Digital Sanskrit Buddhist Canon

अथ द्वाविंशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Atha dvāviṁśaḥ paṭalavisaraḥ

अथ द्वाविंशः पटलविसरः।



अथ भगवान् शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। अस्ति मञ्जुश्रीः ! त्वदीये मूलकल्पपटलविसरे सर्वभूतरुतनिमित्तज्ञानपरिवर्त्तनिर्देशं नाम। तं भाषिष्येऽहम्। यं ज्ञात्वा सर्वमन्त्रचर्यानियोगयुक्ताः सर्वसत्त्वा सर्वमन्त्राणां कालाकालं ज्ञास्यनते। तं शृणु। साधु च सुष्ठु च मनसि कुरु। भाषिष्येऽहम्॥



अथ मञ्जुश्रीः कुमारभूतो उत्थायासनादेकांशमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवतः शाक्यमुनेः सिंहासनं तेनाञ्जलिमुपनाम्य त्रिरपि प्रदक्षिणीकृत्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तमेतदवोचत्। तत् साधु भगवां निर्दिशतु। तं भूतरुतज्ञाननिर्देशं सर्वसत्त्वानामर्थाय। तद् भविष्यति सर्वमन्त्रचर्यानुप्रविष्टानां सर्वकालनियमोपकरणं सिद्धिनिमित्तये। यस्येदानीं भगवां कालं मन्यसे॥



अथ खलु भगवां शाक्यमुनिः मञ्जुश्रियस्य कुमारभूतस्य साधुकारमदात्। साधु साधु मञ्जुश्रीः ! यस्त्वं तथागतमेतमर्थं परिप्रश्नितव्यं मन्यसे। तेन हि मञ्जुश्रीः ! शृणुष्व निर्देक्ष्यामि॥



एवमुक्ते मञ्जुश्रीर्भगवतश्चरणयोर्निपत्योत्थाय निषण्णोऽभूद्धर्मश्रवणाय॥



अथ भगवां सर्वावतीं पर्षदमवलोक्य सर्वभूतरुतप्रचोदनी नाम समाधिं समापद्यते स्म। समनन्तरसमापन्नस्य भगवतः ये केचित् सत्त्वानन्तापर्यन्तेषु लोकधातुषु स्थिता सर्वे ते बुद्धरश्म्यावभासिता सर्वांश्च तां बुद्धां भगवतां शिरसा प्रणम्य अनन्तापर्यन्तलोकधातुस्थितां अभ्यर्चयेन भगवतः शाक्यमुनेः शुद्धावासभवनोपरिस्थितं सिंहासनं तेनोपजग्मुः। येन च सहा लोकधातुः तेन च प्रत्यष्ठात्। तत्र च स्थिता सर्वभूतगणा बुद्धानुभावेन स्वकं स्वकं रुतं विदर्शयन्तः भगवतः पादमूलसमीपोपगता धर्मश्रवणाय। भगवन्तं प्रणम्य मभ्यर्च्य च यथास्थानेषु च सन्निषण्णा अभूवं धर्मश्रवणाय॥



अथ भगवान् शाक्यमुनिः शाक्यसिंहो शाक्यराजाधितनयः तेषां सर्वसत्त्वानां धार्म्या कथाया सन्दर्शयति समुत्तेजयति सम्प्रहर्षयति तेषां सर्वभूतसुरेश्वराणां तथा तथा धर्मदेशना कृतवां यथा तैः सर्वैः कैश्चिदनुत्तरायां सम्यक्संबोधौचित्यान्युत्पादितानि। कैश्चित् प्रत्येकायां वोको कैश्चिच्छ्रावकत्वे कैश्चित्कैश्चित् सत्यानि दृष्ट्वानि कैश्चिदर्हत्वं साक्षात्कृतं कैश्चिद् दशकुशले कर्मपथे स्थित्वा प्रणिधानं कृतम्। अनन्तां बुद्धां भगवतः अनन्तां कल्पकोटीष्वजोपस्थानग्लानप्रत्ययभैषज्यप्रदानं चीवरपिण्डपातशयनासनपरिष्कारं प्रदद्याप इति नियता च भविष्यामो बुद्धबोधेरिति॥



अथ भगवां शाक्यमुनिः तेषां सत्त्वानामाशयं ज्ञात्वा मन्त्रं भाषते स्म सर्वभूतरुताभिज्ञा नाम। यं साधयित्वा सर्वबोधिसत्त्वाः सर्वसत्त्वाश्च रुतं विजानेयुः एकक्षणेन सर्वेषां सर्वसत्त्वानां यथागोचरमस्थितानाम्। कतमं च तत्॥



नमः समन्तबुद्धानामप्रतिहतशासनानां समन्तापर्यन्तावस्थितानां महाकारुणिकानाम्। ॐ नमः सर्वविदे स्वाहा॥



कल्पमस्य भवति। आदौ तावन्महारण्यं गत्वा क्षीरयावकाहारः मूलफलशाकाहारो वा अक्षरलक्षं जपेत्। त्रिःकालस्नायिना वल्कलवाससा पूर्ववत् सर्वं विधिना कर्तव्यम्। यथा मन्त्रतन्त्रेषु तथागतकुलोद्भवेषु। ततः पूर्वसेवां कृत्वा अक्षरलक्षस्यान्ते तत्रैव साधनमारभेत्। विनापि पटेन। अग्निकुण्डं कृत्वा द्विहस्तप्रमाणं चतुर्हस्तविस्तीर्णं समन्ताच्चतुरश्रं सर्वपुष्पफलैरर्घ्यं दत्वा प्राङ्मुखः कुशविण्डकोपविष्टः नवमग्निमुत्पाद्य क्षीरवृक्षकाष्ठैरग्निं प्रज्वाल्य श्रीफलफलानां दधिमधुघृताक्तानामष्टसहस्रं जुहुयात्। त्रिसन्ध्यं दिवसान्येकविंशति॥



ततो पूर्वायां दिशि महावभासं कृत्वा बुद्धो भगवानागच्छति। ततो साधके मूर्ध्नि परामृशति। अपरामृष्टे साधके तत्क्षणादेव भगवतो वाचा निश्चरते - सिद्धस्त्वं गच्छ यथेष्टम्, इति कृत्वान्तर्द्धीयते॥



ततःप्रभृति साधकः पञ्चाभिज्ञो भवति महाप्रभावदिव्यमूर्त्तिः बोधिसत्त्वाचारः द्विरष्टवर्षाकृतिः यथेष्टगतिः सर्वभूतरुतज्ञः, एकक्षणमात्रेण सर्वभूतानां रुतं विजानीते प्रभवश्च भवति यथेष्टगामी। पञ्चवर्षसहस्राणि जीवते। अवैवर्त्तिको भवति बोधिसत्त्वः। विंशतिभिः साधनप्रवेशैर्नियतं सिध्यतीति नात्र विचिकित्सा कार्या प्रसाधितस्यापि न मन्त्रं जपता पूर्वमादितश्चैव मध्ये चैव निबोधताम्॥



