिः, तर्जन्यानामिकामध्यपर्वतानुप्रविष्टा पृथक् पृथक्। सा एषा मञ्जुश्रीस्त्यदीया मूलमुद्रा विख्याता सर्वकर्मिका भवति। तथैव हस्तौ संयम्य, अनामिकासंहता तर्जनी मध्यमास्तथा कनिष्ठिकया ऊर्ध्वरेखास्थिताङ्गुष्ठशीर्षे। अयमपरा मञ्जुश्रीस्त्वदीया वक्त्रमुद्रा उदाहृता। अन्योन्यसक्ताङ्गुलिमुष्टिं कृत्वा, मध्यंमाङ्गुलि विमुच्य, सूचीकृत्वा, तस्य पार्श्वयोर्वलिततर्जनीयुगलमन्ते न्यसे एषा मञ्जुश्रीः ! त्वदीयमुद्रेयं दंष्ट्रा भवति। मुद्राया अङ्गुष्ठयुगलं पार्श्वयोर्न्यसेत्। एषा मुद्रा साक्षात् त्वं मञ्जुश्रीः ! तस्मिं स्थाने तस्मिं करपुटे सान्निध्यं समयेनाधितिष्ठसे। अन्योन्यसक्ताङ्गुलिमुष्टयोः प्रदेशिनीं मुक्त्वा, अङ्गुष्ठयुगलं मध्यतः। एषा सा मञ्जुश्रीः ! त्वदीया अपरा चीरकमुद्रा। प्रसृताञ्जलिपर्वणी कृत्वा, अनामिके तर्जनीं मध्यमान्तरस्थिताग्रे। इयमपरा मञ्जुश्रीः ! साक्षादेव त्वं मूलमूद्रा उदाहृता। अस्यैव मुद्रायाः प्रसृतां तर्जनीं कृत्वा। एषा सा मञ्जुश्रीस्त्वदीयनेत्रमुद्रा भवति। कन्यसानामिकावेणीकृतकरपुटमध्यस्थिता मध्यमौ बहिः तः तर्जन्युपरि कुञ्चिताग्रे अङ्गुष्ठाग्रसंश्लिष्टाग्रासु। अयमपरा त्वदीया त्वदीया मञ्जुश्रीः ! वक्त्रमुद्रा भवति सर्वकर्मिका॥



एवमनेन क्रमेणैकैकाङ्गुलिमथ मुंच उभौ अङ्गुष्ठसहिता सर्वे अङ्गुलियोगेन एकैकं प्रसारये उच्चीकृतदक्षिणाङ्गुष्ठं त्वदीयं मञ्जुश्री ! एषा उष्णीषमुद्रा। दक्षिणं सङ्कोच्य वाममुच्छ्रितं ललाटमुद्रा भवति त्वदीया मञ्जुश्रीः !। या दृष्ट्वा सर्वे दुष्टग्रहाः प्रपलायन्ते॥



एवं श्रवणो ग्रीवा भुजौ हृदयं करौ कण्ठ कटिं नाभिः ऊरू जङ्घां चरणौ नेत्रौ वक्त्रं जिह्वा चेति, एवं दशभिरङ्गुलीभिरनुपूर्वमुच्छ्रितौ अनुपूर्वमुद्रालक्षणं भवति। अनुपूर्वं च कर्म करोति। वक्त्रमुद्रया मुखाबन्धं, दंष्ट्रमुद्रया दुष्टग्रहमोचनं, जिह्वामुद्रया दुष्टवचननिवारणं, हृदयमुद्रया नृपतिकोपनाशनं, अन्यं वा सत्त्वं देवासुरं मानुषामानुषाद्यां विविधां वा गतिनिश्रितां रुपितानां क्रोधनाशनं भवति॥



एवमनुपूर्व्या सर्वतः सर्वकर्माणि करोति। एवमसङ्ख्येयानि अनेन क्रमेण मुद्राणि भवन्ति। असङ्ख्येयानि च कर्माणि करोषि त्वं मञ्जुश्रीः ! सर्वथा सर्वमुद्रेष्वेव सर्वकर्माणि भवन्ति॥



बद्धा ता यैः महावीरैः सङ्ख्यातीतैः तथागतैः।

महामुद्रा महावीरैर्महाभूमिगतैरपि॥

यत्र निम्बरकोद्यानि षट्‍त्रिंशाशीतिनवपञ्चकैः।

षष्टिर्नयुतसङ्ख्याद्यैः सर्वलोकोत्तरोत्तरैः॥

सर्वमुद्रान्तर्गताः सर्वे ये चान्या लौकिका क्रिया।

एभिरन्यतमैर्मुद्रैः कुर्यात् सर्वार्थसाधनम्॥

हस्तद्वयेनावबद्धा वै साधनकाले च मण्डले।

पूर्वसेवाभियुक्तेन होमजापेषु वा पुनः॥

निषण्णः स्थितको वापि यावादिच्छं जपेद् व्रती।

महारक्षाविधानेन आत्मनस्य परस्य वा॥

कुर्यात् सर्वाणि कर्माणि सर्वमुद्रेषु सर्वदा॥ इति॥



आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकाद्

महायानवैपुल्यसूत्रात् चतुःत्रिंशतिमः

द्वितीयमुद्राविधिपटलविसरः

परिसमाप्त इति॥



(एतद्ग्रन्थान्तेऽन्तिमस्य पटलविसरस्य त्रिपञ्चाशत्तमस्य समाप्त्यनन्तरं महामुद्रापटलविसरो नाम कश्चिदपरश्चतुस्त्रिंशत्तमः पटलविसरो लिखित उपलभ्यते। स गतस्य चतुस्त्रिंशत्तमस्यैव प्रकारभेदो भवितुमर्हतीत्यतः कारणादिहैव योज्यते।)



अथ भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। सर्वांश्च बोधिसत्त्वां सर्वसत्त्वांश्च पर्षत्सन्निपतितां। शृण्वन्तु भूतगणाः ! सर्वे ! देवपुत्राश्च महर्द्धिकाः ! अस्ति मञ्जुश्रियः कुमारभूतस्य बोधिसत्त्वस्य महासत्त्वस्य कल्पविसरे समुद्रापटलसाधनोपयिकं सर्वमन्त्रतन्त्रचर्यानुप्रविष्टानां सत्त्वानां बोधिसम्भारकारणं। यथा सिध्यन्ति सर्वमन्त्राः क्षिप्रतरमाकृष्यन्ते सर्वकर्माणि सर्वेषां सर्वतः मुद्राणि भवन्ति। यैः मुद्रिताः क्षिप्रतरं वशा भवन्ति। तं शृण्वन्तु भवन्तो। भाषिष्येऽहं सर्वसत्त्वानामर्थाय। सर्वमन्त्राणां मुद्राणि भवन्ति॥



अथ खलु भगवां शाक्यमुनिः सर्वबुद्धधर्माणां मुद्रालङ्कारतथागतगुणमाहात्म्यसमुद्रमुद्रा नाम समाधिं समापद्यते स्म। समनन्तरसमापन्नस्य भगवतः सर्वतथागताः सर्वमुद्रासमयं भाषते स्म। तस्मात् समाधेरुत्थाय सर्वतथागतमुद्रामुद्रितं महामुद्रापटलविसरं सर्वमन्त्राणां भाषते स्म॥



आदौ तावत् सर्वमन्त्रकुलेषु हृदयानि भवन्ति। पूर्वमुच्चारयेद् द्विसप्त एकवाराम्। ततो मुद्रा बन्धितव्या, नान्यथादिति। कतमं च तत्॥



सर्वतथागतानां हृदयम्। जिनजिक्। एष स मार्षाः ! सर्वतथागतानां हृदयः सर्वकर्मिकः। तथागतकुले सर्वमुद्रा बन्धितब्या। ततः कर्म समारभेत्। आरोलिकु। अवलोकितस्य हृदयः सर्वकर्मिकः पद्मकुले सर्वमुद्राबन्धयता अयं जप्तव्यः सर्वसाधनोपयिक सर्वकर्मसु। वज्रधृक्। एष स मार्षा वज्रपाणेः हृदयम्। सर्ववज्रकुलेषु च जपता मुद्रा बन्धितव्या। सुरारक्। एष सर्वदेवानां सर्वमुद्राबन्धयता सर्वकर्मसु प्रयोक्तव्यः। सर्वदेवानां हृदयः। यक्षातक्। सर्वयक्षाणां हृदयः। पिनाधृक्। रुद्रस्य हृदयः। ष्ठों। एष स मार्षा एकाक्षरं नाम हृदयम्। सर्वलौकिकलोकोत्तराणां सर्वभूतकूष्माण्डपूतनक्रव्यादादिषु नक्षत्रग्रहमातरकुमारकुमारिकाणां मनुष्यामनुष्यसर्वसङ्ख्यातविद्याधरऋषिप्रभृतीनां सर्वसत्त्वानां सर्वगतिसूत्रकर्मावबद्धानां सर्वभूतानामुक्तानां च वीतरागानां महर्द्धिकामहर्द्धिकाणां तृदोषशमनानां त्रिपङ्कनिमग्नानां सर्वसत्त्वानामर्थाय अयमेकाक्षरो मन्त्रः सर्वेषां हृदयं भवति। सर्वकर्माणि करोति। सर्वमुद्राश्च बन्धितव्या। जपं कुर्वाण अनेनैव हृदयेन जपः कर्तव्यः। सततं बुद्धाधिष्ठितो भवति। महाप्रभावोऽयं महानुशंसः सर्वकर्मसु मुद्रादिकमण्डलुविधानपटसाधनोपयिकेषु सत्त्वानुपूर्वं प्रयोक्तव्यः। सर्वं साधयति। यन्मनसाभिरुचितं साधकेनेति॥



