Digital Sanskrit Buddhist Canon

अथैकोनत्रिंशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Athaikonatriṁśaḥ paṭalavisaraḥ

अथैकोनत्रिंशः पटलविसरः।



अथ भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। अस्ति मञ्जुश्रीः ! त्वदीये कल्पविधानपरिवर्ते सप्तमः पटकर्मविधानं यो तस्मिं काले तस्मिं समये युगान्ते साधयिष्यन्ति अमोघा तस्य सिद्धिर्भविष्यति। सफलाः सुखोदयाः सुखविपाकाः दृष्टधर्मवेदनीया सर्वदुर्गतिनिवारणीया नियतं तस्य बोधिपरायणीया सिद्धिर्भविष्यति॥



अथ भगवां शाक्यमुनिः मञ्जुश्रियस्य कुमारभूतस्य हृदयं भाषते स्म॥



षडक्षरं षड्गतिमोचनात्मकं अचिन्त्यतुल्याप्रतिमं महर्द्धिकम्।

विमोचकं सर्वभवार्णवार्णवं तृदुःखदुःखा भवबन्धबन्धनात्॥



असह्यं सर्वभूतानां सर्वलोकानुलिप्तकम्।

अधृष्यं सर्वभूतानां भवमार्गविशोधकम्॥



प्रापकं बुद्धधर्माणां सर्वदुष्टनिवारणम्।

अनुमोदितं सर्वबुद्धैस्तु सर्वसम्पत्तिकारकम्॥



उत्कृष्टः सर्वमन्त्राणां मञ्जुघोषस्य शासने।

कतमं च तत्। ॐ वाक्येद नमः॥



अस्य कल्पं भवति। शाकयावकभिक्षभैक्षाहारो वा त्रिःकालस्नायी त्रिचेलपरिवर्त्ती अक्षरलक्षं जपेत्। पूर्वसेवा कृता भवति॥



ततः अच्छिन्नाग्रदशके पटे पोषधिकेन चित्रकरेण अश्लेषकैर्वर्णकैः आर्यमञ्जुश्रीश्चित्रापयितव्यः पद्मासनस्यो धर्मं देशयमानः सर्वालङ्कारविभूषितः कुमाररूपी मुक्तोत्तरासङ्गः तस्य वामेन आर्यावलोकितेश्वरः पद्महस्तः चामरव्यग्रहस्तः दक्षिणेन आर्यसमन्तभद्रः उपरि मेघगर्भविनिर्गतौ विद्याधरौ मालाधारिणौ लिखापयितव्यौ अधस्तात् साधको धूपकटच्छकव्यग्रहस्तः समन्तात् पर्वतशिखरा लिखापयितव्या। अधस्तात् पद्मसरः॥



सधातुके चैत्ये पटं पश्चान्मुखं प्रतिष्ठाप्य उदारां पूजां कृत्वा घृतप्रदीपांश्च प्रज्वाल्य जातीपुष्पाणां अष्टसहस्रेण एकैकमभिमन्त्र्य मञ्जुश्रीमुखे ताडयेत्। ततो महागम्भीरहुङ्कारशब्द श्रूयते। पटो वा प्रकम्पते। हुङ्कारशब्देन सार्वभौमिको राजा भवति। पतप्रकम्पने सर्ववादिषुत्तरवादी भवति। सर्वलोकैकशास्त्रज्ञः। अथ न सिद्ध्यति सर्वकर्मसमर्थो भवति॥



अयं प्रथमः कल्पः।



अगरुसमिधानामध्यर्द्धमङ्गुलप्रमाणानां निर्धूमेषु खदिराङ्गारेषु कृत्स्नां रात्रिं तुरुष्कतैलाक्तानां जुहुयात्। अरुणोदये आर्यमञ्जुश्रियं पश्यति। सोऽस्य यथेप्सितं वरं ददाति। वर्जयित्वा कामोपसंहितम्॥



तस्यैव पटस्याग्रतः चन्दनधूपमव्यवच्छिन्नं दहं कृत्स्नां रात्रिं जपेत्। ततः आर्यमञ्जुश्रीः साक्षामागच्छति गम्भीरां धर्मां देशयति। तामधिमुच्यति। अधिमुच्य सर्वव्याधिविनिर्मुक्तः वशिता प्राप्तो भवति॥



