Digital Sanskrit Buddhist Canon

सप्तविंशतितमः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Saptaviṁśatitamaḥ paṭalavisaraḥ

सप्तविंशतितमः पटलविसरः।



अथ भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य तत्रस्थांश्च देवसङ्घां सर्वांश्च बुद्धबोधिसत्त्वा प्रत्येकबुद्धार्यश्रावकां पुनरपि मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। निर्दिष्टोऽयं मञ्जुश्रीः ! सर्वतथागतानां सर्वस्वभूतं धर्मकोशं चिन्तामणिप्रतिप्रख्यं लोकानामाशयसफलीकरणार्थं तस्मिं काले युगाधमे शून्ये बुद्धक्षेत्रे परिनिर्वृतानां तथागतानां सद्धर्मनेत्री अन्तर्द्धानकालसमये तस्मिं काले तस्मिं समये सर्वतथागतानां मन्त्रकोशसंरक्षनार्थं त्वदीयकुमारमन्त्रतन्त्राणां कल्पराजेऽस्मिं निधानभूतो भविष्यति। जप्यमानो विधिना सारभूतोऽयं मञ्जुश्रीः ! सर्वतथागतमन्त्रतन्त्राणां त्वदीये च कुमारकल्पराजेऽग्रभूतो भविष्यत्ययं एकाक्षरचक्रवर्त्ती। अनेन जप्यमानेन सर्वे ताथागता विद्याराजानः जप्ता भवन्ति॥



अपरमपि मञ्जुश्रीः ! त्वदीयकल्पराजे निधानभूतं सारभूतं अग्रभूतं ज्येष्ठभूतमेकाक्षरं पूर्वमासीत्। अतीते काले अतीते समये द्वाषष्टिगङ्गानदीसिकतप्रख्यैः कल्पैः अमितायुर्ज्ञानविनिश्चयराजेन्द्रो नाम तथागतोऽर्हन् सम्यक् सम्बुद्धः विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवां। यस्य स्मरणादेव नामग्रहणमात्रेण पञ्चानन्तर्याणि क्षयं गच्छन्ति। नियतं बोधिपरायणा बहवः सत्त्वाः ये नाममात्रं श्रोष्यन्ते। कः पुनर्वादो ये मन्त्रसिद्धये। अवश्यं च सर्वमन्त्रजापिभिः अयं भगवानमितायुर्ज्ञानविनिश्चयराजा तथागतः प्रथमत एव मनसि कर्त्तव्यः। वाचा च वक्तव्या - नमस्तस्मै भगवते अमितायुर्ज्ञानविनिश्चयराजेन्द्राय तथागतायार्हते सम्यक् सम्बुद्धाय॥



ततोऽमिताभं रत्नकेतुं ततः सर्वबुद्धानां प्रणामं कृत्वा यथेप्सितं मन्त्रा जप्तव्या। आशु सिद्धिं प्रयच्छन्ति। यत् कारणं महापुण्याभिवृद्धये मन्त्राणां तथागतानां संज्ञापरिकीर्त्तनं नमस्कारं च सर्वतथागतानां च प्रमाणं नियतं बोधिपरायणोऽयं कुशलसम्भारपरिपूरितो भवति। बोधिसत्त्वसङ्ख्यं गच्छति। मन्त्रा च तस्य आशु सिद्धिं प्रयच्छन्ति। अमितायुर्ज्ञानविनिश्चयराजेन्द्रेण तथागतेनार्हता सम्यक् सम्बुद्धेन अयमेकाक्षरमन्त्रः सर्वतथागतहृदयः सर्वमन्त्रतन्त्राभिमतः सर्वकर्मासाधकः मञ्जुघोष ! त्वदीये कल्पराजे परमरहस्यं परमगुह्यतमं लोकेनात्महिताय प्रयोक्तव्यम्।



