Digital Sanskrit Buddhist Canon

अथ षड्विंशतितमः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
अथ षड्विंशतितमः पटलविसरः।



अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। शृणु मञ्जुश्रीः ! एकाक्षरचक्रवर्तिनस्य महानुभावस्य संक्षेपेण पटविधानं भवति। विस्तरशः पूर्वमुदीरितम्। अधुना संक्षेपेण युगाधमे सत्त्वा अल्पवीर्या भवन्ति, अल्पप्रज्ञा मन्दचेतसः। न शक्यन्ते विस्तरशः पटप्रमाणप्रयोगं साधयितुम्॥



संक्षेपेण वक्ष्येऽहं सत्त्वानां हितकाम्यया।

उत्तमार्थं तु यथा सिद्धिः प्राप्नुवन्ति स जापिनः॥



उत्तमसाधनं कर्तुकामेन अनाहते पटे अच्छिन्नदशे केशापगते अश्लेषकैर्वर्णैर्भगवां चित्रापयितव्यः। धर्मराजा धर्मचक्रप्रवर्त्तकः सर्वलोकाधिपतिः पुरुषोत्तमः द्विपदानामग्र्यः तथागतरत्नः रत्नकेतुर्नामा जिनोत्तमः धर्मं देशयमानः समन्तज्वालप्रभामण्डलः। अधस्ताद् ब्रह्मा आर्यवज्रपाणिश्च, उपरिष्टान्मालाधारिणौ देवपुत्रौ, अधस्तात् साधकः॥



तस्याग्रतस्त्रिसन्ध्यं अगरुधूपं दहता दशलक्षाणि जपेत्। पश्चात् कर्माणि भवन्ति॥



प्रथमं चक्रसाधनं कर्तुकामः, द्वादशारं पुष्पलोहमयं चक्रं कृत्वा प्रातिहारकपक्षे भगवतोऽग्रतस्त्रिसन्ध्यमगरुधूपं दहता दश लक्षाणि जपेत्। अन्ते पूर्णमास्यां उदारां पूजां कृत्वा, हस्तेनावष्टभ्य, तावज्जपेत्, यावत् प्रज्वलितमिति। तं गृहीत्वा विद्याधरचक्रवर्ती भवति। यैर्दृश्यते, यांश्च पश्यति, तैः सहोत्पतति॥



अथच्छत्रं साधयितुकामः, श्वेतच्छत्रं विचित्रं चाभिनवं कारयित्वा, सुवर्णचक्रचिह्नं कौशेयवस्त्रावलम्बितं तेनानेनैव विधानेन शिरसि कृत्वा जपेद्, विद्या स्वयमेवोपतिष्ठति। अनेन च भगवतोऽग्रतस्त्रिसन्ध्यमगरुधूपं दशलक्षं जपेत्। अन्ते पूर्णमास्यामुदारां पूजां कृत्वा, हस्तेनावष्टभ्य तावज्जपेद्, यावत् प्रज्वलितमिति। तं गृहीत्वा विद्याधरचक्रवर्ती भवति। मासे मासे पौर्णमास्यां पञ्चभिः पक्षैः प्रातिहारिकपक्षे सिद्ध्यति। अथ सिद्धमात्रेण सर्वधर्मा आमुखीभवन्ति। सर्वाभिज्ञ प्रतिलभते। सर्वबुद्धबोधिसत्त्वाभिनन्दितः सर्वसत्त्वानुप्रवेशः सिद्धो भवति। लोकधात्वन्तरेऽपि सहस्रपरिवारश्चक्रवर्ती भवति॥



अथोष्णीषं साधयितुकामः हस्तमात्रे दण्डे सौवर्णरजतताम्रमयं मणिमयं वा कृत्वा तावज्जपेद् यावत् प्रज्वलितमिति। तं गृहीत्वा यथेष्ट विचरति। सत्त्वेभ्यो धर्मं देशयति। महाकल्पं जीवति॥



अथ भद्रघटं साधयितुकामः सौवर्णं भद्रघटं कृत्वा सर्वबीजरत्नौषधिपरिपूर्णं शुक्लवस्त्रावकुण्ठितं तमनेन साधयेद् एकस्मिं प्रातिहारकपक्षे कर्मारभेद्, अपरस्मिन् सिद्ध्यति। तस्मिं हस्ते प्रक्षिप्य यमिच्छति तं लभते। अक्षयं भवति॥