ततो मुद्राणि भवन्ति शतं चाष्टसाधिकम्।

उष्णीषमुद्रा प्रथमं कुर्याच्चक्रिणे जिने॥

ततः परमलोके स पद्ममुद्रेति कथ्यते।

तृतीयं वज्रमुद्रं तु वज्रपाणिसमाविशे॥

चतुर्थं देवतामुद्रं स्वस्तिकं तु विनिर्दिशेत्।

पञ्चमं खड्गमुद्रा तु राक्षसानामिहोच्यते॥

षष्ठं गदमुद्रा तु यक्षाणा मे प्रकीर्तिता।

सप्तमं असुराणां तु मन्त्राणां वज्रमुष्टिसमोदिता॥

अष्टमं शूलमुद्रा तु सर्वक्रोधेषु पठ्यते।

नवमं पुष्पमुद्रा तु यक्षयक्षीषु कीर्त्तिता॥

दशमं मुद्गरं विन्द्यात् फरमेकादशं परम्।

द्वादशं शक्तिनिर्दिष्टा कार्त्तिकेयस्य बालिशः॥

मञ्जुघोषस्य विख्यातमुत्पलं तु प्रयोजयेत्।

त्रयोदशानां सङ्ख्या निर्दिष्टा मुनिभिः सत्त्वदेशिभिः॥

चतुर्दशं तु भवेच्छङ्खो भेरी पञ्चादशा स्मृता।

पटहो षोडशा ज्ञेयो दुन्दुभिः सप्तदशो परः॥

अष्टादश तथा बद्धमूनविंशत् करणमुच्यते।

विंशत् परशु निर्दिष्टा सङ्ख्याया तु प्रमाणतः॥

सितपत्रा तथाच्छत्रं उष्णीषाणां प्रकीर्त्तितम्।

चीवरं पात्रनिर्दिष्टं खखरं तु मतः परम्॥

कृपा मैत्री तथा प्रज्ञा ध्यानशील तथापि च।

क्षान्तिदानादिकं षट्कं निर्दिष्टं लोकनायकैः॥

बुद्धानां कथिता ह्येते षट् पारमिताश्रवात्।

त्रिंशच्चक्रिणे मुद्रा कथिता लोकपुङ्गवैः॥

एकाक्षरस्य वीरस्य मन्त्राणामधिपतेर्विभो।

लोकेश्वरस्य विद्यानां कथिताष्टविंशति साधिका॥

सिताख्या महाश्वेता तथा पण्डरवासिनी।

भृकुटी च तथा देवी बुद्धानां हृदयोद्भवा॥

ताराया कथ्यते मुद्रा उत्पलं तु नियोजयेत्।

हयग्रीवस्य तु भीमस्य मुद्रा वक्त्र इति स्मृता॥

वज्रपाणे तथा मुद्रा त्रिंश एक भवन्ति ते।

सर्वे प्रहरणा तस्य नानाकारा युधिष्ठिता॥

चत्वारोऽपि महामुद्रा प्रोक्ता मारमण्डले।

रुद्रस्य शूलनिर्दिष्टो + + + + + + + +॥

ब्रह्मस्याक्षमालं तु विष्णोश्चक्रमितिस्तथा।

+ + + + + + + + यमदण्डमतः परां॥

एतत् सर्वं देवानां सर्वयक्षनराधिपां।

सर्वभूतानां तथा मुद्रा सर्वसत्त्वसमाश्रिता॥

सरागवीतरागाणां त्रिधा धातु स्थिता परां।

सर्वलोकसमावृत्त्यु त्रिधा स्थावरजङ्गमा॥

धात्वाख्यामसङ्ख्येयां ये सत्त्वा भूतवादिनः।

सर्वेषाणां तु सर्वत्र एकमुद्रादिहोच्यते॥

एवमष्टशतं प्रोक्तं शतमेकं साष्टसाधिकम्।

तेषां च गुणविस्तारं प्रभावं च इहोच्यते॥

यथा मनुष्याणां भवेत् सिद्धिः संयुक्ता मन्त्रयोजिता।

करोत्यन्यप्रयोगैश्च अङ्गुलीभिः सशोभिता॥

विन्यस्ता करयोर्मध्ये क्षिप्रमर्थकरा परा।

तेषामादि वक्ष्ये शृणुध्वं भूतिकांक्षिणः॥

आदौ तावच्छुचौ देशे शुक्लवस्त्र शुचाम्बरः।

शुचिकर्मसमाचारो शुचौ देशे सदारतः॥

बन्धयेत् प्राङ्मुखो भूत्वा स्थितो स्तूपस्य चग्रतो।

नाशिष्याय प्रदातव्यं रौद्रकर्मान्तचारिणे॥

अभय अदाताय समयानुप्रवेशिने।

भक्तो जिनपुत्राणां बुद्धानां चापि शासने॥

अनुत्पादितचित्तस्य नादेयं मुद्रसम्पदा।

भक्तानां जिनपुत्राणां बोधिसत्त्वानां च धीमताम्॥

प्रत्येकबुद्धानार्हतानां पूजितानां ददेत् सदा।

सुस्थितो बोधिचर्यायामाचार्यो बहुमतः सदा॥

सर्वमन्त्रप्रयोगेषु + + + उत्कृष्ट सदा।

तेन मुद्रा तदा देया शिष्यस्याविचिकित्सतः॥

तथा मन्त्रप्रयोगज्ञः शुचिर्दक्षः कुलान्वितः।

आचार्यो धार्मिको धीमां अभिषिक्तो दृष्टमण्डलः॥

तेनोपदर्शिता मन्त्राः शिष्यो गृह्येत तन्त्रवित्।

शिष्येण कार्यस्तथा प्रेमो बुद्धस्येव गुरोस्तथा॥

अन्यथा न सिद्धि मन्त्राणां सर्वमुद्रेषु वा सदादिति।



आदौ तावत् शुचिर्भूत्वा प्राङ्मुखो शुक्लचन्दनेन हस्तमुद्वर्त्य, पूर्वं तावत् समयमुद्रा बन्धितव्या। भगवतो उष्णीषस्य मुद्रा। उभौ करौ कृताञ्जलिपुटौ अशुषिरौ ईषिन्कुञ्चितौ कुड्मलाकारौ अकोशपद्माननौ। अयं भगवतो बुद्धस्य समयमुद्रा। तदेव हस्तौ प्रसारितौ सम्पुटावस्थौ पद्मविकसिताकारा अवलोकितस्य मुद्रा। उभौ हस्तौ पूर्ववत् करमावेष्टयित्वा अभ्यन्तरस्थिताभिरङ्गुलीभिः कन्यसः तर्जन्योपरिष्ठा निष्पीडयेत्। इयं मञ्जुश्रियः कुमारभूतस्योत्पलमुद्रा। तदेव कन्यसौ सङ्कोच्य पूर्ववत् तर्जन्याभिः अङ्गुष्ठसमेतौ स्थितिका एव उत्पलकुड्मलाकार दर्शयेत्। सर्वङ्गमानामियं ताराया मुद्रा। तदेव सङ्कोच्य नेत्राकारं कृत्वा, इयं मुद्रा आर्यभृकुट्याः। तदेव ललाटे योजयेत्। इयं देव्यदेव्या नेत्रमुद्रा। पुनरपि तं सङ्कोच्योभौ मध्यमाङ्गुलिभिः सन्दंशाकारं कृत्वा मस्तकोपरि स्थापयेत्। इयं भगवतो चक्रवर्तिनः एकाक्षरस्य महामुद्रा सर्वकर्मिका। तदेव ललाटे स्थापयेद् बुद्धस्य भगवतः हृदयमुद्रा। अक्ष्णौ स्थापयेत्। तदेव चक्रवर्तिनः नेत्रमुद्रा। तदेव मुखे स्थापयेत्। तदेव विद्याधिपतेः चक्रवर्तिन एकाक्षरस्य वक्त्रमुद्रा। एवं याव मन्त्री च भुजौ जानुजङ्घाचरणादिषु विंशत्प्रकारा भवन्ति मुद्रा अष्टौ महामुद्रा भवन्ति। सर्वकर्मसु प्रयोक्तव्या। तदेव करसम्पुटं मध्यमाङ्गुल्यावेष्टितं कृत्वा कन्यसाङ्गुलिसूचीकृतां उभौ अङ्गुष्ठाग्रयवाकारस्थितौ तर्जन्या प्रसारितौ कृतसूच्या कोशीकृतावुभौ निर्मामिकौ वक्रीकृतपर्यन्तौ सुविन्यस्तौ। इयं भगवतां धर्मचक्रमहामुद्रा। तदेवाङ्गुष्ठौ विनाम्य मध्ये प्रसार्य, इयं बुद्धानां चतुर्मारपराजयमुद्रा। तदेव मुद्रां शिरस्योपरिधाय दर्शयेत्। सर्वबुद्धानां सर्वक्लेशनिषूदनं नाम महामुद्रा। तदेव ललाटे स्थापयेत्। महाकरुणा नाम सर्वबुद्धानां मुद्रा। तदेव हृदये स्थाप्य, सर्वदृष्टिशल्याभ्युद्धरणं नाम महामुद्रा। तदेव मुद्रं उभौ न्यसेत्। सर्वविद्याप्रसाधनं नाम महामुद्रा। तदेव मुद्रा ग्रीवा संन्यसेत्। सर्वानर्थप्रशमनकरी नाम महामुद्रा। तदेव मुद्रा सर्वतः भ्रामयेत्। महारक्षार्थसम्पातनं नाम महामुद्रा। एवमनेन प्रकारेण अष्टौ महामुद्रा भवन्ति सर्वार्थसाधकाः। जयोष्णीषस्य मुद्रा भवन्ति। तदेव करपल्लवो वामहस्तप्रसारितौ दक्षिणतस्तिर्यकं। इयं सितातपत्रस्यच्छत्रमुद्रा। तदेव हस्तौ तथा विन्यस्तौ शिरसि भगवतो जयोष्णीषस्य मुद्रा। उभौ करतलौ सम्पुटीकृत्य मूर्ध्निं स्थापितो उष्णीषाकारो इयं भगवतो अभ्युद्गतोष्णीषस्य मुद्रा। तदेव मुद्रां विकाषयेत्। इयं ज्वालामालिनोष्णीषमहामुद्रा सर्वकर्मिका सर्वभयेषु च प्रयोक्तव्या सर्वकर्मसु। तदेव मुद्रा उरसि स्थापयेत्। सर्वोष्णीषाणामियं महामुद्रा। तदेव हस्तौ आवेष्ट्यावस्थितौ सुदृढौ सर्वतथागतानां महाकवचमुद्रा सर्वविघ्नेषु प्रयोक्तव्या। तदेव हस्तौ उभयाग्रावस्थितौ पुस्तकाकारौ उरोमध्ये न्यसेत्। इयं सा सर्वबुद्धानां जनेत्री प्रज्ञापारमिता महामुद्रा। सर्वसत्त्वानां दर्शयेत्। सर्वविघ्नेषु सर्वानर्थां प्रशमयति। सर्वार्थां सम्पादयति। स्मृतिसञ्जननं कुरुते। तदेव हस्तौ ललाटे न्यसेत्। सर्वबुद्धानामभिषेकः धर्ममहामुद्रा। सर्वाभिषेकेषु प्रयोक्तव्यः सर्वसत्त्वानाम्। तदेव हस्तौ चित्राकारेण ललाटे न्यसेत्। सर्वमारविद्रापनं नाम महामुद्रा। तदेव हस्तौ सङ्कुचिताकारौ अन्योन्यसङ्कुचितसक्तौ सूच्याकारेण व्यवस्थितौ मध्यमाङ्गुलिप्रसारितौ सूचीकृतचिह्नौ अङ्गुष्ठोद्वन्द्वपरामृष्टौ। इयं भगवतो तेजोराशेर्महामुद्रा। तदेव मुद्रं शिरसोपरि निधाय इयमपरा तथागतोष्णीषस्य तेजोराशेर्महामुद्रा। तदेव हस्तौ ललाटे स्थापयेत् तेनैवाकारेण इयं भगवतो तृतीया नेत्रमुद्रा। तदेव हस्तौ उभयचित्रीकृतौ अन्योन्योपरिस्थितौ दक्षिणार्थमथ वामसम्पुटाकारस्थितौ अन्योन्याङ्गुष्ठकन्यसावेष्टितौ। इयं सर्वबुद्धानां महावज्रासनमूलमुद्रा। तदेव हस्तौ मूर्ध्नि दर्शितौ महाबोधिवृक्षमूलमुद्रा। तदेव हस्तौ सम्पुटितौ पृष्ठीकृतौ सर्वबुद्धानां सर्वमारविध्वंसनकरी नाम मुद्रा। तदेव हस्तौ अन्योन्यावसक्तौ ग्रीवायां न्यसेत्। सर्वभूतवशीकरी नाम मुद्रा। तदेव कण्ठे धारयेत्। सर्वभूतविलोकनी नाम महामुद्रा। तदेव जानुभ्यां न्यसेत्। सर्वदुर्गतिविशोधनी नाम महामुद्रा। तदेवोर्ध्वं चिक्षिपेत्। सर्वदेवोत्पत्तिसन्निचयं नाम महामुद्रा। तदेव हस्तौ अभयाकारं उभौ सर्वभोगविषयं नाम शनिर्नाम महामुद्रा। तदेवाञ्जल्यकारेण मुर्ध्नि स्थापयेत्। सर्वबुद्धक्षेत्राक्रमणी नाम महामुद्रा। तदेव हस्तौ उभौ कर्णे स्थापयेत्। स्फुटाकारेण सर्वनागदमनी नाम महामुद्रा। तदेव हस्तौ उभौ सम्पुटं कृत्वा नासाग्रे धारितव्यः। सर्वबुद्धानामालम्बनं नाम महामुद्रा। तदेव मुद्रं शिरस्योपरि न्यसेत्। सर्वबुद्धाभ्युद्गतोष्णीषो नाम महामुद्रा॥



