Digital Sanskrit Buddhist Canon

अथ एकविंशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Atha ekaviṁśaḥ paṭalavisaraḥ
अथ एकविंशः पटलविसरः।



अथ खलु भगवान् शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। अस्ति मञ्जुश्रीः ! त्वदीये कल्पविसरे सर्वसाधनोपयिके मन्त्रचर्याभियुक्तस्य साधनकाले सर्वमन्त्राणां सर्वकल्पविस्तरेषु राहुरागमनसुराणामधिपतेः सर्वग्रहानायकस्य ग्रहसंज्ञा चन्द्रदिवाकरादिषु नक्षत्रयोगेन दृश्यन्ते। त शृणु साधु च सुष्ठु च मनसि कुरु ते भाषिष्ये॥



एवमुक्ते भगवता शाक्यमुनिना सम्यक् सम्बुद्धेन मञ्जुश्रीः कुमारभूतः उत्तरासङ्गं कृत्वा भगवतस्त्रिःप्रदक्षिणीकृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवां तेनाञ्जलि प्रगृह्य भगवतश्चरणयोर्निपत्य पुनरेवोत्थाय भगवन्तमनिमिषं व्यवलोकयमानः उत्फुल्लनयनो भूत्वा हृष्टतुष्टो भगवन्तमेवमाह - तत् साधु भगवां निर्दिशतु राहोरागमनम् ; यत्र सत्त्वानां मन्त्रचर्याभियुक्तानां सिद्धिकालं भवेयुरिति सर्वसत्त्वानां च सुखोदयं शुभाशुभनिमित्तं वा; तं निर्दिशतु भगवां। यस्येदानीं कालं मन्यसे॥



अथ खलु भगवान् शाक्यमुनिः मञ्जुश्रियस्य कुमारभूतस्य साधुकारमदात्। साधु मञ्जुश्रीः ! यस्त्वं तथागतमेतमथ परिप्रश्नसे सर्वसत्त्वानां च हितायोद्युक्तः। तेन हि मञ्जुश्रीः ! शृणु भाषिष्ये। सर्वसत्त्वानां निर्दिशश्चेति॥