अथ चिन्तामणिरत्नं साधयितुकामः सौवर्णदण्डो जात्यमणिं स्फटिकमणिं च सौवर्णं वा वस्त्रावलम्बन्तं कृत्वा अनेनैव विधानेन साधयेद्, यं चिन्तयति तत् सर्वं सिद्ध्यति। देवमनुष्येषु चानेन गृहीतेनाप्रतिहतबलपराक्रमो भवति। अथ भगवतः कोटिं जपेत्, स्वशरीरेणोत्पतति। दिव्यबहुमहाकल्पं जीवति। अन्ये वा योरसितातपत्रप्रख्यादयः तदप्यनेन भगवतो दशलक्षजप्तेन कर्माणि कर्तव्यानि सिद्ध्यन्ति। एवमप्रतिहतः तथागतोष्णीषः परकल्पविधानेनापि यथा यथा प्रयुज्यति, तथा तथा सिद्ध्यति। अचिरादेव भगवतः उष्णीषचक्रवर्त्तिनः दशलक्षजप्तः सर्वं साधयति सर्वविद्यामन्त्राधिपतिचक्रवर्ती॥



अथ वज्रं साधयितुकामः रक्तचन्दनमयं एकसूचिकं वज्रं कृत्वा, अथवा पुष्पलोहमयं कृत्वा, पञ्चगव्येन प्रक्षाल्य, शुक्लपञ्चदश्यां पटस्याग्रतः उदारां पूजां कृत्वा, घृतप्रदीपान् प्रज्वाल्य, गन्धोदकेन प्रक्षाल्य, यक्षा वश्या भवन्ति। सर्वबुद्धबोधिसत्त्वानमात्मानं निर्यात्य, अनेनोष्णीषराजा परिवारेण तेजोराशिसितातपत्रेण वा रक्षां कृत्वा, मण्डलबन्धं सहायानां च रक्षां कृत्वा, वज्रं दक्षिणेन हस्तेन गृहीत्वा, प्रथमे यामेऽतिक्रान्ते द्वितीये यामे उपविश्य एकाग्रचित्तः तावज्जपेद्, यावत् प्रज्वलितमिति। अत्रान्तरे सर्वविद्याधरा सर्वे देवनागयक्षाः सन्निपतन्ति। सर्वे च विद्याधरराजानः आगच्छन्ति। तैरभिष्टूयमानः विद्याधरपुरं गच्छति। विद्याधरचक्रवर्ती भवति। वज्रपाणिसदृशकायः वज्रपाणिसमबलः क्षणलवमुहूर्त्तेनाकनिष्ठं देवभवनं गच्छति। महाकल्पस्थायी भगवन्तमार्यमैत्रेयं पश्यति। धर्मं शृणोति। मृतो यत्रेच्छति, तत्रोपपद्यते। यदिच्छति वज्रपाणिसकाशादुत्पद्यते॥



अथ खड्गं साधयितुकामः, निर्व्रणं खड्गं गृहीत्वा, अहोरात्रोषितो भगवतोदारां पूजां कृत्वा, तावज्जपेद्, यावज्ज्वलितेन सिद्धेन सपरिवारेणोत्पतति॥ आकुञ्चितकुण्डलकेशः द्विरष्टवर्षाकृतिः अपन्थदायी अगम्यः सर्वविद्याधराणां अन्तरकल्पं जीवति॥



अथ मनःशिलां साधयितुकामः, वीरक्रयेण क्रीत्वा पुष्पयोगत्रिरात्रोषितः सङ्घोद्दिष्टकां भिक्षां भोजयित्वा आज्ञा दापयितव्या। अनुज्ञातस्तत्र साधनं प्रविशेत्। उदारां पूजां कृत्वा, घृतप्रदीपसहस्रं प्रज्वालयितव्यम्। त्रिरात्रोषितः सर्वसत्त्वानां मैत्रचित्तमुत्पाद्य आत्मानं निर्यात्य मनःशिलां गृहीत्वा तावज्जपेद्, यावत् त्रिविधा सिद्धिः। ऊष्मधूमज्वलितपूर्वमेव चिन्तयितव्यम्। अमुक्तसिद्धिरूष्मायमानतिलकं कृत्वा, सर्वदेवनागयक्षभूतपिशाचादीं जम्बूद्वीपनिवासिनश्च सत्त्वा दासभूता भवन्ति। किङ्करा भवन्ति। वर्षसहस्रं जीवति। धूमायमाने तिलकं कृत्वा, अन्तर्द्धीयते। यदिच्छेद् देवानामप्यदृश्यो भवति। क्षणलवमुहूर्तेन दृश्यते। पुनरन्तर्धीयते। सर्वान्तर्द्धानिकानां राजा भवति। त्रीणि वर्षसहस्राणि जीवति ज्वलितेन विद्याधरो भवति। सपरिवार उत्पतति। विद्याधरराजा भवति। देवकुमारवपुः अधर्षणीयः सर्वदेवानां कः पुनर्विद्याधराणां कल्पस्थायी भवति। कालगतस्तूषिते देवनिकाये उपपद्यते॥