एवमनेनाकारेणासङ्ख्यानि भवन्ति सर्वतथागतोष्णीषाणां मुद्राणि। असङ्ख्येयैः बुद्धैर्भगवद्भिः असङ्ख्येय चक्रवर्तिकुलं असङ्ख्येयाश्चक्रवर्तिनः। तेषामधिपतिः एकाक्षरो चक्रवर्त्ती मन्त्राधिप असङ्ख्येयाश्च तथागतोष्णीषराजानः असङ्ख्येयाश्च सर्वमन्त्रेषु कल्पविसरा। तेषां संक्षेपतः वक्ष्यते मुद्रा चात्र भवत्येक एव सर्वेषां हृदयः एकाक्षरः चक्रवर्त्ती। तस्यैव मूलमुद्रा सा इहैवोच्यते मन्त्रेषु निर्दिष्टा महाप्रभावामितौजसः। यस्याः बन्धनादेव सर्वमन्त्राभिमुखा भवन्ति। सर्वबुद्धाश्च भगवन्तः सिद्धिमनुप्रयच्छन्ते। अधिष्ठिन्ति च विद्यासाधकं चक्रवर्तिस्मरणादेव मन्त्रनाथं एकाक्षरमद्वितीयं दशबुद्धकोटीकुशलमूलार्जितो भवति। चतस्रोऽपि मूलापत्तयोरापन्नस्य भिक्षा तन्महान्तं नरकोपपत्तिवेदनीयं कर्मक्षयं गच्छति स्मरणादेव। कः पुनर्वादो जपम्। पञ्चानन्तर्याणि च क्षयं गच्छन्ति। कः पुनर्वादोऽन्ये अकुशलाः स तस्मात् सर्वप्रयत्नेनायं विद्याराजाधिपो एकाक्षरः स्मर्तव्यो जप्तव्यः भावयितव्यो मनसि कर्तव्यः पूजयितव्यः सततमेवाराधयितव्यः। नमः समन्तबुद्धानाम्। भ्रूँ। एष स मार्षा सर्वोष्णीषाणां तथागतभाषितानां अयं मूलमन्त्रः। अनेनैव मन्त्राधिपतिना उष्णीषचक्रवर्तिना तथागतमूर्धजेन सर्वकर्माणि कारयेत्। मुद्रोपेतेन सर्वमन्त्रेषु लौकिकलोकोत्तरेषु कल्पविसरेषु नियतं सिध्यति। मुद्रा चात्र भवति। तदेव हस्तौ सम्पुटाकारौ मध्यमाङ्गुलिप्रसारितौ सर्वत्राङ्गुल्याग्राभ्यन्तरस्थितौ कुण्डलाभोगाकार ईषिदूर्ध्वावनतं उष्णीषाकारं शिरस्युपरि धारयेत्। इमं एकाक्षरचक्रवर्तिने महामूलमुद्रा। अनया सर्वकर्माणि कारयेत्। उत्तमसाधनादिषु योजयेत्। सर्वरक्षावरणगुप्तये च प्रयोक्तव्यः। नाल्पसाधप्रयोगादिषु प्रयुञ्जानः असमयज्ञो भवति। मन्त्राचार्यस्य न सिद्ध्यन्ते। अन्यत्र रक्षाविधाना। शान्त्यर्थे च पापक्षपणार्थं नित्यमेव जप्तव्यः शुचौ देशे पर्वतनदीसरित्पतितटेषु च नान्यस्थानेषु जप्तव्यो यत् कारणं महाप्रभावोऽयं विद्याराजा नान्यदेशेषु जप्तव्यः। प्रभावोद्गतेन मनसा सर्वसत्त्वानां मैत्र्या स्फुरित्वा जप्तव्यः। मुद्रा चात्र भवति। तदेव हस्तौ करसम्पुटाकारौ आवेणिकाङ्गुलिभिः कृत्वा मध्यमाङ्गुलीनां पर्वभागे तृतीये ईषिदवनामयेत्॥ उष्णीषाकारं कारयेत्। इमं भगवतोष्णीषराजस्य महामुद्रा। तदेव हस्तौ सम्पुटं कृत्वा ईषदवनामयेद्भगवतोष्णीषस्य तृतीया महामुद्रा। ॐ गोदरे वीर स्वाहा। अयं सर्वेषां तथागतानां हृदयः सर्वकर्मिकः सर्वार्थसाधकः सर्वानर्थनिवारकः। इयं स्मरणमात्रेणैव सर्वबुद्धाधिष्ठितो भवति। सर्वपापेभ्यो मुच्यते। सर्वमन्त्राणामुपरि वर्त्तते। बुद्ध एव साक्षाद् द्रष्टव्यः। अनया मुद्र सह प्रयोक्तव्या। सर्वकर्माणि क्षिप्रतर एव करोति। अनेन जप्यमानेन सर्व एव मन्त्रा जप्ता भवन्ति। यथा यथा प्रयुज्यते तथा तथा कर्माणि करोति। जापिनस्येच्छया सर्वकर्मिको भवति। तदेव हस्तौ करसम्पुटावस्थौ शिरसि धारयेत् त्रिसूच्याकारेण। इयं भगवतां बुद्धानां सर्वेषां द्वितीया हृदयमुद्रा। मन्त्रं चात्र भवति। ॐ गेरुरे वीर स्वाहा। इमं सर्वेषां बुद्धानां भगवतां हृदयमुद्रा। सर्वकर्मिका सर्वानर्थनिवारिका सर्वार्थसम्पादिका महाप्रभावा सर्वमन्त्रकल्पेषु साधनीया। नात्र विचिकित्सा कार्या। यथा यथा प्रयुज्यते तथा तथा सिध्यतीति। पुनरपि तदेव हस्तौ सम्पुटाकारावस्थितौ अभ्यन्तराङ्गुलिभिः गाढमावेष्ट्य उभौ तर्जन्यौ प्रसारितौ ईषदाकुञ्चयेच्छिरस्युपरि निधाय दर्शयेत्। इमं सर्वतथागतोष्णीषाणां महामुद्रा। भवति चात्र मन्त्रः। ॐ ट्रां बन्ध स्वाहा। अयं सर्वोष्णीषाणां मूलमन्त्रः सर्वकर्मिकः दिश दिश सर्वबन्धेषु प्रयोक्तव्यः। सर्वकर्माणि च करोति। साधनजपकाले होमादिषु आत्मरक्षा पररक्षा वा सर्वद्रव्येषु सर्वमन्त्रकल्पेषु च यान्युक्तानि लौकिकलोकोत्तरेषु तान्यशेषतमनेनैव रक्षा कार्या। महारक्षा कृता भवति। सर्वमन्त्रेषु प्रयोक्तव्यः। सर्वकर्मसु सिध्यति। सर्वतथागतोष्णीषाणां महाचक्रवर्तिविद्याधिपतीनां तेजोराशिसितातपत्रजयोष्णीषप्रभृतीनां यानसाधनविसरपटलानि मुद्रामन्त्राणि तान्यशेषतः विस्तरतो प्रयोक्तव्या सर्वाणि च लौकिकलोकोत्तराणि मन्त्रतन्त्रविस्तरपटलविसरां अनन्तानि च मुद्राणि। भवन्ति चात्र मन्त्रः। ॐ ज्वलितोग्रदेह विभिन्द हुं फट स्वाहा। एष भगवतः तेजोराशेर्बुद्धस्य परमहृदयः सर्वमन्त्रेषु सर्वतः सर्वकर्मिकः प्रयोक्तव्यः इति। तदेव हस्तौ यमलिताकारौ मध्यमाङ्गुलिप्रसारितौ तर्जन्या परिवेष्टितौ कटकाकारेण पाशपरिवेष्टितौ उभौ कृतमण्डलाभोगौ। इयं च भगवतो बुद्धस्य खङ्खरमुद्रा। मन्त्रं चात्र भवति। ॐ धुन जितारण हुँ। एष भगवतां बुद्धानां खङ्खरकमुद्रामन्त्रः सर्वकर्मसु प्रयोक्तव्यः। यथाभिरुचितेषु सर्वमन्त्राणां प्रवोधनः सर्वभूतानां वशङ्करः सर्वसत्त्वानां समाश्वासकरः सर्वद्रव्याणां समुत्तेजकः साधकः सर्वपापानां समुच्छोषकः। यथा यथा प्रयुज्यते अयमष्टाक्षरो तथागतमन्त्रः तथा तथा सर्वकर्माणि साधयतीति। तदेव हस्तौ आवेष्टितौ कृत्वा कृतपात्राकारौ। इयं सर्वतथागतानां पात्रमुद्रा तथागतपात्र इत्यवगन्तव्यः। नाभिदेशे धारयेत् सर्वकर्मसमर्था भवति। भवति चात्र मन्त्रः। ॐ लोकपालाधिष्ठित धर धर धारय महानुभाव बुद्धपात्र स्वाहा। एष भगवतां बुद्धानां तथागतपात्रमुद्रामन्त्र अनेन संयुक्तः सर्वकर्मसमर्थकरो भवेत्॥





करोति कर्मवैचित्र्यं गतिमाहात्म्यपूजितम्।

साधयेत् सर्वकर्माणि सर्वमन्त्रेषु भाषिताम्॥

साधकस्येच्छया क्षिप्रं करोतीह न संशयः।

येऽपि ताथागती मन्त्रा ये चापि अवलोकिते॥

कुलिशाह्वे मन्त्रमुख्यास्तु नानादेवतपूजिता।

ते सर्वे सिद्धिमायान्ति बुद्धपात्रसमोदिता॥

विविधा दूतिगणा ह्यग्रा चेटचेटिगणास्तथा।

नानाकिङ्करमुख्यास्तु यक्षराक्षसकश्मला॥

प्रेष्या सर्वमन्त्रणां सर्वकर्मकरास्तथा।

विविधैर्राजमुख्यैस्तु देवगन्धर्वयोनिजैः॥

सिद्धविद्याधरैः मन्त्राः लोकपालाश्च महर्द्धिकाः।

शक्राद्यैः ब्रह्ममुख्यैस्तु सुरश्रेष्ठैश्च धीमतैः॥

मन्त्रा भाषिता ये स्युः सर्वकर्मकरा सदा।

किन्नरैर्गरुडैश्चापि महर्द्धिकैः॥

सर्वे ते सिद्धिमायान्ति बुद्धपात्रसमोदिता।

आकृष्टा सर्वमन्त्राणां गतिमूर्तिसमाश्रिताम्॥

वशै ता मन्त्रराट् स्वामी प्रभुः श्रेष्ठो महाद्युतिः।

अग्र च सर्वमन्त्राणां निर्दिष्टो तत्त्वदर्शिभिः॥

स मन्त्रो पात्रभूतस्थः त्रिषु चिन्तामणिस्तथा।

करोति कर्मवैचित्र्यं ईप्सितं साधकेच्छया॥

विविधागुणमाहात्म्यं प्रभावातिशयापराम्।

करोति ऋद्धिदुर्लङ्घ्यं सर्वमन्त्रिभिः॥

अपात्रो पात्रतां याति मन्त्रस्थे मुनिवर्णिते।

पात्रो मन्त्रप्रयुक्तस्तु मुद्राभिश्च समन्वितः॥

करोति गुणविस्तारं विचित्रं कर्मसम्भवम्।

हन्युः सर्वतो रोगान् भोगांश्चैव सुपुष्कलाम्॥

त्रिजन्मगतसत्त्वानां देवदैत्यनराधिपाम्।

कुर्यात् सम्पदां क्षिप्रं सर्वकर्मसु योजिता॥ इति।



तदेव हस्तौ करसम्पुटाकारौ सविचित्रवेणिकावबद्धौ ललाटदेशे स्थापयेत्। चित्रहस्त तदेव भगवतां बुद्धानां चिन्तामणिरत्नमहामुद्रा। मन्त्रं चात्र भवति। नमः सर्वबुद्धेभ्यः ॐ तेजोज्वाल सर्वार्थसाधक सिध्य सिध्य सिद्धिचिन्तामणिरत्न हुँ॥



