Digital Sanskrit Buddhist Canon

अथ त्रयस्त्रिंशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Atha trayastriṁśaḥ paṭalavisaraḥ

अथ त्रयस्त्रिंशः पटलविसरः।



अथ खलु भगवां शाक्यमुनिः सर्वावन्तं शुद्धावासभवनमवलोक्य, मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। त्वदीये मञ्जुश्रीकल्पराजे निर्दिशसमाख्याते धर्मधातुकोशतथागतगर्भधर्मधातुनिष्पन्दानुचरिते महासूत्रवररत्नपटलविसरे तथागतगुह्यवरमनुज्ञाते मन्त्रवधसाध्यमाने निमित्तज्ञानचिह्नकालप्रमाणान्तरितसाधनौपयिकानि सर्वभूतरुतवितानि असत्त्वसत्त्वसंज्ञानिर्घोषानि भवन्ति॥



शाब्दिकं ज्ञानं इत्युक्त अशाब्दिकं चैव कीर्त्यते।

व्यतिमिश्रं तथा युक्तिमन्त्राणां त्रिविधा क्रिया॥

दिव्यशब्दसमायुक्ता अनित्यार्त्थप्रयोजिता।

अपशब्दापगता नित्यं संस्कारार्थार्थभूषिता॥

अबहिः सर्वसिद्धान्ते आर्यामन्त्राः प्रकीर्त्तिता।

नित्यं पदार्थहीनं तु तत् त्रिधा परिभिद्यते॥

गुरुलघु तथा मध्यैः वर्णैश्चापि विभूषिता।

सा भवेन्मन्त्रदेवी तु स्वरच्छन्दविभूषिता॥

संस्कृतासंस्कृतं वाक्यं अर्थानर्थ तथा परे।

धात्वर्त्था तथा युक्तिः गतिमन्त्रार्थभूषिता॥

विकल्पबहुला वाचा मन्त्राणां सर्वलौकिका।

एकद्विकवर्णं तु च्छन्दैः साश्वरितालयः॥

त्रिचतुःपञ्चषष्ठं वा सप्तमं वाष्टमं तथा।

नवमं दशमं चैव वर्णानां सिद्धिरिष्यते॥

दशाक्षरसमायुक्ता वर्णानां हेतुनाम्।

यावद्दशगुणा ह्येते वर्णा दृश्यन्ति महीतले॥

शताक्षरं विंशतिकं यावदेकाक्षरं भवेत्।

एतत्प्रमाणैर्वर्णैस्तु ग्रथिता मन्त्रसम्पदा॥

पदैश्चतुर्भिः संयुक्ता मन्त्रा सर्वार्थसाधकाः।

ज्येष्ठाः प्रवरा ह्यार्या मन्त्रा ये जिनभाषिताः॥

ते तु मध्यमा अधमा + + तदा।

तदात्मजैर्जिनपुत्रैस्तु भाषिता ते तु मध्यमा॥

अधमा ये तु मन्त्रा वै भाषिता सर्वलौकिका।

निकृष्टा कथिता मन्त्रा भाषिता नैरृतैस्तु ये॥

दशाष्टसप्तविंशं वा यावदभ्यधिकं शतम्।

एतत्प्रमाणं तु मन्त्राणां आर्याणां जिनभाषिताम्॥

एकद्विकवर्णं तु सहस्रार्द्धं वर्णतो भवेत्।

यावत्प्रमाणं तु मन्त्राणां बोधिसत्त्वैः प्रकाशिता॥

तदक्षरे पदविन्यस्तं मन्त्रयुक्तिमुदाहृता।

छन्दांसि स्वरयुक्तानां धात्वार्थार्थभूषिता॥

वचनं सुप्रयुक्तं वै तन्त्रयुक्तिसमन्वितम्।

भवेत् कदाचिकात् सिद्धिः शब्दस्वरवियोजिता॥

मुद्रायुक्तं तु शब्दैस्तु मूर्ध्नादूष्मान्ततालुकैः।

दन्तोष्ठकण्ठतः शब्दं विसृतं साधनं क्रिया॥

अव्यक्तविनिवृत्तं तु सुप्रयुक्तमुदाहृतम्।