अथ त्रिशूलं साधयितुकामः, पुष्पलोहमयं तृशूलं कृत्वा, संवत्सरं जपेत्। ततो वालुकामयं हस्तप्रमाणं चैत्यं कृत्वा, तस्य महतीं पूजां कृत्वा, उदारं च बलिं निवेद्य, दक्षिणहस्तेन तृशूलं गृहीत्वा, तावज्जपेद्, यावत् पर्यङ्कं बध्वा याव स्फुरति, ज्वलति, रश्मिसहस्राणि प्रमुञ्चति। अत्रान्तरे महेश्वरप्रमुखा देवा मागच्छन्ति। सर्वविद्याधरा पुष्पवर्षं प्रवर्षन्ति। ततस्तैः परिवृतः यावतां पश्यति, यैश्च दृश्यते, तैः सहोत्पतति। त्रिनेत्रः द्वितीय इव महेश्वरः सर्वविद्याधरनमस्कृतः महाकल्पस्थायी निरीक्षितमात्रेण दुष्टचित्तां पातयति। न कस्यचिद् गम्यो भवति। सदेवके लोके प्रागेव विद्याधराणां च्युतः सुखावत्यावुपपद्यते॥



अथ वेताडं साधयति। अक्षताङ्गं पुरुषं गृहीत्वा, चतुरखदिरकीलकैः यन्त्रितस्योरस्युपविश्य, रत्नचूर्ण जुहुयात्। तस्य जिह्वाग्रे चिन्तामणिरत्नं दृश्यते। तं गृह्य विद्याधरचक्रवर्ती भवति। यानि प्रहरणानि चिन्तयति, तानि मनसैवोपपद्यन्ते। योजनशतं प्रभयावभासयति। इच्छया कालं करोति। यत्रेच्छति, तत्र गच्छति। लोकधात्वन्तरेऽपि विद्याधरचक्रवर्ती भवति। च्युतो विमलायां लोकधातावुपपद्यते॥



द्वितीयं वेतालसाधनम्। अक्षताङ्गं वेतडं गृहीत्वा, बदरकीलकैः कीलयित्वा, तस्य मुखे लोहचूर्णं जुहुयात्। तस्य जिह्वा निर्गच्छति। तं छित्वा, शतपरिवार उत्पतति। अन्तरकल्पं जीवति। सुमेरुमूर्द्धनि क्रीडति, रमति। यदा मृयते, तदा एकदेशिको राजा भवति॥



अथाङ्कुशं साधयितुकामः, कुशमयमङ्कुशं कृत्वा, कृष्णमयोरेकतरेण पञ्चगव्येन प्रक्षाल्य, एकरात्रोषितः अङ्कुशस्य हस्तं प्रमाणमात्रं कर्तव्यम्। उदारां पूजां कृत्वा, वज्रपाणेर्घृतप्रदीपशतं प्रज्वाल्ययितं कर्तव्यम्। वज्रं कुर्यात् तथैव सितातपत्रस्य आत्मनो रक्षा कर्तव्या। तेजोराशिना मण्डलबन्धं विकरेणेन कीलकां सप्ताभिमन्त्रितां कृत्वा, चतुर्दिशं निखानयितव्या। अथाबन्धं स्थानं च परिग्रहं कृत भवति। ततो द्वितीये प्रहरे एकाग्रमनाः पर्यङ्कं बध्वा, अङ्कुशं गन्धपुष्पधूपैरभ्यर्च्य कृतरक्षः सर्वबुद्धबोधिसत्त्वां नमस्कृत्य अङ्कुशं हस्तेन गृह्य तावज्जपेद् यावदत्रान्तरे नरकायिकानां देवानां वेदनान्युपशाम्यन्ते। सर्वबुद्धबोधिसत्त्वां नमस्कृत्य उत्पतति। विद्याधरराजो अप्रतिहतगतिः अङ्कुशव्यग्रहस्तः। सर्वदेवनागयक्षादयश्च दृष्ट्वा दूरादेव प्रणामं कुर्वन्ति। कल्पस्थायी यदा मृयते, तदा वज्रभवनं गच्छति। वज्रपाणिं पश्यति। यदि पटं साधयति, तेन ज्वलितेन विद्याधरो भवति। यमिच्छति कल्पं साधयितुं तस्य मन्त्रस्य नामं ग्रहाय लक्षं जपेदन्ते एकारात्रोषितः उदारां पूजां कृत्वा अर्ककाष्ठैरग्निं प्रज्वाल्य तिलानां दधिमधुघृताक्तानामष्टसहस्रं जुहुयात्। होमान्ते आगच्छति। धनं यमिच्छति तं ददाति। वशं तिष्ठति किङ्करवशः॥



