Digital Sanskrit Buddhist Canon

अथ विंशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Atha viṁśaḥ paṭalavisaraḥ

अथ विंशः पटलविसरः।



अथ खलु भगवान् शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। अस्ति मञ्जुश्रीस्त्वदीयकल्पविसरे सर्वभयोत्पादनिमित्तनिर्घातगतानि आश्चर्यनिमित्तलिङ्गानि कथयन्ति शुभाशुभं सुभिक्षदुर्भिक्षपरराष्ट्रगमनं अनावृष्टिमतिवृष्टिं सत्त्वानां सूचयन्ति महासाधनादिषु यो विघ्नं कारयन्ति ततो साधकेन च मन्तव्यं साध्यासाध्यानि च तस्मिं देशे कर्तव्यमकर्तव्येति ज्ञातव्यम्। ततो यदि न शोभनानि निमित्तानि भवन्ति तस्माद् देशादपक्रम्य अन्यत्र गत्वा साधयितव्यानि॥



अथ चेच्छोभनानि निमित्तानि भवन्ति। तस्मिन्नेव देशे साधयितव्यानि। तत्रैव च स्थातव्यम्। एवं ज्ञात्वा साधकेन मन्त्रचर्याभियुक्तेन कर्तव्यमकर्तव्यमिति मन्त्रचर्यायां निमित्तानि ज्ञात्वा शुभाशुभं बोद्धव्यमिति॥



अथ खलु मञ्जुश्रीः कुमारभूतो भगवतः पादयोर्निपत्य पुनरप्येवमाह - तत् साधु भगवां देशयतु निमित्तज्ञानपरिवर्तविसरम्। तद् भविष्यति सर्वसत्त्वानां हिताय सुखाय सर्वमन्त्रचर्याभियुक्तानां बोधिसत्त्वानां महासत्त्वानां शुभाशुभफलोदयनिमित्तलिङ्गानि। यस्ते सर्वसत्त्वा मन्त्रचर्यानुप्रविष्टा साध्यासाध्यं कालनिमित्तं ज्ञात्वा स्थातव्यं, प्रक्रमितव्यमिति पश्यन्ते॥



एवमुक्ते भगवां शाक्यमुनिः मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। तेन हि मञ्जुश्रीः ! शृणु साधु च सुष्ठु च मनसि कुरु भाषिष्येऽहं ते॥