सम्पूर्णं वाक्यतः शब्दं सम्प्रयुक्तः साधयिष्यति॥

विधिभ्रष्टं क्रियाहीनं शब्दार्थैश्च वियोजितम्।

मन्त्रं न सिद्ध्यते क्षिप्रं दीर्घकालमपेक्षते॥

अवन्ध्यं तस्य सिद्धिस्तु न वृथा कारयो जपी।

अन्यजन्मेऽपि दृश्यन्ते मन्त्रसिद्धिवरप्रदा॥

तस्य मन्त्रप्रभावेन चिरकालाच्च जापिनाम्।

अवन्ध्यं कुरुते कर्म समन्त्रा मन्त्रविदो जनाम्॥

निकृष्टा सर्वमन्त्राणां लौकिका ये समानुषा।

सर्वभूतैस्तु ये प्रोक्ता मन्त्रा ये च समत्सरा॥

तेषां न्यक्षरा प्रोक्ता एकद्विकत्रिसङ्ख्यकम्।

विविधैः म्लेच्छभाषैस्तु देवभाषप्रकीर्त्तितैः॥

ग्रथिता पङ्क्तियुक्ताश्च व्यतिमिश्रा शब्दतः सदा।

सहस्रं चाष्टशतं अष्ट च यावदेकं तु वर्णतः॥

चतुःपादं पादार्द्धं तु गद्यपद्यं निगदितम्।

श्लोकं दण्डकमात्रैस्तु गाधस्कन्धकपञ्चितम्॥

प्रतिपच्चार्थयुक्तिश्च सहस्रतार्थभूषितम्।

अपभ्रंशसंस्कृतं शब्दं अर्थहीनं विकल्पते॥

अव्यक्तं व्यक्तहीनं तु मात्राहीनं तु युज्यते।

गतिदेशविसंयोगान्मन्त्रसिद्धिस्तदुच्यते॥

एतत् सर्वमन्त्राणां एष लक्षणः।

शकारबहुला ये मन्त्रा ओङ्कारार्थभूषिता॥

तकारलक्षणतन्त्रस्था सिद्धिस्तेषु ध्रुवं भवेत्।

ओङ्कारा ये मन्त्रा मकारान्तविनिर्गताः॥

शकारसहसंयुक्तादवन्ध्यं शोभनं तथा।

तकारचतुरस्राकारा प्रत्याहारान्तवर्जिता॥

तकारक्षी रेफसंयुक्ता समन्त्रं साधनक्रिया।

द्विरेफबहुलं आद्यं हुङ्कारगुणमुद्भवम्॥

वकारचतुरस्रान्ते वर्णा साधनक्षमा।

ककारं रेफसंयुक्तं मकारान्तं मात्रमिश्रितम्॥

मकारं नकारमाद्यं तु स मन्त्रः श्रेष्ठ उच्यते।

तकारबहुलं यत्र सर्वतन्त्रेषु दृष्यते॥

स मन्त्रः सौम्यमित्युक्तो याम्यहुङ्कारभूषितम्।

ऐन्द्रावायव्यमित्युक्तं भकारबहुलं तु यः॥

वारुणः चकारमित्याहुः हितं लोके तु पौष्टिकम्।

वकारबहुलो यो मन्त्रः माहेन्द्रं तत् प्रदृश्यते॥

आद्यं त्रिरत्नगमनं यो मन्त्रः शरणं तथा।

नमस्कारं प्रवर्तेण शान्तिहेतुं सुखावहम्॥

तदन्यत् सर्वदेवानां नमस्कारार्थं प्रयुज्यते।

स्वमन्त्रं मन्त्रनाथं च स मन्त्रः सर्वकर्मिकम्॥

डकारबहुलो यो मन्त्रः फट्कारार्थहुङ्कृतः।

एते मन्त्रा महाक्रूरा तेजवन्तो महौजसा॥

प्राणोपरोधिना सद्यः क्रूरसत्त्वसुयोजिता।

तस्मान्न कुर्यात् कर्माणि पापकानि विशेषतः॥

तं जापी वर्जयेद् यस्मात् मुनिभिर्वर्जिता सदा।

उभयार्थेऽपि सिद्ध्यन्ते मन्त्रा शान्तिकपौष्टिका॥

क्षणेन कुरुते सर्वं कर्मां यावन्ति भाषिता।