अशिष्ये चापि अधार्मिके

अप्रसन्ने तथा शास्तु शासनेऽस्मिं जिनोदिते।

दुष्टे मानिने चापि शास्तुः शासनच्छिद्रिणे॥

न कथञ्चित् प्रयोक्तव्यः अप्रसन्ने जिनसूबुनाम्।

श्रावकां खड्गिणांश्चापि पूजानुग्रहमक्षमे॥

न तस्य देयं मन्त्रं वै सिद्धिस्तस्य न दृश्यते।

श्राद्धः सौम्यचित्तश्च प्रसन्नो जिनशासने॥

बोधिसत्त्वो तथा नित्यं पूजानुग्रहतत्परः।

तस्य सिद्धिर्भवेन्मन्त्रे इह कल्प महोदिते॥

एकाक्षरे महामन्त्रे मञ्जुघोषनियोजिते।

तेनासील्लोकनाथेन मन्त्रं दत्तं सुखावहम्॥

हृदयं सर्वबुद्धानां सर्वमन्त्राणां च उद्भवः।

षट्सप्तत्यः तथा कोट्यः पुरा गीतं स्वयम्भुना॥

मन्त्राणां श्रेयसार्थाय देहिनां पापमोहिनाम्।

सर्वेऽस्तं गता मन्त्राः शास्तुबिम्बं समाश्रिताः॥

तेषु सारभूतोऽयं विद्याराजा महर्द्धिकः।

एक अक्षरविन्यस्तो शाश्वतोऽयं प्रवर्त्तते॥

स्थितैषा धर्मकोटिस्थः बुद्धानां तु जगद्धिताम्।

धर्मनेत्र्या समाश्रित्य स्थितोऽयमेकमक्षरः॥

सर्वार्थसाधको मन्त्रः दुष्टराज्ञां निवारकः।

करोति कर्मवैचित्र्यं सर्वकर्मप्रसाधकः॥

साष्टं कर्मसहस्रं च कुरुते च ध्रुवं तथा।

विचित्रां सम्पदं दद्याद् विधिदृष्टेन कर्मणा॥

मञ्जुश्रियस्य हृदयोऽयं मकारो मन्त्रसंयुतः।

उकारगतिनित्यज्ञः आशील्लोके प्रवर्तितः॥

अमितायुर्ज्ञानराजेन विनिश्चितार्थः प्रकाशितः।

मञ्जुघोषस्य बुद्धेन प्रवृत्तोऽयं वशहेतुना॥

त इमं युगान्तके लोके शास्तरिः परिनिर्वृते।

सिद्धिं च यास्यते क्षिप्रं विधिदृष्टेन कर्मणा॥

अमितायुर्नाम आशीत् बुद्धक्षेत्रविकल्पितम्।

तत्रासौ भगवां बुद्धः धर्मचक्रप्रवर्तकः॥

तिष्ठत्यपरिमितां कल्पां आयुर्वसितमधिष्ठितः।

अत एव तस्य संज्ञाभूदमितायुर्ज्ञानविनिश्चय॥

राजेन्द्रः सर्वलोकानां महर्द्धिकोऽयं तथागतः।

स दद्युः मन्त्रवरं मुख्यं बुद्धपुत्रस्य धीमते॥

ज्येष्ठः तनयमुख्यस्य महास्थाने महर्द्धिके।

ततस्तेन सुतेनैतत् समन्तभद्रस्य योजितम्॥

ततस्तं बुद्धपुत्रो वै मञ्जुघोषस्य दत्तवां।

अधुनाहं तथागतो ह्यग्रकल्पमस्य मुदीरयेत्॥

इदं तन्मन्त्रमुख्यं वै धर्मराजेन भाषितम्।

श्रेयसार्थं तु भूतानां सर्वेषां मन्त्रमब्रीत्॥



नमोऽमितायुर्ज्ञानविनिश्चयराजेन्द्राय तथागतायार्हते सम्यक्सम्बुद्धा नमः सर्वबुद्धानां शालेन्द्रराजरमितायुरमितायुरत्नकेतुप्रभृतीनाम्। एभ्यो नमस्कृत्वा त्रिरति मन्त्रो जप्तव्यमेकाक्षरम्। कतमं च तत्। मुँ॥