आदौ तावद् भवेल्लिङ्गमुत्पातानां समोदयम्।

महद् भयमनादिस्थममानुषाणां तु चेष्टितम्॥

सर्वे च ग्रहनक्षत्राः कूष्माण्डा ग्रहराक्षसाः।

मातरा देवताश्चैव सर्वे प्रेता महर्द्धिकाः॥

दर्शयन्ति तदा लिङ्गं महोत्पातानां च सम्भवे।

आदिमन्तं ततो मध्यं अशुभं चैव ते तदा॥

भूमिस्थितिर्नाशकं च कथयन्ति विविधाश्रयात्।

सर्वमानुषसत्त्वेषु भूतलेऽस्मिन्निबोधताम्॥

कबन्धा विविधाश्चापि पक्षिणश्च समाकुलाः।

दृश्यन्ते सर्वतो लोके तस्माद् देशादपक्रमेत्॥

रात्रौ शक्रायुधं दृष्ट्वा धनुश्चापि विशेषतः।

शरनाराचपाशाश्च विविधा प्रहरणोद्भवाः॥

दृश्यन्ते गगनाद् रात्रौ तस्माद् देशादपक्रमेत्।

चन्द्रबिम्बे यदाकाशे दृश्यन्ते विकृतरूपिणः॥

कबन्धा पुत्तलाश्चैव नृत्यन्ता गगनालये।

सुषिरं छिद्रमित्याहुर्दृश्यते शशिमण्डले॥

पुरुषा उच्चनीचाश्च युध्यन्तां शशिमण्डले।

दृश्येयुर्मानुषे लोके तस्माद् देशादपक्रमेत्॥

विविधा प्राणहराश्चापि नानाभूतगणास्तथा।

नृत्यमानाश्च युध्येयुस्तस्माद् देशादपक्रमेत्॥

मण्डलाकारंसङ्काशं दृश्यस्थः शशिमण्डलम्।

तादृशं तु ततो दृष्ट्वा तस्माद् देशादपक्रमेत्॥

युद्ध्यन्तां सर्वसङ्ख्यांश्च दृश्यन्ते शशिमण्डले।

एकस्तत्र पतेत् क्षिप्रं यस्य यो दिशिमाश्रितः॥

तं देवदिशिमित्याहुः भूपतिर्मृयते ध्रूवम्।

तादृशं दृष्ट्वा सत्त्वाख्यं विविधाकारसम्भवम्॥

अचिरात् तत्र भयात् क्षिप्रं तस्माद् देशादपक्रमेत्।

शरनाराचशक्तिश्च दृष्ट्वा तत्र निशाकरे॥

तस्करोपद्रवं क्षिप्रं शस्त्रसम्पातजं भयम्।

दृष्ट्वा विकृतरूपास्तु नानासत्त्वसमाश्रयाम्॥

रात्रौ भूतले चन्द्रे तस्माद् देशादपक्रमेत्।

कृष्णवर्णा विहङ्गास्तु शुक्ला चैव सपीतलाः॥

रक्ताश्चैव तथा धूम्राः स्वभावविकृताश्रया।

ते वै विवर्णवर्णास्तु दृश्यन्ते भूतले यदा॥

तादृशं लक्षणं दृष्ट्वा तस्माद् देशादपक्रमेत्।

शुक्ला पक्षा भवेत् कृष्णा कृष्णा पक्षा तथा सिता॥

दृश्यन्ते विकृतरूपास्तु विहङ्गाश्चैव महीतले।

तादृशं लक्षणं दृष्ट्वा तस्माद् देशादपक्रमेत्॥

मृगक्रोष्टुकगणाः सर्वे प्रविशेयुर्ग्राममालयम्।

श्वापदा व्यालिनो धूर्ता म्लेच्छोपद्रवतस्कराः॥

भवेयुर्भयकृतं तेषां दुर्भिक्षं वापि वर्णितम्।

विविधा भूतगणाश्चापि दृश्यन्ते तु महीतले॥

विकृताविकृतरूपिण्यः यक्षराक्षसकिन्नराः।

दिवा रात्रौ तथा नित्यं नृत्यन्ते च महीतले॥

तादृशं लक्षणं दृष्ट्वा तस्माद् देशादपक्रमेत्।

नरनारीकुमारांश्च क्रन्देयुर्भृशं भूतले॥

रात्रौ दिवा तथा नित्यं व्याधिस्तत्र मिहागमः।

उरगा विकृतबीभत्सा दृश्यन्ते वसुधातले॥

गृहे रथ्ये तथा भिन्ध्या मन्दिरे वृक्षसन्निधौ।

