Digital Sanskrit Buddhist Canon

अथ द्वात्रिंशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Atha dvātriṁśaḥ paṭalavisaraḥ

अथ द्वात्रिंशः पटलविसरः।



अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। अस्ति मञ्जुश्रीः त्वदीयमन्त्राणां सर्वतन्त्रेषु समनुप्रवेशसर्वविद्यारहस्यमनेककालगुणशकलफलोदयमप्यनुबन्धनिमित्तं प्रमाणतो वक्ष्ये सिद्धिकारणानि। तद्यथा -



जन्मान्तरिता सिद्धिः न सिद्धिः कालहेतुतः।

तत्प्रमाणप्रयोगस्तु पूर्वसम्बद्धमुद्भवा॥

अहितावहितो सिद्धिः भवेद् युक्तिविचारणम्।

त्वत्कुमाराश्रययुक्तिः दृश्यते सर्वदेहिनाम्॥

अत्र पूर्वकृतं कर्म युक्तिरित्यभिधीयते।

तद्योगे युक्तितः धीरो प्राप्नुयात् सिद्धिमुत्तमाम्॥

असिद्धं सिद्ध्यते कर्म न सिद्धिः कर्मणा विना।

कर्मकर्तृसमायुक्तं संयुक्तः सिद्धि कल्प्यते॥

लिलेभ परमं स्थानं विधियुक्तेन हेतुना।

न वव्रे मन्त्रिणा मन्त्रं अमन्त्रो मन्त्रिणो भवेत्॥

मौनकर्मसमाचारे सिद्धिमाप्नोति पुष्कलाम्।

जापी बीजसमाहार आजहार धियोत्तमम्॥

वियतः श्रेष्ठतमं स्थानं प्रथमं गतिमाप्नुयात्।

वियताभावतः स्वस्थो प्राप्नुया निर्जरसम्पदम्॥

निमित्ता कालतो यस्य अकाले सिद्धिकांक्षिणः।

न सिद्धिस्तस्य मन्त्राणां शक्रस्यापि समासतः॥

अहितो भूतजन्तूनां अकालाक्रमणः पुनः।

न सिद्धिस्तस्य दृश्यते ब्रह्मणस्यापि महात्मनः॥

तन्द्रीतृष्णासमायुक्तो मदामानसमन्वितः।

शैथिल्योदीर्यमुद्वेक्षी नित्यं प्राव्यजने रतः॥

आलस्या मिथुनसंयोगी अस्य सिद्धिः कुतो भवेत्।

सुराणां गुरवो यद्य असुराणां च येस्तदा॥

तेऽपि साधयितुं मन्त्रं न शक्तो विधिवर्जितम्।

विधिहीनं तथा कर्म चित्तविभ्रमकारकम्॥

तस्मात् तं जपेन्मन्त्रं अयुक्तं विधिना विना।

बालानां दृष्टिसम्मोहं जनयन्ति तथाविधा॥

संमूढास्तु ततो बाला पतन्ते कष्टतमां गतिम्।

ततस्ते मन्त्रधरास्तस्मादुज्जहार ततः पुनः॥

अनुपूर्व्या ततः सिद्धिं प्रयच्छन्ति शुभां गतिम्।

ततो तं जपिनं मन्त्रा स्थापयन्ति शिवाचले॥

एवममोघं मन्त्राणां जपमुक्तं तथागतैः।

दृष्टिभ्रान्तेऽपि चित्तस्य अनुग्रहायैव युज्यते॥

एते कल्याणमित्रा वै एते सत्त्ववत्सला।

एतेषां सिद्धिनिर्दिष्टा त्रियानसमता शिवा॥

तस्मात् सर्वप्रयत्नेन जपेन्मन्त्रं समाहितः।

अविधिप्रयोगान्मन्त्रा हि प्रयुक्ता मन्त्रजापिभिः॥

चिरकालं तु संसारात् कथञ्चिन्मुक्तिरिष्यते।

सुचिरात् कालतरं गत्वा मन्त्राणां सिद्धि दृश्यते॥

विधियुक्ता हि मन्त्रा वै क्षिप्रं सिद्धिमवाप्नुयात्।

पश्यते फलनिष्पत्तिं नाफलं मन्त्रमुच्यते॥

इहैव जन्मे सिद्ध्यन्ति मन्त्राः फलसमोदिता।

न निष्पत्तिः फलकर्मणां नाफलं कर्ममिष्यते॥