आदौ ताव ग्रहैः क्रूरैः राहोश्चन्द्रमण्डले।

आगमोदिते काले यथावन्तं निबोधिता॥

यदा देवासुरं युद्धं वर्तते च महद् भयम्।

तदासौ दैत्यराजा वै दानवेन्द्रो महर्द्धिकः॥

महाभयः प्रमाणा वै समन्तादुच्छ्रितो महां।

+ + + + + + + + + + सुमेरोरधिको भवेत्॥

महाप्रमाणः क्रूरोऽसौ अतिदर्पातिदर्पितः।

प्रभविष्णुर्ग्रहो मुख्यो यदा भेजे सुरालयम्॥

ततः पाणिना परामृश्य सुमेरुं देवसम्मितिम्।

अप्सरां प्रेक्षते दैत्यः यदा काले नभस्तलम्॥

तदा चन्द्रमसपूर्णः करे वामे स दैत्यराट्।

नानामणयस्तस्य करे कङ्कनतां गता॥

तदा भुवि लोकेऽस्मिं ग्रहभूतेति कथ्यते।

यदा पद्मरागेऽस्मिं अर्चिर्भवति रक्तका॥

तदा तार्किका मानवा आहुः आग्रेयं मण्डलं विभोः।

यदा तु नीलरक्तेऽस्मिं प्रभा नीलतां व्रजेत्॥

तदा नीलमिति ज्ञेयं शशिने भास्करेऽपि वा।

माहेन्द्रमिति कथ्यते तार्किका भुवि मानवा॥

वायव्यमण्डलमित्याहुस्तार्किका एव ते तदा।

विविधा रत्नमालेभ्यो विविधा रत्नसम्भवा॥

विविधं तार्किके शास्त्रे विविधा गतियोनिजाः।

विविधैव क्रिया तेषां विविधा फलसम्पदा॥

सम्यग् ज्ञानविहीनानां बालिशानामियं क्रिया।

तस्मात् तथागतं ज्ञानं सम्यक् तेन नियोजयेत्॥

असुरस्य तदा दृष्टिः अज्ञानेष्वेव दिवौकसाम्।

रथं सम्पूर्णयामास शशिनस्य महात्मने॥

यदा काले भुवि मर्त्यानां राहोरागमनं भुवि।

शशिमण्डलमाक्रम्य यदा तिष्ठति स ग्रहः॥

तदा महद् भयं विद्यानक्षत्रेष्वेव निबोधताम्।

अश्विन्येव यदा युक्तः शशिने भास्करमण्डलौ॥

उभौ तौ युग्मतः ग्रासं दिवा रात्रौ च कथ्यते।

अश्विन्यागमनं नित्यं दुर्भिक्षं तं विदुर्बुधाः॥

भरण्यां तु यदा चन्द्रं रवेर्वा मण्डलाश्रयेत्।

विविधा सस्यनिःष्पत्तिः सुभिक्षं चापि निर्दिशेत्॥

कृत्तिकासु यदा चन्द्रः राहुना ग्रस्यते ध्रुवम्।

रात्रौ वा यदि प्रभाते वा यामान्ते निन्दितं हितम्॥

तदा विन्द्या महद् दुःखं व्याधिसम्भवमेव वा।

मध्यदेशेषु नान्यत्र भवेन्नक्षत्रमादिभिः॥

जनपदेष्वेव वक्तव्यो नृपैर्बोधिविधोद्भवैः।

मृगशिरासु यदा चन्द्रः भास्करो वा नभस्तले॥

राहुणा ग्रस्तपूर्वौ तौ अस्तं यातौ महर्द्धिकौ।

पूर्वदेशे नरा यातु व्याधिभिर्हन्यते तदा॥

नृपाध्यक्षा गतायुष्या तत्र देशे विनिर्दिशेत्।

आर्द्रायां पुनर्वसुश्चैव ग्रस्तौ च शशिभास्करौ॥

रुधिराक्ता महीं सर्वां म्लेच्छदेशेषु कीर्तयेत्।

अन्योन्यहतविध्वस्ता हतप्राणा गतायुषा॥

निर्दिष्टा तत्र देशेऽस्मिन् पूर्वमुत्तरयोस्तदा।

निकृष्टा पापकर्माणः म्लेच्छतस्करतां गताः॥

पुण्याश्लेषौ यदा चन्द्रे भास्करे वा नभस्तले।

राहुणा ग्रस्तबिम्बा तौ मध्याह्ने वार्द्धरात्रतः॥

तदा विद्यान्महादोष पश्चादन्यां नृपेश्वराम्।

मघासु यदि ग्रस्येतौ शशिभास्करमण्डलौ॥

राहुणा सह मुद्यन्तो अस्तं यातौ ग्रहोत्तमौ।

तदा प्रहाय तं विद्याज्जम्बूद्वीपेषु सर्वतः॥

