Digital Sanskrit Buddhist Canon

अथ चतुर्विंशतितमः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
अथ चतुर्विंशतितमः पटलविसरः।



अथ भगवां शाक्यमुनिः सर्वनक्षत्रग्रहतारकज्योतिषां सर्वलोकधातुपर्यापन्नानां सर्वदिग्व्यवस्थितां सर्वमहर्द्धिकोत्कृष्टतरां ग्रहणामन्त्रयते स्म। शृण्वन्तु भवन्तः मार्षाः ! सर्वग्रहनक्षत्रप्रभावस्ववाक्यं प्रभावं निर्देशयितुं भवन्तः सर्वमन्त्रक्रियार्थां साधयन्तु भवन्तः। इह कल्पराजे मञ्जुघोषस्य शासने सिद्धिं परतश्चान्यां कल्पराजांसि औत्सुक्यमाना भवन्तु भवन्त इति ऽथ भगवां शाक्यमुनिः -



ग्रहाणां चरितं सर्वं सत्त्वार्थं वहेकार्थम्।

सर्वजापिनां मन्त्रार्थं च प्रसाधितम्॥

+ + + + + + + + वक्ष्ये सर्वं स सर्ववित्।

अश्विन्या भरण्या कृत्तिका॥

नक्षत्रा त्रिविधा ह्येते अङ्गारग्रहचिह्निता।

मेषराशिप्रकथ्येते तेषु सिद्धिर्न जायते॥

उत्तमा मध्यमाश्चैव कन्यसा सिद्धि दृश्यते।

न गच्छेत् सर्वपत्थानां क्रूरग्रहनिवारितः॥

रोहिणी मृगशिरश्चैव आर्द्रं नक्षत्रमुच्यते।

पुनर्वसुपुष्यनक्षत्रौ अश्लेषश्च प्रकीर्तितः॥

मघाफल्गुन्यौ उभौ चापि हस्तचित्रौ तथैव च।

स्वात्यविशाखमनुराधज्येष्ठमूलस्तथैव च॥

आषाढौ तौ शुभप्रशस्तौ जापिनां हितौ।

श्रवणधनिष्ठनक्षत्रौ क्रूरकर्मणि॥

शतभिषभद्रपदौ उभौ नक्षत्रौ सिद्धिहेतवः।

रेवत्या जायते श्रीमान् युद्धशौण्डो विशारदः॥

शेषा नक्षत्रमुख्यास्तु न जायन्ते युगाधमे।

अभिजित् सुचरितश्चैव सिद्धिपुण्या प्रकीर्तिता॥

तिष्य उपपदश्चैव कनिष्ठो निष्ठ एव तु।

भूतः सत्यस्तथा लोक आलोकश्च प्रकीर्त्यते॥

भोगदः शुभदश्चैव अनिरुद्धो रुद्ध एव तु।

यशोदस्तेजराड् राजा लोकस्तथैव च॥

नक्षत्रा बहुधा प्रोक्ता चतुःषष्टिसहस्रकाः।

न एतेषां प्रभावोऽयमस्मिन् काले युगाधमे॥

कथिता केवलं ज्ञाने कल्पराजे सुखोदये।

स्वयम्भुप्रभावास्तु सत्त्वा वै तस्मिन् काले कृतौ युगे॥

आकाशगामिनः सर्वे जरामृत्युविवर्जिता।

अस्मिन् काले न नक्षत्रा नार्कचन्द्रा न तारका॥

न देवता नासुरा लोके आदौ काले युगोत्तमे।

न संज्ञा नापि गोत्रं वै न तिथिर्न च जातकम्॥

नोपवासो न मन्त्रा वै न च कर्म शुभाशुभम्।

स्वच्छन्दा विचरन्त्येते न भोज्यं नापि भोजनम्॥

शुद्धा निरामया ह्येते सत्त्वा बहुधा समा।

लोकभाजनसंज्ञा वै ग्रस्यायां प्रवर्तते॥

ततस्ते पूर्वेण कर्मेण आकृष्टा यान्ति भूतलम्।

भूमौ विमानदिव्यसंस्थां ससुरासुरः।

सम्भवं ततो मध्यमे।

मध्यमे तु युगे प्राप्ते मानुष्यं तनुमाश्रिताः॥

आहारपानलुब्धानां सा प्रभा प्रणाशिता।

गात्रे खखटत्वं वै शुभाशुभविचेष्टितम्॥

ततो दिवसमासा वै संवृता वै ग्रहज्योत्स्नया।

ततः प्रभृति यत् किञ्चित् ज्योतिषां ज्ञानमेव वा॥

मया हि तत् कृतं सर्वं सत्वानामनुग्रहक्षमा।

ऋषिभिर्वेषः पुरा ह्यासीत् ब्रह्मवेषोऽथ धीमतः॥

महेश्वरं तनुमाश्रित्य विष्णुवेषोऽथवा पुनः।

गारुडीं तनुमाभुज्य यक्षराक्षसवारिणाम्॥

पैशाचीं तनु एव स्याज्जातो जातो वदाम्यहम्।

कुशला बोधिसत्त्वास्तु तासु तासु च जातिषु॥

उपपत्तिवशान्नित्यं बोधिचर्यार्थकारणात्।

बोधिसत्त्वः पुरासीदहमेव तदा युगे॥

अज्ञानतमसा वृतो बालिशोऽहं पुरा ह्यसौ।

यावन्ति केचिल्लोकेऽस्मिन् विज्ञाना शिल्पचेष्टिता॥

शास्त्रे नीतिपुराणां च बेदव्याकरणं तथा।

छन्दं च ज्योतिषश्चैव गणितं कल्पसम्मतम्॥

मिथ्याज्ञानं तथा ज्ञानं मिथ्याचारं तथैव च।

सर्वशास्त्रं तथा लोके पुरा गीतं मया चिरा॥

