Digital Sanskrit Buddhist Canon

अथ त्रयोविंशतितमः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
॥ श्रीः॥



आर्यमञ्जुश्रीमूलकल्पम्।



(द्वितीयो भागः।)



अथ त्रयोविंशतितमः पटलविसरः।



अथ खलु भगवान् शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। अस्ति मञ्जुश्रीः ! त्वदीयकल्पविसरे शब्दगणनानिर्देशं नाम विवर्त्तनम्। शृणु साधु च सुष्ठु च मनसि कुरु। भाषिष्येऽहम्॥



एवमुक्ते भगवान् मञ्जुश्रीः कुमारभूतो उत्थायासनादेकांशमुत्तरासङ्गं कृत्वा, दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य, येन भगवांस्तेनाञ्जलिं प्रणम्य, त्रिः प्रदक्षिणीकृत्य, भगवतश्चरणयोर्निपत्योत्थायैवमाह - तत् साधु भगवां निर्दिशतु। शब्दज्ञानगणनानिर्देशं नाम धर्मपर्यायं श्रुत्वा सर्वमन्त्रचर्यानुप्रविष्टानां सत्त्वानां च सर्वशब्दगणनाज्ञानं तद् भविष्यति सर्वसत्त्वानां सर्वमन्त्रचर्यानुप्रविष्टानां च हितोदयं सुखावहं सर्वशब्दगणनासमतिक्रमज्ञानं तद् भगवां अर्थकामो हितैषी सर्वसत्त्वानामर्थे भाषयतु॥



अथ भगवां शाक्यमुनिर्मञ्जुश्रियस्य कुमारभूतस्य साधुकारमदात्। साधु साधु मञ्जुश्रीः ! यस्त्वं तथागतमेतमेतमर्थं सत्त्वसत्त्वार्थसम्पदं प्रति प्रस्तितव्यं मन्यसे। तेन हि त्वा मञ्जुश्रीः ! शृणु निर्देक्ष्यामि॥



अथ खलु मञ्जुश्रीर्भगवता कृताभ्यनुज्ञातस्ततोत्थाय स्वे आसने निषण्णोऽभूद् धर्मश्रवणाय भगवन्तं व्यलोकयमानो॥



अथ भगवां शाक्यमुनिः सर्वावन्तं शुद्धावासभवनं बुद्धचक्षुषा मवलोक्य, सर्वशब्दगणनासमतिक्रमास्पन्दना नाम समाधिं समापद्यते स्म। समनन्तरसमापन्नस्य भगवतः नीलपीतावदातमाञ्जिष्ठस्फटिकवर्णादयो महारश्मिजालप्रभामण्डला निश्चचेरुः। निश्चर्य च समन्तात् सर्वसत्त्वानां सर्वलोकधातुं महतावभासेनावभास्य, सर्वसत्त्वभवनानि च सर्वनरकतिर्यक्प्रेतायामलौकिकां असुराभवनां अवभासयित्वा, महादुःखवेदनां प्रतिप्रश्रुत्य, पुनरेव भगवतः शाक्यमुनेः कायान्तर्द्धीयन्ते स्म॥