सुजप्ता मन्त्रा ह्येते तेजवन्ता महर्द्धिका॥

शान्तिकानि च कर्माणि कुर्यात्तां जिनभाषितैः।

पौष्टिकानि तु सर्वाणि कुर्यात् कोकनदे कुले॥

कर्मा पापका सर्वे आभिचारे प्रयुज्यते।

आभिचारुकसर्वाणि कुर्याद् वज्रकुलेन तु॥

निषिद्धा लोकनाथैस्तु यक्षेन्द्रेण प्रकाशिता।

सत्त्वानां विनयार्थाय मन्त्रमाहात्म्यमुद्भवम्॥

कथितं त्रिप्रकारं तु त्रिकुलेष्वेव सर्वतः।

ये तु अष्ट समाख्याता कुलाग्र्या मुनिना स्वयम्॥

तेषु सिद्धिस्त्रिधा याता त्रिप्रकाराः समोदिताः।

उत्तमा मध्यमा नीचा तत् त्रिधा परिभिद्यते॥

शान्तिकं पौष्टिकं चापि आभिचारुकमिष्यते।

केवलं मन्त्रयुक्तिस्तु तन्त्रयुक्तिरुदाहृता॥

मन्त्राणां गतिमाहात्म्यं आभिचारुक युज्यते।

एतत् कर्म निकृष्टं तु सर्वज्ञैस्तु गर्हितम्॥

न कुर्यात् कृच्छ्रगतेनापि कर्म प्राणोपरोधिकम्।

केवलं तु समासेन कर्ममाहात्म्यवर्णितः॥

तन्त्रयुक्तविधिर्मन्त्रैः कर्मविस्तरविस्तरः।

कर्मराजे इहोक्तं तु अन्यतन्त्रेषु दृश्यते॥

न भेजे कर्महीनं तु सर्वमन्त्रेषु युक्तिमाम्।

यावन्ति लौकिका मन्त्रा सकला निष्कलास्तथा॥

सर्वे लोकोत्तराश्चैव तेषामेव गुणः सदा।

असङ्ख्यं मन्त्रसिद्धिस्त्वसङ्ख्यं तत् परिकीर्त्यते॥

एकसङ्ख्यप्रभृत्यादि विंशमुक्तं तथापि तु।

ततः त्रिंशत् समासेन चत्वारिंशं तु चापरम्॥

ततस्त्रिगुणषष्टिं तु सप्तभिः सदशं तथा।

दशं चापरमित्याहु अशीतिसङ्ख्या तु चापरम्॥

सदशं नवतिमित्याहुः शतं पूर्णं दशापरम्।

शतसङ्ख्या तु सङ्ख्याता तद्दशं सहस्रापरम्॥

दशसहस्रमयुतं तु दशमयुतानि लक्षितम्।

दशलक्षाविलक्षं तु विलक्षं दश कोटिम्॥

+ + + + + + ट्यो वै दशविकोट्योऽर्बुदो भवेत्।

दशार्बुदा निर्बुदः उक्तः तद्दशं खड्गमिष्यते॥

दशखड्गनिखड्गं तु दशनिखः खर्वमिष्यते।

दश निखर्वां तथा पद्मः दशपद्मां महापद्मः॥

दशपद्मानि वाहस्तु दशविवाहांस्तथापराम्।

महाविवाहस्तथा दृष्टस्तद्दशं मायमुच्यते॥

तद्दशमायां महामायः महामायां दशापराम्।

समुद्रं गणितज्ञाने निर्द्दिष्टं लोकनायकैः॥

महासमुद्रं ततः पश्चाद् विंशार्द्धं परिसाधिके।

महासमुद्रस्तथा ह्युक्तः सदशं सागरः ततः॥

महासागरमित्याहुर्विंशार्द्धेन प्रयुज्यते।

महासागरा दश गुणीकृत्य प्रघरा ह्येवमुच्यते॥

दशप्रघरात्युक्तः घरेति तं प्रकीर्त्तितम्।

दशघरे नामतोऽप्युक्ता अशेषं तु तदुच्यते॥

अशेषान्महाशेषं विंशार्द्धेन गुणीकृतम्।

तदसङ्ख्यं प्रमाणं तु कथितं लोकनायकैः॥

सङ्ख्यो दश सङ्ख्यामित्याहु तदसङ्ख्यं गुणीकृतमिति।