चिन्तामणिरत्नमन्त्रः सर्वार्थसाधकम्।

ईप्सितां साधयेदर्थां मन्त्राश्चापि सविस्तराम्॥

करोति गुणमाहात्म्यं चिन्तितं चापि साधयेत्।

सम्पदां सफलांश्चापि मन्त्रतन्त्रसुभाषितम्॥

नैष्ठिकं साधयेदर्थां बुद्धत्वनियतं तथा।

इच्छया कर्मविन्यस्तं करो चैवमजायत॥

विविधां सम्पदां सद्यः फलमुद्भवचेष्टिताम्।

सर्वाणां मन्त्रतन्त्राणां साधये त्मसाधितम्॥

देवत्वमथ शक्रत्वं ब्रह्मत्वं वापि रूपिणम्।

आभास्वराणां तथा मूर्तिसदृशानां सुदर्शनाम्॥

सुरश्रेष्टां सुरामग्रां बृहत्फलामकनिष्ठाम्।

देवभूयिष्ठां मूर्तिमाप्नोति साधनादिति॥

चिन्ता मनसो ह्यग्रा कथिता मन्त्रार्थविस्तराम्।

मुद्रासु पुष्कलाश्चैव गतिधर्मार्थसाधका॥

सर्वधर्मार्थनिःपत्तिं सर्वमन्त्रार्थसाधनम्।

सर्वगुणबोध्यर्थं धर्मधातुसमाश्रयम्॥

कथितं मन्त्ररूपेण रत्नचिन्ताग्रपूजितम्।

विशेषात् प्राप्नुयात् स्वर्गरूपाश्चैव समाश्रयम्॥

साधनात् प्राप्नुयात् स्वर्गं गतिमन्त्रार्थविस्तरमिति॥



तदेव हस्तौ उभौ स्कन्धावसक्तौ अर्धोपरिस्थितौ दक्षिणवामावष्टब्धौ अन्योन्यासक्तौ करमूलसुयोजितौ। इयं सर्वबुद्धानां चीवरमुद्रा। भवति चात्र मन्त्रः। ॐ रक्ष रक्ष सर्वबुद्धाधिष्ठिता मे चीवर स्वाहा। चीवरमन्त्रः। आत्मचीवरमभिमन्त्र्य प्रावरेत्। सर्वभूतानां अधृष्यो भवति। महाराजक्षत्रियेन मूर्ध्नाभिषिक्तेन सर्वप्रश्वासकरेणात्मवस्त्रमभिमन्त्र्य सप्तवारां सङ्ग्राममवतरेत्। सर्वारयः दृष्ट्वा स्तम्भिता भवन्ति। प्रतिनिवर्तन्ते वा। सर्वभूताश्च दृष्टमात्रा वशा भवन्ति। गतमानमदर्प न चास्य काये शस्त्रं निपतति। न चास्य मनुष्यामनुष्यभयं भवति। न विषो न हुताशनः काये निपतति। न चास्य रोगभयं भवति। न चास्यापमृत्युभयं भवति। न चास्य परचक्रेण हन्यते। न डाकिनीभूतपिशाचैश्च यक्षराक्षसगन्धर्वै विचित्रैर्वा भूतगणैः ओजोहारिभिः रौद्रचित्तैः पिशिताशनैः सर्वक्रव्यादैर्वा हिंसकैः परसत्त्वविहेठकैः पापकर्मान्तचारिभिर्वा राजानैर्न शक्यते हिंसयितुं उपघातं कर्त्तुम्। कः पुनर्वादो विना रक्षा वा भेत्तुं सर्वकर्मादिषु सर्वद्रव्येषु जीविता व्यवरोपयितुम्। न हि तद्विद्यते सत्त्वो वा सत्त्वनिकायो वा मन्त्रो वा मुद्रो व विषो वा स्थावरजङ्गमो वा शस्त्रो वा प्रहरणानि वा विविधानि राक्षसो वा राक्षसी वा यक्षा वा यक्षी वा यक्षमहल्लको वा यक्षमहल्लिका वा यक्षपार्षदो वा यक्षपार्षदी वा पेयालं विस्तरेण कर्तव्यं सर्वसत्त्वेभ्यः। नेदं स्थानं विद्यते। अतो न तथागतमुद्राचीवरमन्त्रेण कृतरक्षाविधानेन जापमात्रेण वा स्मरितेन वा नान्यशक्तो भेत्तुं तथागतमन्त्रैर्वा सर्वबुद्धबोधिसत्त्वैश्च भेत्तुम्। वर्जयित्वा तस्यैव साधकस्येच्छया। एवं महाप्रभावोऽयं मन्त्रः सर्वकर्मिकः सर्वार्थसाधकः सर्वदुष्टविनाशकः सर्वमङ्गलसङ्गतः सर्वार्थपरिपूरकः सर्वदुर्गतिशोधकः सर्वक्लेशनिषूदनो बुद्धधर्मां परिपूरकमिति॥



तदेव हस्तौ पूर्ववत् मध्यमाङ्गुलिमधोनामितौ अनामिकाग्रावस्थितौ अङ्गुष्ठपरिनामितौ तृतीयपर्वमङ्गुष्ठाविश्लेषितौ कन्यसानामितौ चक्राकारौ आराग्रोपेतौ नाभिमण्डलोपेतौ कृत्वा शिरःस्थाने स्थापयेत्। इयं सर्वबुद्धानां धर्मचक्रमुद्रा। मन्त्रं चात्र भवति। ॐ छिन्द छिन्द हन हन दह दह दीप्तचक्र हूँ। एष सः सर्वबुद्धानां धर्मचक्रमन्त्रः। सर्वक्लेशनिषूदनः सर्वोपायदुर्गतिविनिपातां छिन्दयति। सर्वबुद्धधर्मां ज्वालयति। सर्वक्लेशान्धकारां आलोकीकरोति। सर्वदुःखां विहेठयति। सर्वकर्मां साधयति। सर्वदुःखेभ्यः प्रमोचयति। सर्वद्रव्यां दीपयति। अयं भगवां धर्मचक्रः परमन्त्रकृतदुष्टसत्त्वोपदेशितप्राणोपहारिणां मन्त्रां हिंसकां रौद्रां विकृतिस्थां छिन्दयति दालयति पाचयति शोषयति उत्सादयति च साधकेच्छया उत्कीलयति मोचयति यथाव्यवस्थायामुपस्थापयति। यथा यथायं भगवां प्रयुज्यते तथा तथा कर्माणि करोति वर्जयित्वाभिचारुकं कामोपसंहितानां च। सर्वशान्तिकर्मसु च प्रयोक्तव्यम्। महारक्षादिभिः सर्वतः सर्वसत्त्वोपकारायैव प्रयोक्तव्यः। सर्वसाधनेषु लौकिकलोकोत्तरेषु मन्त्रमुद्रेषु कल्पोक्तेषु सर्वकर्मसु शान्तिकपौष्टिकेषु महारक्षा अनेनैव प्रयोक्तव्यमिति॥



तदेव हस्तौ प्रहारावर्जितदक्षिणाग्रकरवामहस्ततर्जन्या तर्जयमानं सङ्कोचितक्रकूनिकाग्रन्थान्यप्रयोगावस्थितसन्दशेदोष्ठपुटा जानुभागावस्थितवामचरणविक्षिप्तदक्षिणावनामित‍उपविष्टकिञ्चित्स्थितकास्थित। इदं भगवत्यापराजिताया महामुद्रा। भवति चात्र मन्त्रः - ॐ हुलु हुलु चण्डालि मातङ्गि स्वाहा। अपराजिताया -



मन्त्रा सर्वबुद्धानां सर्वमारनिषूदनी।

सर्वविघ्नप्रशमनी आयुरारोग्यवर्धनी॥

श्रेष्ठा सर्वमन्त्राणां रक्षाकर्मविधानता।

नरनारीकुमाराणां सौभाग्यजननं परम्॥

मनुष्यामनुष्याश्च ये चान्ये दुष्टसत्त्वचेतसा।

राक्षसोस्तारका प्रेता स्कन्दापस्मारगुह्यका॥

मातृभूतग्रहगणा योगमन्त्रकृतानि च।

रुजो रोगो व्याधयश्च नानाधातुसमुद्भवाः॥

सर्पमूषिकलूताश्च कीटविष्फोटकानि च।

शरीरे न क्रमिष्यन्ति कर्मणान्यत्र पूर्वकात्॥

अध्ववादविवादेषु राजचोरोदकाग्निषु।

जयं क्षेमं शिवं शान्तिं लप्स्यते नात्र संशयः॥

भूर्जपत्रेऽथवा वस्त्रे लिखित्वान्यत्र वा क्वचित्।

शिरसा ग्रीवकट्या वा बाहुना पाणिनाथवा॥

वस्त्रबन्धं शिखाबन्धं कृत्वा ग्रन्थिमालिकाम्।

धारयिष्यति यो नित्यं स्वस्ति तस्य भविष्यति॥

यश्चेमां प्रातरुत्थाय स्वपंश्च परिवर्तये।

सुखं कालक्रियां कृत्वा सप्तजातीं स्मरिष्यति॥

रूपवां शीलसम्पन्नो मुखेनोत्पलगन्धिना।

प्रियश्चादेयवाक्यश्च जात्यां जात्यां भविष्यति॥



भवन्ति चात्र सिद्धानि मन्त्रपदानि मन्त्रसंज्ञानि यथोक्तार्थकराणि तु। तद्यथा -



भञ्जने स्तम्भने धा धा धा धत्स या या या यते हा हा हा हते परकरणि वीर्येवीर्ये गुणतेजभूतकरि भद्रकरि रौद्रकरि कुम्भवति विषकुम्भवति सर्वबले भूतबले रक्ष रक्ष मां सर्वविषेभ्यः सर्वविघ्नेभ्य। तद्यथा - सिद्धकरि सिद्धार्त्थे सिद्धमनोरथे सिद्धकार्ये फुरु नुरूपे स्वस्ते प्रशस्ते सिद्धि सिद्धार्थे धैर्यवति समने तपने शरणे भद्रे भवति शान्ते दान्ते शिवे हुनुनु परि परित्राणं कुरु, परिग्रहं कुरु, परिपालनं कुरु, शान्तिं कुरु, स्वस्त्ययनं कुरु, मम सर्वसत्त्वानां च रक्षां कुरु स्वाहा। अयं हृदयः अपराजितायाः। पूर्वं मूलविद्या। अवश्यं साधकेन कुशलपक्षाभिमुक्तेन भवितव्यम्। त्रिःकालं जप्तव्यम्। पूर्वतरमेव सकृत् पुस्तकवाचिकायां वाचयेदेतदेव कुशलपक्षं भवति। उपहृदयं चात्र भवति - नमः सप्तानां सम्यक्सम्बुद्धानां सश्रावकसङ्घानां सर्ववैरभयातीतानाम्