सर्वसत्त्वानां सम्प्रबोध्य भगवानेवमाह -

अथ शब्दविदं ज्ञानं बाध्यं धर्मार्थपूजितम्।

गणनां चैव लोकज्ञो भाषिरे मधुरां गिराम्॥

बाध्यात् पदतो ज्ञेयं पदं बाध्यसुभूषितम्।

धातुस्तेनातिविस्तारं प्रत्ययान्तं क्रियोद्भवम्॥

लिङ्गं शब्दत ज्ञेयं न लिङ्गं शब्दवर्जितम्।

शब्दलिङ्गसमुद्भेदा नीत धर्मार्थयोः॥

नाना नेयं शब्द च ज्ञानं न शब्दं ज्ञानयोजितः।

ज्ञानशब्दाच्च यो भावः स शब्दो तत्त्वार्थयोजनः॥

प्रत्यया हेतुता ज्ञेया प्रत्ययो हेतुमुद्भवः।

प्रत्यये तु तदा हेतौ क्रियायोगविभाविनी॥

धारणा वा तदो ह्युक्ता आश्रयो प्रत्ययो विदा।

धातुप्रत्यययोगेन शब्दो धर्मार्थयोजकः॥

न शब्दो अर्थतो ज्ञेयं न शब्दादर्थमिष्यते।

अर्थप्रत्यययोगेन स शब्दो शब्दविधैर्विदाः॥

बहुधा धातवो प्रोक्ता प्रत्ययाश्च तदाश्रया।

यं प्रतीत्य तदा शब्दा विभेजुस्ते वराश्रया॥

येन शब्दविदो विद्या मन्त्रा तत्त्वार्थभाषिता।

न तां शब्दवदवगच्छेन्मन्त्राणां प्रत्ययैर्विना॥

नोत्पद्यन्ते तथा मन्त्रा विना प्रत्ययमाश्रया।

न तां दिदृक्षु सर्वत्र मन्त्रां प्रत्ययतो शिवाम्॥

अर्थप्रत्ययतां शून्यां धातवैश्च विवर्जिताम्।

न तां विद्धि संयोगं लिङ्गवाक्यार्थसम्मतम्॥

न लिङ्गे गति निर्दिष्टा हेतुप्रत्ययधातुजा।

तथाश्वयोजिता सिद्धिर्लिङ्गो धर्मार्थयोजिता॥

गतिदेशक्रियानिष्ठं पदं वाक्यमतःपरम्।

चित्रत्वमतिवा शब्दे यो वाचमवसृजेत् सदा॥

न शब्दादर्थनिष्पत्तिर्लिङ्गेष्वेव तु योजिता।

मूर्द्धजं कथितं शब्दं हुङ्कारार्थभूषितम्॥

सर्वं प्रत्ययदाश्रित्य आश्रयं च विनाश्रये।

ताल्वोष्ठपुटो वाक्य आश्रयोद्भावनो परे॥

शमिनादाश्रयते ज्ञेयं युक्तिरव्यभिचारिणी।

मतिस्तत्त्व तथा धातो विस्तारामर्थभूषिता।

धातुः करोति संयोगं प्रत्ययार्थात्तु लिङ्गितः।

दान्त्यं तालवश्चैव ओष्ठं शाब्दमतःपरम्॥

ऋजिक्षु सर्वतो लोकां विसर्गां धातुचेष्टिताम्।

गतिमन्त्रप्रभावेन आश्रयान्तां निबोधताम्॥

गतिमेव सदा मन्त्रा धातुप्रत्ययजा मता।

उभौ तां शब्दनिःपत्तिं प्रत्यमादाश्रयः स्मृतः॥

विभज्य बहुधा मन्त्रां सद्भावागमनिश्रियाम्।

विभक्तियोनिजा ह्येषा शब्दा मन्त्राश्च सर्वतः॥

ज्ञेया विभजत्यर्थे पूजितास्तथा।

एकद्विकसमायोगात् त्रिकसङ्ख्यार्थसप्तमम्।

असङ्ख्यादष्टाधिका ज्ञेया मानुषाणां निबोधिता॥