एष सः मार्षा ! अमितायुर्ज्ञानविनिश्चयराजेन्द्रेण तथागतेनार्हता सम्यक् सम्बुद्धेन भाषितम्। अमितव्यूहवत्यां लोकधातौ स्थितेन सर्वसत्त्वानामर्थाय हिताय सुखाय लोकानुकम्पायै महतो जनस्यार्थाय अनागतानां च जनतामवेक्ष्य शासनान्तर्द्धानकालसमयं विदित्वां अन्ते युगाधमे रत्नत्रयापकारिणां दुष्टराज्ञां निवारणार्थं ज्येष्ठमौरसं पुत्रं सर्वतथागतानां महास्थामप्राप्ताय बोधिसत्त्वाय महासत्त्वाय दत्तवां। बुद्धाधिष्ठानेन समन्तभद्रस्य दत्तवां। समन्तभद्रो बोधिसत्त्वो महासत्त्वः मञ्जुश्रियस्य कुमारभूतस्य दत्तवां। ततो मञ्जुश्रियेण कुमारभूतेन सर्वसत्त्वानामनुग्रहार्थं महाकरुणावशेन हृदयस्थः स्वमूर्त्तौ स्थापितवां। अनागतकालमवेक्ष्य युगाधमे शासनान्तर्द्धानकालसमये अहमपश्चिमकस्तथागतः दुष्टे काले कलौ युगे मम शासनसंरक्षणार्थं करिष्यत्ययं मन्त्रवरः॥



अस्य कल्पं वक्ष्ये समासतः। शृणु कुमार ! मञ्जुस्वर ! सुस्वर ! तवैतन्माहात्म्यं कल्पविस्तरम्। अस्य कल्पराजेन्द्रस्य सविस्तरतरं वक्ष्ये॥



आदौ तावत् पर्वताग्रमारुह्य विंशल्लक्षाणि जपेत्। पूर्वसेवा कृता भवति। क्षीराहारेण मौनिना नान्यत्र मन्त्रगतचित्तेन तृशरणपरिगृहीतेन उत्पादितबोधिचित्तेन च मोषधशीलसंवरसमादापनाबोधिसत्त्वसंवरसंवरपरिगृहीतेन जप्तव्यम्। ततः कर्माणि भवन्ति। आदौ तावत् पटं लिखापयितव्यम्। उपोषधिकेन चित्रकरेण अश्लेषकैर्वर्णैः अन्यतरेण शुचिना चेलखण्डेन पट्टके वा चन्दनकर्पूरकुङ्कुमपर्युषितेन शुचौ देशे शुचिना चित्रकरेण त्रिशुक्लभोजिना शुचिवस्त्रप्रावृतेन आदित्योदयकालपरिपूर्णपञ्चदश्यां विशुद्धनक्षत्रेण लिखापयितव्यं यावन्मध्याह्नम्। परतो वर्जयेत्। एवं दिवसे दिवसे यावत् परिसमाप्त इति॥