दुर्भिक्षराष्ट्रभङ्गं च महामारिं च निर्दिशेत्।

उभौ फल्गुनिसंयुक्तौ राहुरागमनं भवेत्॥

मध्याह्नेऽथवा रात्रे च मुच्यते च पुनः क्षणात्।

सुभिक्षं ततो विद्याज्जम्बूद्वीपेषु दृश्यते॥

हस्तचित्रे यदा राहुः ग्रसते चन्द्रभास्करौ।

ग्रस्तौ सह मुच्येते अस्तं यातौ च दुःखदा॥

महामारिभयं तत्र तस्कराणां समन्ततः।

नृपाश्च नृपवरा श्रेष्ठा हन्यन्ते व्याधिभिस्तदा॥

दिशः सर्वे समन्ताद्वै दुर्भिक्षं चापि निर्दिशेत्।

विशाखस्वातिनौ युक्तौ नक्षत्रवरपूजितौ॥

राहोरागमनं विद्यात् पशूनां पीडसम्भवाम्।

विविधा कुलमुख्यास्तु हन्यन्ते शस्त्रिभिस्तदा॥

ज्येष्ठानुराधसंयुक्तौ नक्षत्रौ वरवर्णितौ।

राहोरागमनं तत्र सुभिक्षं वा विनिर्दिशेत्॥

मूलेन यदि चन्द्रस्थः राहुर्दृश्यति भूतले।

उदयन्तं तदा ग्रस्तं उदितं वापि सर्वतः॥

अस्तं यातेन तेनैव शशिनो राहुणा सदा।

प्राच्याध्यक्षो विनश्येयुः पूर्वदेशजनालयाः॥

महान्तं शस्त्रसम्पातं दुर्भिक्षं चापि निर्दिशेत्।

परचक्रभयाद् भिन्ना त्रस्ता गौडजना जना॥

राजा वै नश्यते तत्र व्याधिना सह मूर्छितः।

उभौ अषादौ तदाकाले राहुर्दृश्यति मेदिनीम्॥

तत्र दुःखं महाव्याधि तत्र दृश्यति भूतले।

नृपमुख्यास्तदा सर्वे दुष्टचित्ता परस्परम्॥

धनिष्ठे श्रवणे चैव निर्दिष्टं लोकनिन्दितम्।

नाना गणमुख्या वै विश्लिष्टान्योन्यतद्भुवा॥

पूर्वभद्रपदे चैव नक्षत्रे शतभिषे तथा।

राहुरागमनं दृश्येत सुभिक्षं चैवं निर्दिशेत्॥

उत्तरायां यदा युक्तः नक्षत्रे भद्रपदे तथा।

राहुरागमनं श्रेष्ठं दिवा रात्रौ तु निन्दितम्॥

रेवत्यां तु यदा चन्द्रः राहुणा ग्रस्त सर्वतः।

उदयन्तं तथा भानोर्निशिर्वा चन्द्रमण्डले॥

अस्तं यातो यदा राहुर्ग्रहमुख्यैः सहोत्तमैः।

मध्यदेशाच्च पीड्यन्ते मागधो नृपतेर्वधः॥

एतद् गणितं ज्ञानं मानुषाणां महीतले।

नक्षत्राणामेतत् प्रमाणं चैव कीर्तितम्॥

अशक्यं मानुषैरन्यैः प्रमाणं ग्रहयोनितम्।

नक्षत्रमाला विचित्रा वै भ्रमते वै नभस्तले॥

एतन्मानुषां सङ्ख्यात्ततोऽन्यद् देवयोनिजाम्।

यो यस्य ग्रहमुख्यो वा क्षेत्रराशिसमोदिता॥

नक्षत्रं कथितं पूर्वं तस्य तं कुरुतेऽन्यथा।

ईषत् प्रमाणं न दोषोऽस्ति बहुवाचास्ति निन्दितम्॥

एतत् प्रमाणकाले वै ग्रहमुख्योऽर्थकृत् स्मृतः।

कालं कथितं ज्ञेयं नियमं चैव कीर्त्यते॥

नक्षत्रराशिसंयुक्तः कम्पो निर्घात् उल्किनः।

सग्रहौ यदि तत्रस्थौ रविचन्द्रौ तु दृश्यते॥

उभयान्तं तदा तस्य नक्षत्रां जातिभूषिताम्।

अन्यथा निष्फलं विद्यात् प्रभावं वापि निन्दिते॥

तस्माज्जपे तदा काले मन्त्रसिद्धिसमोदिता।

धूम्रवर्णं यदाकाशं दृश्यते सर्वतः सदा॥

तदा महद् भयं विद्यात् परचक्रभयेत् तदा।

शशिने भास्करे चापि धूम्रवर्णो यदा भवेत्॥

पर्येषा द्वित्रयो वा वा तत्र विद्यान्महद् भयम्।

धूमिकायां भवेद् वृष्टिः सर्वकाले भयानके॥