न च ज्ञानं मया लब्धं यथा शान्तो मुनी ह्ययम्।

बोधिकारणमुक्त्यर्थं मोक्षहेतोस्तथैव च॥

संसारचारके रुद्धो न च मुक्तोऽस्मि कर्मभिः।

बुद्धत्वं विरजं शान्तं निर्वाणं यच्युतं पदम्॥

सम्यक्ष लब्धो मे चिराकालाभिलाषितम्।

प्राप्तोऽस्मि विधिना कर्मैः युक्तिमन्तोऽधुना स्वयम्॥

प्राप्तः स्वायम्भुवं ज्ञानं जिनैः पूर्वदर्शितम्।

न तं पश्यामि तं स्थानं बहिर्मार्गेण लभ्यते॥

भ्रान्तः संसारकान्तारे बोधिकारणदुर्लभाम्।

न च प्राप्तो मया ज्ञानं यादृशोऽयं स्वयम्भुवः॥

अधुना प्राप्तोऽस्मि निर्वाणं कर्मयुक्ता शुभे रतः।

केवलं तु मया ह्येतद् वक्ष्यते शास्त्रसङ्ग्रहः॥

न च कर्मविनिर्मुक्तं लभ्यते सिद्धिहेतवः।

दीर्घः संसारसूत्रोऽयं कर्मबद्धो निबन्धनः॥

तस्यैतद् भूतिमाहात्म्यं पच्यते च शुभाशुभम्।

केवलं सूचयन्त्येते नक्षत्रग्रहज्योतिषाम्॥

नान्येषां दृश्यते चिह्नमधर्मिष्ठा मनुजां तथा।

अत एव ग्रहाद्युक्ता सानुग्राह्या शुभाशुभे॥

चत्वारो लोकपालास्तु आपो भुम्यनिलज्योतिषखद्योतिभूताः प्रकीर्त्तिताः।

इत्येते च महाभूता भूतसङ्ग्रहकारणा॥

प्रचोदितास्तु मन्त्रे वै सत्त्वसङ्ग्रहकारणात्।

तेषां कालनियमाच्च मन्त्रसिद्धिरजायते॥

तेषु जापिषु यत्ने वै रक्षणीया शुभाशुभैः।

प्रकृष्टो लोकमुख्यैस्तु शक्राद्याश्च सुरेश्वराः॥

तेऽपि तस्मिन् तदा काले युगान्ते परिकल्पिता।

मन्त्रा सिद्धिं प्रयत्नेन सिद्ध्यन्ते च युगाधमे॥

अत एव हि जिनेन्द्रैस्तु कुमारपरिकल्पितः।

मञ्जुघोषो महाप्राज्ञः बालदारकरूपिणः॥

भ्रमते सर्वलोकेऽस्मिन् सत्त्वानुग्रहतत्क्षमः।

तस्मिन् काले तदा सिद्धिर्मञ्जुघोषस्य दृश्यते॥

नक्षत्रं ज्योतिषज्ञानं तस्मिन् काले भविष्यति।

सप्ताविंशतिनक्षत्रा मुहूर्ताश्च प्रकीर्तिता॥

राशयो द्वादशश्चैव तस्मिन् काले युगाधमे।

ते ग्रहा संविभाज्यं वै नक्षत्राणां राशिमाश्रिता॥

पृथुभूतानि सर्वाणि संश्रयन्ति पृथक् पृथक्।

जातकं चरितं चैव सत्त्वा राशे प्रतिष्ठिता॥

मोहजा विपरीतास्तु शुभाशुभफलोदया।

अत एव कर्मवादिन्यो राशयस्ते मुहुर्मुहुः॥

सत्त्वानां सिद्धियात्रं तु कल्पयन्ति शुभाशुभम्।

जातकेषु तु नक्षत्रो रोहिण्यां परिकल्पितः॥

श्रीमां क्षान्तिसम्पन्नः बहुपुत्रः चिरायुषः।

अर्थभागी तथा नित्यं सेनापत्यं करोति सः॥

वृषराशिर्भवेदेष वृषे च परिमर्दते।

मृगशिरे चैव लोकज्ञः धार्मिकः प्रियदर्शनः॥

कृत्तिकांशे तथा नित्यं राजा दृश्यति मेदिनीम्।

त्रिसमुद्राधिपतिर्नित्यं व्यक्तजातकमाशृते॥

प्रादेशिकेऽथ दुर्गे वा एकदेशे नृपो भवेत्।

यदि जातकसम्पन्नः ग्रहे च गुरुचिह्निते॥

समन्ताद् वसुधां कृत्स्नां अनुभोक्ता भविष्यति।

दश वर्षाणि पञ्च वै तस्य तस्य राज्यं विधीयते॥

अश्विन्या भरणी चैव कृत्तिकांशं विधीयते।

एष राशिसमर्थो वै वणिज्यार्थार्थसम्मदा॥

यदि जातकसम्पन्नः ऐश्वर्यभोगसम्पदम्।

जातकं अस्य नक्षत्रे रक्ते भास्करमण्डले॥

अस्तं गते यथानित्यं विकृतिस्तस्य जायते।

क्रूरः साहसिकश्चैवासत्यलापी च जायते॥

तनुत्वचोऽथ रक्ताभो दृश्यतेऽसौ महीतले।

अस्य जातिक्षणान्मेषनिमिषं च प्रकीर्त्तितम्॥

अत्रान्तरे च यो जातस्तस्यैते गुणविस्तराः।

अच्छटापदमात्रं तु जातिरेषां प्रकीर्त्तिता॥

अतो जातितो भ्रष्टा ग्रहाणां दृष्टिवर्जिता।

जायन्ते विविधा सत्त्वा व्यतिमिश्रे प्रजातके॥

व्यतिमिश्रा गतिनिष्पत्तिर्व्यतिमिश्रा भोगसम्पदा।

अत एव न जायन्ते जातिकेष्वेव वर्णितैः॥