आदौ तावत् पटस्य अमितायुर्वतीं लोकधातुमालिखेत्। हस्तमात्रे पटे सुगतवितस्तिचतुरस्रे पट्टके वा समन्तादमितायुर्वतीं लोकधातुं समन्तात् पद्मरागेन्द्रनीलस्फटिकमरकतपर्वतैरधस्तात् उपशोभितं उपरिष्टाच्च तेषां महारत्नविमानोपशोभिताकारं ध्वजपताकोपशोभितोच्छ्रिताकारं तत्र मध्ये रत्नसिंहासनोपविष्टममितायुविनिश्चयराजेन्द्रं तथागतं धर्मं देशयमानं समन्तप्रभाज्वालामालिनं ईषद्रक्तावदातं वामपार्श्वरत्नोपलनिषण्णं महास्थामप्राप्तं बोधिसत्त्वं महासत्त्वं चामरव्यग्रहस्तं तथागतदृष्टिं वामहस्तबीजपूर्णकफलन्यस्तं प्रियङ्गुश्यामावदातं सर्वालङ्कारालङ्कृतशरीरं समन्तज्वालं दक्षिणपार्श्वे भगवन्तं समन्तभद्रं बोधिसत्त्वं महासत्त्वं रत्नोपलस्थितं चामरव्यग्रहस्तं उद्‍धूयमानसितविन्यस्तपाणिं वामहस्तेन रत्नपाणिसर्वालङ्काररत्नमकुटविच्छुरितप्रियङ्गुश्यामावदातं नीलपट्टचलनिकानिवस्तं मुक्तिकाहाररत्नयज्ञोपवीतं समन्तज्वालामालावबद्धं तस्य दक्षिणपार्श्वे आर्यमञ्जुश्रियं रत्नोपलस्थितकं कुमारभूतं पञ्चचीरकोपशोभितं शिरं बालदारकालङ्कारालङ्कृतं कनकवर्णं नीलपट्टचलनिकानिवस्तं मुक्तावलीरत्नव्यतिमिश्रं यज्ञोपवीतं तथागतदृष्टिं ईषत्प्रहसितवदनं सौम्याकारं चारुरूपं कृताञ्जलिपुटं सर्वाकारवरोपेतं लिखापयितव्यम्। तस्याधस्ताद् यथा चे लिङ्गं वेषी संस्थानधारी साधकः पद्ममालां गृह्य जानुकोर्परसंस्थितः अवनतशिरः पटकोणान्तदेशे लिखापयितव्यः। भगवतः उपरिष्टाच्चत्वारो बुद्धाः भगवन्तः लिखापयितव्यः। दक्षिणोद्देशे द्वौ अमिताभः पुण्याभश्च। वामपार्श्वे उपरिष्टाद् द्वौ तथागतौ अभिलिखापयितव्यौ सालेन्द्रराजा रत्नकेतुश्च। समन्तप्रभा समन्तज्वाला कनकवर्णाः सर्वाकारवरोपेता सर्वपुष्पाभिकीर्णा निषण्णा पद्मासनेष्वेव नान्यासनेषु धर्मं देशयमानाः पर्यङ्कोपविष्टाः सौम्याकारा भगवतः उपरिष्टात् पुष्प वर्षं प्रवर्षयमानं मेघान्तर्गतलीनं तथागतविग्रहमुत्पतमानं सुनेत्रनामा अभिलिखापयितव्यः। सर्वाकारवरोपेतं समन्तप्रभाज्वालामालिनं दक्षिणहस्तेन वरप्रदं वामहस्तेन चीवरकर्णकावसक्तम्॥



एतद् भगवतः अमितायुर्ज्ञानविनिश्चयराजेन्द्रस्य तथागतस्यार्हतः सम्यक्सम्बुद्धस्य पटविधानम्। एतस्यैव भगवतः अयमेकाक्षरो मन्त्रः। उष्णीषराजोऽयं उष्णीषचक्रवर्त्ती प्रतिस्पर्द्धी समतुल्यवीर्यः तुल्यप्रभावः। अचिन्त्यमस्य गुणविस्तारप्रभावं महर्द्धिकोऽयं महानुभावः। संक्षेपतः सर्वतथागतोष्णीषराजानं महाचक्रवर्तिनमेकाक्षरस्य च यानि कल्पविस्तराणि उक्तानि तानि सर्वाणि करोति। असाधितोऽपि जप्तमात्रः कर्माणि कुरुते। कः पुनर्वादः साधितः। यथेष्टफलसम्पदां ददाति। ईप्सितं भवति। मनसा यदभिरुचितं अस्य पटस्य दर्शनादेव नियतं बोधिपरायणो भवति॥