ततः परेणापि तथा + + + + + + + + + + + + ॥

अमितात् सहस्रगुणितं तं लोकं परिकीर्त्यते।

लोकात् परेण महालोकं महालोकाद् गुणीकृतम्॥

ततत्संस्तमसमित्युक्तं तमसा ज्योतिरुच्यते।

ज्योतिषो महाज्योत्स्ना गुणीकृत्य महाराशिस्तदुच्यते॥

महाराश्या महाराशिरित्युक्ता राश्ये गम्भीरमुच्यते।

गम्भीरा स्थिरमित्याहुः स्थिरात् स्थिरतरं व्रजेत्॥

ततः परेण बहुमत्या बहुमतं स्थानमुच्यते।

स्थानं स्थानतरं त्याहुः गणितज्ञानसूरताः॥

महास्थानं ततो गच्छेन्महास्थानमितमिष्यते।

मितान्मितसमं कृत्वा महार्थं तत् परिकीर्त्यते॥

महार्था सुश्रुतस्थानं ततो गच्छेन्महार्णवम्।

महार्णवात् प्रथममित्याहुः प्रथमात् प्रथमतरं हि तत्॥

प्रथमे श्रेष्ठमित्याहुः श्रेष्ठाज्ज्येष्ठान्तमुच्यते।

ज्येष्ठान्मन्दिरसो नाम तदचिन्त्यं परिकीर्त्यते॥

अचिन्त्य अचिन्त्यार्थिन्यतमं घोरं घोरात् राष्ट्रतमिष्यते।

राष्ट्रात् परेण निध्यस्तो निध्यस्तपरतः शुभम्॥

शुभात् परेण महाचेतः महाचेता चेतयिष्यते।

चेतो चित्तविक्षेप अभिलाप्य तदुच्यते॥

अभिलाप्या अनभिलाप्यास्तु विश्वरं च मुदाहृतम्।

विश्वात् परेण महाविश्वः अस्वरं तु तदुच्यते॥

अस्वरान्महास्वरस्थानं खर्वतोऽधिगर्वितस्तथा।

श्रेयसं शान्तिमित्युक्तं स्थान गणितपारगैः॥

महाधृष्टस्ततो धृष्टः ओदकं तदिहोच्यते।

ओदका चित्तविभ्रान्तं स्थानं चापरमुत्तमम्॥

उत्तमात् परतो बुद्धां विषयं नाधरभूमिकाम्।

अशक्यं मानुषाणां तु गणना लोककल्पनम्॥

ततः परेण बुद्धानां गोचरं नापरं मतम्।

बुद्धक्षेत्रं आसिकता गङ्गानद्यास्तु मुच्यते॥

सम्भिद्य परमाणूनां कथयामास नायकाः।

दृष्टान्तं क्रियते ह्येतत् तर्कज्ञानं तु गोचरम्॥

हेतुना साध्यते द्रव्यं न शक्यं गणनापरैः।

एतत्प्रमाणं सम्बुद्धा पर्युपास्ते मया पुरा॥

तेषामाराधयित्वा मे कल्पेऽस्मिं तदचित्तके।

एतावत्कालमपर्यन्तं बोधिसत्त्वोऽहं पुरा भवेत्॥

सत्त्वानामर्थसम्बुद्धो बुद्धत्वं च समाविशेत्।

तत्र तत्र मया तन्त्रा भाषिता कल्पविस्तरा॥

एतत् कल्पवरं ज्येष्ठमेतद् बुद्धैस्तु भाषितम्।

एतद् प्रमाणं सम्बुद्धैः कथितोऽहं पुरातनम्॥

अधुना कुमार ! मया प्रोक्त अन्ते काले तु जन्मिके।

यावन्ति लौकिका मन्त्रा कल्पराजाश्च शोभना॥

लोकोत्तरा तथा दिव्या मानुष्या ससुरासुरा।

सर्वेषां तु मन्त्राणां तन्त्रयुक्तिरुदाहृता॥

सम्मतोऽयं तु सर्वत्र कल्पराजो महर्द्धिकः।

तेषां कल्पविधानेन सिद्धिमायाति मञ्जुमाम्॥

अनेनैव तु कल्पेन विविना मञ्जुभानिना।