आधारं ज्ञेयमित्याहुर्मन्त्रतन्त्रार्थपूजने।

सप्तमे विधिनिर्दिष्टा मन्त्रसिद्धिषु जापिनाम्॥

सप्तमर्थार्थतो ज्ञेया सप्तमस्य क्रमो यथा।

विविधं क्रमनिर्देशं सप्तम्यर्थेषु योजयेत्॥

मन्त्राणां षष्ठयो ख्याता समूहावयवास्तथा।

सम्बन्धाद्धि मन्त्राणां लिङ्गे द्वे नियोजिता॥

विकारं बहुधास्तस्य षट्प्रकारं निगद्यते।

स्त्रीषु सलिङ्गिनी षष्ठ्या अष्टमन्त्रेषु योजयेत्॥

पञ्चप्रकारा ये मन्त्रा पञ्चमर्थार्थयत्नता।

नपुंसकलिङ्गमन्त्रार्थो उक्तो धर्मार्थवर्जिता॥

ये तत्र निसृता मन्त्रा अपादानार्थयोजिता।

सर्वेप्राणहराः स्मृताः।

मूर्ध्नशब्दसमायोगान्निःसृता ओष्ठदन्तयोः॥

जिह्वा निष्पीडिता येऽत्र शब्दप्राणापरोधिका।

समप्रत्ययशान्ता ते शमिधातुसयोजिता॥

प्रपन्नासकरान्तानां अस्त्ययनेत्र योजयेत्।

पुष्ट्यार्था धातवो ये तु शब्दाः प्रत्ययार्थसुशोभिता॥

तां विदुः पुष्टिकर्मेषु अपादानेषु योजिताः।

विभज्य यं स्थानं येऽन्ये परिकीर्त्तिताः॥

शब्दाक्षरविपुष्टा ते धातु विकसते स्फुटा।

पुंस्कलिङ्गा तथा मन्त्रा महाप्रभावर्थयोजिता॥

चतुर्थसंविभक्तिभ्यामक्षरं मात्रभूषितम्।

पवर्गे कथितं ह्यग्र प्रवरं सर्वकार्मकम्॥

रेफप्रत्ययसमोद्भूतं उकारावथ शोभनम्।

मध्यचिह्नं विसर्गं च भकारं गतिभूषितम्॥

विदुः प्रवरं शब्दं सर्वकर्मार्थसाधनम्।

नियतं नैष्ठिके वर्त्म बोधिसत्त्वे नियोजिते॥

अनुत्तरं शब्दमित्याहुः महाबोधिपथं पथम्।

यं जपं मानुषो क्षिप्रं सर्वमन्त्रा प्रसाधयेत्॥

पञ्चमार्थमतः प्रोक्तो अक्षरमेकचिह्नितम्।

अन्तजं पवर्गेममकारान्तं विदुः सदा॥

द्वितीयं लोकमुख्यं तु शब्दमित्याहु मानवा।

न तु शब्दसमायोगा निःसर्गान्तविभूषितम्॥

जज्ञे या प्रवरो मन्त्रो उत्कृष्टो शब्दयोनिजो।

बुद्धो लोकगुरुः श्रेष्ठः छत्रोष्णीषेति लक्ष्यते॥

अन्ते तकारवर्गे तु कथिता लोकगुरो त्रिकम्।

मन्त्रा सर्वतः ह्यग्र्ये सशब्दो लोकपूजितो॥

अकारान्तं विभक्तार्थं विसर्गन्तं विबोधितम्।

मध्यलिं + सशब्दान्तं अन्तं शब्दविभूषितम्॥

तं विदुः शब्दमुत्कृष्टं मन्त्रं देवपूजितम्।

पञ्चमार्थे नियुक्ता ये सङ्ख्ये गणनोद्भवे॥

विभक्तपञ्चमे ह्येते विभक्त्यार्थसुपञ्चमा।

अनन्ता कथिता मन्त्रा अनन्ता जिनभाषिता॥

मन्त्रा उष्णीषा जिनमूर्द्धजा।

अनन्ता शब्दविदो ज्ञेया शब्दाः सर्वार्थसम्पदाः।