रुतज्ञानं प्रभावं च स्वभावं चैव कीर्त्यते।

मध्ये आदितश्चैव अन्ते चैव दिवौकसाम्॥

भाषितं कथ्यते लोके मध्यदेशे च कीर्तिता।

मागधा मङ्गदेशेषु काशिपुर्या नरोत्तमा॥

वृजिकोसलमध्येषु नरेष्वेव यथावच।

तथा ते देवराट् सर्वे मन्त्रां वव्रे स्वभावतः॥

त्रिदशो मध्यदेशे च वत्स पश्य दशार्णवा।

अमन्ते यथा वाचा तथा देशेषु जायते॥

त्रिदशेष्वेव सर्वत्र तथा वाणीमुदाहृता।

यामा देवमुख्याश्च निर्माणश्च सनिर्मिता॥

तदा वाचकृतां वाचा मध्यदेशार्थचारिणी।

तथारुपिण सर्वे वै अकनिष्ठाश्च महर्द्धिका॥

सर्वे ते सुरः श्रेष्ठा रूपधातुसमाशृता।

ध्यानाहारगता सौम्या कदाचिद्वाचामभाषिरे॥

ब्राह्मीश्वरमतेला च कलविङ्गरुतस्वना।

मधुराक्षरनिर्घोषा मत्तकोकिलनिस्वना॥

यद्यदार्त्था भवेद् वाचा धीरगम्भीरसंयुता।

तथा सर्वतो वक्रा दृष्ट्या चैव सुपूजिता॥

भवन्ते ते सदा देवा मध्यदेशे सवाचका।

मधुराक्षरसम्पन्नाः स्निग्धगम्भीरनादिनः॥

मेघगर्जना तेषां वाचैषा तां तु लक्षयेत्।

मध्यदेशा यथा मर्त्या अवन्त्येष्वेव पूजिता॥

वाचा शब्दसम्पन्ना तथा ज्ञेयां सुरेश्वराम्।

अरूपिणां कृतो वाचा असंज्ञायतनसम्भवाम्॥

अभावादाश्रयात् तेषां न वाचां जग्मिरे सुराः।

अधः श्रेष्ठाः सुराः सर्वे मध्यदेशेषु वाचका॥

मध्यदेशार्त्थचिह्नानां वाचैषा सम्प्रवर्तते।

अथ देवामथ भूम्या वै यक्षाश्चैव महर्द्धिकाः॥

देवयोनिसमाविष्टा बहुसत्त्वगणास्तथा।

करोटपाणयो देवा सदा मताश्च वीणकाः॥

चत्वारोऽपि महाराजा चतुर्योनिसमाश्रिता।

त्रिदशा देवमुख्यास्तु शक्रेण सह समाश्रिता॥

सुयामामथ सर्वत्र ऊर्ध्वं जापि सुरूपिणः।

सर्वदेवगणा श्रेष्ठा वाचा ह्येषा तु कीर्त्यते॥

मध्यदेशे यथा मर्त्या हीनोत्कृष्टमध्यमाम्।

तथा देववती वाचा हीनोत्कृष्टमध्यमाम्॥

वाचा तृविधा ज्ञेया हीनोत्कृष्टमध्यमा।

त्रिविधात् कर्मतो ज्ञेया हीनोत्कृष्टमध्यमा॥

तथा देवालये वाणी मधुरं चापि सूक्तजिता।

रुतं मतं तथा ज्ञेयं कर्मेष्वेव नियोजयेत्॥

असुराणां भवेद् वाचा गौडपौण्ड्रोद्भवा सदा।

यथा गौडजनश्रेष्ठं रुतं शब्दविभूषितम्॥

तथा दैत्यगणा श्रेष्ठं रुतं चापि नियोजयेत्।

तेषां पर्यटन्तानां समन्तानां च पुरोजवाम्॥

यक्षराक्षसप्रेतानां नागांश्चापि सपूतनाम्।

सर्वेषामसुरपक्षाणा वङ्गसामतटाश्रयात्॥

हरिकेले कलशमुख्ये च चर्मरङ्गे ह्यशेषतः।

सर्वेषां जनपदां वा तथा तेषां तु कल्पयेत्॥

त्रिप्रकारा यथोद्दिष्टा तेषां नैव वियोजयेत्।

देवानां च तथा नित्यं पुरोगानां परिकीर्तयेत्॥

प्रेतयक्षगणाध्यक्षा स्कन्दमातरकिन्नरा।

नागांश्चैव सदा काले यथा वाचा निबोधताम्॥

लाडोद्रेषु तथा सिन्धौ यथा मुत्तरतो तथा।

जनेष्वेव हि सर्वत्र तां तु तेषां नियोजयेत्॥

नागानां च यथा लाडी वाचा ह्युक्ता मनीषिणी।

यक्षाणां तु तथा वाचा उत्तरां दिशि ये नराः॥

गरुडानां यथा ह्येद्रे किन्नराणां तु कीर्त्यते।

नेपाले सर्वतो वाचा यथा सा तां निबोधताम्॥

पूतनानां तथा नार्या विन्ध्यकुक्षिनिवासिनाम्।

विन्ध्यजाता मनुष्याणां म्लेच्छानां च या वाचा॥

पूतनानां तु सा ज्ञेया वाचैषां परिकीर्तिता।

राक्षसानां यथा वाचा तां वव्रे सुरोत्तमा॥

ससृज्यदक्षिणा देशा अन्ध्रलाटेषु कीर्तिता।

द्रविडानां तु सर्वेषां डकारबहुला सदा॥

तां तु वाचा समालक्ष्ये राक्षसेष्वेव नियोजयेत्।

त्रिःप्रकारा तथा ज्ञेया राक्षसानां कुलयोनयः॥

त्रिःप्रकारैव वाचैषा त्रिधा चैव नियोजयेत्।

सर्वतो त्रिविधा ज्ञेया देशभाषाश्च ते त्रिधा॥

त्रिःप्रकारं तथा कर्म त्रिदेशं चैव योजयेत्।

त्रिविधः सर्वतो ज्ञेयः त्रिविधं कर्म रुतं स्मृतम्॥

समं सर्वैषु तत्रैव विधातान्यं नियोजयेत्।

नानाभूतगणा प्रोक्ता नानाभूतलवासिनः॥

नाना च बहुभाषज्ञा नानाशास्त्रविभूषिता।

मानुषा मानुषां विद्या नानावाचविभाषिताम्॥

नानाशास्त्रमता ज्ञेया नानामन्त्रार्थशालिनः।

नानाकर्मसमोद्देशा नानासिद्धिस्तु मुच्यते॥

आविष्टानां यदा मर्त्या पात्रस्थानसमागता।

तेषां च विधियुक्तेन मन्त्रैश्चापि सुयोजिता॥

आगता भूतले देवां वाचनैव विभावयेत्।

लिङ्गमर्थं तथा पात्रं देवं चैव नियोजयेत्॥

श्रेयसा श्रेयसे चैव आवेशानां तु लक्षयेत्।

नानादेशसमाचारा नानाभाषसमोदया॥