सर्वतो व्याप्य तिष्ठन्ते भवेत् तत्र महाभयेम्॥

महामार्योपसर्गं च विषविस्फोटमूर्च्छनम्।

दुर्भिक्षं राष्ट्रभङ्गं च भवेत् तत्र जनागमे॥

विकृताविकृतबीभत्सा पक्षिणश्वानक्रोष्टुका।

ऊर्ध्वतुण्डा यदाकाशे रवन्ते विकृतानना॥

अर्धरात्रौ तु मध्याह्ने उभे मर्त्ये च कुत्सिता।

भवेन्महाभयं क्षिप्रं परचक्रसमागमम्॥

दुर्भिक्षमतिवृष्टिश्च भवेत् तत्र समासतः।

मासमेकेन सप्ताहान्महादुःखोपपीडिताः॥

अन्योन्यं भूतले वासा मानुषा तस्कराग्निना।

महाशस्त्रभयं तत्र तस्माद् देशादपक्रमेत्॥

गगनस्था सर्वतो मेघा दृश्यन्ते च वक्रसम्भवा।

स्फुटाकाराथ रौद्राश्च तीव्रगर्जननादिनः॥

सप्तस्फुटा द्विश्चतुर्वा च दृश्यन्ते उरगाश्रयाः।

सुघोरा घोरवक्राश्च दृश्यन्ते गगनाश्रया॥

तादृशं लक्षणं दृष्ट्वा अचिरात् तत्र महाभयम्।

महामार्योपद्रवं च ज्वरो व्याधिः रोगाश्चैव महाभयाः॥

सद्यः प्राणहराः क्षिप्रं विषाः स्थावरजङ्गमाः।

उत्सृजन्ति तदा मेघां तदा वृष्टिं च दारुणम्॥

नश्यते भूतयस्तत्र अन्योन्या निरपेक्षिणः।

तादृशं लक्षणं दृष्ट्वा तस्माद् देशादपक्रमेत्॥

महाप्रपातदुर्भिक्षमुल्कापातां समन्ततः।

धूमकेतोश्च निर्घातां दिशादाहां कथयिष्यामि ते॥

शृणु प्रपातं दृश्यस्थं उल्किनां चैव जायते।

रात्रौ दिवा समन्ता वै उल्कापातो भवेद् यदि॥

महाभयमनारोग्यं ज्ञात्वा मन्त्री व्रजेत् ततः।

महोल्काज्वलमानाया दिशं गच्छेत् वै सदा॥

तादृशं नृपतीनां भङ्गः यतो वक्त्रं ततो भयम्।

विदिशां पतते उल्कां समन्ताद्वै निशि सर्वदा॥

तत्र देशे महाव्याधिः दुर्भिक्षनृपघातनम्।

दिवारात्रौ यदा उल्का पतते वै समन्ततः॥

तादृशं च भवेन्मृत्युर्नृपतीनां च मन्त्रिणाम्।

तं बुद्‍ध्वा मन्त्रजापी स्याद् ज्ञात्वा तस्माद्देशादपक्रमेत्॥

उल्किनः प्रपते युद्धाद् यतो पुच्छस्ततो भयम्।

अन्या वा दृश्यते भङ्गो नृपतीनां रणसङ्कटे॥

महाक्षोभं तदा चक्रे महोल्का ग्रहचिह्निते।

समन्तात् पतते क्षिप्रं तस्माद् देशादपक्रमेत्॥

यादृशं उल्कमावेश्य आश्रयात् पतते सदा।

तां दिशं व्याधिदुर्भिक्षं राष्ट्रभङ्गं च जायते।

गमनागमनयोर्मृत्युस्तारकाणां तदाश्रयात्।

योऽयं नक्षत्रजातस्थः तस्य मृत्युभयं भवेत्॥

द्विरात्रान्नश्यते जन्तुर्नक्षत्रा पतते भुवि।

नराधिपानां च सर्वेषामेष एव विधिर्भवेत्॥

योऽयं पश्यते देवः इष्टं + ष्वेदमाकुलम्।

रात्रौ दर्शनेऽवश्यं प्रतिमायां दिवा तदा॥

तस्य मृत्युभयं विद्यान्मासैः षट्‍भिस्तदा स्मृतः।

प्रतिमा चलिता यस्य देवतेष्टस्य जन्तुनः॥

हसते रुदते चैव तं देशं वर्जयेत् सदा।

प्रतिमा पतते चैव विशीर्यते वा स्वकात्मना॥