तेषां सिद्धिमित्युक्ता सर्वेषां प्रभविष्णुना॥

किं पुनर्मानुषे लोके ये चान्ये मन्त्रदेवता।

सर्वे लोकोत्तरा मन्त्राः लौकिका समहर्द्धिका॥

अनेन विधियोगेन कल्पराजेन सिद्धिताम्।

वसिता सर्वमन्त्राणां सर्वकल्पमुदाहृतम्॥

सम्मतोऽयं तु मञ्जुश्रीः कल्पराजे इहोत्तमे।

ये केचिच्छिल्पविज्ञाना लौकिका लोकसम्मता॥

निमित्तज्ञानशकुनाः ज्योतिषज्ञानचिह्निताः।

निमित्तज्ञानचरिता रुतावैव शुभाशुभा॥

सर्वभूतरुतश्चैव चरितं चित्तचिह्नितम्।

धातुरायतमं द्रव्यं + + + + + + + + ॥

इङ्गितं शकुनमित्याहुः खन्यधातुक्रिया तथा।

गणितं व्याकरणं शास्त्रां शस्त्रं चैव क्रमो विधिः॥

अध्यात्मविद्या चैकित्स्यं सर्वसत्त्वहितं सुखम्।

हेतुनीति तथा चान्ये शब्दशास्त्रं प्रवर्त्तितम्॥

छन्दभेदोऽथ गान्धर्वः गन्धयुक्तिमुदाहृताः।

ते मया बोधिसत्त्वेन सत्त्वानामर्थाय भाषिता॥

पुराहं बोधिसत्त्वोऽस्मिं सत्त्वानां हितकारणा।

भाषिता ते मया पूर्वं संसारार्णववासिनाम्॥

संसारगहने कान्तारे चिरकालं उषितो ह्यहम्।

यथा वैनेयसत्त्वानां तथा तत्र करोम्यहम्॥

यथा यथा च सत्त्वा वै हितं कर्म समादधेः।

तथा तथा करोम्येषां हितार्थं कर्म शुभालयम्॥

विचित्रकर्मनेवस्थाः सत्त्वानां हितयोनयः।

विचित्रैव क्रियते तेषां विचित्रार्थयोनिदूषिता॥

विचित्रकर्मसंयुक्ता विचित्रार्थां शास्त्रवर्णिताम्।

तं तथैव करोम्येषां विचित्रां रूपसम्पदाम्॥

अहं तथा वेषधारी स्या विचित्राङ्गं निजानिजाम्।

हिताशयेन सत्त्वानां विचित्रं रूपं निर्मिषे॥

महेश्वरः शक्रब्रह्माद्यां विष्णुर्धनदनैरृताम्।

विचिरां ग्रहरूपांस्तु निर्मिमेऽहं तथा पुरा॥

महाकरुणाविष्टमनसः सत्त्वानामाशयगोचरा।

अनुपूर्व्या तु तेषां वै स्थापयामि शिवे पदे॥

पर्यटामि संसारे दीर्घकालमवेक्षितम्।

सत्त्वानामर्थनिष्पत्तिं मन्त्ररूपेण देशितम्॥

अनुपूर्वं मतज्ञानं मन्त्रकल्पं प्रवर्तितम्।

चिरा मे संसरता जन्मे बुद्धगोत्रे समासृत॥

न च मे विद्यते कश्चित् कर्ता वा स्वामिनोऽपि वा।

नियतं गोत्रमासृत्य बुद्धोऽहं बोधिमुत्तमां॥

क्षेमोऽहं निर्जरं शान्तं अशोकं विमलं शिवम्।

प्राप्तोऽहं निर्वृतिं शान्तिं मुक्तोऽहं जन्मबन्धना॥

अधुना प्रवर्तितश्चक्रः भूतकोटिसमाश्रित।

दर्शयामेष कल्पं वै मन्त्रवादं सविस्तरम्॥

न वृथा कारयेज्जापी कर्मकल्प सविस्तरम्।

यावन्ति लौकिका मन्त्राः कल्पाश्चैवमुदाहृताः॥

पूज्या मान्याश्च सर्वे ते अवज्ञा तेषां तु वर्जिता।