नानाकर्मार्थसंयोगा नानालिङ्गैस्तु लक्षयेत्।

मध्यदेशाबहिर्येषां वाचा भवति चञ्चला॥

ते तु व्यक्तं नरा ज्ञेया म्लेच्छभाषारता हि ते।

ये क्रूरा राक्षसा घोरा रौद्रकर्मान्तचारिणः॥

डकारबहुला वाचा लकाराव्यक्त मार्षो।

दक्षिणात्या यथा वाचा चञ्चला भवति निन्दिता॥

तथा च राक्षसस्त्वेषु वाचैषा परिकीर्त्तिता।

बहुधा रुतया ज्येष्ठा आविष्टानां तु त्रिजापराम्॥

आकृष्टा मन्त्रिभिः क्षिप्रं स्वयं वा इह मागता।

बहुधा गृह्णन्ति सत्त्वानां मातरा सग्रहा सुरा॥

गरुडा यक्षगन्धर्वा किन्नरा + + + + + ।

पिशाचा चोरगराक्षसानां यक्षपूतनाम्॥

आबिष्टानां तथा लिङ्गा कथ्यमाना निबोधताम्।

म्लेच्छभाषिण क्रव्यादा पिशाचाव्यक्तलापिनाम्॥

लकारबहुला वाचा डकारान्तास्तु पूतना।

तेषां नेर्ध्वगता दृष्टि कर्मेष्वेतेषु योजिता॥

मात्सर्या क्रूरसत्त्वानां मृषावादादसुचे रता।

तेषा नोर्ध्वं गता दृष्टि अर्धो दृक् नोर्ध्वगता हि ते॥

मातराणां तथा वाचा शुभार्थोपसंहिता।

ग्रहाणां कुमारमुख्यानां वाचा भवति केवला॥

शुभाङ्गसम्पदा वाचा बालभाव्यर्थयोजिता।

प्रभावसर्वतः श्रेयां सर्वतश्च दिवौकसाम्॥

गरुडानां तथा वाचा आविष्टानां तु लक्षयेत्।

गकारसमता ज्ञेया म्लेच्छभाषेव लक्ष्यते॥

अव्यक्तं स्फुटाभासं कीर्तियुक्तं शुभोदयम्।

सुपर्णिने पायवदित्येषा विषदर्पविनारणी॥

नानागतयो ह्येषां नानाभूतसमागमाम्।

नानावर्णतो ज्ञेयां नानालिङ्गैस्तु लक्षयेत्॥

शुभाकरमभाकर मभासन्तं भक्षयो नागराट् पदे।

वासुकीप्रभृतयो नागा धार्मिका वसुधातले॥

क्षिप्रवाचा समायुक्ताश्च वसन्तो उरगाधिपा।

स्वेन स्वेन तु कायेन यो लिङ्गेन तु लक्षयेत्॥

तेन तेन तु लिङ्गेन तं तं सत्त्वं विनिर्दिशेत्।

कश्मला कथिता सर्वे अधो दृष्टिगता हि ते॥

नानालिङ्गिनां ज्ञेया नानासत्त्वनिकायताम्।

नानाकायगतैः कर्मैः नानाकायं निबोधताम्॥

एवंप्रकाराह्यनेका बहुलिङ्गाभिभाषिणा।

नानाबुद्धिकृतैः कर्मैः नानायोनिसमाश्रितैः॥

आविष्टानां भुवि मर्त्यानां कथिता लिङ्गानि वै सदा।

सुराणामसुराणां च यथा वाचार्थलिङ्गिनी॥

तथैव तद् योजयेत् क्षिप्रं भूमिर्मानुषतां गताः।

देवानां तदा विद्यात् सुप्रसन्नेन चेतसा॥

निरीक्षन्ते तथा चोर्ध्वं दिशां चैव समन्ततः।

अविक्लवा मनसौद्विल्या हृष्टा रूपसमन्विता॥

शुद्धाक्षा अनिमिषाक्षाश्च स्निग्धा च स्निग्धवक्रयः।

प्रसन्नग्लत्या तथा सर्वे सुरश्रेष्ठा नु लक्षयेत्॥

पर्यङ्कोपहिता ज्ञेया निषण्णा भूतले शुचौ।

केचिदम्बरं निःसृत्य निषण्णा खेचरा परे॥

ब्रह्माद्या कथिता देवा ध्यानप्रीतिसमाहिताः।

तदूर्ध्वं श्रेयसां स्थाने रूपिणा बहुरूपिणा॥

आकृष्टा मन्त्रिभिर्मन्त्रैः मन्त्रजानां सनिश्रिता।

तेषां रूपधरा कान्तिः आश्रया ते परिवर्तये॥

ध्यानप्रीतिसमापन्नाः ईषिस्मितमुखा सदा।

शुद्धाक्षा विशालाक्षा बुहुरूपसमाश्रिता॥

वमन्त्यो तदा कान्त्या श्रिया रूपसमन्विता।

प्ररज्ञानविदो देवा तेषां तं निबोधयेत्॥

पर्यङ्कोपरिविष्टा वै ध्यायन्ता ऋषिवत् सदा।

तदावेशं विदुर्बुद्ध्या इष्टमर्थप्रसाधकम्॥

श्रेयसा सर्वमन्त्राणां हितायैवोपयोजयेत्।

कथितं सर्वमेवं तु निबोधत सुरेश्वराः॥

ऋषिणा कथिता ह्येते संयता ते ऋषवस्थिता।

आविष्टानां तदा लिङ्गा ऋषीणां कथिता मया॥

ऊर्ध्वदृष्टिगता देवा ऊर्ध्वपादाथ कश्मला।

विकृता रौद्ररूपाश्च ऊर्ध्वकेशास्तु राक्षसाः॥

मातराणां तदेवं तु केषां चेव तु दृश्यते।

क्रव्यादा नग्नका तिष्ठे सचेला निश्चेलतां गता॥

ऊर्ध्वपादा विकृताख्या ऊर्ध्वकेशा ग्रहा परे।

विचेरूर्मेदिनीं कृत्स्नां समन्तात् सरितातटाम्॥

एकवृक्षा श्मशानां च एकलिङ्गा पुलिनोद्भवाम्।

देवावसथरथ्यासु विन्ध्यकुक्षिशिलोच्चयाम्॥

हिमाद्रे सानुमांश्चैव म्लेच्छतस्करमन्दिराम्।

तत्रस्था विकृतरूपास्तु मन्त्राकृष्टाश्च मागता॥

गृह्णन्ति प्राणिनां क्षिप्रं शौचाचारपराङ्मुखाम्।

सर्वमेदिनीं गच्छेद् भयादाहारमोहिताम्॥

गृह्णन्ति बहुधा लोके बहुव्याधिसमाश्रिताम्।

नानाविकृतरूपास्ते नानावेषधरा परा॥

गृह्णन्ति प्राणिनां क्षिप्रं मृतकं मूत्रसुप्तकाम्।

तेषां च कथितं लिङ्गं चरितं तु विभावितम्॥

वाचमालक्षितं पूर्वं कथितं तु महीतले।