तस्यैव भगवतः अमितायुर्ज्ञानविनिश्चयराजेन्द्रस्याधिष्ठानेन सर्वतथागतहृदय इत्युच्यते सर्वतथागत उष्णीषराजमित्युच्यते। चक्रवर्ति इत्युच्यते। महाचक्रवर्तिराज इत्युच्यते। मञ्जुश्रियः कुमारभूतस्य हृदय इत्युच्यते। एकाक्षर इत्युच्यते। संक्षेपतः अचिन्त्यमस्य प्रभावः। अचिन्त्या हि बुद्धानामधिष्ठानः। अचिन्त्यं बुद्धविकुर्वितम्। असाधितोऽपि अकृतपुरश्चरणोऽपि सर्वगृहारम्भप्रतिष्ठितोऽपि सर्वभक्षमद्यमांसग्राम्यधर्मप्रतिषेविणोऽपि वर्जयित्वा अश्राद्धस्य अनुत्पादितबोधिचित्तस्य। एतेषां नास्ति सिद्धिः। रत्नत्रयोपकारिणां तत्प्रतियत्नोपघातिनां च। एतेषां क्षुद्रकर्मापि न सिद्ध्यन्ति। कः पुनर्वादो मध्यमोत्तमा सिद्धिः। सर्वकामप्रचारभक्ताचारप्रचारस्य साधिकाष्टं कर्मसहस्रं क्षुद्रकर्मप्रयुक्तस्य सिद्ध्यन्ते। कतमे च ते॥



आदौ तावदेकजप्तः आत्मरक्षा। द्विजप्तः पररक्षा। त्रिजप्तो महारक्षा भवति। महाबोधिसत्त्वेनापि दशभूमिप्रतिष्ठितेन न शक्यते संक्षोभयितुम्। कः पुनर्वादः तदन्यैः सत्त्वैः। पञ्चरङ्गिकेण सूत्रेण चतुर्जप्तेन कट्यां वेष्टयेत्। शुक्रबन्धः कृतो भवति। स्वप्नोपघातं चास्य न भवेत्। वर्जयित्वा तु स्वेच्छया तदह एव रात्र्यामेको यदि रोचते दिने दिने कर्तव्यः। अथ न रोचते भस्म सप्ताभिमन्त्रितं कृत्वा नाभिदेशं स्पृशेत्। त्रिसप्ताहं शुक्रबन्धं कृतो भवति। पञ्चजप्तो बुद्धं भगवन्तं ध्यात्वा यं स्पृशेत् स वश्यो भवति। चन्द्रमसग्रहे शशिग्रहे शशिमण्डले अर्ककाष्ठैरग्निं प्रज्वाल्य विनापि पटेन पूर्वाभिमुखः आज्याहुतीनां दशसहस्राणि जुहुयात्। राजकुलसमीपे निम्नगानान्तरिते देवावसथे वा नान्तरितं यस्मिं देशे राजा तिष्ठति तत्र समीपे होमकर्मः प्रयोक्तव्यः। प्रभाते राजा वश्यो भवति। यदुच्यते तत् सर्वं करोति। यदा न पश्यते तदा तस्य चित्तं न्यस्तं भवति। मान्द्यो वा भवति। चित्तविक्षेपतां प्रतिपद्यते। भूयो प्रत्यायनं कर्त्तव्यम्। क्षीराहुतीनामष्टसहस्रं जुहुयात्। यत्र वा तत्र वा काले। ततः प्रभृति स्वस्थो भवति। एतत् कर्म श्राद्धानां रत्नत्रयप्रसन्नानां उत्पादितबोधिचित्तानां न कर्तव्यम्। यदि करोति महान्ततरं अपुण्यस्कन्धं प्रसनुयात्। अन्येषामपकारिणं कर्तव्यम्। दुष्टचित्तानां रौद्रचित्तानां दिनेदिने दर्शनं च दातव्यम्। सौम्यचित्ता भवन्ति। यदि न भवन्ति महता अर्थेन वियुज्यन्ते। प्राणावशेषा भवन्ति॥