कुत्सितं सर्वतो विद्यात्तत्र व्याधिसमागमम्।

ग्रीष्मे शरदे चैव धूमिका यदि जायते॥

समन्तात् सप्तरात्रं तु तत्र विद्यान्महद् भयम्।

दिवा वा यदि वा रात्रौ धूमिका यदि जायते॥

नक्षत्रैर्ग्रहचिह्नैस्तु तिथिवारान्तरेण वा।

पूर्ववत् कथितं सर्वं यथा निर्घात् उल्किनाम्॥

तैरेव दिवसैः पूर्वं धूमिकाया नियोजयेत्।

अर्धरात्रेऽथ मध्याह्ने धूमिका जायते सदा॥

तत्र विद्यान्महोद्वेगं नृपतीना पुरोत्तमाम्।

शरदे यदि हेमन्ते ग्रीष्मे प्रावृषेऽपि वा॥

धूमिका सर्वतो ज्ञेया नक्षत्रैश्चैव कीर्त्तितः।

शुभाशुभं तथा ज्ञेयं दिवा वा यदि वानिशा॥

निःफलं चापि विद्या वै सफलां चापि कीर्त्तिताम्।

सर्वतः भूमिकम्पे वापि तथोल्कचैकतो राहुसमागमम्॥

तत्र धूमो भवेद् यद्यत् समन्ताश्चैव नभस्तले।

अचिरात् तत्र तद् राज्यं घात्यते शस्त्रिभिः सदा॥

प्रभवः सर्वतो देशे मृत्युश्चैव प्रकिर्त्यते।

सप्ताहाद्विजयमुख्या भुवि वाता सत्त्वयोनयः॥

घात्यन्ते सर्वतो नित्यं शस्त्रिभिर्मृत्युवशानुगा।

अन्योन्यापरतो राज्यं कृपावर्जितचेतसः॥

विभिन्ना शस्त्रिभिः क्षिप्रं वणिजा नृपयोनयः।

ग्रीष्मे सितवर्णस्तु नभो यत्र प्रदृश्यते॥

महाव्याधिभयं तत्र नीले चैव शिवोदयम्।

पीतनिर्भासमुद्यन्तं सविता दृश्यते यदा॥

ग्रीष्मे च कथिता मृत्युः शरत्काले च निन्दितम्।

हेमन्ते च वसन्ते च ताम्रवर्णः प्रदृश्यते॥

अन्यथा पीतनिर्भासौ निन्दितो लोकवर्जितः।

शरदे ग्रीष्मतो ज्ञेयः मितिवर्णः प्रशस्यते॥

प्रावृड्काले तथा शुभ्रे पीतो वा न च + + + + ।

महाप्रभावसङ्काशं महानीलसमप्रभः॥

नमो ज्ञेयं सदाकालं सर्वसौख्यफलप्रदम्।

विपरीतं ततो विद्या देशमावासपीडनम्॥

सस्योपघातमारिं च दुर्भिक्षं चापि मुच्यते।

अतिकष्टं सुरा ह्येतं भयं वा रसदूषितम्॥

महाप्रणादं घोरं च शुक्रे वै च नभस्तले।

तत्क्षणादेव सर्वेषां नृपतीनां प्राणोपरोधिनम्॥

ततोऽन्यच्छुभसंयुक्तं श्रेयसा चैव कल्पयेत्।

सग्रहे भास्करे चन्द्रे यदा राहो महद्भये॥

नश्यन्ते जनपदास्तत्र विविधा कर्मयोनिजा।

ततोऽन्यच्छुभसंयुक्तं शब्दं लोकपूजितम्॥

श्रेयसार्थे नियोक्तासौ सुरश्रेष्ठा ग्रहोत्तमा।

विविधा मन्त्र सिद्ध्यन्ते विविधा मूलफलप्रदा॥

विविधा वा न वा सर्वे विविधा प्राणसम्भवाः।

अनेकाकारसम्पन्ना स्वरूपा विकृतास्तदा॥

नानाप्रहरणाश्चैव नानाशस्त्रसमुद्भवा।

सर्वमतयो ह्यग्रा मूलमन्त्रसुभूषणा॥

सर्वे ते साध्यमाने वै सिद्धिं गच्छेयु सग्रहा।

ग्रहे चन्द्रे यदा भानो राहुणार्थोऽपि सग्रहे॥

तस्मिं काले तदा जापी मन्त्रमावर्तयेत् सदा।

सर्वे ते वरदाश्चैव + + + + भवन्ति ते॥

सत्त्वोपकारं फलं ह्येतत् प्रतिष्ठा तत्र दृश्यते।

सिध्यन्ते मन्त्रराट् क्षिप्रं ग्रहे जप्ता सराहुके॥

सप्तभिर्दिवसैर्मासैः पक्षैश्चापि सुपूजिताः।

मन्त्राणां सिद्धिनिर्दिष्टा सग्रहे चन्द्रभास्करौ॥