जातका कथिता त्रिंशत् शुभाशुभफलोदया।

क्रूरजातिर्भवे ह्येषां अङ्गारग्रहचिह्निता॥

महोदरोऽथ स्निग्धाभो विशालाक्षः प्रियंवदः।

जायते नित्यं धृतिमां बृहस्पतेग्रहमीक्षिते॥

युगमात्रे तथा भानौ उदितौ चन्द्रार्कदेवतौ।

अहोरात्रे तथा नित्यं सम्यग् जातकमिष्यते॥

विपरीतैर्जातकैरन्यैर्विपरीतास्तु प्रकल्पिता।

ग्रहदर्शनसिद्ध्यन्तु मिथ्याजातिशुभाशुभे॥

मिथ्याफलनिःष्पत्तिः सम्यग् ज्ञानशुभोदयः।

गतियोनि समाशृत्य क्षेत्रे जातिप्रतिष्ठिताः॥

अवदातो महासत्त्वो भार्गवैर्ग्रहचिह्निते।

आर्द्रः पुनर्वसुश्चैव आश्लेषस्यांश उच्यते॥

एष जातो महात्यागी शठः साहसिको नरः।

स्त्रीषु सङ्गी सदा लुब्धो अर्थानर्थसविद्विषः॥

परदाराभिगामी स्यात् कृष्णाभः श्याम एव वा।

वर्णतो जायते धूम्रो उग्रो वै मैथुनप्रियः॥

मैथुनं राशिमाश्रित्य जायतेऽसौ शनीश्वरी।

शनिश्चरति तत्रस्था दिवा रात्रौ मुहुर्महुः॥

एष जातकमध्याह्ने प्रभावोद्भवमानसः।

तस्मिन् कालेति यो जायस्तत्प्रमाणमुदाहृतम्॥

स भवे धननिष्पत्तिः ऐश्वर्य भुवि चिह्नितम्।

पुष्ये तथैव नक्षत्रे आश्लेषे च विधीयते॥

एतत् कटको राशिः गुरुयुक्तो महर्द्धिकः।

पीतको वर्णतो ह्यग्रो जातकः सम्प्रकीर्तितः॥

अर्द्धरात्रे तथा नित्यं जातकोऽयमुदाहृतः।

तत्कालं तु प्रमाणेन यदि जातः सत्त्वमिष्यते॥

सर्वार्थसाधको ह्येष विधिदृष्टेन हेतुना।

राज्यधननिष्पत्तिः आबाल्याद्धि करोति सः॥

पीताभासोऽथ श्यामो वा दृश्यते वर्णपुष्कलः।

शौचाचाररतः श्रीमां जायतेऽसौ विशारदः॥

मघः फल्गुनीश्चैव सांशमुत्तरफल्गुनी।

भास्करः स भवेत् क्षेत्रः सिंहो राशिर्विधीयते॥

तत्र जाता महाशूरा मांसतत्परभोजना।

गिरिदुर्ग समाश्रित्य राज्यैश्वर्यं करोति वै॥

यदि जातकसम्पन्नः क्षेत्रस्था नियताश्रिता।

उद्यन्ते तथा भानौ जातक एषु कीर्त्यते॥

उत्तरा फल्गुनी संशा हस्तचित्रा तथैव च।

नक्षत्रेषु च जातस्थो शूरश्चौरो भवेन्नरः॥

असंयमी परदारेषु सेनापत्यं करोति सः।

यदि जातकसम्पन्नः नियतं राज्यकारणम्॥

कन्याराशिर्भवे ह्येषा यत्रैते तारका सृता।

उभौ भवेदेषां स्वामी स्यादन्यो वात्र क्कचित् पुनः॥

एतेषां तारका श्रेष्ठा ग्रहो रक्षति दारुणः।

सौम्यो वा पुनर्भद्रश्च प्रमुद्रः सदा पति।

मध्याह्नापूरणाज्जातिः जातकं एषु दृश्यते।

चित्रांशं स्वातिनश्चैव विशाखास्यार्द्धसाधिकम्॥

तुलाराशिः प्रकृष्टार्थसोमश्चरति देहिनाम्।

एतदारुणं क्षेत्रं शनिर्भार्गवनालयम्॥

जातकं ह्येषु जातस्थः प्रहरान्ते निशासु वै।

एषु जाता भवेन्मर्त्या बहुपानरताः सदा॥

अप्रगल्भा तथा ह्रीशा महासम्मतपूजिता।

क्वचिद् राज्यं क्वचिद् भोगां प्राप्नुवन्ति क्वचिद् ध्रुव॥

अनियता जातके दृष्टा मात्रा बाल्यविवर्जिता।

यदि जातकसम्पन्ना बह्वपत्या सुखोदयाः॥

अनुराध दृष्टनक्षत्रे प्रकृष्टः कर्मसाधनम्।

मैत्रात्मको बहुमित्रः शूरः साहसिकः सदा॥

ज्येष्ठा कथितं लोके जातः प्रचण्डो हि मानवः।

बहुदुःखो सहिष्णुश्च क्रूरो जायति मानवः॥

वृश्चिकां राशिमित्याहुः तीक्ष्णः साहसिकः सदा॥

एतेष्वेव सदा जाति जातकं च उदाहृतम्॥

मध्यन्दिने तथादित्ये यदि जन्तुः प्रजायते॥

तीव्रो विजितसङ्ग्रामः राजासौ भवते ध्रुवम्॥

बालदारकरूपास्तु ग्रहोमीक्षति तत्क्षणम्।

योऽसावङ्गारकः प्रोक्तः पृथिवीदेवताशुभः॥

अत एव पृथिवीं भुङ्क्ते स्वसुतश्चैव पालिता।

ततोऽन्यो विपरीतास्तु जाति एव शुभाशुभा॥

दीर्घायुषोऽथ तेजस्वी मनस्वी चैव जायते।

जायतो ह्यनुराधायां महाप्राज्ञो मित्रवत्सलः॥