आविष्टानां तथा चिह्नं मानुषेष्वेव लक्षितम्॥

स्थिरप्रकाराः सर्वत्र सुरश्रेष्ठा निबोधता।

आविष्टानां तथा लिङ्गा कथिता भूतले नृणाम्॥

स्निग्धं प्रेक्षते नित्यं अनिमिषश्चापि दृष्टितः।

मानुषे सत्त्वसङ्‍क्लिष्टे सुरश्रेष्ठे तु महीतले॥

वव्रे वसुधरां वाचां शब्दसङ्घार्थभूषिताम्।

युक्ते श्रेयसे धर्मे मानुष्ये वाश्रथोगतो॥

सुरश्रेष्ठो गतो मुख्यो ज्ञेयो सर्वार्थसाधको।

चिन्तितं जापिने तेन गतबुद्धिदिवालये॥

तत् सर्वं बोधयेत् क्षिप्रं मन्त्रिणे चिन्तितं तु यत्।

एतत् सम्यगाख्यातमावेशं भुवि दैवतम्॥

असंज्ञिनोऽपि सदा मन्त्रैराकृष्यन्ते तु भूतले।

नभाष मधुरं वाचं न यज्ञो सत्वरा सुराः॥

निःश्रेष्ठा विवशा चैव स्थिता ते मौनमाश्रिताः।

न वाचा किञ्चनस्तेषां न चित्ता नापि मानिता॥

तस्मात् तं न चाकृष्ये तं जापी परिवर्तयेत्।

असाध्यं नापि तत्तेषां मन्त्राणां जिनसौद्भवाम्॥

नाकृष्यं विद्यते किञ्चिद् दुष्करं तेषां जप्तमन्त्रार्थतापिनाम्।

आकृष्यन्ते तथा आर्या आर्यैर्मन्त्रैस्तु युक्तिताः॥

आर्याणां यानि चिह्नानि खड्‍गिश्रावकसम्भवाम्।

बोधिसत्त्वा महात्मानि दशभूमिसमाश्रिता॥

आकृष्यन्ते तथा मन्त्रैः समयैश्चापि सुभूषिताः।

महादूत्यैस्तथोष्णीषैर्मुनिर्वर्णसुयोजितैः॥

बुद्धपुत्रैस्तु धीमद्भिरब्जकेतुकुलोदितैः।

कुलिशाह्वैर्मन्त्रमुख्यैस्तु क्रोधराजमहर्द्धिकैः॥

नान्ये मन्त्रराट् शक्ता लौकिका ये महर्द्धिका।

नापि समयवित्तेषां न चोत्कृष्टो मन्त्रमीश्वरः॥

वर्णितुं गणयितुं गन्तुं तं स्थानं यत्र ते सदा।

समया सञ्चाल्यते तेषां हेतुः कर्मसमाहिताम्॥

ननु चाकृष्यते तेषां हेतुं कर्मसमाहितम्।

तन्त्रं चाकृष्यते तेषां समये बुद्धभाषितैः।।

तस्मात् तं न चालये यत्ना न वृथामर्थेन योजयेत्।

महर्द्धिका ते महात्मानो दशभूमिसमाश्रिताम्॥

अशक्ता सर्वमन्त्रा वै गन्तुं यत्र ते तदा।

तथागतानां तथा माज्ञा संस्मृत्यामरपूजिता॥

आगच्छेयु तदा सर्वे मन्त्रजप्तार्थमन्त्रवित्।

आकृष्टानां भवेल्लिङ्गा मानुष्योकायमानुषाम्॥

धीरतः स्निग्धवर्णश्च गम्भीरार्थसुदेशकः।

धीरो गम्भीरतां यातो अल्पबाष्पो भवेत् तदा॥

अस्विन्नमनसोत्कृष्टो पृष्टश्च मन्त्रवित्।

स्वमुद्रो बन्धयामास सुविदिशे चैव नभस्तले॥

परसत्त्वविदो ह्यग्रो धर्मतत्त्वार्थदेशकः।

नीतिः प्रीतिसुखाविष्टो कृपाविष्टस्य चेतसा॥

महोत्साहो दृढारम्भो बुद्धधर्मार्थदेशकः।

मुहूर्त्तं क्षणमात्रं वा प्रविशेन्मानुषाश्रयम्॥

बहुरूपो सुरूपश्च ऊर्ध्वं तिष्ठे नभस्तलम्।

बुद्धधर्मगता दृष्टिः संघे चैव सगौरवा॥

क्षणमात्रं तदा तिष्ठेन्मानुषीं तनुमाशृता।

सत्यसन्धो महात्मानो जितक्रोधो त्रिदोषहा॥

प्रथमं तावतो विद्या पश्चाच्चैव नियोजिता।

मानुषैस्तदा कृष्टा पुनर्मुक्ताश्च यथेष्टगाः॥

स्तब्धो निश्चलाक्षश्च सितवर्णस्तथैव च।

अङ्गकेतुस्तदाविष्टो धीरगम्भीरसुश्वरः॥

सुप्रसन्नो महाकायो तिष्ठते च महीतले।

पर्यङ्कमासनाविष्टो कृपाविष्टोऽथ चेतसा॥

स मुद्रा पद्मरोपेतो महासत्त्वो समाविशे।

अवलोकितो मुनिः श्रेष्ठो बोधिसत्त्वो महर्द्धिको॥

स्वेच्छया आगतो लोकां सत्त्ववत्सलकारणो।

अभयाग्रा कारणो + + + + + + + + + ॥

अभयाग्रा करोपेतौ ऊर्ध्वदृष्टिसमस्थितौ।

साधकं पश्यते दृष्ट्या करुणाविष्टचेतसा॥

ईषिस्मितमुखा देवा केचिद् भ्रूलतभूषितो।

महासत्त्वो महात्मानो सत्त्वानां हितकारकः॥

प्रसन्ना सर्वत मूर्त्त्या तं विद्यादवलोकितुम्।

क्रूरः वज्रधरो मुख्यो बोधिसत्त्वो महर्द्धिकः॥

आविष्टो क्रूरिणो सर्वो रक्तान्तायतलोचना।

इन्दीवरत्विषाकार ईषत् काये तु लक्षयेत्॥

परामृश्यन्तं तदा वज्रं मुद्रां वध्नाति मात्मनाम्।

तुष्टो वरदो मर्त्यां भोगां दापयते सदा॥

महात्मा कृष्णवर्णो वै ईषि दृश्यति तत्क्षणात्।

स्निग्धं गम्भीरमुक्तोऽसौ वाचां भाषते तदा॥

नृणां किमर्थमेतं वो कर्मवरं दास्याम वो भुवे।

अमोघं दर्शनमित्याहुर्वज्रिणेऽब्जिजिने जिने॥

वरदा सप्रभा मन्त्रा फलं दद्युस्तदा तदा।

जिनेरागमनं तत्र निर्माणो भुवि मानुषाम्॥

समयात् कथिता ह्येते वर्णाश्चैव विबोधिता।

तथागतादाश्रयाद्धि वा फलेहेतुसमुद्भवा॥

निर्माणा कथ्यते बिम्बं न बिम्बं निर्माणमाशृतम्।