चतुःषष्टिपरोपेतां मन्त्रं शब्दयोजितम्॥

स शब्दा सर्वतः श्रेष्ठो पवर्गे यः चतुरं पदम्।

चतुर्मकारसंयोगाः अन्ते निःप्रयोजिता॥

सशब्दा मन्त्रमुख्यास्तु छत्रसंज्ञार्थसाधका।

चतुर्थगणना प्रोक्ता विभक्तिः शब्दयोनिजाः॥

सम्प्रदानार्थमन्त्राणां द्विलिङ्गादाश्रयतां गताः।

कथिता अब्जिने मन्त्रा पुष्ट्यमर्थार्थसम्पदा॥

चतुर्थ कथिता मन्त्रा चतुःप्रकारा नियोजिता।

चतुरक्षरशब्दानां मूर्धमूष्माथ तालवम्॥

कथितं शब्दनिर्देशे तृतीये सम्प्रयोजयेत्।

विकासार्थं स्फुटधातूनां प्रत्यये लिङ्गेऽथ योजयेत्॥

प्रथमे अन्ते च यः शब्दो स शब्दो लोकपूजितो।

वरो मन्त्रो प्रधानाख्यो सन्नियोजितो॥

स शब्दो पुष्टिनो ह्युक्तो अब्दकेतुसमुद्भवो।

त्रान्तो त्रिकसमायोगो मध्यान्तोऽतिवर्णितो॥

स शब्दो लोकमुख्योऽसौ प्रवरो अर्थतो सदा।

धात्वोपेतं सदाकारं समार्थे तं प्रयोजयेत्॥

उषसमे च तदा वव्रे धातुं तां निबोधताम्।

मधुराक्षरसम्पन्नो उत्वं तां पुंसि योजिताम्॥

स शब्दो लोकमग्रोऽसौ प्रवरो मन्त्रमुच्यते।

चतुष्ट्यां तमक्षरं वर्ज्ये द्वितीयायां परिकीर्तिता॥

स ज्ञेयो शान्तिकाम्यार्थं प्रवरो बुद्धभाषितो।

तृतीयो ओष्ठपुटोष्माणं प्रत्ययार्थान्तवर्जितम्॥

पुष्टिलिङ्गे सदा युक्तो भूधातोन्तयोजितो।

ऊर्ध्वचिह्नं तथो भ्रान्तं स मन्त्रो बुद्धभाषितो॥

तृतीये विभक्तिमासृत्य योऽर्थो भूतिसशब्दयोः।

आद्या वर्णतो ग्राह्याग्रा शान्तिका पौष्टिकोदया॥

द्वितीयं कर्मणि प्रोक्तं तृतीया करणे स्तथा।

उभयो विभक्तयो ज्ञेयं सशब्दो मन्त्रराट् स्मृतः॥

प्रथमं कर्ममित्याहुः कर्ता यः स्वतन्त्रयोः।

जिनाब्जकुलिशे मन्त्रे मन्त्रनाथा हितास्तथा॥

हिते विभक्त्यन्ता सर्वतो ज्ञेया प्रत्ययान्ताश्च धातुजा॥

सलिङ्गमर्थतो ज्ञेयं वाक्यात् पदयोद्भवेत्।

मन्त्राः कथितमुख्यास्तु विभोः जिनजा सुराः॥

जिनाब्जकुलयोर्मन्त्रा वज्रिणे लौकिकास्तथा।

मर्थवतः धातुं परिगृह्णाति सङ्क्रमाम्॥

उदात्तानुदात्ताश्चैव सूचिता ज्ञेयार्थसाधना।

मन्त्रा लिङ्गगतान्ता च मध्ये हुत्वा तथोद्यताः॥

अनादिनिधनं शब्दं तन्मन्त्रांश्च योजयेत्।

निवान्ता कलमन्ताश्च रेफयुक्ताश्च विस्तरा।

बाध्यार्थपदयोर्मध्ये यो लिङ्गच्छविच्छ्रुतम्॥

तं लिङ्गं स्वरितोपेतं क्षिप्रं मन्त्रेषु योजयेत्।

पूर्वानुपदयो कालक्रियाशक्तिषु युज्यते॥