एतदङ्गारकक्षेत्रं व्यतिमिश्रैः ग्रहैः सदा।

मूलनक्षत्रसञ्जातः पूर्वाषाढास्तथैव च॥

आषाढे उत्तरे अंशे धनूराशिः प्रकीर्तिता।

एतद् बृहस्पतेः क्षेत्रं जातकं तस्य जायते॥

अपराह्ने तथा सूर्ये शशिने वापि निशासु वै।

तस्य जातकमित्याहुः यो जातो राज्यहेतवः॥

स्वकुलं नाशयेन्मूले यत्ने शोभनमुच्यते।

मध्यजन्मस्थितो भोगान् प्राप्नुयात् स न संशयः।

अतिक्रान्ते तु तारुण्ये यथा भास्करमण्डले।

वार्द्धिक्ये भवते राजा महाभोगो महाधनः॥

निम्नदेशे ससामर्थ्यो नान्यदेशेषु कीर्त्यते।

ततोऽन्ये विपरीतास्तु दृश्यन्ते विविधा जिना॥

उत्तराषाढमेवं स्या श्रवश्चैव प्रकीर्त्यते।

धनिष्ठः श्रेष्ठनक्षत्रः राशिरेषा मकरो भवेत्॥

एतत् शानिश्चरक्षेत्रं तदन्यैर्वा ग्रहचिह्नितम्।

जातकर्मेषु नित्यस्थो दृश्यते च महीतले॥

निर्गते रजनीभागे प्रथमान्ते च मध्यमे।

एषु जाता महाभोगा दृश्यते च समन्ततः॥

नीचा नीचकुलावस्था महीपाला भवन्ति ते।

प्रचण्डा कृष्णवर्णाभाः श्यामवर्णा भवन्ति ते॥

रक्तान्तलोचना मृदवः शूराः साहसिकाः सदा।

जलाकीर्णे तथा देशे नृपतित्वं करोति वै॥

दीर्घायुषो ह्यनपत्या बहुदुःखा सहिष्णवः।

ततोऽन्ये विपरीतास्तु दरिद्रव्याधितो जना॥

धनिष्ठा शतभिषश्चैव पूर्वभद्रपदं तथा।

अंशमेतद् भवेद् राशिः कुम्भसंज्ञेति उच्यते॥

एतद् ग्रहमुख्येन क्षेत्रमध्युपितं सदा।

व्यतिमिश्रैस्तथा चन्द्रैः शुक्रैनैव तु धीमता॥

एषु जातिर्भवेद्रात्रौ प्रत्यूषे च प्रदृश्यते।

प्रकृष्टोऽयं जातको नित्यो लोके चेष्टितशुद्धितः॥

क्रूरकर्मे भवेन्मृत्यो बुद्धिमन्त्यो उदाहृतः।

विचित्रां भोगसम्पत्तिमनुभोक्ता महीतले॥

तदन्ये विपरीतास्तु दरिद्रव्याधितो जना।

भद्रपदश्चैव नक्षत्रः रेवती च प्रकीर्तिता॥

पूर्वभद्रपदे अंशे मीनराशिप्रकल्पिता।

जातकर्मेषु नित्यस्था दृश्यते च समन्ततः॥

रात्र्या मध्यमे यामे दिवा वा सविता स्थिते।

अर्द्धयामगते भानौ मध्याह्ने ईषदुत्थितम्॥

स्तोकमात्रविनिर्गतं।

हस्तमात्रावशेषे तु एककालं तु जातकम्॥

शुद्धः शुक्लतरश्चैव शुक्लतैव सुयोजितः॥

शुक्रक्षेत्रमिति देवा तं विदुर्ब्रह्माचारिणः।

पीतकैः शुक्लनिर्भासैर्ग्रहैश्चापि रधिष्ठितः॥

तत् क्षेत्रं श्रेयसो नित्यं धार्मिकं परमं शुभम्।

एषु जाता भवेन्मर्त्या सर्वाङ्गाश्च सुशोभना॥

राज्यकामा महावीर्या दृढसौहृदबान्धवा।

दीर्घायुषो महाभोगा निम्नदेशे समाश्रिता॥

प्राचिं दिश समाश्रित्य वृद्धिं यास्यन्ति ते सदा।

न तेषां जङ्गले देशे वृद्धि जायति वा न वा॥

न मत्स्या मूलचारिण्या दृश्यन्ते ह कथञ्चन।

जलौघ चाभिवर्द्धन्ते ऋषीणामालयोऽम्भसि॥

तेषु जाति प्रकीर्त्येते राशिरेव प्रकीर्तिता।

तेषु जाता हि मर्त्या वै निम्नदेशेऽतिवर्द्धका॥

महीपाला महाभोगा प्राच्यावस्थिता सदा।

ग्रहाः श्रेष्ठाभिवीक्ष्यन्ते बृहस्पत्याद्याः शनैश्चराः॥

प्राच्याधिपत्यं तु कुर्वन्ति एषु जातं न संशयः।

राशयो बहुधा प्रोक्ता नक्षत्राश्च अनेकधाः॥

तृविधा ग्रहमुख्यास्तु चिरकाले तु नाधुना।

मानुषाणामतो ज्ञानं तिथयः पञ्चदशस्तथा॥

त्रिंशतिश्चैव दिवसानि अतो मासः प्रकीर्तितः।

पक्षः पञ्चदशाहोरात्राः द्विपक्षो मास उच्यते॥

ततो द्वादशमे मासे वर्षमेकं प्रकीर्तितम्।

एतत् कालप्रमाणं तु युगान्ते परिकल्पितम्॥

प्राप्ते कलियुगे काले एषा सङ्ख्या प्रकीर्तिता।

मानुषाणां तथायुष्यं शतवर्षाणि कीर्तिता॥

तेषां संवत्सरे प्रोक्तो ऋतवः सम्प्रकीर्तिताः।