पुनरपि कर्मं भवति। चन्द्रग्रहे पलाशसमिद्भिरग्निं प्रज्वाल्य घृताहुतीनामष्टसहस्रं जुहुयात्। प्रभाते देशस्वामी राजा भवति मन्त्रापयति मन्त्रितव्यम्। सद्भावमुपदर्शयते। उपदेष्टव्यं षण्मासाभ्यन्तरेण सहस्रपिण्डं ग्रामं ददाति। यद्यर्द्धरात्रं जुहोति त्रिभिर्मासैः। यदि सर्वयामिकं रात्रिं जुहोति मासेनेकेन लभते। यदि मासं जुहोति रात्र्यां रात्र्यां विषयं प्रतिलभते। विषयप्रतितुल्यं वा ग्रामं अन्यं वा यत् किञ्चिद् वितम्। अरयो न प्रभवन्ति। यदि सम्प्रभवन्ति पुनरपि कर्म भवति॥



चन्द्रग्रहे अपामार्गकाष्ठैरग्निं प्रज्वाल्य पलाशसमिधानां ब्राह्मणारे दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात्। अन्ते पिचुमन्दपत्राणां कटुतैलाक्तानां आहुतिमष्टसहस्रं जुहुयात्। प्रभाते सौम्या ब्राह्मणा राजा विद्विष्टो भवति॥



अपरमपि कर्म भवति। चन्द्रग्रहे यथोपपन्नकाष्ठैरग्निं प्रज्वाल्य घृताहुतीनामष्टसहस्रं जुहुयात्। होमान्ते च यस्यां दिशि प्रभुस्तिष्ठति तस्यां दिशि तद् भस्म क्षिपेत्। स वश्यो भवति। यं वा तं वा यस्मिं वा तस्मिं वा काले रोचते भोगां विस्तरतैः साहाय्यतां च प्रतिपद्यते। स्वल्पमल्पं वा महान्तं वा ग्राममनुप्रयच्छति विषयं वा। अमोघा च सिद्धिर्भवति षड्भिर्मासैः नियतम्॥



अथ क्रुद्धचित्तश्चतुर्वर्ण्यो अन्यतरं विकृतस्थाने वा यातो विकृष्टप्रधानलिङ्गेन वा अन्यदेवताभक्तं लौकिकेषु यस्मिं दिशि ते तिष्ठन्ति तदेव वेश्म सोऽस्य देशान्तरं प्रक्रमते। उद्विग्नश्च भवति। रात्रौ प्रपलायते वा। कुटुम्बं वास्य भिद्यते। प्रत्यायनं क्षीराष्टसहस्राहुतयो होतव्याः। स्वस्थो भवति॥