बिम्बनिर्माणयो यद्वत् प्रतिबिम्ब न विद्यते॥

पद्मकिञ्जल्कवर्णोऽसौ हेमवर्ण महाद्युतिः।

निर्भिन्नरोचनाभासो कुङ्कुमाराभिविद्विषः॥

उद्यन्तमिवार्क वै कर्णिकारसमप्रभः।

तादृशं विद्यते बिम्बे बुद्धबिम्बसमासृते॥

ब्राह्मश्च रवनिर्घोषो कलविङ्करुतध्वनिः।

श्रेयसः सर्वभूतानां युक्तियोगान्नियुज्यते॥

तादृशं लक्षणं दृष्ट्वा बुद्धमित्याहु जन्तवः।

तद्गोत्रा च विधिस्तेषां वज्राब्जकुलयो तदा॥

लौकिकानां तु मन्त्राणां मन्त्रनाथं तु योजयेत्।

यत् पूर्वं कथितं सर्वं बहुप्रस्तावभूषितम्॥

तं नियुञ्ज्य तदा मन्त्री मन्त्रेष्वेव च सर्वतः।

ऋषीणामेकसंस्थानं गरुडानां च निबोधितम्॥

स्वलिङ्गा वाचया चैव तं नियुञ्ज्यथ मन्त्रिणाम्।

बहुलिङ्गा तदा चैषा स्वलिङ्गा चैव साधये॥

स्वमुद्रामुद्रिता ह्येते इतरा व्यन्तरा स्मृताः।

कथितं सर्वमावेशं स्वमुखं दुःखदं पराम्॥

एष कालक्रमो योगे आवेशे चैव योजयेत्।

महाप्रभावैर्मुद्रैस्तु मन्त्रैश्चापि निवारयेत्॥

नियुञ्ज्यात् सर्वतो मन्त्री जप्तमात्रां च चेतराम्।

अन्यथामाचेरद् यस्तु इतरैर्मन्त्रिभिः सदा॥

परिरक्ष्य तदा पात्रं मन्त्रैश्चापि महर्द्धिकैः।

दूतिदूतगणैश्चापि चेटचेटिगणैः सदा॥

इतरां लौकिकां देवां आह्वये चैव महर्द्धिकाम्।

यक्षराड् विविधा सर्वां यक्षिण्यश्च महर्द्धिकम्।

आह्वयेत् तत्क्षणान्मन्त्री मनसः यद्यपीप्सितम्।

अन्यमन्त्रा न चाह्वेया नान्ये देवगणा सदा॥

स्वयमेवागता ये तु समये तां नियोजयेत्।

सर्वे सम्पदका ह्येते मन्त्रा सर्वार्थसाधकाः॥

तं तस्मा नेतरां कर्मं आवेशां चापि वर्जयेत्।

आकृष्टा महर्द्धिका देवा दिव्या आर्याश्च भूमिजा।

अल्पकार्येऽथ युञ्जाना समयभ्रंशोऽथ जायते॥

तक्षकः प्रेक्षते स्तब्धं वाशुकिश्चापि नृत्यते।

कर्कोटकश्च महानागो मुचिलिन्दयशश्विनः॥

शङ्खपालदुर्लक्षो नृत्यन्ते उरगाधिपा।

शङ्खपालोऽथ शङ्खश्च मणिनागोऽथ कृष्णिलः॥

सागरा भ्रमते क्षिप्रं पतते च मुहुर्मुहुः।

सर्पवन्निःश्वसन्ते ते विषदर्पसमुच्छ्रिताः॥

विविधा नागवरे ह्येते अन्तान्ता तेषु निबोधताम्।

केचिद् भावयतो हृष्टो केचित् तिष्ठन्ति निश्चलम्॥

केचित् पते + + क्षिप्रं स्वस्थाङ्गा ऊर्ध्वमूर्द्धजा।

पतन्ति विविधाकारं प्लुतं चापि करोति वै॥

अनन्ता भ्रमते क्षिप्रं पद्मवच्चले जले।

अनन्ता नागयोन्यास्तु सङ्ख्याता लिङ्गवेषयो॥

पूर्ववत् कथिता वाचा दष्टाविष्टमहोदितम्।

मोचयेत् कुलिशाह्वेन मन्त्रेण क्रोधराजेन युक्तिमांश्च॥

मन्त्रेणैव कुर्यान्तं तेषां मन्त्रेण योजयेत्।

मन्त्रास्तु पर्णिना येऽत्र निर्दिष्टा विषनाशका॥

ते तु मन्त्रा सदा योज्या दष्टाविष्टेषु सर्वतः।

शेषा विघ्ना तथा कुर्या ग्रहमातरयोजिता॥

तेनैव कारयेत् कर्मं ग्रहमातरपूतनाम्।

असङ्ख्या लक्षणा ह्येते दष्टाविष्टेषु जन्तुषु॥

तैरेव लौकिकैर्मन्त्रैस्तत्तत् कर्म नियोजयेत्।

अशेषं कथितं ह्येतं दष्टविष्टं व लक्षणम्॥

अधुना बोधयिष्यामि तिर्यग्भाषां समानुषाम्।

नारकानां तु भाषां वा कथ्यमानां निबोधताम्॥

यदा पक्षिगणा सर्वे सन्निपत्य समन्ततः।

ग्रामवासं तदा चक्रुः मध्याह्ने जनमालये॥

तदा ते कथये वाचां रेफंयुक्तां सभैरवाम्।

क्रकः ककारमित्याहुः काका ये क्रूरभाषिणो।

कथयन्ति भयं तत्र क्षुधा चैव च दर्शयेत्।

मयूरा कोकिलाश्चैव सन्निपत्य प्रगे तदा॥

क्रूरां दर्शयेद् वाचां भयं तत्र निवेदयेत्।

बुभुक्षां कथयामास आहारं चैव योजयेत्॥

सदाहं सर्वकायाता ग्रामस्थानेषु दृश्यते।

तदा ते कथयन्त्येते तां वाचां भयभैरवाम्॥

षण्मासां नश्यते देशे ग्राम्यक्तां भोजनोत्तमाम्।

तेषां क्षीरसमं देयं तोयं चैव सुखोदयम्॥

शारिकाशुकमुख्यांस्तु कपोता हरितास्तथा।

चक्रवाका भासस्वकीका सर्वे आगत्य मीलये॥

ग्राममध्यगता ह्येते यदा कुर्वन्ति मालयम्।

तदा ते कथयन्त्येवं महादुर्भिक्षकारणम्॥

अनावृष्टिं तथा व्याधिं बहुरोगसमागमम्।

लूता विस्फोटकाश्चैव महातस्करताश्रयाम्॥

अवगच्छन्तु भवन्तो वै षड्‍भिर्मासैर्भविष्यते।

यदा सर्वपक्षिगणा क्रूरं चक्रतुर्भृशदारुणम्॥

रोदमाने तदा सर्वे सत्त्वानां च निवेदिता।

यथास्थिता यथाकालं तदैवत्तत्र योजयेत्॥

दकारबहुलं वाचं मनुष्यभाषिणो यदा।

आगत्य ग्रामवासेऽस्मिं कथयन्ति यथा हि तम्॥