तस्य भङ्गं भवेत् क्षिप्रं गृहाश्चैव नराधिपे।

कुर्वन्ति विविधाकारां लिङ्गां विविधरूपिणाम्॥

प्रतिमा यदि दृश्यस्था देवायतनमन्दिरे।

तादृशं तु ततो दृष्ट्वा तस्माद् देशादपक्रमेत्॥

समन्तात् सर्वतो मन्त्री पश्येयुः प्रतिमां सदा।

विकृतरूपबीभत्सां नानाविकृतमाश्रिताम्॥

स्वयं वा पश्यते मन्त्री अन्यैर्वा भुवि।

तादृशं लक्षणं दृष्ट्वा तस्माद् देशादपक्रमेत्॥

अर्घरात्रे तथा यामे तृतीयेऽर्धे यदि दृश्यते।

तारकाणां महावृष्टिं तस्माद् देशादपक्रमेत्॥

चतुर्थभागे तथा रात्रौ तारका क्षिप्रगामिनः।

खद्योत इव गच्छन्ति तं देशं सर्वतो न भजेत्॥

बसुधातलेन गच्छन्ति तस्मिं देशे ततो व्रजेत्।

यत्र संशयते वृष्टि यत्र गच्छन्ति तारकाः॥

तं देशं मा विशेत् क्षिप्रं यत्र वृष्टि महद् भयम्।

तं देशं नश्यते क्षिप्रं परचक्रसमागमम्॥

दुर्भिक्षं शस्त्रसम्पातं तं विद्यात् देशमाकुलम्।

चोरोरगव्यालानां म्लेच्छधूर्तसमागमम्॥

तं देशं नराधिपां नित्यं प्रवसेत् सर्वतो दिशम्।

विलुप्तराज्यो विभ्रष्टपरचक्रसमाश्रितः॥

वर्षा अष्ट एकं च तं देशं तत्र लेभिरे पुनः।

प्राप्नुयात् तदा राज्यं देशादागमनं पुनः॥

ज्ञात्वा दुपक्रमात् सर्वां विक्रियां क्रिययोजिताम्।

क्रियाकालं समासेन तं जापी आरभेत् सदा॥

उल्कापात महान्तो वै दृश्यते यदि मिश्रितम्।

समन्तान्नित्यकालं च तस्माद् देशादपक्रमेत्॥

उल्किनो बहुधाकारा दृश्यन्ते विविधाश्रया।

विचित्रा चित्ररूपिण्यः यक्षिण्यश्च महर्द्धिकाः॥

ज्वलन्तां वक्त्रदेशाभ्यां क्रव्यादांश्च पिशाचिकाः।

तस्मात् परीक्षयेदुल्कां लिङ्गैरेभिः समोदिताम्॥

अतिदीर्घ तथा ह्रस्वो मध्याश्चैव प्रकीर्तिता।

चतुर्हस्ता द्विहस्ता वा हस्तमात्रप्रमाणतः॥

दृश्यन्ते भूतले मर्त्यैराश्रयन्ते महोदया।

महाप्राणा स्वरूपाश्च देवतैषा महर्द्धिका॥

विचित्राकाररूपास्तु हूतास्ते च दिवौकसाम्।

देवासुरेऽय सङ्ग्रामे वर्तमाने महद्भये॥

शक्रमाज्ञामिह क्षिप्रं गच्छन्तेऽथ भूतले।

जम्बूद्वीपगतां मर्त्यां नराश्यक्षां नराधिपाम्॥

पश्यन्ते सर्वलोकांश्च धर्माधर्मविचारकाम्।

मातृज्ञा पितृभक्ताश्च कुले ज्येष्ठापचायका॥

महामन्त्रधरा सर्वे जापिनो यद्यजाम्बूद्वीपगता नराः।

तदा देवा महोत्सवापि जायन्ते तदा दैत्यां कुर्वन्ते च पराभवम्॥

धर्मिष्ठा भूलते मर्त्या जाम्बूद्वीपनिवासिनः।

महोत्साहं तदा काले तृदशाध्यक्षोऽथ वासवः॥

तदा भग्नवतोत्साहा असुरा भिन्नमानसा।

अभिमानं लभेतां येन पाताले तेन ताः॥

प्रविशन्ते स्वपुरं तत्र भिन्नमाना कृतव्यथाः।

महाप्रमोदं तदा देवा लेभिरे तृदशेश्वराः॥