अपरमपि कर्म भवति। चन्द्रग्रहे तेनैव विधिना बुद्धबोधिसत्त्वप्रतिमापटस्य वा सद्धर्मपुस्तके वा सधातुकगर्भचैत्ये वा शुचिना शुचिवस्त्रप्रावृतेन अहोरात्रोषितेन निष्प्राणकेनोदकेन कर्म कर्त्तव्यम्। शुष्कपुष्पैः सुगन्धैः चन्दनकुङ्कुमपरिपूर्णः कर्पूरधूपधूपितोद्देशं तं कुर्यात्। यत्र कर्म प्रयुज्यते ब्राह्मणारेः पलाशकाष्ठैः क्षत्रियारे अश्वत्थकाष्ठैः वैश्यारेः खदिरकाष्ठैः शूद्रारेस्तदन्यैः काष्ठैः अग्निं प्रज्वाल्य तदेव कर्म कुर्यात्। ब्राह्मणस्य पलाशसमिध क्षत्रियस्याश्वत्थसमिधं वैश्यस्य खदिरसमिधं शूद्रस्य अपामार्गसमिधं तदन्यैर्वा यथालब्धैः राज्यहोमान्ते कुर्यात्। कर्मं तथैव महाराज्ञा अपराजितमूलसमिधं जुहुयात्। अष्टसहस्रं घृताहुतीनां अष्टसहस्रं अन्ते च तस्यां तदेव भस्मं क्षिपेत्। यस्यां दिशि महाराजा तिष्ठति। दुष्टचित्त आगच्छति वा उष्णीषचक्रवर्त्ती एकाक्षरमुद्रं बध्वा क्षिपेत्। उत्पलमुद्रं वा स वित्रस्तो निर्वर्त्तति। भग्नचक्रो वा भवति। अन्यद् वा यत्किञ्चिन्महोत्पातं भवति। महोपसर्गं चित्तदौस्थित्यं येन वाचास्य निर्वर्त्तते॥



एतानि वा पराणि च यथेष्टानि कर्माणि भवन्ति। वस्त्रमभिमन्त्र्य प्रावरेत्। सुभगो भवति। अक्षिण्यभिमन्त्र्य अञ्जयेत्। सर्वजनप्रियो भवति। सप्ताभिमन्त्रितं कुर्यात्। अक्षिणी मुखं च सर्वतः कृत्वा क्रुद्धस्य मुखं निरीक्षयेत्। स वश्यो भवति। सौम्यश्च पुष्पफलं अन्यं वा यत्किञ्चित्सगन्धं सप्ताभिमन्त्रि कृत्वा राज्ञो निवेदयेत्। सचिघ्रीतमात्रेण वश्यो भवति। अन्यो वा यः कश्चित् सत्त्वः स दर्शनमात्रेणैव वश्यो भवति। सर्वाङ्गशूलेषु अष्टशतमभिमन्त्रितं कृत्वा उष्णवारिणा स्नायीत। स्वस्थो भवति॥