आदिमन्ते तथा मध्ये त्रिविधा ते परिकीर्तिताः॥

अन्तरा उच्चनीचं स्यादायुषं मानुषेष्विह।

तेषा मनुष्यलोकेऽस्मिं उत्पाताश्च प्रकीर्तिताः॥

मानुषाणां तथायुष्यं शतवर्षाणि कीर्तितम्।

अमानुष्या जिवलोकेऽस्मिन् विद्रवन्ति इतस्ततः॥

वित्रस्ता तेऽपि भीता वै विचरन्ति इतस्ततः।

देवासुरमुख्यानां यदा युद्धं प्रवर्तते॥

तदा ते मनुष्यलोकेऽस्मिं कुर्वन्ते व्याधिसम्भवम्।

केतुकम्पास्तथोल्काश्च अशनिर्वज्र एव तु॥

धूम्रा दिशः समन्ताद् वै धूमकेतु प्रदृश्यते।

शशिमण्डल भानो वै कबन्धाकारकीलका॥

छिद्रं च दृश्यते भानौ चन्द्रै चैव महर्द्धिके।

एवं हि विविधाकारा दृश्यन्ते बहुधा पुनः॥

दुर्भिक्षं च अनायुष्यं राष्ट्रभङ्गं तथैव च।

नृपतेर्मरण चैव यतीनां च महद् भयम्।

लोकानां चैव सर्वेषां तत्र देशे भयानकम्।

मघासु चलिता भूमिरश्विन्यां च पुनर्वसू॥

मध्यदेशाश्च पीड्यन्ते चौराः साहसिकास्तदा।

महाराज्यं विलुम्पेते दक्षिणापथसंशृतैः॥

भरणिः कृत्तिकाश्चैव रोहिण्या मृगशिरास्तथा।

यदा कम्पो महाभयो लोको तत्र शङ्का प्रजायते।

पश्चिमां दिशिमाशृत्य राजानो म्रियते तदा।

येऽपि प्रत्यन्तवासिन्यो म्लेच्छतस्करजीविनः॥

विन्ध्यपृष्ठे तथा कुक्षौ अनुक्लिनो जनेश्वरः।

तेऽपि तस्मिं तदा काले पीड्यन्ते व्याधिमूर्छिताः॥

अरीणां सम्भवस्तेषामन्योन्यातिशया जनाः।

आर्द्रः पुष्यनक्षत्रः आश्लेषाश्चैव फल्गुनी॥

+ + + + + उभावुत्तरपूर्वकौ।

एतेषु चलिता भूमिनक्षत्रेषु नराधिपाम्॥

सर्वां च कुरुते व्यग्रां अन्यो आतपसरुन्धना।

वधबन्धप्रपीडाश्च दुर्भिक्षश्च प्रजायते॥

हस्तचित्र तथा स्वात्या अनुराधा जेष्ठं एव तु।

एषु कम्पो यदा जातः भूरि स्मिं लोकभाजने॥

हिमवन्तगता म्लेच्छा तस्कराश्च समन्ततः।

नेपालाधिपतेश्चैव खशद्रोणिसमाश्रिताः॥

सर्वे नृपतयस्तत्र परस्परविरोधिनः।

सङ्ग्रामशीलिनः सर्वे भवन्ते नात्र संशयः॥

मूलनक्षत्रकम्पोऽयं आषाढौ तौ पूर्वमुत्तरौ।

नक्षत्रेष्वेव दृश्यन्ते चलनं वसुधातले॥

पूर्वं देशा मनुष्याश्च पौण्ड्रोद्राः कामरूपिणः।

वङ्गालाधिपती राजा मृयते नात्र संशयः॥

गौडानामधिपतिः श्रीमान् रुध्यते परराष्ट्रकैः।

ग्लानो वा भवते सद्यं मृत्युर्वा जायते क्वचित्॥

समुद्रान्तो तथा लोका गङ्गातीरे समाश्रिता।

प्लाव्यन्ते उदके सर्वं बहुव्याधिप्रपीडिता॥

श्रवणे यदि धनिष्ठायां शतभिषा भद्रपदौ तथा।

पूर्वमुत्तरमेव स्याद् रेवत्यां यदि जायते॥

महाप्रकम्पो मध्याह्ने लोकभाजनसञ्चलम्।

प्रकम्पते वसुमती सर्वा पर्वताश्च सकानना॥

सर्वे ते व्यस्तविन्यस्ता दृश्यते गगने सदा।

उत्तरापथदेशाश्च पश्चादेशसमाश्रिता॥

दक्षिणापथे सर्वत्र सर्वां दिशि समाश्रिता।

नृपवरा भूतिभूयिष्ठा अन्योन्यापरुन्धिना॥

महामार्यो च सत्त्वानां दुर्भिक्षराष्ट्रभेदने।

प्रत्यूषे च शिवा शान्तिर्देहिनां च प्रकम्पने॥

ततोत्कृष्टवेलायां रौद्रकम्पः प्रजायते।

ततोत्कृष्टतरश्चापि मागधानां वधात्मकाः॥

अङ्गदेशाश्च पीड्यन्ते मागधो नृपतिस्तथा।

ततो ह्रासि मध्याह्ने अपराह्णे दिवाकरे॥

यदि कम्पः प्रवृत्तोऽयं कृत्स्ने चैव महीतले।

सर्वप्रव्रजिता नित्यं प्राप्नुयाद् व्याधिसम्भवम्॥

ज्वरारोगशूलैस्तु व्याधिभिः स्फोटकैः सदा।

क्लिश्यन्ते सप्तराज्यं तु श्रेयस्तेषां ततः परे॥

तमो ह्रासिगते भानोः क्ष्माकम्पो यदि जायते।

चतुर्वर्णतरोत्कृष्टा ब्राह्मणाः सोमपायिनः॥

क्लिश्यन्ते नश्यते चापि मन्त्री राज्ञो न संशयः।

पुरोहितो धर्मिष्ठो अमात्यो वा राजसेवकः॥