रक्तचन्दनमयं पद्मं कृत्वा षडङ्गुलपरिणाहं सनालं रक्तचन्दनेन म्रक्षयित्वा सहस्रं सम्पाताहुतं सहस्राभिमन्त्रितं कृत्वा पूर्णमास्यां पटस्याग्रतः पद्मपत्रे स्थाप्य हस्तेनावष्टभ्य तावज्जपेद् यावत् प्रज्वलित इति। तेन गृहीतेन द्विरष्टवर्षाकृतिः तप्तकाञ्चनप्रभः भास्करस्योपिरकेतेजा देवकुमारः सर्वविद्याधरनमस्कृतः महाकल्पं जीवति। भिन्ने देहे भिरत्यामुपपद्यते॥



चन्द्रग्रहे श्वेतवचां गृह्यं पञ्चगव्येन प्रक्षाल्य अश्वत्थपत्रैरवष्टम्भयित्वा तावज्जपेद् यावदूष्मायति धूमायति ज्वलति। सर्वजनवशीकरणः सर्ववादिविजयी धूमायमाने अन्तर्द्धानं त्रिंशद्वर्षसहस्राणि जीवति। ज्वलिते आकाशगमनं महाकल्पं जीवति॥



कपिलायाः समानवत्सायाः घृतं गृह्य ताम्रभाजनं सप्तभिरश्वत्थपत्रैः स्थाप्य तावज्जपेद् यावत् त्रिविधा सिद्धिरिति। तं पीत्वा श्रुतिधरमन्तर्धानाकाशगमनमिति॥



पुष्करबीजं मुखे प्रक्षिप्य चन्द्रग्रहे तावज्जपेद् यावच्चुलुचुलायति। त्रिलौहपरिवेष्टितं कृत्वा मुखे प्रक्षिप्यान्तर्हितो भवति। उद्गीर्णायां दृश्यति॥



लवङ्गगन्धं मुखे प्रक्षिप्य षड्लक्षं जपेत्। यमालपति स वश्यो भवति। क्षीरयावकाहारः लक्षं जपेद् विद्याधरो भवति। भिक्षाहारः काष्ठमौनी लक्षं जपे अन्तर्हितो भवति। कोटिं जपेदार्यमञ्जुश्रीस्तथा धर्मं देशयति यथा चरमभविको बोधिसत्त्वः भवति। सतत जापेन सर्वार्थवृद्धिर्भवति॥



सर्वगन्धैर्यस्य प्रतिकृतिं कृत्वा च्छित्वा जुहोति स सप्तरात्रेण वश्यो भवति। गुग्गुलुगुलिकानां बदरास्थिप्रमाणानां घृताक्तानां शतसहस्रं जुहुयात् दीनारलक्षं लभति॥



समुद्रगामिनीं नदीमवतीर्य पद्मानां शतसहस्रं निवेदयेत्। पद्मराशितुल्यं महानिधानं पश्यति। क्षयं न गच्छति। गौरसर्षपाणां कुङ्कुमाभ्यक्तानां अष्टसहस्रं जुहुयात्। राजा वश्यो भवति। तिलानां दधिमधुघृताक्तानां शतसहस्रं जुहुयात्। सर्वन्ददो महागृहपतिर्भवति। अपतितगोमयेन मण्डलकं कृत्वा मुक्तपुष्पैरभ्यवकीर्याष्टशतं जपेत्। ततः सद्धर्मपुस्तकं वाचयेत्। मासेन परममेधावी भवति। रोचनाष्टशतं कृत्वा तिलकं कुर्यात्। सर्वजनप्रियो भवति। शिखां सप्तजप्तां कृत्वा सर्वसत्त्वानामावध्यो भवति। किरिमालं दशसहस्राणि जुहुयात्। सर्वव्याधिर्मुच्यते। दिनेदिने सप्तवारां जपेत्। नियतवेदनीयं कर्म क्षपयति अथाष्टशतजपेन मरणकालसमये समस्तं सम्मुखं आर्यमञ्जुश्रियं पश्यतीति॥



आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात्

महायानवैपुल्यसूत्रात् सप्तविंशतिमः

मञ्जुश्रीपटविधानपरिवर्तकर्मविधिः सप्तमकपटलविसरः

परिसमाप्तमिति।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project