रात्रौ स्वस्त्ययनं कृत्वा तस्माद् देशादपक्रमेत्।

मधुराक्षरसंयुक्तं यदा नेदु सपक्षिजा॥

तस्मात् सुभिक्षमारोग्यमेवं चाहुर्निवेदयत्।

यदा दक्षिणतो गच्छे मृगा गच्छेथ मग्रतम्॥

सिद्धिं च निर्दिशन्ते ताः मृगाश्चैव सुपुष्कलाम्।

श्वानजम्बूकनित्यस्थाः ते मृत्युं दर्शयन्ति ते॥

न गच्छेत् तत्र मेधावी जम्बूकैश्च निवारितः।

प्रविशेत् स्वालयं क्षिप्रं कथयामास ते तदा॥

अतिक्रूरा निनेदुस्ताः अग्रतश्चापि प्रधावयेत्।

गच्छेत तत्क्षणान्मन्त्री यदिच्छेत् सिद्धिमात्मनः॥

वामतो दक्षिणं गच्छेज्जम्बूको यदि गच्छतः।

सिद्धियात्रं विजानीयाज्जम्बूकेन निवेदिताम्॥

चाषा च पक्षिणा सर्वे मृगाश्चैव सजम्बुका।

हरिणा शशकाश्चैव विविधा तिर्यजातयाः॥

प्रदक्षिणं च यदा चक्रुर्महासिद्धिं सुपुष्कलाम्।

कथयामास ते सर्वं गच्छ पूज्यो भविष्यसि॥

सर्वमशोभना ह्येते उरगा श्वापदादयो।

मार्गे यदि दृश्यते स्थानगच्छेत् कुत्र वा क्वचित्॥

सर्वे ते कथयन्त्येवं नास्ति सिद्धिनिवर्तताम्।

गच्छतां स्वकमावासं स्वस्थो तिष्ठति स्वे गृहे॥

न गच्छेत् तत्र मन्त्रज्ञो उरगैस्तु निवेदितम्।

यदि गच्छेत् तदा कालं उद्वेगो मृत्यु वा भवेत्॥

नानातिर्यगता प्राणा जलावासा स्थलेचरा।

स्थावरा जङ्गमाश्चैव कथयन्ति शुभाशुभम्॥

विपरीतैर्भयं विद्यात् स्वस्थैः स्वस्थतां गताः।

केचित् तिर्यगता दिव्याः मानुषा भाषिणो तदा॥

योऽयं निवेदये वाचां तं तथैव नियोजयेत्।

स्वलिङ्गैः सदा स्वास्थ्यं क्रूरैश्चापि सुभैरवम्॥

तत् तथैवावधारणार्त्थं बुद्धिं दद्याथ मन्त्रवित्।

लिङ्गावनेकधां लक्ष्ये नानायोनिसमाश्रिताम्॥

मानुषाणां तथा वाचा युक्ता मध्यार्त्थभाषिणौ।

मध्यदेशे तु या वाचा शब्दपदार्त्थावभाषिता॥

स मानुषी वाचमित्याहुः ततोऽन्यं म्लेच्छवाचिनी।

वाणी सर्वततो ज्ञेया मध्यदेशे निबोधिता॥

मधुराक्षरसंयुक्ता हृद्या कर्णसुखावहा।

अनेला मानसोद्भूता अविक्षिप्तार्त्थभाषिणी॥

स ज्ञेया मानुषी वाचा रुतं चैव स्वभावतः।

ततोऽन्ये सर्वतोऽनर्त्था सा वाचा म्लेच्छवर्णिनी॥

कथितं मानुषं वान्यं पशूनां तावदिहोच्यते।

सिंहोऽपि देशमाक्रम्य गच्छेत् पुरवरं सदा॥

भृशं तत्र हरेत् क्षिप्रं तरुं तस्य सुदारुणम्।

रुद्यते पशुराजा वै करुणं दीन निवेदयेत्॥

महद् भयं तदा विद्यात् सर्वदेशोपसंप्लवम्।

महापुरे यदा रावं पशुराज्ञेति श्रूयते॥

पश्चिमे महद् भयं विद्यात् दक्षिणे शान्तिकामताम्।

पूर्वेण तु भवेच्चक्र परराष्ट्रागमं विदुः॥

उत्तरेण भवेद् घोरा अतिवृष्ट्याहु संप्लवम्।

विदिक्षेष्वेव सर्वत्र भयं चैव निवेदयेत्॥

रावैर्द्विस्त्रिभिर्ज्ञेयं त्रिभिर्दिक्षु महद् भयम्।

क्षेमदक्षिणतो सर्व सिंहेनैव निवेदितम्॥

चत्वारो मथ पञ्चा वा सप्त षष्ठ निबोधिता।

अष्टात् परेणमित्याहुः निःफलं चैव नियोजयेत्॥

दक्षिणावस्थिता श्रेया अध ऊर्ध्वर्त्थसम्पदा।

क्षेमं + कसामीप्ये देवायतनचत्वरे॥

सदारावं तदा वर्ज्यं तस्माद् देशादपक्रमेत्।

यथा सिंहे तथा सर्वं सर्वप्राणिषु योजयेत्॥

शरभैः शार्दूलाख्यैर्वै यथा तत सर्व निबोधताम्।

अभावा मानुषावासं हिंसः शरभया सदा॥

किन्तु प्रासादिकं ज्ञानं कत्थ्यते तां सुरोत्तमाम्।

क्रोष्टुकेषु च सर्वत्र तां तथैव नियोजयेत्॥

पूर्वपश्चिमतो भागे यदा हस्ती रुदेद् भृशम्।

तस्मान्महद् भयं विद्यात् तत्र देशेषु जन्तुनाम्॥

श्मशाना वायसाश्चैव उर्ध्वतुण्डा रुदन्ति वै।

तत्र विद्यान्महोद्वेगं वायसैश्च निवेदितम्॥

प्रस्थितो मन्त्रिणे कालं यद्यदेशाभिकांक्षिणम्।

गच्छतो वामतः काको भृशं रौति सुदारुणम्॥

न गच्छेत् तत्र मेधावी वायसेन निवेदितम्।

रौति दक्षिणतो श्रेयं अग्रतस्तु निवारयेत्॥

न गच्छेत् तत्र मन्त्रज्ञो गच्छन् मृत्युवशो भवेत्।

गोमयं भक्षयेत् पक्षी यदा रौति सुखोदयम्॥

मृष्टान्नभोजनं विद्या गोलाभं चैव निर्दिशेत्।

मन्दिरारूढनित्यस्थो यदा रौति स वायसः।

अर्धरात्रे तथा काले गृहभेदं समादिशेत्।

धान्यपुञ्जधरारूढो यदा रौति स वायसः॥

सुशुभं कूजते क्षिप्रं मधुरं चापि भाषितम्।

अचिरात् तं फलं विद्या बहुधान्यधनागमम्॥

गृहद्वारं यदा पश्यं वायसो रवतो भृशम्।

तत्र रात्रौ भवेत् तस्य शस्त्रसम्पात चौरिभिः॥