अथ महेश्वरं कर्तुकामः महेश्वरस्य महतिं पूजां कृत्वा दक्षिणायां मूर्त्तौ अर्ककाष्ठैरग्निं प्रज्वाल्य अष्टसहस्रं जुहुयात्। हाहाकारशब्दं भवति। न भेतव्यं तत आगच्छति ब्रवीति किं कर्त्तव्या सर्वे महेश्वरा विद्या मम सिद्धा भवन्तु। यद्वरं रोचति तं ददाति। एवमस्त्विति कृत्वा अन्तर्द्धियते॥



एवं विष्णुब्रह्माद्यमाकर्षयति। यं चारोचयति तस्याप्येषो विधिः कर्त्तव्यः। कृतरक्षेण कार्यम्॥



अथ यक्षिणी आकर्षयितुकामः तस्य नामं गृह्य सप्ताहमशोकपुष्पाणि जुहुयात्। आगच्छति वरं ददाति सप्तमे सप्ताहेऽवश्यमागच्छति। माता भगिनी भार्या यं चारोचति। अथ न वा गच्छति। मूर्द्धानमस्य स्फुटति॥



नागीमाकर्षितुकामस्य नागपुष्पाणामेष एव विधिः। यक्षं आकर्षितुकामस्य मासत्रयं दधिभक्तं जुहुयात्। अन्ते एकरात्रोषितः भगवतः पूजां कृत्वा यक्षाणां यक्षबलिं चोदनानि निवेद्य यक्षकर्षणं करिष्यामीति मनसि कृत्वा वटवृक्षसमिधां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात्। अत्रान्तरे कुबेराद्या यक्षा आगच्छन्ति। तेषां रक्तकुसुमैः अर्घो दीयते। वक्ष्यन्ति किं कर्तव्यं ते। वक्तव्याः एकैकं दिने यक्ष आज्ञाकरं यक्षं प्रेषयेति। तत एकैकं यक्षं प्रयच्छन्ति। तस्य आज्ञा दातव्या। योजनशतादपि स्त्रियमानयन्ति। प्रभाते तत्रैव नयन्ते। शतपरिवृतस्य भक्तं प्रयच्छन्ति। पृष्ठमारुह्य यत्रेच्छति तत्र गच्छति। नयति। रसायनं ददाति। आज्ञप्ताः सर्वं करोति॥



अथ वज्रपाणिं साधयितुकामः चतुर्गुणं सप्तगुणं पूर्वसेवां कृत्वा प्रातिहारकपक्षे सकलामुदारतरां पूजां कृत्वा यावत् पूर्णमासीति पूर्णमास्यां पूजां कृत्वा भिक्षवः सङ्घोद्दिष्टकां भोजयित्वा आर्यवज्रधरस्थैव अनुमोदितव्या तत उदारां पूजां कृत्वा प्रथमे यामेऽतिक्रान्ते द्वितीये यामे पर्यङ्कं बद्‍ध्वा उपविश्यैकाग्रमनसः वज्रधरं द्रक्ष्यामीति चित्तं सङ्कल्प्य गुग्गुलुगुलिकानां बदरास्थिप्रमाणां रात्रावेकयामं जुहुयात्। ततो भगवतः स्रग्दामचलनं भवति। भूः प्रकम्पति। मेघा गुलुगुलायन्ति। सर्वे विद्याधराः पुष्पवर्षं प्रवर्षन्ति। अत्रान्तरे भगवां वज्रपाणिरागच्छन्ति सर्वविद्याभिः परिवृतः विद्योत्तमप्रमुखैः विद्याराजैः परिवृतः सर्वदेवैः सर्वनागैः सर्वयक्षैः सर्वगन्धर्वैः किन्नरैर्बोधिसत्त्वैः परिवृतः आगच्छति। तत्क्षणं नारकाणां सत्त्वानां तीव्रवेदना व्युपरता भवन्ति। गन्धोदकेन अर्घ्यो देयः। प्रणिपत्य स्थातव्यं अतो वज्रधरो वक्ष्यति किं ते वरं ददामि। विद्याधरचक्रवर्त्तित्वं बिलप्रवेशं राष्ट्रं अन्तर्धानं यद्वा रोचते तस्यैव भगवतः सकाशाल्लभ्यते। यद्वा रोचति विद्याधरचक्रवर्तित्त्वं सर्वविद्याधराणां चक्रवर्त्ती वज्रकायो वज्रपाणिसदृशः चित्तमात्रेण सर्वप्रहरणान्युत्पद्यन्ते। महाकल्पस्थायी। यदा मृयते तदा वज्रभवनं गच्छति। अन्येषामपि विद्याधराणां एष एव विधिः संक्षेपतो यानि वज्रपाणिकल्पे यानि अवलोकितेश्वरकल्पे यानि च भगवता प्रोक्तानि कल्पानि यानि ब्रह्मकल्पे यानि महेश्वरकल्पे संक्षेपतो लौकिकलोकोत्तरेषु कल्पेषु ये शाधनीयाः, ते एतेनैव साधनया सिद्ध्यन्ते। महामन्त्रा साध्यमाना न सिद्ध्यन्ति। अनेन सार्द्धं जप्तव्याः सप्तरात्रं नियतं दर्शनं ददाति। अथ न ददाति विनश्यति। महेश्वरप्रमुखानां देवानां अग्रतः यदि जपति सप्तरात्राभ्यन्तरेण दर्शनं ददाति। यदि न ददाति त्रिसप्तधा मूर्ध्ना स्फुटति। चन्द्रग्रहे आदित्यग्रहे वा घृतवचाञ्जनपवित्रदण्डकाष्ठयज्ञोपवीतहरितालमनःशिलादयः साधयितव्याः॥