तदा जम्बूद्वीपेऽथ सर्वत्र सुभिक्षमारोग्यते जनाः।

स्वस्था च सर्वतो जग्मुः नरनारी गतव्यथा॥

तस्मात् सर्वप्रकारेण बुद्धेः भक्तिः कृथे जनाः।

धर्मसङ्घे च भूयिष्ठे गतद्वन्द्वे निरामये।

पूजां कुरुथ मर्त्यातो लालिलिप्सः सर्वसम्पदाम्।

मन्त्रचर्यां तदा चक्रे वव्रे वाचां शुभोदया॥

दशकर्म यथालोकां सम्प्रतिष्ठा निरोपगाम्।

कुरुध्वं जनसम्पातां त्रिधा शुद्धेन मानसाः॥

विरतिः प्राणिवधे नित्यं अदत्तं वापि नाचरेत्।

न भजेदङ्गनादन्यां अगम्यापरिवर्जिताम्। जपेत्॥

सन्तुष्टिः स्वेन धर्मेण सङ्कुरुध्व जनसत्तमाः।

मृषावादं न भाषेत विपाकं यद्यदुःखदम्॥

नाभाषेत् कर्कशां वाणीं सर्वसत्त्वार्थदुःखदाम्।

यत्किञ्चित् क्लेशसंयुक्तां वाचादर्थविवर्जिताम्॥

शून्या धर्मार्थसंयुक्तामभिन्नां नाचरेत् सदा।

पैशुन्यं वर्जयेन्नित्यं वचनं परभेदने॥

क्लिष्टचित्तस्य सर्वत्र निषिद्धं मुनिपुङ्गवैः।

अभिध्यं नाचरेत् कर्म परसत्त्वोपकारिणः॥

यो यस्य सदा सृतं न कुर्याद् द्वेषसमुत्थितम्।

व्यापादं वर्जयेत् कर्म सत्त्वद्वेषमनास्पदम्॥

उपघातं परसत्त्वस्य न कुर्यात् सर्वतो जनाः।

मिथ्यादृष्टिं न कुर्यान्तां सर्वधर्मविनाशिनीम्॥

नास्ति दत्तं हुतं चैव न चेष्टमन्त्रसाधने।

न सिध्यन्ते तथा मन्त्राः सर्वतन्त्रार्थकल्पिताः॥

न बुद्धानां सुखोत्पत्तिः न शान्तं निर्वाणमिष्यते।

न चापि चर्या तथा बोधो प्रत्येकार्थसम्भवाम्॥

न चार्हत्वं भुवि लोकेऽस्मिं नापि धर्मेषु जायते।

स्वभावैषा विविधा लोके अर्थादर्थतथातथा॥

एवमाद्यां अनेकांश्च विविधाकारचिह्निता।

न तां भजेत् सदा मन्त्री पापदृष्टिसमुद्भवाम्॥

दशकर्म यथा प्रोक्ता विरत्या स्वर्गोपगा स्मृताः।

भावना चैव फलं तेषां निर्वाणामर्थसम्भवाम्॥

अनिष्टा तु भवे लोके तदा सुराणां पराजयम्।

दैत्यानां वर्धते मानः अतिदर्पार्थसम्भवाम्॥

जनालये तदा सर्वं जम्बूद्वीपनिवासिनः।

बाध्यन्ते व्याधिभिः क्षिप्रं अन्योन्यां तेऽपि मूर्छिता॥

जनाध्यक्षास्तदा सर्वे अन्योन्यापराधिनः।

क्षिप्रं नश्यन्ति ते सर्वे मुनिधर्मार्थवर्जिताः॥

समरे क्रुद्धचित्तानां शस्त्रसम्पातमृत्यवः।

न ते भेजे देवमुख्यानां तर्जन्यापद्यनालये॥

बुद्धं धर्म तथा सङ्घं न पूजेदशुभा नृपा।

न मन्त्रां जप्तु ते क्षिप्रं ते नृपा तस्थुरे सदा॥

विनश्यन्ते तदा लोका विविधायासमूर्छिताः।

ततस्ते दैत्यवराः क्षिप्रं सुसंरब्धा रुरोह तम्॥

सुमेरुपर्वतमूर्धानमाविशन्ते जनसत्तमाः।

परिषण्डो तदा मेरो विभजेन्मन्दिरा शुभौ॥

समन्ताद्वनविध्वस्तं दिवौकसां कारयन्ति ते।

विविधा रथवरै रूढा नानाभरणभूषिता॥

