Digital Sanskrit Buddhist Canon

अथ पञ्चविंशतितमः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Atha pañcaviṁśatitamaḥ paṭalavisaraḥ
अथ पञ्चविंशतितमः पटलविसरः।



अथ भगवान् शाक्यमुनिः पुनरपि ग्रहनक्षत्रतारकज्योतिषगणानामन्त्रयते स्म। + + + + शृण्वन्तु भवन्तः सर्वे। अनतिक्रमणीयोऽयं कल्पराजा मञ्जुश्रियः कुमारभूतस्य मन्त्रतन्त्राभिषेकमण्डलविधान निच जपहोमनियमविद्यासाधनप्रवृत्तानामस्मिं कल्पवरे विद्याधराणां तिथिनक्षत्रचरितगणितामभिज्ञानां नक्षत्र भवद्भिः विघ्नं कर्तव्यम्। प्रवृत्तानां शासनेऽस्मिन् सर्वैश्च देवसङ्घैः तत्र रक्षा कार्या। सर्वे च दुष्टसत्त्वानि निषेद्धव्यानि, रोद्धव्यानि, शासयितव्यानि, सर्वे सर्वं न घातयितव्यानि, व्यवस्थासु च स्थापयितव्यानि शासनेऽस्मिन् दशबलानाम्॥



अथ भगवां शाक्यमुनिः सर्वतथागतोष्णीषाभ्युन्नतं नाम समाधिं समापद्यते स्म सर्वदुष्टनिवारणार्त्थं सर्वसत्त्वानाम्। समनन्तरसमापन्नस्य भगवतः शाक्यमुनेः सर्वे च ते तथागताः दशदिग्लोकधातुव्यवस्थिता भगवन्तं शाक्यमुनिः तथागतं शुद्धावासभवनस्यं व्यलोक्योपसङ्क्रमन्ते। उपसङ्क्रम्य अचिन्त्यबुद्धस्वकाधिष्ठानेन भगवन्तं शाक्यमुनिं तथागतमामन्त्रयते स्म॥



भाष भाष भो महावीर ! लोकानां च हितोदयम्।

प्रवृत्ते सर्वमन्त्राणां समन्त्रतन्त्र यथाविधि॥

भाषितः सर्वबुद्धैस्तु विद्याराजा महर्द्धिकः।

एकाक्षरः प्रवरो ह्यग्रो नष्टे काले कलौ युगे॥

प्रवरः सर्वमन्त्राणां सर्वबुद्धैस्तु भाषितम्।

उष्णीषराजा महावीर्यः सर्वभूतनिवारणम्॥

निषेद्धा ग्रहनक्षत्रां मातरां दुष्टचेतसाम्।

विघ्नाः सर्वे तथा लोके ये चान्ये दुष्टचेतसा॥

अनुग्रहार्त्थं तु सत्त्वानां जापिनां च सुखोदयाम्।

सकलेऽस्मिन् शासने ह्यग्रः चक्रवर्तिर्महर्द्धिकः॥

उष्णीषराजा महावीर्यः सर्वस्मिं परमेश्वरः।

भाष त्वं कालमेतस्य यस्येदानीं तथागतः !॥



एवमुक्तास्तु ते बुद्धास्तूष्णीम्भावा ह्यवस्थिता।



अथ तेषां बुद्धानां सन्निपाता सर्वं त्रिसाहस्रमहासाहस्रो लोकधातवः सर्वसत्त्वानां च लोकभाजनानि एकज्वालीभूतानि, न च एकसत्त्वानां पीडा अभूत्। बुद्धाधिष्ठानेन महान्तश्चावभासाः सन्दृश्यन्ते स्म॥



अथ भगवां शाक्यमुनिः सर्वं तं शुद्धावासभवनमवलोक्य, तांश्च बोधिसत्त्वान्महासत्त्वान् तत्रस्थितानि च देवपुत्रां सर्वश्रावकप्रत्येकबुद्धांश्च भगवतः महापर्षत्सन्निपातानामन्त्रयते स्म॥



समन्वाहरन्तु बुद्धा ! भगवन्तः ! सर्वप्रत्येकबुद्धार्यश्रावकाः कल्पमेकाक्षरस्य विद्याचक्रवर्तिनः सर्वतथागतोष्णीषाणां उपर्युपरिवर्तमानस्याप्रतिहतशासनस्यापरिमितबलपराक्रमस्य भगवतः उष्णीषराजचक्रवर्तिनः पुनरपि कल्पं भाषेऽहम् अस्मिं काले कलौ युगे॥