अथ द्रव्यं साधयितुकामस्य मनःशिलां गृह्य मानुषक्षीरेण पीषयित्वा पञ्चगुलिका कर्त्तव्या। अगुरुसमुद्गके प्रक्षिप्य श्वेतसिद्धार्थकसहितां साधयेत्। चन्द्रग्रहे सूर्यग्रहे वा बलिविधानं कृत्वा यदा सर्षप चिटिचिटीयन्ति तथा प्रथमा सिद्धा या वा सर्वजनवशीकरणं तया सर्वस्य लौकिकेया विधेया भवन्ति। यदुच्यते तत् सर्वं करोति। अथ धूमायते सर्वान्तर्द्धानिकानां राजा भवति। अन्तरकल्पं जीवति। ज्वलिते तदा देवकुमारवपुः तरुणार्कतेजो विद्याधरराजा भवति। महाकल्पं जीवति॥



एवं रोचनाहरितालादीनि साधयितव्यानि॥



अथाञ्जनं साधयितुकामः श्रोताञ्जनं नीलोत्पलं कुष्ठं चन्दनं चैकतः कृत्वा ताम्रभाजने संस्थाप्य चन्द्रग्रहे तावज्जपेद् यावद् धूमायति। तेनाञ्जितनयनः अन्तर्द्धीयते कामरूपी सर्वान्तर्द्धानिकाना राजा भवति॥



अथ खड्गा साधयितुकामः निर्व्रणं खड्गमादाय कृष्णाष्टम्यां कृष्णचतुर्दश्यां वा पटस्योदारां पूजां कृत्वा बलिविधानं च कृतरक्षः खड्गं दक्षिणहस्तेन गृहीत्वा तावज्जपेद् याव स्फुरति। ज्वलिते स्फुरिते एकाकी विद्याधरो भवति। ज्वलितेन सर्वविद्याधराणां राजा भवति। अप्रतिहतबलपराक्रमः यैर्दृश्यते यांश्च पश्यति तैः सहोत्पतति॥



अथ वज्रं साधयितुकामः पुष्पलोहमयं वज्रं कृत्वा षोडशाङ्गुलं उभयत्रिशूचकं रक्तचन्दनेनानुलिप्य प्रातिहारकपक्षप्रत्तिपदमारभ्य पटस्योदारां पूजां कृत्वा जपेत् प्रतिदिनं वर्द्धमाना भिक्षवो भोजयितव्या। अन्ते त्रिरात्रोषितः पटं सधातुके चैत्ये प्रतिष्ठाप्य उदारां पूजां कृत्वा घृतप्रदीपशतं प्रज्वाल्य कुशपिण्डकोपविष्टः वज्रमुभाभ्यां पाणिभ्यां गृहीत्वा तावज्जपेद् यावज्ज्वलितमिति। तं गृह्य सप्तपरिवार उत्पति। विद्याधरचक्रवर्त्ती भवति। वज्रपाणितुल्यपराक्रमः महाकल्पे जीवति। भिन्ने देहे वज्रपाणिभवनं गच्छति॥



एवं शूलचक्रशरशक्तिप्रभृतय सर्वे प्रहरणाः पटपादुकदण्डकाष्ठयज्ञोपवीतादीनि परकल्पविधानेन साधयितव्यानि। सर्वेषां त्रिविधा सिद्धिः॥