नानाप्रहरणा दद्युः पुरः श्रेष्ठां पराजयाम्।

ततस्ते खरं भेजे अप्सराणां भज जग्रहे॥

ईश्वराः प्रभवः सर्वे असुरास्ते वलदर्पिताः।

जग्राह सुरकन्यां वै सुधा चैव च भोजनम्॥

ततस्ते सुरवराः श्रेष्ठाः प्रविष्टाः नगरोत्तमम्।

मेरुमूर्ध्नि ततो गत्वा नगरं दर्शनाश्रयम्॥

शक्रानुयाता सर्वे वै पिशिता द्वारपुरोत्तमे।

न तु माया पुरी भीतिः उपजग्मु मुदाश्रयम्॥

निवर्त्य तत्र वै सर्वे स्वालयं जग्मु ते सुरा।

यदेका मन्त्रसिद्धिस्तु निवशेर्जन्युमाश्रयम्॥

जप्तमन्त्रोऽपि वा मर्त्यः निवसं तत्र आलये।

तत्र देशे न चार्तीनि न दुर्भिक्षं न शत्रवः॥

न रोगा नापि भयं विद्याज्जप्तमन्त्रे स्थिते भुवि।

न चास्या दस्यवः सर्वे शक्नुवन्तीह हिंसितुम्॥

न चार्तिमृत्यवस्तत्र अमर्यादा प्रवर्तते।

न रुजा व्याधिसम्मूर्छा ज्वररोगापहारिणः॥

बिभ्यन्ते भूतले तस्मिं जप्तमन्त्रो यदाश्रयः।

येऽत्र मन्त्रवरा ह्युक्ता जिनेन्द्रकुल + द्भवा॥

अब्जाके तु तथा मन्त्रा मन्त्रिणं मन्त्रपूजिताः।

तत्र मन्त्रवरां मन्त्री जह्नुजोपमहर्द्धिकाम्॥

तदा ते सुरवरा श्रेष्ठा असुराणां तु पराजयः।

एवमुक्ता गुणा ह्यत्र दृश्यते भूतले कदा॥

तार्किका विविधाकारा कथयन्तीह महीतले।

ग्रहमेषो इति श्र्त्या अवतारार्थविस्तरा॥

गीतं ऋषिवरैर्ज्ञानमुल्किनां ग्रहचिह्निताम्।

निर्दिष्टं तत्र निर्देशः निघातस्य प्रवक्ष्यते॥

उल्कापाते यदां लोका निर्घातो भुवि मण्डले।

प्रद्युन्नागर्जना कस्माच्छ्रूयते च महीतले॥

भृशं चुचुक्षुत्र तद्देशं तिथिरेभि समायुतैः।

अतुल्यशब्दनिर्घोष रौद्रां वापि तमाह्वयाम्॥

श्रूयते गर्ज च क्षिप्रं महामेघवचः श्रूयते।

षष्ठ्यचमथमष्टम्यां त्रयोदश्यामथ श्रूयते॥

कृष्णपक्षे तथा नित्यं द्वादश्यां तु चतुर्दशी।

नक्षत्रैरेभि संयुक्ता वारैश्चापि ग्रहोत्तमैः॥

अश्विन्यां कृत्तिकानां च भरण्यां यातं निबोधताम्।

पूर्वभद्रपदे चैव आर्द्रामघाश्लेषसंयुक्ते॥

+ + + + + + + + + ग्रहैश्चापि सुपूजिते।

शन्यर्काङ्गारकैः क्रूरैः भूम्या निपतते यदा॥

अवर्षोदकर्मा क्रूरं शब्दो निघात उच्यते।

महद् भयं तत्र देशे वै दुर्भिक्षं राष्ट्रमर्दनम्॥

परचक्रभयं विद्यान्नानाव्याधिमहद्भयम्।

निर्घातं पतते चोर्व्यां नक्षत्रैरेभि कीर्तितैः॥

वारैरशुभैश्चापि ग्रहैः कृष्णरक्तकैः।

तत्र देशे नृपो भृशं हन्यते शस्त्रिभिः सदा॥

तस्मिं काले रौद्रे च कर्माणि तत्र देशे तदा जपेत्।

विविधा व्याधयस्तत्र अर्थनाशश्च दृश्यते॥

मृत्युस्तत्र भवेद् व्याधिर्दुर्भिक्षैश्चापि निन्दितैः।

अनावृष्टि सदाकाले द्वादशाब्दानि निर्दिशेत्॥

पश्चिमां दिशमाश्रित्य प्रपते भूतले नभात्।