विपश्चिनस्तेजसा ऋद्ध्या च शिखिनस्तथा।

विश्वभुक् प्रज्ञया चैव क्रकुच्छन्दबलेन च॥

कनकमुनेः शिक्षायां काश्यपस्य गुणोरपि।

शाक्यसिंहस्य वीर्येण शिवं भवतु सदा मम॥



तद्यथा - जये विजये अपराजिते मारसैन्यप्रमर्दनीये स्वाहा। सर्वार्थसाधनीये स्वाहा। एषा भगवती सर्वार्थसाधिका यथा यथा प्रयुज्यते, तथा तथा कर्माणि करोति। सर्वत्र च रक्षाविधानेषु प्रयोक्तव्या। अवश्यं साधकेन मनसि कर्त्तव्या। सर्वविघ्नां नाशयति। सर्वमारकर्माणि च विधमयति। सर्वमन्त्राणि चामुखीकरोति। सर्वबुद्धधर्मां परिपूरयति। सर्वलौकिकलोकोत्तराणि च मन्त्रं आकर्षयति। ऊनातिरिक्तं परिपूरयति। सर्वाशां सम्पादयति। सर्वदुष्टां निवारयति। संक्षेपतः साधकस्येच्छया सर्वां करोति। मरणकाले चास्य संमुखं दर्शनं ददाति। सर्वापायदुर्गतिं परिशोषयति। सततजापेन पञ्चानन्तर्याणि क्षपयति। चतस्रोऽपि मूलापत्तयः तन्वीकरोति। स्मरणमात्रेण जापेनैवोन्मूलयति। सर्वदेवोपपत्तिमनुष्योपपत्तिभ्यो प्रतिष्ठापयति। सर्वबोधिसत्त्वचर्या नियोजयति। सर्वबुद्धधर्मां परिपूरयति। एवमपि भगवती अपरिमितगुणानुशंसा महाप्रभावा सर्वबुद्धानां मुखोद्गीर्णा सर्वमारनिर्नाशनाय भाषिता सर्वतथागतैः सर्वक्लेशशोषणी अप्रतिहता सर्वकर्मसु सर्वरक्षावरणगुप्तयेषु च योजयोतव्या। सर्वबुद्धानां विस्फूर्जितमेतत्। महासिंहनादमेतत्। सर्वचर्यानिश्रयमेतत्। सर्वबुद्धानां बोधिमेतत्। महासमाधिनिष्पन्दितमेतत्। महाप्रातिहार्यऋद्धिमेतत्। सर्वातिशयमेतत्। सर्वशान्तपदमेतत्। सर्वबुद्धास्पदमेतत्। निर्वाणपदमेतत्। स्वस्त्ययनपदमेतत्। अनभिलाप्यपदमेतत्। भूतकोटिपदमेतत्। अभावस्वभावपदमेतत्। यदुत मन्त्रपदं सर्वबुद्धाधिष्ठानपदमिति॥



तदेव हस्तौ करसम्पुटाविन्यस्तौ उभयाङ्गुलिमध्यसूचितौ ललाटदेशे न्यसेत्। एषा अपराजिताया मुद्रा द्वितीया सर्वकर्मिका मूलमन्त्रेण सह विन्यस्ता सर्वाशां परिपूरयति। हृदयस्थाने न्यस्ता हृदयमन्त्रेण संयुक्ता सर्वरक्षोघ्ना सर्वापायदुर्गतींश्च नाशयति। एषा तृतीया भगवत्यापराजितायाः हृदयमुद्रा। तदेव हस्तौ नाभिदेशावलम्बितौ अधोनामितौ करौ। एषा चतुर्था भगवत्यपराजिताया उपहृदयमुद्रा। हृदयमन्त्रेण सर्वकर्माणि करोति। सर्वमङ्गलसंमतानि च सर्वशान्तिः स्वस्त्ययनं च। उदकाभिमन्त्र्य स्नपनं परमसौभाग्यकरणं अलक्ष्म्यापहं लक्ष्मीसञ्जनन श्रिया सम्पत्करणम्। तदेव हस्तौ वक्त्रदेशे स्थापयेत्।

इयमपरा महामुद्रा भगवत्यपराजितायाः महामुद्रा पञ्चमं भवति। एवमनेन प्रकारेण असङ्ख्येयानि मुद्राणि भवन्ति। सर्वपराजितमन्त्रेषु च प्रयोक्तव्यमिति। तदेव हस्तं दक्षिणक्षिप्तं ईषिन्मुष्टोपश्लेषितं वामहस्तेन दृढमुष्टिकम्। एषा सर्वबुद्धानां महाशक्तिमुद्रा। मन्त्रं चात्र भवति - ॐ विजये महाशक्ति दुर्धरि हूं फट् विजयिने फट् मङ्गले फट् स्वाहा। तथागतशक्तिमन्त्रा सर्वदुष्टसत्त्वेषु प्रयोक्तव्या। महाभयेषु च प्रत्युपस्थितेषु ग्रामे वा मुद्रोपेता प्रयोक्तव्या सर्वकर्मसु। ग्रहनक्षत्रपीडासु च सर्ववेताडग्रहगृहीतेषु सर्वयक्षराक्षसपिशाचमरुतग्रहब्रह्मराक्षसादिषु गृहीतस्य मुद्रां बध्वा मन्त्राः प्रयोक्तव्याः। तत्क्षणादेव मुच्यति। सर्वमहाश्मशानप्रवेशेषु च प्रयोक्तव्या। सर्वविघ्ना विद्रवन्ति, प्रपलायन्ते सर्वेण सर्वं न भवन्ति। एवंप्रकारान्येकानि सर्वकर्मार्थचित्राणि मन्त्रतन्त्रमाहात्म्यानि साधयति। सर्वरक्षावरणगुप्तिं च करोति। सर्वरक्षोघ्नं च पवित्रं आयुरारोग्यवर्धनमिति॥



तदेव हस्तौ करसम्पुटावस्थौ ईषिन्नामितमध्यमाङ्गुलीयकौ अनामिकावेष्टितकन्यसौ नेत्राकारों उभयाङ्गुष्ठावष्टब्धौ एष भगवतां बुद्धानां तथागतलोचनमहामुद्रा। नेत्रभागे दर्शिता सर्वतथागुणाग्रमात्रा सर्वतथागतानां जनेत्री सर्वविद्यानां प्रभङ्करी सर्वार्थपरिपूरकी सर्वकुदृष्टीनां विशोधनकरी सर्वसत्त्वसम्यग्दृष्टिसञ्जननकरी सर्वतथागतकुलमाता सर्वमन्त्रगोत्रकुलन्धरी सर्वलौकिकलोकोत्तराणां मन्त्राणां परिपूरकी सर्वार्त्थापरिपूरकी समाश्वासिका। भवति चात्र मन्त्रः - ॐ रु रु स्फुरु ज्वल तिष्ठ सिद्धलोचने सर्वार्थसाधनि स्वाहा। तथागतलोचनानामहाविद्या। वचन वचन वचन ॐ बुद्धलोचने स्वाहा। इयं सा विद्या वज्रपाणेः सर्वकर्मिका अस्यैव। तदेव हस्तौ पूर्ववत् सम्पुटाकारं कृत्वा मध्यमाङ्गुलिरवनामितौ कन्यसाप्रसारिताग्रौ ईषिदवनामितौ उभयाङ्गुष्ठौ तर्जन्यपरिवेष्टितौ अनामिकासंश्लिष्टौ ईषत्कुञ्चितौ। इयं भगवतो सर्वबुद्धानां ऊर्णामुद्रा। तदेव हस्तौ उभयाग्रौ ललाटदेशे स्थापयेत्। एष सर्वतथागतानां ऊर्णामुद्रा। तदेव हस्तौ उभयाग्रवेणीकृतौ ललाटदेशे मण्डलाकारेणावेशयेत्। ईष तृतीयं ऊर्णामणिरत्नमुद्रा। तदेव हस्तौ उभयतः कुञ्चीकृतौ कन्यसाङ्गुलिवेष्टितौ उभयाङ्गुष्ठसंश्लिष्टौ। इयं चतुर्था ऊर्णामुद्रा। तदेवाङ्गुष्ठावनतौ ललाटदेशे चित्राकारेण दर्शयेदेष सर्वतथागतानां तथागतोर्णा। एते पञ्च महामुद्रा तुल्यवीर्या तुल्यप्रभावा सर्वकर्मिकानि भवन्ति। भवति चात्र मन्त्रः सर्वेषाम् - नमः सर्वतथागतानीभ्योऽर्हद्भ्यः सम्यक् सम्बुद्धेभ्यः। हे हे बन्ध बन्ध तिष्ठ तिष्ठ धारय धारय निरुन्ध निरुन्धोर्णामणि स्वाहा। भगन्मन्त्रा सर्वोर्णामणिमुद्राणां सर्वकर्मिकाणि भवन्ति। एषा तथागतोर्णामुद्रा अप्रतिहता सर्वकर्मसु सर्वप्रयोक्तव्या। गोरोचनेन तिलकं कृत्वा मन्त्रं जपता तथागतोर्णा सङ्ग्राममवतरे। सर्वशत्रवः स्तम्भिता भवन्ति। दृष्ट्वा तं प्रपलायन्ते। विगतक्रोधाश्च भवन्ति। मैत्रचित्ता हितचित्ता सर्वसत्त्वा समाश्वस्ताश्च भवन्ति। दृष्ट्वा तं रोचनतिलकं कृत्वा सर्वक्रव्यादादयो न शक्यन्ते। दृष्ट्वा तं महाराजमहासत्त्वमहेशाख्यमहोत्साहं ज्वलन्तमिव पश्यन्ते। सर्वदुष्टप्रदुष्टानां सर्वयक्षराक्षसप्रेतपिशाचसर्वग्रहभूतकश्मला रौद्रचित्ता मैत्रचित्ता भवन्ति। अपक्रमन्ते तस्माद् देशात्। सर्वोपद्रवचर्येभ्यश्च मुच्यते। सर्वग्रहगृहीतेषु सर्वमातरबालग्रहेषु ब्रह्मराक्षसादिषु गोरोचनमभिमन्त्र्य ललाटे तिलकं कृत्वा दर्शयेत्। सर्वे दृष्टमात्रा प्रमुञ्चन्ते विद्रवन्ति च प्रपलायन्ते। सर्वेण सर्वं तस्मै न भवन्ति न भूयो गृह्णन्ते।



यदि गृह्णन्ति, सर्वेण सर्वं विनश्यन्ति। एवं सर्वग्रहेषु प्रयोक्तव्यः सर्वतः मन्त्रतन्त्राणां कल्पेषु यान्युक्तानि विविधानि साधयति लौकिकलोकोत्तरेषु यानि विधानमण्डलपटसाधनानि तन्यनेनैव साध्यानि क्षिप्रतरं सिध्यन्ते। गोरोचनमभिमन्त्र्य तिलकं कृत्वा शत्रुमध्ये प्रविशेत्। विगतक्रोधा भवन्ति। न शक्यन्ते अभिभवितुम्। महाजनमध्ये जपता प्रविशेत्। सर्वे मैत्रचित्रा भवन्ति। आदेयवाक्यश्च भवन्ति। परैरनभिभवनीयश्च अधृष्यश्च सर्वत्र सर्वभूतानाम्। गोरोचनेनाभिमन्त्र्य सप्तवाराननेन मन्त्रेण तिलकं कृत्वा महाश्मशानं प्रविशेत्। सर्वक्रव्यादाशिनः प्रपलायन्ते। सर्वग्रहमातराश्च नश्यन्ते। अधृष्यो भवति। सर्वमनुष्याणां तेजसा तस्य ज्वलन्तमिव दृष्ट्वा ओजोहारा अपक्रमन्ते। तस्माद् देशा दर्शनमपि न समनुप्रयच्छन्ति। कः पुनर्वादो ओजो हर्तुम्। क्षणमपि नाप्रतिष्ठन्ते। महाश्मशानं परित्यज्य सर्वभूतगणा ये तत्र निवासिनः ते प्रक्रमन्ते। इतश्चा + तश्च न शक्यन्ते प्रेक्षितमपि। कः पुनर्वादो ओजो हर्तुम् हिंसयितुम् वा। एवमपीयं महाप्रभावा सर्वविद्या महर्द्धिका उपपरिवर्तते महाविद्या तथागतोर्णो नाम। असङ्ख्यैश्च बुद्धैर्भगवद्भिः भाषिता गङ्गासिकतप्रख्यैः भाषिता चाभ्यनुमोदिता च। एतर्हि शाक्यमुनिना सम्यक् सम्बुद्धेन भाषिता चाभ्यनुमोदिता च। येऽपि ते भविष्यन्त्यनागतेऽध्वनि सम्यक् सम्बुद्धाः तेऽपि भाषिष्यन्ते। एवमतीतानागतैर्बुद्धैर्भगवद्भिः संवर्णिता सम्प्रशस्ता अनुमोदिता मयाष्येतर्हि शाक्यमुनिना संवर्णिता सम्प्रशस्ता कृताभ्यनुज्ञाता सर्वसत्त्वानां सर्वासां विधितः साधयिष्यन्तीति। यथा यथा प्रयुज्यते तथा तथा सर्वकर्माणि करोति। वर्जयित्वाभिचारुकम् कामोपसंहितं चेति॥