नावमन्ये ततो मन्त्री तेषां कल्पानि विस्तरम्॥

निमित्तं ज्ञानयुक्तिं च ज्योतिषज्ञानरोदितम्।

न वृथा कारयेदेतां मङ्गलार्थमुदाहृताः॥

दृष्टधार्मिकमेवं तु सिद्धिद्रव्यादिमोषधम्।

सामिषं लोभनं सिद्धिस्तस्मान्मङ्गलमुच्यते॥

प्रशस्ता जिनगाथाभिः स्वस्तिगाथाभिभूषितम्।

प्रशस्तैर्दिवसैर्मुख्यैः सितपक्षे सुचिह्नितैः॥

शुक्लग्रहवरे युक्ते मन्त्रसाधनमारभेत्।

एवमाद्याः शुभा युक्ता अशुभांश्चापि वर्जयेत्॥

मयैव कथितं पूर्वं तस्माद् ग्राह्या तु जापिभिः।

यावन्ति केचिल्लोकेऽस्मिं ज्योतिषज्ञानकौशलाः॥

अन्ये वा तत्र कौशल्याः नीतिहेतुसहेतुकाः।

न्यायशास्त्रसुसम्बद्धा सत्त्वानां हितकारया॥

मयैव कथितं तत् सर्वं ग्राह्यते मन्त्रजापिभिः।

सिद्धिहेतुरयं मार्गः दर्शितं तत्त्वदर्शिभिः॥

सर्वं ह्यशेषसिद्धान्तं यद्योक्तं मोक्षकारणम्।

तेनैव कुर्यान्मन्त्राणां मार्गं सिद्धिकारणाः॥

न वृथा कारयेज्जापी मन्त्रयुक्तिं ह्यशेषतः।

सर्वे लौकिका मन्त्रा उत्तमाश्च प्रकीर्तिताः॥

लोकोत्तरास्तथा दिव्या सर्वेष्वेव प्रयोजयेत्।

न मिथ्यं कारये चित्तं न दूष्ये तत्र मनं कदा॥

सर्वे पूज्यास्तु मन्त्रा वै समयज्ञः प्रकीर्तिताः।

शासनेऽस्मिं तथा सास्तुः बुद्धानां समताहिते॥

निविष्टा जिनपुत्राणामाकृष्टाश्च प्रवेशिताः।

मण्डले मुनिचन्द्राणां समयज्ञ इहोदिताः॥

अवन्ध्यास्ते सदा मन्त्रैरानीता विशनाशया।

न नमे परमन्त्राणां नापि सावज्ञमाचरेत्॥

अनार्या ये तु मन्त्रा वै अवन्ध्यास्ते परिकीर्त्तिता।

यावन्ति लौकिका मन्त्रा अधरा जापसम्भवा॥

सक्लेशा दृष्टमार्गान्ता अवन्ध्यास्ते तु जापिभिः।

न वृथा कारये चित्तं कोपने रोषसंयुतम्॥

रोचनं न चैव भक्तिं न कुर्यात् कर्म वृथाफलम्।

तदायत्तं हि चित्तस्य न दद्यात् सन्नतिं क्वचित्॥

एकमन्त्रस्तु युक्तिस्थः जपं नित्यं समाहितः।

लभते फलमशेषं तु यथोक्तं विधिना विधेः॥

निश्चलं तु मनः कृत्वा एकमन्त्रं तु तं जपेत्।

एकचित्तस्य सिद्ध्यन्ते मन्त्राः सर्वार्थसाधकाः॥

व्यस्तचित्तो हि मूढात्मा सिद्धिस्तस्य न दृश्यते।

अशेषं फलनिःपत्तिं प्राप्नुयाद् विपुलां गतिम्॥

नित्यशुद्धं मनो यस्य स श्राद्धस्यैव शासने।

रत्नत्रये च प्रसन्नस्य सिद्धिरिष्टा उदाहृता॥ इति।



आर्यमञ्जुश्रीमूलकल्पात् बोधिसत्त्वपिटकावतंसका-

न्महायानवैपुल्यसूत्रात् एकत्रिंशतिमः कर्मक्रिया-

विधिनिमित्तज्ञाननिर्देशपटलबि-

सरः परिसमाप्तः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project