क्षीरवृक्षे यदा श्रेष्ठो कण्टके कलहप्रियः।

हस्तिस्कन्धसमारूढं अश्वपृष्ठे च शोभनम्॥

भोगिनां मस्तके राज्यं पद्मपुष्पेषु सम्पदा।

नानाविविधसम्पत्यो मधुराक्षरकूजिता॥

सर्वतोलिङ्गमर्त्थानां तत् पूर्वं कथितं हितम्।

+ + + कूजनं क्रूरं समं सर्वेषु योजयेत्॥

शिवाय सर्वतो ज्ञेया दक्षिणेन फलप्रदा।

तत् सर्वं सिंहतो ज्ञेयं शिवान्नु सर्वदा॥

क्रूरा अशोभनारावा दीना मृत्युपरायणा।

सर्वतो सुखनिष्पत्तिं फलं सस्यसमुद्भवम्॥

सर्वे शिवगणा प्रोक्ता शायम्प्राते च शोभना।

एकारवेति यद्येता दक्षिणां दिशमाश्रिता॥

शिवा शिवतमा प्रोक्ता द्वितीया रावे तु कीर्त्यते।

तृतीये रावे तथा ज्ञेया राज्ञे अर्त्थावहा भवेत्॥

चतुर्त्थे तु महालाभं पञ्चमे पुत्रदा स्मृता।

षष्ठे च धननिष्पत्तिः सप्तमे न भवे शुभा॥

अष्टमं निःफलं विद्या तदूर्ध्वं भयपीडिता।

एवं करोति शिवा तत्र असङ्ख्येया तेऽप्यनिष्टदा॥

पश्चिमेन शिवा ज्ञेया परचक्रभयं तदा।

द्वितीये दुर्भिक्षकान्तारे क्रूररावा यदा भवेत्॥

तृतीये अर्थनाशं तु चतुर्थे प्राणरोधिनम्।

पञ्चमे कथिते रावे अमात्यानां व्याधिपीडकाः॥

षष्ठे चोरागमं विद्या सर्वतस्तु शिवा तु सा।

सप्तमेव महाव्याधिं अष्टमे चापि निन्दिता॥

तदुर्ध्वं भयभीरार्त्ता क्षुधिता वा प्रभाषते।

उतरेण तु यो रावो शिवायाः श्रूयते सदा॥

महाघोरतमं व्याधिं तत्र स्थाने विनिर्दिशेत्।

द्वितीये क्रूररावे तु दुःखदा सा भवेत् तदा॥

तृतीये अर्थनाशं तु चतुर्त्थे अग्निसम्भवम्।

पञ्चमेन महावृष्टिं षष्ठे राजापरुद्ध्यते॥

सप्तमेन महायुद्धं शस्त्रसम्पातमादिशेत्।

अष्टमे निःफलं विद्या तदूर्ध्वं यः किञ्चि रोदिति॥

पूर्वेण च यदा रौति शिवा यामे तु मन्तिमे।

तदा राजागमं विद्या द्वितीयारावे तु प्रेषिणाम्॥

तृतीयं राजतो मृत्युः बद्धो वा यदि श्रूयते।

चतुर्थे चोरतो दुःखं पञ्चमे प्राणरोधिकम्॥

षष्ठे च भवते व्याधिः सप्तमे अग्नितो भयम्।

अष्टमे निःफलं विद्या शेषं पूर्ववत् सदा॥

यदा दक्षिणपूर्वेण विदिशे व्याहरे शिवा।

प्रथमेन भवेत् सौख्यं द्वितीये सर्वतो जनाम्॥

तृतीये धननिःपत्तिश्चतुर्थे सस्यसम्पदा।

पञ्चमे सुभिक्षनिर्दिष्टं षष्ठे क्षेमं समादिशे॥

सप्तमे सर्वतो ज्ञेयमष्टमे निःफलं सदा।

यदा दक्षिणभागेन पश्चिमामध्यतो सदा॥

निर्दिशे च ध्रुवा ज्ञेया शिवा क्रूरतमा स्मृता।

प्रथमेन भवेन्मृत्युः हन्यते ब्राह्मणा द्विके॥

तृतीये क्षत्रियं हन्या चतुर्थे वैश्यमित्याहुः।

+ + + पञ्चमे शूद्रयोनयः॥

षष्ठे म्लेच्छिनां हन्ति सप्तमे तस्करा तदा।

अष्टमे निःफलं विद्या अतिदुःखं क्रूरराविणाम्॥

असङ्ख्येयानां तु दृश्यते।

उत्तरापश्चिमाभागे यदा तीव्रं विरौति सा॥

अतिक्षिप्रं महाव्याधिः राज्ञे वा व्याधिमादिशेत्।

द्वितीयेन हन्यते हस्ती राज्ञो मुख्यो गजोत्तमम्॥

तृतीयेन भवेन्मृत्युः मादिष्टः तत्र वै।

चतुर्थेन भवेन्मृत्युः मुख्यानां च धनेश्वराम्॥

पञ्चमे धननाशं तु षष्ठे व्याधि सम्भवेत्।

सप्तमेन भवे दुःखं सर्वतो च भयावहम्॥

अष्टमे निःफलं विद्या पूर्वं वै सर्वतो तदा।

उत्तरे पूर्वयोर्मध्ये विदिक्षु चैव लक्षयेत्॥

अतिक्रूरा यदा क्षिप्रं शिवा व्याहरते तदा।

उत्तरे पूर्वतो मध्ये विदिक्षुश्चैव लक्षयेत्॥

अतिक्रूरा यदा क्षिप्रं शिवा व्याहरते तदा।

मृत्युना हन्यते जन्तुः पौरमुख्यो धनेश्वरः॥

द्वितीयेन हनेन्मन्त्री तृतीये गजमादिशे।

चतुर्थे विविधयोन्यास्तु म्लेच्छतस्करजीविनः॥

चतुर्थेन भवेद् व्याधिः सर्वेषां च तदा जने।

पञ्चमे हन्यते पुत्रो अमात्यो वा नृपतेर्ध्रुवम्॥

षष्ठे मृत्युमादिष्टा महादेव्या तु नराधिपे।

सप्तमेन हनेद् राष्ट्रं मुक्तं चापि विनिर्दिशेत्॥

अष्टमे निःफलं विद्या पूर्ववत् कथिता सदा।

अतः ऊर्ध्वं तथा रावो शिवानां च भवे यदा॥

अमानुषं तं विदुर्मर्त्यो महोपद्रवकारकम्।

अपक्रम्य ततो गच्छे मन्त्रैर्वा रक्षमादिशेत्॥

महाप्रभावैर्विख्यातैर्जिनाब्जकुलयोद्भवैः।

होमकर्माणि कुर्वीत शान्तिं तत्र समादिशेत्॥

एवंप्रकारा ह्यनेकानि बहुभाष्या पशुयोनयः।

नानापक्षिगणांश्चापि रुतं चैव निबोधये॥

बहुधा तिर्यगता केचिच्चापसुमूर्त्तिजा।

केचिद् विकृतरूपास्तु रौद्रा सत्त्वविहेठका॥