तदेव हस्तौ सम्पुटाकारौ कृत्वा अन्योन्यावावेष्ट्य चित्रीकृतौ यात्मोरसि मध्ये स्थापयेत्। एतद् भगवतः समाधिवज्रस्य महामुद्रा। यां बध्वा अवैवर्त्तिको भवत्यनुत्तरायां सम्यक् सम्बोधो नियतस्थम्। भवति चात्र मन्त्रः - नमः समन्तबुद्धानाम्। ॐ विभिदे चूर्णय चूर्णय वज्रधिक् वज्रधिक् हुँ हुँ जः जः समाधिजः हुँ फट् स्वाहा। अल्पमस्य विस्तरेण सर्वं तं प्रयोक्तव्यम्। अपरिमितानुशंशंश्चायम्। भगवां समाधिवज्रः सर्वबुद्धानाम्। तदेव मुद्रां कण्ठदेशे न्यसेत्। इयं सर्वबुद्धानां पद्मपद्ममुद्रा। एतदेव वामपार्श्वे न्यसेत्। उत्पलमुद्रा। एतदेव दक्षिणभुजे न्यसेत्। इयं भगवतो बुद्धस्य कृपालम्बनमैत्रीमुद्रा। एतदेव हस्तौ उभयाङ्गुल्यवेष्टितौ मध्यमाङ्गुलिसम्प्रसारितौ आभोगमण्डलाकारौ हृदयमध्ये न्यस्ता। इयं द्वितीया मैत्रीमुद्रा। सर्वतथागतानां सर्वकर्मिकम्। अप्रतिहता। एवमनेनैव विधिना ललाटे तृतीया, ऊर्ध्वविन्यस्ता चतुर्थ्या, समन्तात् परिभ्रामिता पञ्चमा भवति मैत्रीमुद्रा। ध्यानालम्बनकाले च प्रयोक्तव्या। न सर्वे मानुषा विहेठयन्ति। न चास्य काये किञ्चिदाबाधमुत्पादयन्ति मानुषामानुषा वा सर्वयक्षराक्षसप्रेतपिशाचकटपूतनादयः। सर्वे च मारा मारकर्माणि कुर्वन्ति। सर्वे च विघ्ना अविध्ना भवन्ति। भवति चात्र मन्त्रः - ॐ प्रस्फुर प्रस्फुर कृतालम्बनमन्त्रात्मक हाँ। एष भगवतो मैत्री प्रयोक्तव्यः। तदेव हस्तावन्योन्यावावेष्ट्य वेणिकाकारौ कृत्वा मण्डलाद् व्यवस्थापयेत्। ज्येष्ठाङ्गुलीयकावूर्ध्वस्थितौ ललाटदेशे न्यसेत्। एष भगवतो बुद्धस्य महाकरुणामुद्रा। मन्त्रं चात्र भवति - ॐ विश्वे स्वाहा। सर्वकर्मिका। सत्त्वानां प्रयोक्तव्या। करुणात्मका भवन्ति। तदेव हस्ताबुद्धेष्ट्य चित्रीकृतावभयावस्थितौ। एषा बुद्धस्य भगवतो महामुद्रिता मुद्रा। मन्त्रं चात्र भवति - - ॐ मुनिमुनिगगन स्वाहा। एषा भगवती सर्वकर्मिका सर्वासां परिपूरयति प्रमुदितेन चेतसा प्रयोक्तव्या। सर्वं करोति। सर्वमन्त्रकल्पेषु यानि कर्माणि सर्वलौकिकलोकोत्तरेषु तान्यशेषतो साधयतीति। तदेव हस्तावुभयाङ्गुष्टविन्यस्तौ चित्रीकृतौ ललाटे दर्शयेदेषा भगवतस्तथागतप्रेक्षामुद्रा सर्वकर्मिका सर्वार्थसाधिका। मन्त्रं चात्र भवति - ॐ महद्गते उपेक्षय सर्वधर्मां विश्वात्मने विश्वमूर्त्ति ज्वल ज्वलय सर्वबुद्धधर्मां हुँ फट् स्वाहा। षट्पारमितासु च षण्मुद्रा भवन्ति। तदेव हस्तौ वरप्रदानौ। इयं दानपारमिता महामुद्रा। तदेव हस्तौ अन्योन्यसङ्कुचितौ नाभिदेशे स्थापितौ। इयं शीलपारमिता महामुद्रा। तदेव हस्तौ अधः कृत्वा कक्षाभ्यां सन्नियोज्य स्थापयेदियं क्षान्तिपारमिता महामुद्रा। तदेव हस्तौ भुजोपरि स्थापयेत्। परामृश्यमाना विपर्यस्ताकारेण। इयं वीर्यपारमिता महामुद्रा। तदेव हस्तौ पर्यङ्कं बध्वा मुपरि स्थापये वामदक्षिणमुपरि निबध्य च पर्यङ्कासने सर्वसत्त्वानां करुणाया माना ध्यानालम्बनगतदृष्टि। इयं भगवत्या ध्यानपारमिताया महामुद्रा। तदेव ध्यानपारमितामुद्रं पर्यङ्कमभिन्द्य धर्मदेशनाकारा। इयं भगवत्या प्रज्ञापारमिताया महामुद्रा। तदेव पर्यङ्कमभिन्द्यात्। वामहस्त पर्यङ्के न्यस्य दक्षिणहस्तमवलम्ब्य भूमौ स्पृशेत् वज्रासनाकारेण। इयं भगवती सर्वबुद्धानामनुत्तरायां सम्यक् सम्बुद्धौ महामुद्रा सर्वबुद्धधर्माणामेषा एव महामुद्रा। सर्वेषां मन्त्राणि भवन्ति - ॐ दाने दद दद ददापय ज्वल ज्वल सर्वबुद्धाधिष्ठिते हुँ हुँ जः स्वाहा। एषा दानपारमिताया महामुद्रा। ॐ शील शीलाढ्ये शान्तिकरणि शिवे प्रशस्ते सर्वबुद्धाधिष्ठिते स्वाहा। शीलपारमिताया महामुद्रा - ॐ शान्ते श्रीकरि क्षान्ते क्षान्तिकरि स्वाहा। इयं क्षान्तिपारमितायाः। ॐ वीर्ये वीर्यमिति सर्वबुद्धाधिष्ठिते स्वाहा। अभावस्वभावे स्वाहा। वज्राक्रमणि स्वाहा। इयं वीर्यपारमितायाः। ॐ शान्तिकरि धूधूधूर्धरि धैर्ये वीर्ये गगने रमणे ध्यानवति स्वाहा। इयं ध्यानपारमितायाः। ॐ धीः धूः इयं प्रज्ञापारमिता। ॐ त्रायाहि भगवति सर्वबुद्धजुष्टे अनालम्बने गगनस्वभावे धर्मधातुमनुप्रविष्टे आलोककरि विधमय विधमय सर्वक्लेशान्धकारम्। च्छोषय तारय माम्। अमूर्त्तिजे हुँ हुँ दालय सर्वकर्मां हुँ फट् स्वाहा। एषा भगवती बुद्धानां भगवतां महाबोधिमन्त्रा सर्वकर्मिक सर्वार्थसम्पादिकाः सर्वानर्थप्रतिघातिकाः सर्वबुद्धधर्मां पारिपूरिका सर्वक्लेशां निषूदिनी सर्वमन्त्रां परकर्मकृतां विनाशनी सर्वमारविद्रापणी सर्वलौकिकलोकोत्तराणां मन्त्राणां प्रसाधनी सर्वपापां विधमनी सर्वदुर्गतिशोषिका सर्वदेवमनुष्येषु सर्वबुद्धधर्मेषु प्रतिष्ठापनीति। संक्षेपतो यथा यथा प्रयुज्यते, तथा तथा कर्माणि करोति। न शक्यमस्याः कल्पकोटीभिर्गुणमाहात्म्यं संवर्णनं असङ्ख्येयैश्च बुद्धैर्भगवद्भिः प्रभावविकुर्वणचर्याधिष्ठानऋद्धिबलाधान भाषितुं वर्णयितुं वा। एवमस्या भगवत्या अपर्यन्तगुणविस्तारमाहात्म्यस्य विकुर्वण इति षट्पारमितामपि विस्तरेण कर्त्तुम्। समासतो निर्देशप्रभावचर्या ऋद्धि च गुणगोत्रमधिष्ठितचर्या सर्वतो ज्ञेया विशेषाधिगमोऽपि वा॥