अन्यो वा व्रतिनो मुख्यो मन्त्रमन्त्रार्थकोविदः।

ब्राह्मणः क्षत्रियो वापि वैश्य शूद्रस्तथैव च॥

निपुणः पण्डितश्चापि शास्त्रतत्वार्थनीतिमाम्।

हन्यते नश्यते चापि व्याधिना वा प्रपीड्यते॥

स्मृतिमान् श्रुतितत्त्वज्ञ इतिहासप्रचिन्तकः।

हन्यते व्याधिना क्षिप्रं वज्रेणेव स पादपः॥

ततोऽस्तं गते भानौ ततोत्कृष्टतराथ पृष्वते।

अपराह्णे युगान्ते च यदि कम्पः प्रजायते॥

व्यतिमिश्रास्तथा सत्त्वास्तिर्यग्योनिसमाश्रिता।

मानुषा लोकमुख्यास्तु तस्मिं कम्पेऽधिरीश्वराः।

ततो रात्रेः प्रथमे यामे यदि कम्पः प्रजायते।

महावृष्टिः प्रदृश्यते शिलापातनसम्भवा॥

ततो ह्रासि यामे वै चलिते वसुमती तदा।

तस्य चिह्नं तदा दृष्ट्वा वातवर्षं महद् भवेत्॥

ततो ह्रासि यामान्ते दृश्यते कर्म दारुणम्।

परचक्रागमनं विन्द्या पाश्चात्यं तु नराधिपम्॥

ततो द्वितीयो यदा कम्पः प्रजायते।

मृत्युव्याधिपरचक्रकुक्षिरोगं च दारुणम्॥

पित्तश्लेष्मगता व्याधिं स कोपयति जन्तुनाम्।

संवेजयति भूतानि देशाद् देशागमं तथा॥

ततो द्वितीयमध्ये तु यामे कम्पः प्रजायते।

महावातं ततो विन्द्याद् वृक्षदेवकुलां भिदे॥

अट्टप्राकारशृङ्गाश्च पर्वतानां न संशयः।

विहारावसथान् रम्यान् मन्दिरांश्च सतोरणाम्॥

पातयत्याशु भूतानां आवासां तिर्यग्गतां तथा।

अर्द्धरात्रकाले तु यो कम्प प्रजायते॥

हन्यन्ते नृपवरा मुख्याः प्राच्यानामधिपतिस्तदा।

सुतो वा नश्यते तस्य दुर्भिक्षं वा समादिशेत्॥

ततो ह्रासिमध्ये तु अन्ते यामे प्रजायते।

कम्पो महीतले कृत्स्नः शान्तिमारोग्यं निर्दिशेत्॥

ततोऽन्तेऽर्द्धरात्रे तु यदा कम्पः प्रजायते।

अनूपा मध्यदेशाश्च नृपतो व्याधिपीडिताः॥

म्रियन्ते दारुणैः दुःखैः परस्परविरोधिनः।

तृतीये मास सम्प्राप्ते बालिशानां सुखोदयम्॥

मशदंशपतङ्गाश्च सर्वे नश्यन्ति तस्कराः।

आयुरारोग्यसौभिक्षं कुर्यात् प्रत्यूषकम्पने॥

अग्निदाहं विजानीयान्नगराणां तु सर्वतः।

उदयन्तं यदादित्ये भूमिकम्प प्रजायते॥

मध्यदेशेऽथ सर्वत्र तस्करैश्च उतद्रुतः।

दृश्यते नृपतेर्मृत्युः सप्ताहात्परतस्तदा॥

यस्मिं स्थाने यदा कम्पो दृश्यते प्रबलो कदा।

तस्मिं स्थाने तदा दृष्टः शुभाशुभविचेष्टितम्॥

उल्कानिर्घातभूकम्पं एककाले समादिशेत्।

ज्वलनं सितमुल्कायाः यद्वक्र नाशयेत्तु तम्॥

सितवर्णास्तथा नित्यं प्रशस्तः शुभदस्तदा।

रक्तवर्णो महाघोरः अग्निदाहोऽपदिश्यते॥

धूम्रवर्णोऽथ कृष्णो वा राज्ञो मृत्यु समादिशेत्।

पीतवर्णाथ कपिला वा व्यतिमिश्रा वाथ वर्णतः॥

व्यतिमिश्रं तदा कम्पं उत्पातं चैव निर्दिशेत।

निर्घातश्चैव कीर्त्यते यस्यां दिशि तस्यामादिशेत्॥

यदि मध्यं तदा मध्ये देशेष्वेव प्रकीर्तितम्।

सस्वरो मधुरश्चैव क्षेममारोग्यमादिशेत्॥

क्रूरघोरतरो लोके शुभदो दुन्दुभिस्वनः।

भीषणो ह्यतिभीमश्च दुर्भिक्षं तत्र निर्दिशेत्॥

एवमाद्याः प्रयोगास्तु ग्रहाणां वै तदा सदा।

सिद्धिकर्म तदा कुर्यान्नक्षत्रेष्वेषु शोभने॥

अश्विनी भरणी चैव पुष्या भद्रपदा उभे।

रेवत्या चानुराधश्च जापकाले प्रशस्यते॥

सिद्ध्यन्ते एषु मन्त्रा वै सिद्धमर्त्थं ददन्ति ते।

मण्डलं चैव आलेख्यमेतेष्वेव तारकैः॥

वारग्रहमुख्यानां पीतशुक्लावभासिनाम्।

तिथयः शोभने ह्येते पूर्णमी पञ्चदशी दथा॥

प्रवासं नैव कुर्वीत मण्डलं तु समालिखेत्।

प्रथमा तृतीयपञ्चम्या दशमी चैव सप्तमी॥

त्रयोदश्यां तथा यात्रा कल्पयन्तु नराधिपाः।

शुभदः सर्वजन्तूनां यात्रायानं प्रशस्यते॥