अथ भगवतो दुरतिक्रमशासनस्य त्रैलोक्यगुरोः सर्वदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगसत्कृतस्य सर्वकर्मार्थसाधकस्य मन्त्रे वक्ष्ये पुनरपि कलौ युगे काले शासनान्तर्द्धानकाले समये शासनारक्षको भगवां उष्णीषचक्रवर्ती भविष्यति। सिद्धिं च यास्यते। सर्वकालं सर्वबुद्धानां च शासनान्तर्द्धानकालसमये बुद्धोऽयं भगवां सत्त्वार्थं करिष्यति। आरक्षकोऽयं भगवां सर्वतथागतधर्मकोशसंसृष्टः। शृण्वन्तु भवन्तो देवगणाः ! सर्वसत्त्वाश्च। भ्रूम्॥



एष भगवां सर्वज्ञः बुद्धैर्मन्त्ररूपेण व्यवस्थितः।

महाकारुणिकः शास्ता विचेरुः सर्वदेहिनाम्॥

मन्त्राणामधिपतिः श्रीमां ख्याता उष्णीषसम्मतः।

करुणाध समागम्य स्थितोऽयमेषमक्षरः॥

स धर्मधातुं निःसृत्य स्थितोऽयं विश्वरूपिणः।

यथा हि बुद्धानां शरीरा प्रवृत्ता धातवो जने॥

सामिषा लोकपूज्यास्ते निरामिषाः षु विशेषतः।

सद्धर्मधातवः प्रोक्ता निरामिषा लोकहेतवः॥

सामिषा कलेवरे प्रोक्ता जिनेन्द्राणां महर्द्धिका।

विविधा धातवः प्रोक्ताः मुनिचन्द्रा निराश्रवाः॥

सामिषा निरामिषाश्चैव प्रसृता लोकहेतवः।

धर्मधातुं सन्मिश्रं सत्त्वानां करुणावशात्॥

तिष्ठते मन्त्ररुपेण लोकनाथं प्रभङ्कर।

स विश्वरूपी सर्वज्ञः दृश्यते ह महीतले॥

सर्वार्थसाधको मन्त्रः सर्वबुद्धैस्तु भाषितः।

एष संक्षेपतो मन्त्रः जप्तोऽयं विधिना स्वयम्॥

करोति सर्वकर्मं वै ईप्सितां सफलां सदा।

अस्य कल्पं समासेन पुनः काले प्रचक्ष्यते॥

युगान्ते मुनिवरे लोके अस्तं याते तथागते।

कल्पसिद्धिस्तदा काले मन्त्रसिद्धिरुदाहृता॥



अथ भगवतश्चक्रवर्तिनस्तथागतोष्णीषस्य परकर्मप्रयोगविध्वंसनकरस्याजितंजयस्य सर्वमन्त्राधिपतेः सर्वबुद्धबोधिसत्त्वानुनीतस्योष्णीषचक्रवर्तिनः संक्षेपतः कल्पमेकाक्षरस्य प्रवर्तितपूर्वं विस्तरतः॥



आदौ तावत् यस्मिं स्थानेऽयं जप्यते, तस्मिं स्थाने पथे योजनाभ्यन्तरेण सर्वदुष्टग्रहाः प्रपलायन्ति, सर्वमन्त्राः सिद्धा अपि न प्रभवन्ति, सर्वदेवाः सान्निध्यं त्यजन्ति, अन्यत्र साधकस्येच्छयान्येषां लौकिकलोकोत्तराणां साधकानां सिद्धिमपहरति, परप्रयोगमन्त्रां छिन्नभिन्न‍उत्कीलनतां मोचयति॥