शान्तिकं कर्तुकामः पद्माकारं वेदिं कृत्वा याज्ञिकैः समिद्भिरग्निं प्रज्वाल्य स्रुवेण परमान्नाहुतीनां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात्। त्रिरात्रेण आत्मनः परस्य वा शान्तिर्भवति। सप्तरात्रेण ग्रामस्य वा नगरस्य वा। महामारि उपद्रवे शमीसमिधानां दधिमधुघृताक्तानां जुहुयात्। उदुम्बरसमिधानां दधिमधुघृताक्तानां जुहुयादनावृष्टेः। तृमधुरं जुहुयात्। सर्वत्र परमशान्तिर्भवति। भिक्षाहारः त्रिंशलक्षं जपेत्। प्रातिहारकपक्षे शुक्लपूर्णमास्यां त्रिरात्रोषितः चन्द्रग्रहे कृष्णगोक्षीर अष्टशताभिमन्त्रितं कृत्वा पिबेद् रसायनं गुणोपेतं भवति। दूर्वाप्रवालानां दधिमधुघृताक्तानां अष्टसहस्रं दशरात्रं जुहुयात्। अकालमृत्युः प्रशाम्यति। दीर्घायुर्भवति। ध्वजशङ्खादीनि अभिमन्त्रयेत्। दृष्ट्वा श्रुत्वा च परसैन्यं स्तम्भयति। सर्वव्रीहिगन्धोदकपरिपूर्णं नवं कलशं कृत्वा अष्टशतजप्तेन विनायकोपद्रुतं स्पृष्ट्वा स्नापयेत्। अभिषिक्तो लक्ष्मीवां भवति। अनेनाभिषेकेण सर्वपापैः प्रमुच्यते। मण्डलकर्माणि करोति। ग्रहकर्माणि शतसहस्रजप्तेन मयूरपिच्छकेन सर्वविषां नाशयति। तेनैव ज्वरमक्षिशूलरोगादीं नाशयति। सूत्रकेण सर्वज्वरां मुद्रासमेतयुक्तो मन्त्रेणासुरयन्त्राणि घातयति। खदिरसमिधानां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात्। महानिधानं प्रयच्छति॥



समुद्रगामिनीं नदीमवतीर्य रक्तचन्दनाक्तानां पद्मानां शतसहस्रं प्रवाहयेत्। पद्मराशितुल्यं निधानं लभति। दीयमानमक्षयं भवति। बिल्वाहुतीनां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात्। भोगां प्राप्नोति॥



देवां वशीकर्तुकामः अगरुसमिधानां दधिमधुघृताक्तानां जुहुयात् अष्टसहस्रं। त्रिसन्ध्यमेकविंशतिरात्रं तन्दुलानां दधिमधुघृताक्तानामेकीकृत्य जुहुयात्। अक्षयमन्नं भवति॥



यक्षाणां वशीकरणे गुग्गुलुगुलिकानां दधिमधुघृताक्तानां जुहुयात्। अशोकसमिद्भिर्यक्षिणीनाम् नागानां नागपुष्पां आर्यवज्रवज्रपाणिरगरुसमिधाभिः विद्याधराणां दमनकसमिधाभिः अगुरुसमिधानां तुरुष्कतैलाक्तानां गन्धर्वाणां कुन्दुरुहोमेन प्रेतानां श्रीवासकहोमेन किन्नराणां सर्जरसहोमेन विनायकानां सर्वेषामष्टशतिको होमः सप्ताहं राजानस्य राजसर्षपतैलाक्तानां अष्टशतं जुहुयात्। त्रिसन्ध्यं सप्तरात्रं आदित्याभिमुखं लक्षं जपेत् सर्वपापैः प्रमुच्यति॥



सर्वविद्यानामाप्ययनं कर्तुकामः गोमूत्रयावकाहारः उशीरमयीं प्रतिकृतिं कृत्वा शुक्लपुष्पैरभ्यर्च्य क्षीराष्टशतं जुहुयात्। क्षीरेण च स्नपयेत्। अष्टशतजप्तेन अगरुधूपं दद्यात्। आप्यायितो भवति। सुकृदुच्चारितेन आत्मरक्षा कृता भवति। द्विरुच्चारितेन परस्य त्रिरुच्चारितेन द्रव्यस्य रक्षा कृता भवति॥