फलं कर्मसमायोगात् सफलं कर्म उच्यते।

तज्जापी जन्मजनिता वियत्याभावसम्भवः॥

शिवं लोकनिर्दिष्टं शान्तभावा विमुच्यते।

तद्गतं गतिमाहात्म्यं बुद्धवर्त्मानुसेविनः॥

विपरीतकलौ काले सिद्धिस्तस्यापि दृश्यते।

इहैव जन्मे भवेत् सिद्धिः जन्मान्ते च प्रवर्त्तते॥

यावन्निष्ठा भवेच्छान्ति शिववर्त्ममसंस्कृतम्।

यत्तु लोकविनिर्दिष्टं शिवं स्थानं सुनिर्मलम्॥

बुद्धत्वं सप्रकाशं तु जनैः सर्वप्रकाशितम्।

तदन्तं तस्य अन्तं वै मन्त्रसिद्धिरुदाहृता॥

अप्रकाश्यमभावं तु जिनानां प्रत्यात्मसम्भवम्।

मन्त्रा तु कथितं लोके मुनिचन्द्रैर्महर्द्धिकैः॥

साक्षात् सिद्धि समादिष्टा इह जन्मेऽपि देहिनाम्।

शून्ये तत्वविदे क्षेत्रे मन्त्रा बुद्धत्वमाविशेत्॥

अन्ते कलियुगे काले शान्तिं तत्त्वविदे गते।

मन्त्रा सिद्धिं न गच्छेयुः क्षिप्रमर्त्थाभिकांक्षिणाम्॥

तस्मिं काले प्रयोगेन विधिदृष्टेन कर्मणा।

साधयेन्मन्त्रतन्त्रज्ञः शासनेऽस्मिं मुनिर्वचे॥

ध्रियते तथागते सिद्धिः उत्तमा क्षिप्रमिष्यते।

मध्यकाले तथा सिद्धि मध्यमा तु उदाहृता॥

युगान्तं कालमासाद्य अधमा सिद्धिरुच्यते।

युगे शोभने काले वियत्योत्पतनं तथा॥

सिद्धिश्च सर्वमन्त्राणां निर्दिष्टा लोकनायकैः।

तदा काले जिनेन्द्राणां कुलाग्र्यं तत् प्रसिध्यति॥

मध्ये पद्मकुले सिद्धिः युगान्ते वज्रकुलस्य तु।

प्रणिधानवशात् केचित् मन्त्रा सिद्ध्यन्ति सर्वदा॥

अवलोकितेशो मञ्जुश्री तारा भृकुटी च यक्षराट्।

सर्वे माणिचरा यक्षा सिद्ध्यन्ते सर्वकालतः॥

रागिणो ये च मन्त्राद्या प्रयुक्ता सर्वदैवतैः।

सिद्ध्यन्ते कलियुगे काले लौकिका ये सुचिह्निताः॥

प्रोक्ता देवमनुजैः दानवेन्द्रैर्यक्षराक्षसैः।

ऋषिभिर्गरुडैश्चापि पिशाचैर्भूतगणैर्ग्रहैः॥

मानुषामानुषाश्चैव कामधातुसमासृतैः।

महर्द्धिकैः पुण्यवद्भिश्च क्रूरकर्मैः सुदारुणैः॥

शक्रब्रह्मतथारुद्रैः ईशानेन तथापरैः।

विष्णुना सर्वभूतैस्तु मन्त्र प्रोक्ता महर्द्धिकाः॥

तेऽपि तस्मिं युगान्ते वै सिद्धिं गच्छन्ति जापिनाम्।

क्रूरकर्मे तथा सिद्धिः तस्मिं काले महद्भये॥

वश्याकर्षणभूतानां क्रव्यादानां महीतले।

दृश्यते निःफला सिद्धिः परलोकान्तगर्हिता॥

अत एव जिनेन्द्रेण तस्मिं काले महद्भये।

मञ्जुघोषसमादिष्टः सत्त्वानुग्रहतत्परः॥

विनश्यन्ति तदा सत्त्वां मन्त्ररूपेण जापिनाम्।

शासनेऽस्मिन् प्रसन्नानां त्रिरत्नेष्वेव पूजकामिति॥



आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंस-

कात् महायानवैपुल्यसूत्रात् त्रिंशतिमः

विधिनियमकालपटलविसरः

परिसमाप्तः इति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project