निर्घातं मृत्युसङ्कीर्णं दृश्यते मृत्युतस्करैः॥

मध्याह्ने तु तदा काले युवाप्यस्तमितेऽपि वा।

उदयन्तं भास्करं रक्ते सुशब्दैः श्रावकैरेवम्॥

त्रिःसन्ध्यात् कुत्सितः शब्दः शेषकाले तु तुष्टये।

अर्धरात्रे यदा शब्दः निर्घातस्य महद् भयम्॥

गुप्तां पुरवरां तत्र कारयन्तु नृपोत्तमा।

नानाम्लेच्छगणा धूर्ता तस्कराधिष्ठितापि ते॥

परद्रव्योपकारार्थं कुर्वन्तीह महीतले।

शेषकाले भवेच्छब्दः निर्घातस्य सुपुष्कलम्॥

मन्त्रिमुख्यो भवेत् तत्र बहुव्याधिसमाकुलम्।

बहुव्याधितत्वं च नृपास्तस्य विधीयते॥

पत्नी वा हन्यते तस्य मन्त्रिमुख्यस्य हन्यतः।

सर्वे सौल्किकास्तत्र नानाजातिसमाश्रिताः॥

हन्यन्ते मृत्युना तेऽपि तथा जीवकसेवका।

प्रकृष्टा वणिजा मुख्या नियुक्ता सर्वतो नृपाः॥

मध्याह्नपरिमित्याहुः ऋषिभूतो रवे तदा।

निर्घातमतुले शब्दं यदा शुश्रावते जनाः॥

व्याधिभिर्व्यस्तसर्वत्र भवतीह महीतले।

अन्यथा तुमुलं शब्दो यदि शुश्राव मानवा॥

अकस्मात् सर्वतो नित्यं नृपस्तत्र न जीवते।

दक्षिणां दिशमाशृत्य निर्घातो पततेच्छुभः॥

विद्युच्चोर्ध्वं तथा वृष्टिरचिरात् तं विनिर्दिशेत्।

पूर्वायां दिशिमाश्रित्य शुश्रुवः यदि नादिते॥

निर्घातस्य भवेत् तत्र प्राच्याध्यक्षो विनश्यति।

हिमाद्रिकुक्षिसन्निविष्टा जनास्तत्र निवासिनः॥

शुश्राव शब्दं महाभैरवे ग्रहे चिह्निते।

तस्मिं देशे जनाध्यक्षो विनश्यन्ते म्लेच्छतस्कराः॥

वत्से वत्साश्च ये मुख्या नेपालाधिपतिस्तदा।

हन्यन्ते शत्रुभिः क्षिप्रं नानाद्वीपनिवासिनः॥

विदिक्षु भैरवंं नादे ऊर्ध्वमुत्तरतो भवेत्।

कामरूपेश्वरो हन्या गौडाध्यक्षेण सर्वदा॥

लौहित्यात् परतो ये वै जराध्यक्षाथ जीविना।

कलशाह्वा चर्मरङ्गाश्च समोतद्याश्च वङ्गकाः॥

नृपांश्च विविधां हन्या सशब्दे भैरवा ग्रहे।

पूर्वदक्षिणतो भागे यदि शब्दो महद् भयम्॥

कलिङ्गा कोसलाश्चैव सामुद्रा म्लेच्छवासिनः।

हन्यन्ते शस्त्रिभिः क्रूरैः तदाध्यक्षाश्च नृपा चराः॥

पूर्वपश्चिमतो भागे यदा शब्दो महान् भवेत्।

मेघगर्जनवत् क्रूरो दिवारात्रौ महाम्बुदे॥

तं निर्घातमिति वेद्मि देवसङ्घा निबोधताम्।

शुभाशुभं तदा चक्रे मानुषाणां जनोत्तमाः॥

यदा शुभे च नक्षत्रे लग्ने चापि शुभोत्तमे।

तिथिश्रेष्ठे सिते चापि शब्दो शुश्राव मेदिनीम्॥

शुभो सुभिक्षमारोग्यं सम्पत् क्रीडाय साधनम्।

सिद्धमन्त्रस्तु जायेत् वरदा जापिनां सदा॥

तदा काले भवेत् सिद्धिः सर्वकर्मसु योजिता।

क्रूरैर्ग्रहैश्चापि विद्यात् शुभैश्चापि फलोदया॥

कर्मसिद्धिर्भवेत् तत्र सर्वकर्मसु योजिता।

निर्घाता बहुधा प्रोक्ता क्ष्मातलेऽस्मिन निबोधता॥