छिन्नभिन्ननष्टकीलितानां आप्यायनं कर्तुकामः उशीरमयीं प्रतिकृतिं कृत्वा शुक्लषुष्पैरभ्यर्च्य अनेन उष्णीषराजेन पटस्याग्रतः राजसर्षपाणां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात्। विद्यामुद्दिश्य उत्कीलिता भवति। पापिजनातिरिक्तां विद्यां ज्ञात्वा गोरोचनया भूर्जपत्रे लिख्य ततः आत्ममन्त्रमष्टशताभिमन्त्रितं कृत्वा भगवतः उदारां पूजां कृत्वा अनेन भगवता सार्द्धं अष्टसहस्रं जप्त्वा तत्रैव कुशसंस्तरे स्वपेत्। ऊनातिरिक्तां स्वप्ने आगत्य कथयति॥



अथ पद्मं साधयितुकामः रक्तचन्दनमयं पद्मं कृत्वा उदारां पूजां कृत्वा त्रिरात्रोषितः तं पद्मं दक्षिणेन हस्तेन गृहीत्वा तावज्जपेद् यावज्ज्वलितमिति। विंशतिपरिवारः उत्पतति। विद्याधरचक्रवर्त्ती भवति। अप्रतिहतगतिः। यदा मृयते तदा सुखावत्यामुपपद्यते॥



अथ वज्रं साधयितुकामः वल्मीकमिश्रया मृत्तिकया वालुकमिश्रया वज्रं कृत्वा भिक्षाहारः मौनी अपत्थदायी वज्रं गृह्य त्रीणि लक्ष जपेत्। एकसूचिकं वज्रं कर्त्तव्यम्। तं वज्रमन्ते सिद्धार्थकमध्ये स्थाप्य चन्द्रग्रहे चन्द्रग्रहे स्थातव्यम्। तावज्जपेद् यावत् सर्षपा चिटिचिटायन्ति। वज्रं सिद्धं भवति। तेन वज्रेण गृहीतेन सर्वकर्मणि करोति। पर्वतशिखराणि चूर्णयति। नागह्रदं शोषयति। नदीः प्रतिस्रोतमानयति। नागां विद्रापयति। विषाणि निर्विषीकरोति। सर्वे प्राणिनः स्तम्भयति। मोहयति। पातयति। यन्त्राणि चूर्णयति। शकटप्रभृतीनि च स्तम्भयति। चूर्णयति। एवमादीनि सर्वकर्माणि करोति। एष एकसूचिकस्य वज्रस्य साधनम्॥



उष्णीषचक्रवर्त्तिनं साधयतो न कश्चिच्छक्नोति विघ्नं कर्तुम्। साक्षान्मूर्ध्नटकोऽपि हि विधिना नाविधिना। अस्य च जापकाले सततं बुद्धलोचनां पूर्वं पश्चाच्च जप्तव्यम्। एवं सौम्यत्वं भवति। सिद्धिस्याभिमुखीभवति॥



अथ समुद्रगामिनीं नदीमवतीर्य पद्मानां लक्ष निवेदयेत्। श्री आगत्य वरं प्रयच्छति। राष्ट्रं ददाति। अथ त्रीणि लक्षाणि निवेदयेत्। सार्वभौमिको राजा भवति। जम्बूद्वीपाधिपतिर्भवति। विवरस्याग्रतः पटं प्रतिष्ठाप्य लक्षाणि त्रीणि जपेत्। सर्वयन्त्राणि पतन्ति। निर्विशङ्केन प्रवेष्टव्यम्। प्रविश्य रसरसायनं निःकाशयति। अथ तत्रैव तिष्ठति वैष्णवचक्रभयमुत्पद्यते। अथ प्रविशति अनुस्मरितमात्रेण भस्मीभवति। मनसेन उत्थापयति। न कदाचिदपि प्रविशति तस्मिं॥



शुक्लप्रतिपदमारभ्य त्रिःकालं जातीकुसुमैः सकृज्जप्तेन भगवता पादाङ्गुष्ठे ताडयितव्यम्। यावत् पादाङ्गुष्ठाद् रश्मिर्निश्चरति। साधकशरीरेऽन्तर्द्धीयति। तत्क्षणादेवाकुञ्चितकुण्डलकेशो भवति। सपरिवार उत्पतति। विद्याधरराजा भवति कल्पस्थायी॥



अथ समुद्रतटे पश्चान्मुखं पटं प्रतिष्ठाप्य नागकाष्ठैः अग्निं प्रज्वाल्य समुद्रस्यौद्दिश्य नागपुष्पाणां लक्षं जुहुयात्। समुद्रे ऊर्मय आगच्छन्ति। सिद्धिनिमित्तं न भेतव्यम्। तावद् यावत् समुद्रो ब्राह्मणवेषेणागच्छति। व्रवीति किं मया कर्त्तव्यम्। वक्तव्यम्। वश्यो मे भव। ततो यदुच्यते तत् सर्वं करोति॥