न लिखेत् सर्वमन्त्राणां मण्डलं तन्त्रमन्त्रयोः।

न सिद्ध्यन्ते एषु मन्त्रा वै विघ्नहेतुमुदाहृता॥

यात्रां होमतः सिद्धिः तिथिः श्लिष्टैः ग्रहोत्तमैः।

बृहस्पतिः शुक्रचन्द्रश्चः बुधः श्रेष्ठः सर्वकर्मसु॥

एत ग्रहा वरा नित्यं चत्वारस्तिथिमिश्रिता।

सिद्धियात्रां तथा लोके कुर्वन्तेऽथ महीतले॥

दुष्टारिष्टविनिर्मुक्ता छेदभङ्गायतत्त्वरम्।

एतेष्वेव विनिर्मुक्ता दिवसांश्चैव प्रकल्पयेत्॥

द्वादशैव मुहूर्त्तानि तस्मिं काले प्रयोजयेत्।

श्वेतो मैत्र एवं स्यात् रक्ताक्षाः प्रकीर्तिताः॥

रौद्रो महेन्द्रः शुद्धश्च अभिजिश्चैव सुशोभनः।

भ्रमणो भ्रामणश्चैव कीर्त्यते च शुभप्रदः॥

सौम्योऽथ वरदश्चैव कीर्त्यते च शुभप्रदः।

सोमोऽपि वरदश्चैव इत्येते द्वादशा क्षणाः॥

बहुधा लक्षणा प्रोक्ता मुहूर्तानां तृंशत्संज्ञका।

दशम्या वृष्टिरेवं स्यात् चतुर्दश्या रात्रावेव च॥

अष्टमी द्वादशी चैव + + + + + वर्जिताः।

त्वराद्या गणिते युक्तो असिते पक्षे तु रात्रितः॥

विघ्नकारणमेषां तु विनायकोह चतुर्थितः।

एतद्गणनयोर्युक्तं कालमेतत् प्रकीर्तितम्॥

एषोन्मेषनिमेषश्च अच्छटा त्वरिता गतिः।

एतत्कालप्रमाणं तु विस्तरं वक्ष्यते पुनः॥

अच्छटाशतसङ्घातं नाडिकाश्च प्रकीर्तिता।

चतुर्नाडिकयो घटीत्युक्ता चतुर्घट्या प्रहरः स्मृतः॥

चतुःप्रहरो दिवसस्तु रात्र्यः एभिः प्रकीर्तिताः।

एभिरष्टैस्तथायुक्तः अहोरात्रं प्रकल्पितम्॥

दशोन्मेषनिमेषं तु क्षणमात्रं प्रकल्पितम्।

दशतालप्रमाणं तु क्षणमात्रं तु वक्ष्यते॥

दश क्षणा निमित्याहुर्मुहूर्त्तं पतिकल्पितम्।

चतुर्मुहूर्त्तः प्रहरस्तु मन्त्रज्ञैः परिकल्पितः॥

एतत्कालप्रमाणं तु त्रिसन्ध्ये परिकल्पयेत्।

होमकाले तथा जापे सिद्धिकाले तु योजयेत्॥

स्वप्नकाले तथा जाग्रं स्नानपानेऽहनिः सदा।

अहोरात्रं तु दिवसं वै संज्ञा एषा प्रकीर्त्तिता॥

दिवसानि पञ्चदशश्चैव पक्षमेकं प्रकीर्त्तितम्।

द्विपक्षं मासमित्याहुर्गणितज्ञा विशारदा॥

षड्भिर्मासैस्तथा चन्द्रः राहुणा ग्रस्यते पुनः।

ततो द्वादशमे मासे वर्षशब्दः प्रकीर्तितः॥

ततो द्वादश वर्षाणि महावर्षं तदुच्यते।

विपरीता ग्रहनक्षत्रा दानवेन्द्राश्च प्रकीर्त्तिता॥

ततो द्वादशमे अब्दे कुर्वन्तीह शुभाशुभम्।

एकपक्षे यदा राहुरसुरेन्द्रः प्रदृश्यते॥

समस्तं व्यस्तविन्यस्तं शशिभास्करमण्डलौ।

महान्तं शस्त्रसम्पातं दृश्यते वसिधातले॥

एवमाद्यां सदा नित्यं कालेकाले प्रयोजयेत्।

अनेके बहुधा चैव विघ्ना दृश्यन्ति दारुणाः॥

प्राप्ते काले युगान्ते वै अधार्मिष्ठे लोकभाजने।

समस्तं चन्द्रमसं ग्रस्तं मूलनक्षत्रमाश्रितम्॥

रात्रौ सङ्ग्रहश्चैव अस्तमेति स चन्द्रमा।

दिवा वा यदि वा भानोरस्तमेति स पीडितः॥

रविणे चन्द्रमसश्चैव अर्द्धरात्रे तु सग्रहे।

अस्तमन्ति यदा भीता दानवेन्द्रस्य च्छायया॥

हन्यते पूर्वदेशस्थो राजा दुष्टो न संशयः।

स्वकं वा मृत्युभयं तस्य परैर्वा स विलुप्यते॥

म्लेच्छानामधिपतिश्चैव पूर्वदेशं विलुम्पते।

उद्रा जनपदा सर्वे उद्राणामधिपतिस्तथा॥

अश्विन्या यदि दृश्येरं रोहिण्यां भरणीस्तथा।

कृत्तिकासो यदा दृश्यौ ग्रहौ चन्द्रदिवाकरौ॥

विविधाः श्लेष्मिका रोगा पैत्तिका वातमुद्भवा।

व्यतिमिश्रास्तथा चान्ये जायन्ते सर्वदेहिनाम्॥

विविधा रोगमुत्थाना दृश्यते सर्वबालिशाम्।

मघासु यदि फल्गुन्यो उत्तरा पूर्वमेर्व तौ॥

हस्तचित्ते तथा स्वात्यां विशाखासु तथैव च।