यामान्ते अर्धरात्रे वै सिद्धिरुक्ता तथागतैः।

विधियुक्तास्तु वै मन्त्रा विहीनां नेष्यते ध्रुवम्॥

ब्रह्मस्यापि महात्मानं किं पुनर्भुवि मानुषाम्।

शक्रस्यापि च देवस्य रुद्रस्यापि त्रिशूलिने॥

विष्णोश्चक्रगदाहस्ते तार्क्षस्यापि महात्मने।

नेष्यते सिद्धिरेतेषां विधिहीनेन कर्मणाम्॥

मन्त्रे सुजप्ते युक्ते च तन्त्रयुक्तेन हेतुना।

सिध्यन्ते इतरस्यापि + + + + + + + + + + +॥

विधिना मानुषैर्मुक्ता विद्यातत्त्वसुभूषिता।

सिध्यन्ते सग्रहा क्षिप्ता जप्ता कालेषु योजिता॥

ददाति फलसंयुक्तं विद्या सर्वत्र योजिता।

हेतुकर्मफला विद्या + + + हेतुदूषणी॥

कर्म सहेतुकं विद्या विद्याद्धेतुफलोदया।

विद्या कर्मफलं चैव हेतु चान्य नियोजयेत्॥

चतुःप्रकारात्तथा विद्या चतुर्था कर्मसु योजिता।

दद्यात् कर्मफलं क्षिप्रं सा विद्या हेतुयोजिता॥

सा विद्या फलतो ज्ञेया बुद्धैश्चापि सुपूजिता।

विद्या सर्वार्थसंयुक्ता प्रवरा सर्वकर्मिका॥

प्रदद्युः कर्मतो सिद्धिं सा विद्या कर्मसु योजिता।

श्रेयसा चैव योजयेत् न मन्त्राणां गतिगोचरम्॥

प्रभावं मन्त्रसिद्धिं च लोकतत्त्वं निबोधताम्।

निःफलं कर्मतो वा वा फलं कर्मं च तत्र च॥

+ + + + + + + लोकतत्त्वनियोजिताम्।

दृश्यते फलहेतुर्वा मन्त्रा बुद्धैश्च वर्णिता॥

न फलं कर्म क्रमं हन्ति नाफलं कर्म क्रिया परा।

फलं कर्मसमारम्भात् सिद्धि मन्त्रेषु जायते॥

गुणं द्रव्यक्रमायोगा क्रमं द्रव्याक्रियाक्रमा।

मन्त्रराट् सिद्ध्यते तत्र फला कर्मेषु योजिता॥

विधिद्रव्यसमायुक्तः वृत्तस्थो कर्मयोजितः।

न योनिः कर्मतो ज्ञेयं यो नियुक्तः सदा फले॥

न बृहत्कर्मतां यान्ति सिद्धिमन्त्रक्षरं सदा।

तदा मन्त्री जपेन्मन्त्रं विधियोनिसमाश्रया॥

कालक्रमा गुणाश्चैव विधियोनिगतिसौगतः।

सिद्ध्यन्ते मन्त्रराट् सर्वे विधिकालार्थसाधिका॥

न गुणं द्रव्यतो ज्ञेयं नाद्रव्यं गुणमुच्यते।

गुणद्रव्यसमायोगात् संयोगान्मन्त्रमर्चयेत्॥

अर्चिता देवताः सर्वे आमुखेनैव योजयेत्।

तत्प्रमाणं गुणं द्रव्यं क्षिप्रमन्त्रेषु साधयेत्॥

क्रमः कालगुणोपेतः गुणकालक्रमक्रिया।

चतुर्धा दृश्यते सिद्धिः मन्त्रेष्वेव सुयोजिता॥

प्रभावं गुणविस्तारं सत्त्वनीतिसुखोदयम्।

प्रदद्युः सर्वतो मन्त्रा गुणेष्वेव नियोजिताः॥

प्रभवं सर्वतः कर्म गुणद्रव्यं च सिद्ध्यते।

नापि द्रव्या गुणामेता द्रव्यकर्माच्च वर्जिता॥

न सिद्धिं दद्यु तत्क्षिप्रं यथेष्टमनसोद्भवात्।

मानसा मन्त्रनिर्दिष्टा न वाचा मनसा विना॥

वान्यतो मन्त्रविज्ञेया न वान्या मनसे विना।

नान्यकर्मा मनश्चैव संयोगात् सिद्धिरिष्यते॥

न दृष्टिकर्मतो हीना नेष्टं कर्मविवर्जितम्।

सम्यग् दृष्टि तथा कर्मं वाक् चित्तं च योजितम्॥

सिद्ध्यन्ते देवताः क्षिप्रं मन्त्रतन्त्राक्षरोदितम्।

सम्यग्दृष्टिसमायोगा सम्यक् कर्मान्तयोजयोः॥

+ + + + + + मन्त्रा सिद्ध्यन्ति सर्वदा सम्यक्।