पदयोर्मध्यनिःष्पत्तिः योऽर्थो स शब्दविश्रुतः।

तस्मात् तं परिज्ञेयार्थं सुरूपं रूपवर्णितम्॥

फलार्थे निष्पदश्रेयं स मन्त्रो बुद्धभाषितः।

अभावस्वभावतो कालं स्वभावतश्च परिकीर्त्यते॥

तयोर्निजरयं शान्तं पदधर्मार्थभूषितम्।

वाक्यं परतो श्रेयं शान्तमर्थाक्षरं शुभम्।

यं ज्ञेयो मन्त्रिभिर्मन्त्रा प्रशस्ता बुद्धभाषिता।

इतिमेकाक्षरं ब्रह्मं ओं शब्दार्थभूषितम्॥

ज्ञेया रूपिणः शुभ्रो प्रशस्तो मङ्गलावहो।

कल्याणार्थकरो ह्युक्तो प्रशस्तो मङ्गलान्वितो॥

उक्तो लोकनाथैस्तु स मन्त्रो मुख्यतो स्मृतो।

विविधार्थाश्च शब्दमुख्याश्च मुख्यशब्दा परेस्तथा॥

स शब्दो धर्मिणः श्रेयो क्रियाकालक्रमोदिता।

आदित्यवंशात् ते मन्त्रा दीप्तिशब्दार्थभूषिताः॥

ज्वलन्ते पावके मन्त्रा सौम्यासौम्याख्ययोजिताः।

सुरूपा सौम्यचित्ताश्च नक्षत्राभिधार्मिणो सदा॥

चन्द्रेऽस्मिं उदिता मन्त्राः शब्दैश्चन्द्राक्षरोदितैः।

सुचयो निर्मला प्रोक्ता अक्षरा एकजा परा॥

अमात्रसहविख्याता चारुवर्णा महर्द्धिका।

मन्त्रा अग्रवरा प्रोक्ता उष्णीषा जिनसूनुभिः॥

विविधाकारयोगास्तु योगतुष्टिरिव स्थिता।

प्रसन्ना शुचयो नित्यं प्रत्येकार्हथभाषिता॥

प्रत्येकबुद्धयोर्मन्त्र प्रशस्तो शान्तिकर्मणे।

स्वाहावसानयोर्मन्त्रा ओङ्कारार्थपूजितः॥

एकद्विकसंज्ञा सो स मन्त्रो सर्वकर्मसु।

श्रेयसैव सदा योज्या प्रत्येकजिनमुद्भवो॥

नन्तः सहितो ज्ञेयः पूर्वदाश्चान्तमध्यमम्।

बहुलिङ्गिनो मन्त्रा बहुमन्त्रार्थमक्षरा॥

बहुधा धातवो ह्येते + + षान्ता निबोधिता।

मन्त्रां तां तु वै सिद्धिः तवर्गे मादिमक्षरम्॥

रेफान्तं आदितः ताडयेन्मन्त्राब्जसम्भवाः।

तारय दुःखितां सत्त्वां करुणैषामवलोकिते॥

सा वै तारमुख्या तु अनन्ता मन्त्रा हि वै तुरे।

त्वर्याच्छब्दयोर्मध्ये पवर्ग मामकी स्मृता॥

पवर्गे देवं विख्याता कुलमातार्थसाधनी।

सितचिह्ना प्रसिद्धार्थे देवी पण्डरवासिनी॥

तारा तु कथितं पूर्वं रक्षोऽर्थे तां प्रयोजये।

लकारबहुलो योधर्गच्छब्दान्तं ते त्रयोद्भवम्॥

जिनाङ्गमसृजं शब्दं देवी लोचनमुच्यते।

शब्दमर्थाक्षरं सिद्धिः सर्वमन्त्रेषुः योजयेत्॥

कुलमात्राप्रसिद्धेयं जिनवज्राब्जसर्वतः।

सर्वमन्त्रेषु प्रयोक्तव्या पूर्वमादित शान्तये॥

लोचना भुवि विख्याता मन्त्राग्रा तत्र साधनी।