पद्मं भूम्यां लिख्य सहस्रपत्रं तस्योपर्युपविश्य शतसहस्रं जपेत्। भूमिं भित्त्वा उत्तिष्ठति। सहस्रपरिवार उत्पतति महाकल्पस्थायी विद्याधरराजा भवति। अपरिपत्थदायी तेजेन पञ्च योजनानि अवभासयति॥



प्रातिहारकपक्षे जातीपुष्पाणां भगवतः उष्णीषराजस्योपरि लक्षं निवेदयेत्। एकैकं जप्तव्यम्। तावद् यावदुष्णीषाद् रश्मि निश्चरति। साधकस्य शरीरेऽन्तर्द्धीयते। तत्क्षणादेव पञ्चाभिज्ञो भवति। दशलक्षजप्तः यथा यथा प्रयुज्यति तथा तथा अनेनैव भगवता सार्द्धं यदि विद्या जप्यते सा नियतमागच्छति। साक्षादस्य जप्यमाना यदि न वागच्छति स मूर्ध्ना स्फुटति। शुष्यति॥



अयं च एकाक्षर उष्णीषचक्रवर्ती तथागत एव साक्षात् कोऽन्यः सदेवके लोके सर्वमन्त्रविद्यानां राजा तथागत एव। सितातपत्रतेजोराशिप्रमुखानि अस्य परिवारः। सर्वेषामुष्णीषराजानाम्। साधनविधान सर्वं अत्रैव योज्यम्। सर्वे च उष्णीषराजा अनेन साध्या। उत्तमसाधनं इच्छता अस्थानेन योज्यम्। यदि युज्यति उत्तमा सिद्धिर्न भवति। संक्षेपतः सर्वे देवा अनेनाकृष्यन्ते। अथ निधानमुद्धाटयति। यत्र निधानं तिष्ठति तत्र गत्वा अकालकलशं गृह्य सर्वगन्धैर्लिप्य श्वेतचन्दनोदकं कुम्भे प्रक्षिप्य अष्टसहस्राभिमन्त्रितं कृत्वा निधानं स्थापयेत्। यदि निधानं तिष्ठति तदा स भूमिः स्फुटति। यदि निधानं पुरुषमात्रे तिष्ठति उदकेन स्प्रष्टव्यम्। हस्तमात्रं खत्वा ग्रहेतव्यः॥



अथ सिंहं साधयितुकामः वल्मीकमृत्तिकया कृत्वा गोरोचनया समालभ्य पिण्डिकायां प्रतिष्ठाप्य उदारां पूजां कृत्वा तावज्जपेद् यावचलति। चलितेन सिद्धो भवति। पृष्ठमारुह्य आकुञ्चितकुण्डलकेशः आत्मपञ्चमोत्पतति। ब्रह्मायुषो नववर्षसहस्राणि जीवति। सर्वविद्याधराणामागम्य॥



एवं हस्त्यश्वमहिषश्च साधयितव्या। यदा सिंहनादं नदति तदा देवा आसनेभ्यश्चलन्ति॥



पद्मसरं गत्वा पद्मानां लक्षं निवेदयेत्। सामन्तराज्यं प्रतिलभते। रक्तकरवीरकलिकानां लक्षं जुहुयात्। राजकन्यां लभते। जातीपुष्पाणां लक्षं समुद्रगामिन्यां नद्यां प्रवाहयेत् कन्यां लभते यामिच्छति। सर्वे ते उत्तमसाधनानि सिद्ध्यन्ति॥



अनेनोष्णीषचक्रवर्तिना स यत्र गच्छति इन्द्रोऽप्यस्यासनं ददाति। सर्वे च देवराजानः दूरादेव दृष्ट्वा भीता त्रस्ता भवन्ति। सर्वेषां च देवराजानां प्रभां प्रभां व्यामीकरोति। योजनशताभ्यन्तरेण करोति॥



अयं चक्रवर्ती तथागत एष देवलोके सर्वे च कल्पस्य भगवतः उष्णीषचक्रवर्तिनः एकाक्षरस्य वशे वर्तन्ति। तन्निम्नाश्च सर्वे मन्त्रतन्त्राः सकल्पकाः सविस्तरा इत्याह भगवां शाक्यमुनिः सिंहो नरोत्तम इति॥



आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंस-

कात् महायानवैपुल्यसूत्रात् चतुर्विंशतिमः

एकाक्षरचक्रवर्तिकर्मविधिपट

निर्देशपटलविसरः

परिसमाप्त इति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project