केचित् प्राणापरोधिकां सत्त्वां हिण्ड्यन्तेऽथ महीतले।

असृक्पानरताः केचिद् अन्वाहिण्डन्ति मेदिनी॥

केचिद् रुधिरगन्धेन भ्रमन्ते मेदिनीतलम्।

विविधा मातरा ह्येते ग्रहमुख्यास्तु बालिशा॥

कुमारकुमारिकारूपाः ग्रहाः प्रोक्ताः विविधा परा।

भ्रमन्ते मेदिनीं कृत्स्नां क्षणमात्रेण सर्वतः॥

सहस्रं योजनं केचिद् वायुवद् भ्रमतापराः।

पशुवेषकृता केचिद् दृष्ट्या नष्टा च जन्तुषु॥

विविधं करोति सर्वे ते सर्वत्र वसुधातले।

मृतपूतकसत्त्वेषु सुप्त उपहते तथा॥

गृह्णते मानुषां केचित् बलिमाल्यार्थकारणात्।

सर्वेषां मानुषां लोके क्रमन्ते केचिन्नभस्तलात्॥

सर्वाकारविदो ज्ञेया बहुरूपा विकारिणः।

शुभा अशुभरावाश्च ज्ञेया लिङ्गैस्तु सर्वतः॥

शुभाशुभफलं सर्वं विकृतं सुकृतं तथा।

आगमैर्बहुविधैर्ज्ञेया लोकतत्त्वार्थचिह्नितैः॥

ऋषिभिर्जिनसुतैश्चैव खड्‍गिभिर्जिनवरैः सदा।

श्रावकैर्महर्द्धिकैः सर्वं नानायोनिसमाश्रितम्॥

ग्रहैर्ग्रहवरैः ख्यातैः प्रकृष्टैर्लोकचिह्नितैः।

ज्ञेयं शास्त्रतो तत्त्वं आगमाधिगमापि वा॥

नानालिङ्गविधानेन गतियोनिविभावतः।

ज्ञेयं शुभाशुभं सर्वं क्रूरैः सौम्यैश्च लिङ्गिभिः॥

छत्रं शितं पताकं च मत्सं मांसं च सार्द्रयोः।

उत्क्षिप्ता च मेदीनी पद्मयन्त्र गोमयं तदा॥

दधि पुष्पं फलं चैव स्त्रियं वाम्बरभूषिताम्।

शुक्लवस्त्रं तथा ज्ञेयं द्विजं श्रेयार्थभाषिणम्॥

वृषं गजं तथा ज्ञेयं अश्वं चामरभूषितम्।

प्रदीपं भाजने न्यस्तं पूर्णधान्यफलोदयम्॥

देवद्विजप्रतिमां वा पूज्यमाना सदा नृपैः।

अभिषेकार्त्थयुक्तं वा नृपबिम्बाथ मन्त्रिणाम्॥

शङ्खस्वनं भेरींश्च पटहं चापि सुदुन्दुभिम्।

घण्टाशब्दं प्रहृष्टं च जयशब्दं प्रघोषितम्॥

मानुष्योदीरितां वाचां जयसिद्धिफलप्रदम्।

एता निमित्ता मावेद्य इष्टां चैव निवेदिताम्॥

सर्वसम्पत्करं क्षेमं इष्टं चैव सुपूजितम्।

सर्वां प्राप्नुयादर्त्थां सफलां मनसोद्भवाम्॥

मन्त्रजापं ततो गच्छेत् सिद्ध्यर्त्थी सिद्धिमादिशेत्।

सर्वेषां सर्वसत्त्वानां प्रस्थितानां तु निर्दिशेत्॥

योऽयं देवताध्यक्ष इष्टो गोत्रजो परो।

आध्येष्ट्यो भवेन्नित्यं तं लिङ्गी पश्यतो फलम्॥

विविधाकारचिह्नास्तु देवाः प्रोक्तास्तु सर्वदा।

तल्लिङ्गिना तथा प्रोक्ता विविधा वेषचिह्नयः॥

यो यमिष्टतरं पश्येत् सो तस्यैव फलोदयम्।

वाचां बहुविधां वव्रे यदा ते मानुषा भुवि॥

कथयन्ति शुभां वाचां अन्योन्यालापमासृताः।

परेषां च यदा वव्रे विश्वस्ताश्च समन्ततः॥

एवं च वाचिरे मूचुः शुभं श्रेयं जपं सदा।

क्षेममारोग्यसर्वं वै स्वस्तिशान्तिसुखोदयः॥

धनिनः देवतो मुख्य सुरो धर्मराजास्तथा।

सर्वतो भास्करश्चैव छत्रध्वजपताकयोः॥

बुद्धधर्मतदा सङ्घं मन्त्रं तारमितिः सदा।

कुमारं काञ्चनं शुभ्रं अग्निस्कन्धं महोत्सवम्॥

जिनं पद्म तथा वज्रं लोकेशं बोधिमुत्तमम्।

बोधिसत्त्वा तथा लोकां ब्रह्मश्चैव सुरोत्तमाम्॥

बहुप्रकारा ह्यनेकानि प्रशस्तां शाधुवर्णिताम्।

शुश्राव शब्दां यथा गन्ता सर्वासां प्राप्नुया हि सौ॥

ततोऽन्ये लोकविद्विष्टं स शब्दं चापि निन्दितम्।

प्रशस्ता शकुनयो ह्येता प्रस्थितानां जपे रताम्॥

सर्वेषां च मयं योगो उद्योगार्त्थससम्पदाम्।

ततोऽन्य निन्दितं सर्व न लेभे कायितं फलम्॥

प्रशस्तैव सर्वतो गच्छे अप्रशस्तैश्च न व्रजेत्।

प्रणम्य सर्वतो बुद्धांस्त्रयं कृत्वा प्रदक्षिणम्॥

स्वमन्त्रं मन्त्रनाथं च मातापित्रौ थ दुःकराम्।

प्रणम्य सर्वतो गच्छे शिवं तत्र विनिर्दिशेत्॥

आचर्यगुरुमुख्यानामुपाध्यायं चैव यत्नतः।

प्रशस्तधार्मकथिक प्रशस्तं चैव व्रते रतम्॥

यथार्हं तदाभ्यर्च्य इष्टदेवमनेहितम्।

स्नातभुक्तोऽथ विश्वस्तः प्रत्यूषे वा जितेन्द्रियः॥

शौचाचाररतो मन्त्री गच्छेत् सर्वतो दिशाम्।

यथाशाफलसंयोगं प्राप्नुयात् सर्वतो शुभाम्॥

शान्तिस्वस्त्ययनं चैव आयुरारोग्यवर्द्धनम्।

श्रीसम्पत् कथितामग्र्या यथेष्टं मनसेप्सितम्॥



इति महायानवैपुल्यसूत्राद् बोधिसत्त्वपिटकावतंसकादार्यमञ्जुश्रीमूलकल्पाद् विंशतिमः सर्वभूतरुतज्ञाननिमित्तशकुननिर्देशपरिवर्तपटलविसरः परिसमाप्तमिति॥



शुभं भूयात्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project