यतः सर्वमिति ज्ञेयं आदिमन्त्रेषु योजयेत्॥

प्रसिद्ध्यर्थं च मन्त्राणां आत्मरक्षार्थकारणम्।

सप्रसिद्धा सर्वतो ज्ञेया देवीं तं जिनलोचनाम्॥

अनेकाकाररूपास्तु मन्त्रा स शब्दते सदा।

आदिमध्येषु वर्णेषु चतुषष्ट्याक्षरेषु च॥

सर्वत्र सर्ववर्णेषु मन्त्रां तन्त्रांश्च योजयेत्।

आदिमेषु च सर्वत्र तवर्गा तच्च वर्णयोः॥

सर्वे शान्तिनः प्रोक्तानां त्रिधा प्रयोजयेत्।

तकारात् प्रकृतिवर्णेषु लकारान्ता सर्वयोनिजा॥

ते मय पौष्टिका वर्णा तदन्ये चाभिचारुकाः।

ते पुनः त्रिविधा ज्ञेया क्रूरशान्तिकपौष्टिकाः॥

तथा ते त्रिःप्रकारास्तु तथा ह्युक्ता त्रिधा त्रिधा।

योगसमायामा अनन्ता ते पुनस्त्रिधा॥

सौम्यां अक्षरां विद्धि शान्तये तं वियोजयेत्।

वरदा ह्यक्षरा केचिन्मध्यमा पुष्टिहेतुका॥

रौद्रां पापकरां ज्ञेया हकारान्तामक्षरां पराम्।

एवमेतत् प्रयोगेण शब्दैश्चापि सुभूषिताम्॥

अनन्तां ह्यक्षरां बिद्धि अनन्ता मन्त्रदेवताः।

एवमेतेन योगेन अनन्तां मन्त्रांश्च योजयेत्॥

तं विदुर्मन्त्रराजानं पुंस्कं सर्वार्थसाधकम्।

एकारसहितो यो वर्णः स शब्दो मन्त्रभूषितः॥

नपुंसकं तं विदुर्मन्त्रं मध्यकर्मेषु योजयेत्।

इकारसहितो यो वर्णः स मन्त्रो विद्यते कीर्त्यते॥

सा स्त्रीतरे मन्त्रेषु प्रसिद्धा क्षुद्रकर्मसु।

ते त्रिधा पुनः सर्वेऽत्र नानाशब्दविभूषिताः॥

त्रिधां तां त्रिविधां सर्वां सर्वकर्मेषु योजयेत्।

पुल्लिङ्गसंज्ञो यो वाक्यो पुरुषोऽर्थो सर्वतो मतः॥

तं विदुः पुरुषमन्त्रं वै सर्वकर्मेषु योजयेत्।

नपुसंकलिङ्गे यो मन्त्रः तां विद्धि नपुंसकम्॥

कुर्यात् सर्वकर्मेषु सर्वसौख्यसुखोदयम्।

स्त्रीलिङ्गसंज्ञो यो मन्त्रः तां विद्धि सदा स्त्रियम्॥

सर्वकर्मकरा तेऽपि नित्यं रक्षेषु योजयेत्।

अनन्तकर्मकरा मन्त्रा अनन्तार्था शब्दयोनयः॥

विविधा शब्दमुख्यास्तु नानातन्त्रमन्त्रयुताम्।

तथैवाचरे क्षिप्रं मन्त्रा सिद्ध्यन्त्ययत्नतः॥

कथितं शब्दविज्ञानं सर्वमन्त्रार्थसाधनम्।

+ + + + + + + गणनं कीर्त्यते बुधैः॥

जापिनां हितकाम्यार्थं तां तु विद्धि दिवौकसाः।

एतद्विकसमायोगा + यावच्छतमुच्यते॥

दशगुणं पञ्चकां विंशत् सहस्रं तं निबोधताम्।

दशसाहस्रिको सङ्ख्य अयुतेति परिकीर्त्यते॥

दशायुतास्तथा नित्यं प्रयुतं लक्षमुच्यते।