एषु चन्द्रो यदा गृह्ये भास्करो वा न संशयः॥

राहुणा ग्रस्यते पूर्वं शशिभास्करमेव तौ।

प्राच्यो + + + + + + देशाधिपतिस्तथा॥

वङ्गाङ्गमागधो राजा अक्षिशूलेन गृह्यते।

पुत्रो वा मृयते तेषां मृत्युर्वा पत्नितो भयम्॥

अरीणां दुष्टचित्तानां सङ्घातो वा भवेत् तदा।

मृगशिरार्द्रपुनर्वस्वा पुष्याश्लेषौ तथैव च॥

एषु दृश्यति राहुर्वै सूर्यशशिने तथा।

मागधो नृपतिः पीड्यते मागधा जनपदा तदा॥

अमात्या व्याधिभयं विन्द्याद् बन्धक्लेशां सपौरजाम्।

अनुराधाज्येष्ठयोः सर्वं दृश्येरं दानवेश्वरः॥

सर्वान् जनपदान् व्याधिं जनयेत् सर्वगतं तदा।

वधबन्धपरिक्लेशां आयासां विविधांस्तथा॥

बन्धरुन्ध ततस्तेषु जनमुख्यैस्तु वर्द्धते।

पूर्वाषाढे श्रवणे च उत्तराषाढे तथैव च॥

भानोर्मण्डलं व्यस्तोऽसौ शशिने रक्तभावता।

ग्रहस्यागमं नित्यं दुर्भिक्षं चोपजायते॥

श्रवणधनिष्ठनक्षत्रपूर्वभद्रपदम्।

शतभिषेषु यदा चन्द्र भानो वा यदि गृह्यते॥

कृष्णभावं समाश्रित्य ग्रहस्यागमनं विदुः।

महान्तशोकमायासं दुर्भिक्षं च समन्ततः॥

सर्वां जनपदां विद्याद् राजचौरमहद् भयम्।

रेवत्यामथ नक्षत्रे उत्तराभद्रपदा यदा॥

राहुणा ग्रस्यते पूर्वं शशिनौ भास्करमण्डलौ।

पश्चाद् भानोऽथ विन्यस्तः पक्षेनेकेन दृश्यते॥

राज्याद् भ्रश्यते सर्वः मागधो नृपतिः पतिः।

एते च कथिता चिह्ना राहोरागमनं यदा॥

दिशासु यासु गृह्णाति शशिनो भास्करमण्डलम्।

तेषु तेषु तदा देशे उत्पद्यन्ते शुभाशुभम्॥

य एव भूतले कम्पा कथिता लोकचिह्निता।

ग्रहोपरागे तं विन्द्यात् तत्र तत्र शुभाशुभम्॥

धूमिका वृष्टिहेतुः स्याद् दिवसात्येऽथ पञ्च वै।

ततोऽर्द्धं लोकतः चिन्ता तीरभुक्तिसमाशृता॥

नश्यन्ते जनपदाः सर्वा व्याधिसम्भवमालया।

नृपतिश्चापि नश्येत गङ्गातीर उत्तरे॥

हिमवन्तस्तथा कुक्षौ दुर्भगज्वरमाशृता।

भूपाला चापि विन्यस्ता कोहु पालाः समन्ततः॥

गङ्गाया उत्तरे तीरे तीरभुक्तिपतिस्तदा।

विविधैः शोकसन्तापैः मृयतेऽसौ नराधिपः॥

सपुत्रभार्यया सार्द्धं नश्यतेऽसौ नराधिपः।

नक्षत्रेषु येषु कम्पो वै तेषु धूमं समादिशेत्॥

दिशः सर्वासु धूमाश्च घोरा वर्दलवर्जिता।

पञ्चाहा समतिक्रान्ता बहुदेवसिके सदा॥

नश्येत् परस्परा मर्त्या गोचरा मानुषोद्भवा।

न दृष्टिस्तत्र प्रवर्तन्ते मानुषाणां परस्परम्॥

विन्द्यान्महद् भयं तत्र सराष्ट्रं नृपतिं हनेत्।

येषु एवं भवेत् कम्पः उल्कापात समन्ततः॥

पर्येषां चापि विन्यस्तं द्वित्रिश्चैव दारुणः।

रात्रौ इन्द्रधनुश्चैव श्वेतपक्षं यदि वायसम्॥

शुक्लवर्णोऽथ कृष्णो वै कृष्णो शुक्लोऽथ दृश्यते।

विपरीता पक्षिणो वर्णा विपरीता ऋतुनिस्वना॥

विपरीताः पक्षिणः सन्ति यत्र तत्र महद् भयम्।

द्विपदाश्चतुष्पदाश्चैव सर्वे बहुपदापदा॥

पक्षिणः तिर्यक् प्राणा विपरीतास्तु महाभयम्।

ऊर्ध्वतुण्डा तथा श्वाना रवन्ते च मुहुर्मुहुः॥

दिवा वा यदि वा रात्रौ यत्र तत्र महाभयम्।

एवंप्रकारा अनेकाश्च बहुधा यत्र प्रकल्पिता॥

अनावृष्टिर्भवेत् तत्र राज्ञाश्चक्रं विनश्यति।

यथा हि जातकर्माख्यातं प्राणिनां च शुभाशुभम्॥

तथोत्पाता ततो जाता कुर्वन्तीह शुभाशुभम्।

नान्यथा दृश्यते किञ्चिन्निमित्तं पूर्वहेतुना॥

नाहेतुकं प्रवर्तन्ते विघ्ना उत्पातसम्भवा इति॥



आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसका-

न्महायानवैपुल्यसूत्राद्द्वाविंशतितम निमित्त-

ज्ञानज्योतिषपटलविसरः

परिसमाप्त इति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project