गगनस्वभावा धर्माख्यां भावाभावविचारताम्।

कल्पकल्पाक्षरं प्रयोक्त + + कर्मसिद्धिषु॥



पुष्कलां कथिता ज्ञेभिः क्षिप्रं फलाकारसमुद्भवम्।

गगनस्वभावमन्त्रार्थं मक्षरव्यक्तिभूषितम्॥



फलन्ति बहुधा काले युक्तिमात्रि दभिमूक्षिता।

मुद्रातं वै सविस्तरं कथितं तत्त्वचेष्टिभिः॥



मन्त्रतन्त्रगतिं कालो नियमश्चैव सुयोजिता।

जपो होमादिभिर्ज्ञेयं फले तत्त्वसमुद्भवे॥



आश्रयाय न द्रव्याणां गतिर्लक्षणसुलक्षितम्।

मन्त्रबोध स्वमन्त्रं च कुलयोनिसमोदयाः॥



लक्ष्यते सिद्धिकालो हि मुद्राचिह्नसमुद्भवम्।

तत्त्वनिष्ठागतो मन्त्री जपेन्मन्त्रं समाहितः॥



सिद्धयः सिद्धहेतुत्वं दर्शयेत् कुलदेवताम्।

एता मुद्रा वराः प्रोक्ता मन्त्राश्चैव महायशाः॥



सिध्यन्ते विधिना युक्ता यथेच्छा मानसोद्भवे। इति॥



तदेव हस्तौ परिवेष्टिताङ्गुलीयकौ दक्षिणाङ्ग़ुष्ठावनामितौ वामाङ्गुष्ठाधस्थितौ। एषा सर्वबुद्धानां हृदयमुद्रा सम्यक्सम्बुद्धैस्तु भाषिता सर्वकर्मिकास्तु। भवति चात्र मन्त्रः - ॐ त्रैलोक्यपूजिताय हूँ फट् स्वाहा। सर्वकर्मकरा भवन्ति। सर्वमण्डलविधानेषु प्रयोक्तव्या सर्वैः सत्त्वानां महारक्षादिषु। तदेव हस्तावुभयाग्रौ सङ्कोचितावूर्ध्वमेतमध्यमाङ्गुलीयकौ। इयं भगवतां सर्वबुद्धानां मूलमुद्रा। भवति चात्र मन्त्रः - ॐ द ददातु दण्ड हुँ। ॐ सर्वसत्त्वामृतप्रदेशिकंकराय स्वाहा। दण्डकमण्डलू उभौ मूलमन्त्रौ। अनेन सर्वकर्माणि कारयेत्। सर्वत्र च सर्वमन्त्रेषु प्रयोक्तव्यः सर्वसिद्धददः सर्वरक्षाविधानेषु प्रयोजितव्यौ। तदेव हस्तौ उभयकराबलग्रौ। अन्योन्यावसक्तवेणिकौ शिरस्स्थाने स्थापयेत्। विशेषेषु प्रयोक्तव्यः। भवति चात्र मन्त्रः - ॐ ज्वल ज्वल सर्वबुद्धाधिष्ठिते स्वाहा। अनेन तथागतकुले सर्वकर्माणि कारयेत्। आर्यमञ्जुश्रियो मन्त्रेण वा रक्तेन करवीरेण मालतीकुसुमेन वा द्रव्यस्योत्तेजनं कार्यम्। मञ्जुश्रीमूलमन्त्रेण सर्वतो योज्यम्। सर्वतश्च प्रयोजयितव्यः सर्वकर्मसु। तदेव हस्तौ उभयवेणिकाकारौ शिरःस्थाने स्थापयेत्। सर्वबुद्धानामुष्णीषमहामुद्रा। मन्त्रं चात्र भवति - ज्रीँ। सर्वकर्मिकोऽयमुष्णीषराजा। तदेव हस्तौ पद्माकारं कृत्वा हृदये स्थापयेत्। इयं पद्मकुलेऽवलोकितमहामुद्रा सर्वकर्मिका। मन्त्रं चात्र भवति - ज्रीः। तदेव हस्तौ कुड्मलपद्माकारौ नाभिमध्ये स्थापयेत्। इयमपरा अवलोकितस्य सर्वविघ्नप्रशमनी नाम महामुद्रा। मन्त्रं चात्र भवति - जिः। अयं सर्वकर्मिकोऽवलोकितसर्वभयेभ्यः प्रयोक्तव्यः। तदेव हस्तौ सुशिराकारौ कृत्वान्योन्यप्रतिकूलाङ्गुलिभिर्ललाटदेशे न्यशेदियं सर्वबुद्धानां प्रभावमानसोद्भवं नाम महामुद्रा। मन्त्राणि चात्र प्रयोक्तव्यानि। एकाक्षराणि चतस्रः — ताः। वाः। द्रोः। हाः। एत मन्त्रा एकाक्षरा चतश्रश्चतुर्भिर्बुद्धकोटिभिर्भाषिता सर्वबुद्धानामुष्णीषराजानः सर्वेषां विद्यामहर्द्धिकानां प्रभावा सर्वधर्माश्रयाच्चतुऋद्धि पञ्चचरणाश्चतुरार्यसत्यमास्था बोधिप्राग्भारशिरा चतुर्विमोक्षचतुर्ध्यानसमाधिभिः सर्वैरासेवनीया अप्रकम्प्या सर्वलौकिकलोकोत्तरादिभिर्मन्त्रतन्त्रः परमेश्वराः सर्वविद्याराजा चक्रवर्तीनां ज्येष्ठा सर्वमन्त्राणाम् अचिन्त्या सर्वसमाधिविशेषाणां बोधिप्राप्तामिति महासत्त्वैस्त्रैलोक्याधिपतयो सर्वकुलमन्त्रतन्त्रादिषु अगम्यां सर्वबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धैः। एवमचिन्त्या अश्वभावा अलङ्घ्या गगनस्वभावभूतकोटिधर्मधातुमनाविलप्रतिष्ठा इति संक्षेपतः सर्वकर्मसु प्रयोक्तव्या इति। अनेनैव सर्वकर्माणि कारयेत्। विशेषतः आर्यमञ्जुश्रियः मूलकल्पविधानेष्विति। तदेव हस्तौ सम्पुटाकारौ शिरःस्थाने मुपदर्शयेत्। इयं सर्वतथागतकुले सर्वविषनाशिनी नाम महामुद्रा सर्वविषकर्मसु प्रयोक्तव्या। ट्रों।



अनेन मुद्रया युक्त मन्त्रोऽयं बुद्धभाषितः।

निर्विषां कुरुते क्षिप्रं सत्त्वां स्थावरजङ्गमाम्॥

निर्विषां कुरुते नागां उद्युक्तां विषदर्पिताम्।

सर्वदोषां तथा हन्ति रागद्वेषजा॥

परा मोहजाश्चैव मन्त्रोऽयं मुद्रेण योजितः।

विविधां कुरुते कर्मां विषसत्त्वसमुद्भवाम्॥

संक्षेपत इयं मुद्रा।

विन्यस्ता मन्त्रयानेन विविधां च विषोद्भवाम्।

कर्मां करोति विषं चास्य वशो भवति यदृच्छया॥



इति। लक्षजप्तेन। तदेव हस्तौ समयवज्राकारौ उभयत्रिसूचिकौ वामहस्तादधःस्थितः दक्षिणहस्तादूर्ध्वविपर्यस्तं कृत्वा शिरःस्थाने न्यसे। तदेव वज्राधिपतेर्हृदयमुद्रा सर्वकर्मिका। मन्त्रं चात्र भवति - हूँ। सर्वकर्मिकोऽयं सर्वार्थसाधकः सर्वक्रूरग्रहेषु प्रयोक्तव्यः नान्यथा विचिकित्सा कार्या। ॐ भद्रे भद्रवति करटे रत्न विरत्न स्वाहा। अस्य जापः प्रथमं कार्यः अष्टशतम्। ततो मञ्जुश्रीः सिद्ध्यतीति। तदेव हस्तौ उभयकुञ्चिताग्राङ्गुलीयकौ मूर्ध्नि स्थापयोदियं समन्तभद्रस्य बोधिसत्त्वस्य महामुद्रा। सर्वकर्मेसु प्रयोक्तव्या सर्वरक्षेषु प्रतिकृता सर्वार्थसाधनी मञ्जुश्रियसाधनेषु च पूर्वमारभेत् पश्चात् कर्मं कुर्यात् कुलत्रयसामान्यमिति। तदेव मुद्रं आर्यसमन्तभद्रस्य ललाटे न्यसेत्। आकाशगर्भस्य महामुद्रा। मन्त्रं चात्र भवति सर्वकर्मिकम् - स्वं। तदेव मुद्रं गलदेशे स्थापयेत्। इयं विमतेलगते महामुद्रा। मन्त्रं चात्र भवति सर्वकर्मिकम् - लं। तदेव मुद्रां उरभि मध्ये स्थापयेत्। मैत्रेयस्य महामुद्रा। मन्त्रं चात्र भवति - मं। तदेव हस्तौ पूर्ववन्नाभिदेशे स्थापयेत्। क्षितिगर्भस्य महामुद्रा। मन्त्रं चात्र भवति सर्वंकर्मिकम् - क्षिं। तदेव मुद्रा कटिदेशे नियोज्या ऊर्ध्वं क्षिपेत्। इयं गगनगञ्जस्य मुद्रा। मन्त्रं चात्र भवति सर्वकर्मिकम् - गं। तदेव मुद्रां उभौ भुजे न्यस्य शिरसि भ्रामयेत् नृत्तयोगेन। इयं सर्वबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धानाम्। भवति चात्र मन्त्रः - घ्रुः। एषोपरिमितानुशंसकर्मप्रभावविस्तारा सर्वतः द्रष्टव्यगुणमहात्म्ययोगेन। तदेव मुद्रं ऊर्ध्वमवलोक्यावनामयित्वा ऊर्ध्वं क्षिपेत् नृत्तयोगेन। इयं सर्वदेवानां त्रिधातुस्थितानां अनन्तलोकधातुपर्यापन्नानां ऊर्ध्वमधस्तिर्यक् सर्वतः सर्वसत्त्वानां यक्षयक्षीराक्षसराक्षसी विस्तरेण सर्वेषां इयं महामुद्रा सर्वत्रतालल्या नाम सर्वकर्मसु प्रयोक्तव्यः। आह्वाननविसर्जनमण्डलपटलविधानसर्वसाधनेष्वपि कर्मसु प्रयोक्तव्यः। मन्त्रं चात्र भवति - ओष्ट्रै। तदेव हस्तौ अञ्जलिकृताकारौ मूर्ध्नि न्यसेदेषा सर्वमन्त्रेषु महाबन्धनान्तरावणमहामुद्रा। कटिदेशे च भ्रामयितव्या। भवति चात्र मन्त्रः - ग्यं जये कुमारि शुक्लबन्धनि स्वाहा। अष्टशतजप्तं सूत्रकं कन्याकर्तितकं कट्यां बन्धयेत्। शुक्रबन्धः कृतो भवति। सर्वदिशांश्च व्यवलोकयेत्। सर्वविघ्नाः स्तम्भिता भवन्ति। सर्वतश्च रक्षा मुद्राबन्धमतः साधकेन सर्वकर्मसु। अयं प्रथमतः प्रयोगः कार्यः। पश्चात् कर्माणि कर्तव्यानीति। एवमष्टाविंशकं शतं भवति मुद्राणाम्। साधकेन यथेच्छयान्यतरं प्रयोक्तव्यं सर्वकर्मसु सर्वाणि वा। एवमसङ्ख्येयानि अनेन प्रयोगेण मुद्राणि भवन्ति। असङ्ख्येयाश्च मन्त्रा। तदेव हस्तौ करसम्पुटाकारौ स्थितौ अन्योन्याङ्गुलिभिः समस्तव्यस्ताभिरुभयाङ्गुष्ठोपशोभिताभिः पञ्चसूचिकाकारेण उभौ मुष्टीकृतौ शिरःस्थाने मूर्धनि न्यसेत्। इयमार्यमञ्जुश्रियः पञ्चशिखा नाम महामुद्रा सर्वकर्माणि करोति। अङ्गुष्ठाक्षेपविक्षेपां सङ्कुचितैराह्वाननं विक्षिप्तैर्विसर्जनम्। एवं मनसा सर्वप्रयोगैः सर्वकर्माणिः करोति। मञ्जुश्रीमूलमन्त्रहृदय उपहृदय सर्वमन्त्रेषु वा संयुक्तः सर्वार्थकरा भवति। तदेव मुद्रां त्रिसूच्याकारम्। एषा मञ्जुश्रियस्य त्रिशिखेति कथ्यते। तदेक कन्यसाङ्गुलिभिः सूच्याकारं एकचीरेति अवगन्तव्यम्। उभौ करसम्पुटावस्थितौ सर्वतो नामितौ अङ्गुलिभिः सुरचितविन्यस्ता गाढावसक्तं मूर्ध्ना स्थापितम्। एषा मञ्जुश्रियस्य सर्वशिरोभ्युद्गतं नाम महामुद्रा। तदेव हस्तौ ततोच्चवाग्र उत्तानकावस्थितौ वक्त्रमध्ये धारयेदियं मञ्जुश्रियः महावक्त्रमुद्रा। तदेवावतार्य हृदयमध्ये न्यसेत्। इयमपरा मञ्जुश्रियः हृदयमुद्रा। तदेव हस्तौ अर्धावस्थितौ किञ्चिन्नामितललाटस्थौ। इयमपरा हृदयमुद्रा। तदेव हस्तौ उद्‍धृत्य मध्यमाङ्गुलिमवनामितौ अनामिका अवनामितदर्शिताग्रौ तर्जन्या कृतवेष्टितौ अङ्गुष्ठपार्श्वासु प्रसारितौ। इयमपरा वक्रदंष्ट्रमहामूलमुद्रा सर्वमहाभयेषु प्रयोक्तव्या। द्वौ मृसृतौ तदेव। इयमपरा मञ्जुश्रियः उत्पलमुद्रा। तदेव बद्धौ अवनाम्य संवेष्टितौ। मञ्जुश्रियः मयूरासनमुद्रा। तदेव तर्जन्या कन्यसावष्टब्धौ उभयपार्श्वयोः तिर्येकं पीठाकारेण। इयमपरा भद्रपीठमुद्रा। तदेवाङ्गुलिमुष्टीकृतौ तर्जन्येकोच्छ्रिता। इयमपरा यष्टिमुद्रा। द्विरुच्छ्रितौ ध्वजमुद्रा। त्रिरुच्छ्रितौ पताकामुद्रा। चतुरुच्छ्रितौ घण्टा। तदेव हस्तं तर्जन्योपरिस्थितौ तं छत्रमुद्रा। सर्वेष्ववनतेषु फलमुद्रा। हुं। अङ्कुशाग्राङ्गुले तर्जन्यां वस्थितं अङ्कुशमुद्रा। तदेव तर्जनीं दृढमुष्टावस्थितं मुष्टिमुद्रा। तदेव सूच्याग्रस्थितौ तिर्यक् शूलमुद्रा। उभयतर्जन्योपेतं महाशूलमुद्रा। एकाङ्गुष्ठोच्छ्रितं एकलिङ्गमुद्रा। तदेव मुद्रा हृदये स्थापयेत्। मनोरथमुद्रा भवति। तदेव हस्तौ सम्पुटाकारे यमलं कृत्वा उपर्युपरि यमलमुद्रा। तदेव कुड्मलाकारं विकाश्य मूर्ध्नं क्षिपेत् उत्पलमुद्रा। तदेव पूर्णमाकाशाकारं पूर्णमुद्रा। मूर्ध्नि स्थिता तदेवाध मुष्ट्योपरचितं मञ्जुश्रियः यष्टिमद्रा। पुनः चित्रीकृतौ करौ स्वस्तिकं मञ्जुश्रियस्योर्ध्वगं मालतीकुसुमानरक्तं सर्वं बन्धितव्यम्। तदेव हस्तौ विपरीतवेष्ट्य मध्यमाङ्गुलिप्रसारिताग्रम्। इयमपरा कार्त्तिकेयस्य मञ्जुश्रियः शक्तिमुद्राः। घण्टा पताका च पूर्ववद् ज्ञेया। तदेव हस्तौ सम्पुटीकृत्य विकासयेत्। इयमपरा पद्ममुद्रा मञ्जुश्रियः। तदेव हस्तौ तिर्यगवस्थितौ सुनेत्रीकृतौ स्वस्तिकाकारं कारयेत्। अङ्गुलीभिश्चतुर्भिश्चतुर्दिश्यवस्थितौ सुप्रसारितौ मध्यसुविन्यस्तैः। इयमपरा मञ्जुश्रियः स्वस्तीकमुद्रा। तदेव हस्तौ करपल्लवाकारौ अन्योन्यविश्लिष्टौ अङ्गुलीभिः। इयमपरा पल्लवमुद्रा। तदेव मुष्ट्यौ कृतौ। इयमपरा सर्वबुद्धास्पदमुद्रा। मञ्जुश्रियः तदेव धर्मभेरीमुद्रा। तदेव हस्तौ सम्पुटीकृतौ मध्ये सुषिरौ तर्जन्या परिवेष्ट्य मूलाङ्गुष्ठतलविन्यस्तौ अङ्गुष्ठावनतौ शङ्खाकारकृतचिह्नौ। इयमपरा मञ्जुश्रियः धर्मशङ्खमुद्रा। चक्रं पूर्ववत्। धर्मचक्राकारं इयमपरा मञ्जुश्रियः धर्मचक्रमुद्रा। तदेव मुद्रं ललाटे न्यस्तं नृत्ययोगं कृत्वा क्षिपेदवसव्ययोगेन। इयमपरा महाक्रीडाविकुर्वाणमुद्रा। मूलमन्त्रेणैव महाभयेभ्यो प्रयोक्तव्या नश्यन्ते अविकल्पत इति॥