स्वयं विद्याच्छेदं कर्त्तुकामः कुशानां हरितानां मुष्टिं गृहीत्वा, अष्टशताभिमन्त्रितं कृत्वा, शस्त्रेणच्छिन्द्यात् ता विद्यामुद्दिश्य, सा छिन्ना भवति। अनेन प्रतिकृतिं कृत्वा, हृदये कीलकेन ताडयेत्। कीलिता भवते। सप्तजप्तेन सूत्रेण कुसुम्भरक्तेन ग्रन्थिं कुर्यात्। बद्धा भवति। शरावेणाष्टशतजप्तेन पिथयेद्, रुद्धा भवति। शस्त्रेण हृदयं द्विधा कुर्याद्, भिन्ना भवति। राजिकाभिर्विषरुधिररक्ताभिः रञ्जयेच्छिष्टिता भवति। करवीरलतया आहनेत्, पीडिता भवति। सर्वविद्याभिचारुकमिच्छया करोति। सर्वत्र पूर्तिकं कर्म मुक्ताक्षीरेण स्नापयित्वा, होमं कुर्याच्छान्तिः। घृतहोमेन सर्वेषां शान्तिराप्यायनं कृतं भवति। मुष्टिबन्धेन सर्वमन्त्रां स्तम्भयति, मनसा मोक्षयति, मन्त्र साधयितुकामस्तमनेनैवोपरुद्ध्य साधयेदन्यकल्पं साधयितुमिच्छति, तमनेनैव साधयेत्। सिद्ध्यति। अनेनैव मन्त्रेणावाहनं भवति। पुनरनेनैव विसर्जनं भवति। अनेनैव यस्य रक्षा क्रियते, सोऽप्यदृश्यो भवति। यो मन्त्रो न सिद्ध्यति, प्रत्यादेशं वा न ददाति, अनेनैव सह जपेत्। शीघ्रं सिद्ध्यति, प्रत्यादेशं वा ददाति। यदि न सिद्ध्यति, प्रत्यादेशं प्रयच्छति। सो मृयते॥



दधिमधुघृताक्तानां तिलानामष्टशतं जुहुयात् त्रिसन्ध्यं सप्ताहं यं मन्त्रमुद्दिश्य, सोऽस्य वशो भवति। यदुच्यते तत् कर्मं करोति। प्रत्यादेशं वा प्रयच्छामि देवा वशीकर्त्तुकामः देवदारुसमिधानामष्टसहस्रं जुहुयात्, सप्तरात्रेण वश्यो भवति। नागां वशिकर्त्तुकामः त्रिमधुरं जुहुयात्। वश्या भवन्ति। यक्षां वशीकर्त्तुकामो दधिभक्तं जुहुयाद् वश्या भवन्ति। यक्षिणी वशीकर्त्तुकामेन दधिभक्तं जुहुयात्। सर्वगन्धैर्गन्धर्वं वशीकरोति। अशोकप्रियङ्गुसमिद्भिः कुसुमैर्वा यक्षिणीनागिनागग्रहाणां राजिकाभिः राजानसिद्धार्थकैः ब्रह्माणं पुष्पहोमेन, वेश्यं दधिक्षीरघृतेन, शूद्रं तुषपांसुभिः, स्त्रियां लवणहोमेन, रण्डां माषजम्बूलिकाहोमेन, कन्यां लाजाहोमेन, सर्वान् घृततैलहोमेन वश्यां करोति सर्वत्र त्रिसन्ध्यं सप्तरात्रम्। इत्युक्त्वा तूष्णीम्भूतो जिनोत्तमः।



देवसङ्घां तदा मन्त्रे सप्तमो मुनिपुङ्गवः।

प्रहस्य लोकधर्मज्ञः मुक्तोऽसौ गतधीस्तदा॥

मुनिः श्रेष्ठस्तदा ज्येष्ठं तदालपेत्।

मञ्जुघोषं तदा वव्रे बोधिसत्त्वं महर्द्धिकम्॥

एष कल्पो मया प्रोक्तः एकदेशो हि चक्रिणे।

विस्तीर्ण यस्य नाथस्य देवदेवस्य धीमतः॥

कल्पैर्यस्य प्रमाणं तु न शक्यं भाषितुं जिनैः।

संक्षेपेण प्रवक्ष्ये ते माणुषाणां हितोदया॥

एवमुक्ते तदा श्रीमां मञ्जुघोषो महर्द्धिकः।

अद्ध्येषयति तं बुद्धं शुद्धावासोपरि स्थितम्॥

भाष भाष महावीर ! सम्बुद्ध ! द्विपदोत्तम !।

नष्टे काले युगान्ते वै मानुषाणां सुखोदयम्॥

कथमस्य महातेजा महावीरस्य मन्त्रराट्।

पटसिद्धिः प्रदृश्येते क्षिप्रं पटविधिः कथमिति॥



आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसका-

न्महायानवैपुल्यसूत्रात् त्र्यविंशतितमः

एकाक्षरचक्रवर्त्त्युद्भवपटलविसरः

परिसमाप्त इति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project