कर्मान्तवाक्सुमोपेतं सम्यग्दृष्टिसुयोजितम्॥

सिद्ध्यन्ते सर्वतो मन्त्राः सम्यक् कर्मान्तयोजिताः।

न चित्तेन विना मन्त्रं न स्मृत्या सह चित्तयोः॥

सम्यक् स्मृत्या च चित्ते च दृश्यते मन्त्रसिद्धये।

न स्मृत्या च विनिर्मुक्ता मन्त्र उक्तस्तथागतैः॥

स्मृत्या समाधिभावेन सम्यक् तेन नियोजिताः।

दृश्यन्ते ऊर्जितं मन्त्रैः सिध्यन्ते च समाधिना॥

सम्यक्समाधिनो भावो मन्त्रा लोकसुपूजिताम्।

तत्प्रयोगा इमा मन्त्राः समाध्या परिभाविता॥

सिध्यन्ते मन्त्रराट् तत्र योगं चापि सुपुष्कलम्।

सम्यक् समाधिभिर्ध्येयं मन्त्रं ध्यानादिकं परम्॥

सिध्यन्ते योगिनो मन्त्रा नायोगात् सिद्धिमुच्यते।

यो मया कथितं पूर्वं सम्यगुक्तसुयोजितम्॥

नान्यथा सिद्धिमित्याहुर्मुनयः सत्त्ववत्सलाः।

नासङ्कल्पाद् भवेन्मन्त्रः सम्यक् तत्त्वार्थयोजिताः॥

सङ्कल्पा मन्त्र सिध्यन्ते सम्यक् ते विधियोजिताः।

न पूज्य मन्त्रराट् सर्वे सम्यक् सङ्कल्पवर्जिताः॥

सिध्यन्ते सर्वतो मन्त्राः सम्यगाजीवयोजिता।

सम्यक् सङ्कल्पतो ज्ञेयं मन्त्रेष्वेव सुखोदयम्॥

आजीवे शुद्धितां याति मन्त्रा सम्यक् प्रयोजिता।

सिध्यन्ते भुवि निर्दिष्टा मन्त्रमुख्या सुयोजिता॥

आजीवं हि फलं युक्तो सम्यगेव सुयोजयेत्।

सम्यक् सञ्जीवरतो मन्त्री शुद्धचित्तः सदा शुचौ॥

शुचिनः शुचिकर्मस्य शुचिकर्मान्तचारिणः।

सिध्यन्ते शुचिनो मन्त्रा कश्मलाकश्मले सदा॥

क्रव्यादा येतरा मन्त्रा ये चान्ये परिकीर्तिता।

सिध्यन्ते मन्त्रिणां मन्त्राः क्रव्यादेष्वेव भाषिताः॥

रुद्रविष्णुर्ग्रहा चोरै गरुडैश्चापि महर्द्धिकैः।

यक्षराक्षसगीतास्तु सिध्यन्ते मन्त्रकश्मलाः॥

विविधैर्भूतगणैश्चापि पिशाचैर्मन्त्रभाषिताः।

स्वयं न सिध्यते विधिना हीना अशौचाचाररतेष्वपि॥

विधिना योजिता क्षिप्रं अशौचेष्वेव सिद्धिदा।

तस्मान्मन्त्रं न कुर्वीत विधिहीनं तु कर्मयोः॥

सिध्यन्ते साश्रवा मन्त्रा विधिकर्मसुयोजिताः।

साध्यास्तु तथा मन्त्रा आर्या बुद्धैस्तु भाषिता॥

तेषां सिद्धि विनिर्दिष्टा मार्गेष्वेव सुयोजिता।

आर्याष्टाङ्गिकं मार्ग चतुःसत्यसुयोजितम्॥

चतुर्ध्यान सदाचेयं चत्वारश्चरणाश्रिताः।

भिद्यन्ते मन्त्रमुख्यास्तु प्रवरा बुद्धोपदेशिता॥

अनाख्येयस्वभावं वै गगनाभावस्वभावताम्।

मन्त्राणां विधिनिर्दिष्टां आर्याणां च महौजसाम्॥

भूम्यानां विधिनिर्दिष्टा सिद्धिमार्गविवर्जितम्।

विद्यानां कथयिष्येऽहं तन्निबोध्य दिवौकसाः॥

दशकर्मपथे मार्गे कुशले चैव सुभाषिते।

सिध्यन्ते दिव्यमन्त्रास्तु विधिदृष्टेन कर्मणा॥ इति।



बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रादार्यमञ्जुश्रीमूलकल्पादेकुनविंशतिपटलविसरात् पञ्चमः

ग्रहोत्पादनियमनिमित्तमन्त्रक्रियानिर्देशपरिवर्तपटलविसरः परिसमाप्त इति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project