लक्षसाहस्रिको कोटिः स्थानार्बुदं स्मृतम्।

दशार्बुदो निर्बुदो ज्ञेयः समुद्रं च ततः परे।

दशोऽन्यत् सागरो ज्ञेयस्ता दशार्थे समुद्यतः॥

अक्षोभ्यं परे विन्द्यान्निःक्षोभ्यं च ततः परे।

देवराट् सर्वे विवाहं कीर्त्यते बुधैः॥

अधिका दश तरे तस्य खड्गमित्याहु वाणिजाः।

निखड्गं तद् विदुर्मन्त्री निखड्गं चापि खड्‍गिनम्॥

ततः परेण शङ्खं वै सङ्ख्या तस्य परेण तु।

सा मया गणिते ज्ञेया महामायनिपश्चिमा॥

असङ्ख्या या विदुर्मर्त्या ततोऽन्ये देवयोनिजाम्।

दशार्धगुणिता सर्वे सार्धा च दशयोजिताः॥

ततः परेण शक्यं वै अशक्यं चापि दुर्जयम्।

अर्चितोपचितः स्थाने दृष्टिस्थानं विदुर्बुधाः॥

ततो कृष्टिनिकृष्टिश्च अनन्तानन्तयोनिजा।

ततः परेण बुद्धानां ज्ञानं श्रावकखड्गिनाम्॥

बुद्धपुत्र महात्मानो येऽपि तत्त्वविदो सुराः।

अनन्ता गतयो ह्येषां गणनं स्थानमुत्तमम्॥

अनन्तज्ञानिनां स्थानं नात्र भूतलवासिनाम्।

कथितं गणिते स्थानं गणितज्ञैस्तु मन्त्रिभिः॥

मन्त्रसिद्ध्यर्थयुक्तानां जपकाले नियोजनाम्।

प्रमाणं गणिते ज्ञेयं मन्त्रजापार्थकारणा॥

सङ्ख्याग्रहणप्रमाणं वा विधियुक्तोऽर्थजापिनाम्।

असिद्धा प्रविशे विन्ध्यं सिद्धमन्त्रो व्रजे हितम्॥

तथा हैमवतं शैलं सिद्धमन्त्रो व्रजेत् सदा।

यथेष्टं गमनं तस्य सिद्धमन्त्रस्य देहिनः॥

असिद्धो हिमालयं गच्छेद् यदि मन्त्री जापकारणात्।

न सेहुः दुःसहं सैन्यं सर्वद्वन्द्वां च शीतलाम्॥

स्वल्पप्राणा स्वल्पप्रयोगाच्च मूल्यसिद्धिः समोदिता।

बहुपुष्पफलोपेतं विन्ध्यकुक्षिनितम्बयोः॥

भेजे मन्त्रसुजप्तर्थं तस्मात् विन्ध्यं तु भूधरम्।

पूर्वसेवेत्सदा विन्ध्यो निर्दिष्टो जपकारणात्॥

तस्मात् सिद्धिं विजानीयाद् विन्ध्याद्रेर्गिरिगह्वरे।

गङ्गादक्षिणतो भागे सर्वं बिन्ध्ये प्रयोजयेत्॥

उत्तरतो भागे हिमवन्तं विनिर्दिशेत्।

तस्मात् साधयेन्मन्त्रां यथेष्टशुचयोदिताम्॥

सिद्धो हिमवां गच्छे सिद्धो विन्ध्यनितम्बयोः।

गिरिगह्वरकूलेषु गुहावसथमन्दिरे॥

तटे सरित्पतेर्नित्यं सति कूलेषु वा।

सर्वत्र साधयेन्मन्त्रां यथा तुष्टिकरं हितमिति॥



महायानवैपुल्यसूत्राद् बोधिसत्त्वपिटकावतंसका-

दार्यमञ्जुश्रियमूलकल्पात् एकविंशतितमः

शब्दज्ञानगणनानामनिर्देशपरिवर्त-

पटलविसरः परिसमाप्त इति।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project