एतानि कर्माणि कुर्यान्न दुःखितेभ्यः सत्त्वेभ्यः।

अनाथे पतिते क्लीबे व्रतिने चेह शासने॥

रत्नत्रयप्रसन्नेन कुर्यात् तत् कर्म ईदृशम्।

स्त्रीषु कर्म न कुर्याद् वै बालवृद्धे तथातुरे॥

दरिद्रे दुःखिते चापि अल्पसत्त्वे वियोनिजे।

न कुर्यात् कर्ममेवं तु महासत्त्वे प्रयोजयेत्॥

शूरे साहसिके लुब्धे महापक्षे महाधने।

अतिमानिने प्रचण्डे च कुर्यात् कर्म ईदृशम्॥

शासनद्वेषिणे क्रुद्धे परद्रव्यापहारिणे।

अश्राद्धे सर्वमन्त्राणां ओषधीनां च योगिनाम्॥

प्रगल्भे दुष्टचित्ते न नृपे लोककुत्सिते।

एतेषु कर्म प्रयुञ्जीत धार्मिकेषु विवर्जितम्॥

अपरं कर्ममित्याहुः बुद्धिस्तत् परिवर्जितम्।

तदेव भस्म क्रुद्धो वै यां दिशं क्षिपते जपी॥

तत्रस्था अरयः क्रुद्धा नृपतिश्चापि नश्यते।

दीर्घग्लान्यतां याति तेऽपि जना ध्रुवम्॥

महामार्योपसर्गं च तस्मिं देशे तु दृश्यते।

न कुर्यात् कर्म एवं तु स कृच्छ्रपतितोऽपि हि॥

त्रिसप्ताहाद् विनश्यन्ते सर्वे तत्र जनाधिपाः।

यावत् तत्कर्मणा पूर्णे द्विसप्ताहा तु संहरेत्॥

प्रथमे चित्तविक्षेपं द्विसप्ताहे तु ग्लान्यताम्।

तृसप्ताहे तथा मृत्युः तस्मात् तं परिवर्जयेत्॥

प्रथमे विद्रवन्ते ते द्वितीये देशविभ्रमम्।

त्रिसप्ताहे तथा नाशं न कुर्यात् कर्म ईदृशम्॥

केवलं सत्त्ववैनेया निर्दिष्टं लोकनायकैः॥

न भृशं सम्पदं ह्येते बुद्धा ते शुद्धमानसाः॥

प्राणोपरोधिनं कर्म सर्वबुद्धैस्तु गर्हितम्।

न कुर्यात्तजपी कर्म उत्तमं सिद्धिमिच्छता॥

नरकोपपत्तिः कामेषु एतेष्वेव प्रदृश्यते।

केवलं तु इदं प्रोक्तं कृष्णशुभकर्मफलोदयम्॥

कर्मवैचित्र्यमाहात्म्यं यथा दृष्टं द्विपदोत्तमैः।

शक्तं शुभोदयं नित्यं कृष्णं चास्य शुभप्रदम्॥

व्यतिमिश्रं तथा कर्मं व्यतिमिश्रं तु पठ्यते।

तथेदं कर्मवैचित्र्यं दर्शितं तत्त्वदर्शिभिः॥

तां जापी वर्जयेत् कृष्णं व्यतिमिश्रं कर्म एव वा।

शुक्लं भजेत कल्याणं शुभकर्मफलोदयम्॥

प्राणोपरिधान्नरकं तु जापी याति पुनः पुनः।

तन्निवृत्तेस्तथा धर्मः अहिंसः कर्ममुत्तमम्॥

स्वर्ग तथा सिद्धिः मन्त्राणां च शुभा गतिः।

प्राप्यते सुकृतैः कर्मैः विरुद्धैर्विरुद्धमुच्यते॥

धर्माधर्म मया प्रोक्तं सर्वज्ञत्वं विचेष्टितम्।

शुभकर्मसदाजापी आरभेत् सिद्धिलिप्सया॥

मन्त्रा तस्य सिद्ध्यन्ते जापिनस्य शुभे स्थिते।

अनिवर्तनं तस्य मोक्षं वै सितकर्मपरायणे॥

मन्त्रिणे श्रेयसा सिद्धिः प्रवदन्ति तथागताः।

विनयार्थं तु सत्त्वानां कर्मवैचित्र्यमुच्यते॥

यथेष्टं सहस्रकर्मं तु साधिकाष्ठं च सिद्ध्यते।

क्षुद्रकर्म प्रकुर्वीत उत्तमं तु न लभ्यते॥

मध्यमं सिद्ध्यते किञ्चिद् यत्नाज्जापहोमितम्।

अघमं सिद्ध्यते क्षिप्रं विधिदृष्टेन कर्मणा॥

त्रिविधं कर्म निर्दिष्ट उत्तमाधममध्यमाः।

उत्कृष्टरूपी तपस्वी च लभते उत्तमं तथा॥

मध्यजापी तथा मध्यं कर्मसिद्धिमवाप्नुयात्।

स्वल्पजापी तथा नित्यं स्वल्पकर्मसमावृत॥

लभते क्षुद्रसिद्धिं तु नान्यसिद्धिमवाप्नुयात्।

कालप्रमाणजापस्तु होमे दृष्टस्तृधा पुनः॥

अधिकादधिकं सिद्धि मध्यमध्येषु दृश्यते।

स्तोक स्तोकतरं कर्म लभ्यते क्षुद्रसिद्धिरिति॥



आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात्

महायानवैपुल्यसूत्रात् पञ्चविंशतिमः

एकाक्षरमूलमन्त्र आर्यमञ्जुश्री-

हृदयकल्पपटविधानविसरः

परिसमाप्त इति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project