एवमनेन प्रयोगेणासङ्ख्येयानि मुद्राणि भवन्ति। असङ्ख्येयाश्च मुद्राकल्पमन्त्रतन्त्राश्च। असङ्ख्येयानि च द्रष्टव्यानि। महाप्रभावोद्गतस्वयम्भुवोद्भवाः। तानि च सर्व प्रयोक्तव्यानि। इह कल्पविसरे सर्वाणि च शुचिवस्त्रान्तरावनद्धेन प्रयोक्तव्यानि। यथा असमयज्ञैः सत्त्वैर्न दृश्यन्ते। एवं महाप्रभावानि। अन्यथा समयव्यतिक्रम इति। एता साधनोपयिकानि करमुद्राणि हस्तविन्यस्ता नृत्तगीतप्रयोगैश्चानेकानि भवन्ति। रुतविशेषैश्च सत्त्वानां क्रमशः कथित एवमधुना मण्डलसाधनोपयिकानि महामुद्राणि भवन्ति॥



सर्वबुद्धानां तथा स्तूपा भुवि धातुपरं पटे।

बोधिसत्त्वानां तथा पद्म श्रावकाणां परिमण्डलम्॥

चतुरस्रः प्रत्येकबुद्धानां कथिता त्रिमण्डलो।

नानावाहननाना विविधाभरणविभूषणा॥

नानाप्रहरणाश्चैव देवयक्षग्रहापराम्।

नृपां पुरुषमतः स्यात् ऋषीणां दण्डमकण्डलुः॥

यस्य यो प्रहरणं नित्यं यो वा वाहनभूषणा।

तस्य कुर्यान्मुद्रा संक्षेपान्मण्डलेष्विह॥

आदित्यचन्द्रौ तदा कुर्यान्मण्डलोपरिमण्डलौ।

संक्षेपाद् यस्य यो भूमि तदेव मनसाह्वये॥

विविधाः प्राणिनो प्रोक्ता तेषां तेषां तदा न्यसेत्।

बहुप्रकारा सत्त्वाख्या बहुमुद्राश्च प्रकीर्त्तिता॥

तेषां कर्मतो कुर्याद् विधानेन मण्डले।



ब्रह्मस्य पद्मं शक्रस्य वज्रं वरुणस्य पाशं रुद्रस्यं शूलं दुर्गस्य पट्टिशं ऋषिस्य कमण्डलु यमस्य दण्डं धनदस्य गदा कुबेरस्य खड्गं हुताशनस्याग्निकुण्डं पृथिव्या कलशः एवमादयो यथा यस्य प्रहरणानि आभरणानि च लोकेऽद्य दृष्टानि तानि सर्वत्र यथानुस्मरतः विधिना तानि सर्वाणि सर्वमण्डलेषु प्रयोक्तव्यानि कल्पोक्तेन वा विधानेनालिखितव्यानि सर्वमण्डलानि सर्वसत्त्वानां अर्थाय हिताध्याशयेन चेतसा सर्वसत्त्वानां करुणायमानेन उत्पादितबोधिचित्तेन सर्वसत्त्वानुकम्पयमानेन सर्वमण्डलान्यभिलिखितव्यानि सर्वमण्डलाभिषेकाभिषिक्तैः महामण्डलाभिषिक्तैर्वा। आर्यमञ्जुश्रियः दृष्टमण्डलाभिषिक्तेन। अन्यवश्यं सर्वमण्डलां लिखेत। आर्यमञ्जुश्रीः मनसि कर्तव्यः। यत् कारणम्। अभिषिक्तो मया सर्वबुद्धैश्च गङ्गासिकताप्रख्यैः सर्वमन्त्राणां गम्भीरतत्त्वार्थनयधर्मदेशना कुमारबालरूपिणा मन्त्ररूपेण सत्त्वानामर्थं करिष्यसीति॥



न मन्त्रमुद्रसंयुक्तं न कुर्याद् धर्मसमाहितम्।

अहितं कुर्यान्नात्र नाहितं हितमीप्सितम्॥

मुद्रामन्त्रसमायुक्तो अहितं चैव निवारयेत्।

हिताहितं सदा सर्वं अहितं चैव निवारणम्॥

हितैव सर्वमन्त्रो कुर्यान्मन्त्रमुद्रितो।

न मुद्रमन्त्र तत्कुर्यान्न मन्त्रं मुद्रितं तथा॥

मुद्रार्थसंयुक्तो सफलार्था साधयिष्यते।

सफलं मुद्रसंयुक्तो मन्त्रो मुद्रफलोदयः॥

साधयेत् कर्मविस्तारं मुद्रसमं चिन्ता।

शान्तिका ये तु मुद्रा ये मन्त्रा चैव शान्तिके॥

मन्त्रमुद्रसमायोगा शान्तिकं कर्ममारभे।

पौष्टिकेषु च मन्त्रेषु बध्नीयान्मुद्रसम्भवम्॥

पौष्टिकं मुद्रमित्याहुः कथिता मन्त्रयोजिता।

शान्तिके शान्तिकं कुर्यात् मुद्रमन्त्रेष्विहोदितैः॥

जिनैः जिनमन्त्रमुख्यैस्तु मुद्रैश्चापि विभागतः।

शीतलेषु च सर्वर्तुसर्वकर्मांश्च साधयेत्॥

पुष्ट्यर्थं कथिता मन्त्राः अब्जकुले तु समुद्भवा।

मन्त्रतन्त्रानि तीक्ष्णैः मुद्रैश्चापि तवोदितैः॥

विख्यातैः कथितैर्मन्त्रैः मुद्रैश्चापि महर्द्धिकैः।

अब्जके तु समादिष्टैः शुचिभिश्चैव दीपितैः॥

प्रशस्तैः मङ्गलैश्चापि आरोग्यार्थसुपुष्कलैः।

क्रोधयुक्तैस्तथा मन्त्रः मुद्रैश्चापि वर्णितैः॥

भोगार्थसम्पदोद्दिष्टैः निर्मलैश्चापि शोभनैः।

शुक्लैः सितमुद्रैस्तु मन्त्रमुद्रसमोदितैः॥

साधयेत् सम्पदां मन्त्रां भोगकारा जन्मनि।

तथाविधैः मन्त्रमुद्रैस्तु साधिता सफलोदया॥

क्रोधमन्त्रा तथा प्रोक्ता मन्त्राद्या प्राणोपरोधिका।

कथिता वज्रिणे तन्त्रे जिनाब्जे च समुद्भवे॥

तेजिनो बहुधा उग्रा दुष्टसत्त्वदमापहा।

नियुक्ता प्राणहिंसायां न कुर्यात् तां तु धीमता॥

मुद्रा च दण्डदमनवज्रशूलाभिपट्टिशा।

विविधा प्रहरणांश्चैव महाशूलास्तु यमान्तके॥

संयुक्ता मन्त्रिभिः क्षिप्रं कृत्वा प्राणापहं ध्रुवम्।

तन्न कुर्याच्च तं धीमां सर्वप्राणोपरोधिनम्॥

भजेन्मन्त्रतन्त्रज्ञः क्रूरं क्रूरसमुद्रितम्।

मुद्रा क्रूरतरः प्रोक्ता क्रूरमन्त्रेषु योजिता॥

क्रूरसत्त्वैः यथा सिद्धा क्रूरकर्मान्तचारिभिः।

विविधां नारकां दुःखां प्राप्नोतीह स दुर्मतिः॥

न कुर्यात् क्रूरमन्त्रेभ्यो दुःशीलानां चाभिचारुकम्।

क्रूरमन्त्र तथा मुद्रं न दद्युः सर्वतो जनाः॥

यस्मात् फलमनिष्टं वै रनुभूये पुनः पुनः।

न विद्या सुखं तदा मन्त्री क्रूरक + + ॥

+ + + + + + ++ + + + + + + + + + + समोदिता।

त्रिधा + + + + + + + + + + + + सिद्धिषु दृश्यते॥

इष्टं इष्टफलायत्तं + + + + + + + + + + ।

होमं क्रूरकर्मेषु तस्माद्धर्मां विवर्जयेत्॥

मुनिश्रेष्ठो स योगा + + + + + + + + + + + + + ।

+ + + + + अब्जिनो गीता हीना क्रूरकर्मभिः॥

गीता वज्रकुले मन्त्रा त्रिधा ते परिकीर्त्तिता।

हीनोत्कृष्टम + + ++ + + + + + + + + + + ॥

+ + मुद्रसमुद्देशं बहुमन्त्रार्थविस्तरम्।

कथिता जिनवरैः पूर्वं अधुना ये इहोदिता इति॥



बोधिसत्त्वपिटकावतसंकात् आर्यमञ्जुश्रियमूलकल्पात्

चतुस्त्रिंशतिमः महामुद्रापतलविसरः

परिसमाप्त इति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project