केचित् प्राणहराः सद्यः केचित् सत्यफलोदया।

सर्वार्थसाधना केचिच्छब्दा गम्भीरनादिनः॥

तं च शब्दं श्रुयात् क्षिप्रं देवसङ्घा निबोधताम्।

धीरो गम्भीरयुक्तश्च स्तनितं चापि गर्जिते॥

दीर्घदुन्दुभयो यद्वत् तच्छब्दसम्मुखावहम्।

स शब्दो भैरवः क्रूरो यथानिर्दिष्टकारकः॥

उल्कापातसमे काले भूमिकम्पान्न जायते।

शब्दं क्रूरनिर्घोषं निर्दिशं चापि योजयेत्॥

महद् भयं तदा विद्यात् सर्वनिर्देशभामिमाम्।

सत्त्वाघातं ततो विद्यात् दुर्भिक्षं व्याधिसम्भवम्॥

अमानुषं च तदा चक्रे मायोपद्रवादिकम्।

भूपालां तदा मृत्युर्दिवसैस्त्रिंशविंशतिः॥

यथोद्दिष्टकराः सर्वे शब्दा रौद्रनिनादिते।

भूमिकम्पं तु निर्दिक्ष्ये कथ्यमानं निबोधत॥

नक्षत्रेष्वेव कम्पा ये + + + + + + + + + + + + + ।

तिथिभिः सर्वत्र योज्यं स्यान्नक्षत्रं चापि युक्तवाम्॥

निर्घाते यथा सर्वं कर्मेष्वेव योजयेत्।

अश्विन्यां चलिता भूमिर्दुर्भिक्षं चापि निर्दिशेत्॥

भरण्यां कृत्तिकां चैव उभौ कम्पौ सुखौदयौ।

रोहिण्यां मृगशिरः कम्पो जायते अर्थसम्पदः॥

आर्द्रः पुनर्वसुश्चैव नक्षत्रा परिचिह्नितौ।

एषु कम्पेद् यथा पृथ्वी तत्र देशे महद्भयम्॥

मध्यदेशा विनश्यन्ते तद्देशाश्च नराधिपाः।

पुष्ये यदि कम्प्येत मूर्वी भूतलवासिनीम्॥

तत्र देशे शिवं शान्तिं सुभिक्षमारोग्यं विनिर्दिशेत्।

आश्लेषायां चलते क्षिप्रं कृत्स्ना चैव वसुन्धरा॥

तत्र देशे समाकीर्णं म्लेच्छतस्कररौद्रिभिः।

मघासु चलिता भूमिः सर्वेष्वेव न सर्वतः॥

अङ्गदेशे विनश्यन्ते मागघो नृपतिस्तथा।

मागधा जनपदाः सर्वे पीड्यन्ते व्याधितस्करैः॥

उभौ फल्गुननक्षत्रे क्ष्माकम्पो यदि जायते।

हिमाद्रिकुक्षिसन्निविष्टा गङ्गामुत्तरतस्तदा॥

हन्यन्ते व्याधिभिः क्षिप्रं वृजिमैथिलवासिना।

वैशाल्यामधिपाः सर्वे हन्यन्ते अर्तिभिस्तदा॥

विविधा म्लेच्छमुख्यास्तु हिमाद्रेः सानुसम्भवाः।

निवस्ताः कुक्षिमध्ये वै नितम्बेष्वेव द्रोणयः॥

म्लेच्छाध्यक्षवरा मुख्या हन्यन्तेऽस्त्रिभिः सदा।

हस्तचित्रौ यदा भूमिश्चलते सन्ध्ययोर्यदा॥

म्लेच्छतस्करनराध्यक्षा हन्यन्ते शस्त्रिभिः सदा।

स्वात्या विशाखयुक्त्या वै नक्षत्रेष्वेव योजिता॥

चलते मेदिनी कृत्स्ना दृश्यन्ते वणिजा परे।

वणिजाध्यक्षवराः श्रेष्ठा मुख्याश्चैव शुक्लिनः॥

व्याधिभिः शस्त्रसम्पातैर्विनश्यन्ते जलचारिणः।

अनुराधे ज्येष्ठविख्याते नक्षत्रेष्वेव सर्वदा॥

भ्रमते वसुमती कृत्स्ना नमते चापि दारुणम्।

यदा उन्नतनिम्नस्था पर्वता निम्नगा वरा॥

क्ष्मातलं कम्पते क्रूरं उभे सङ्घ्ये तदा परे।

भवेत् तत्र भयं क्षिप्रं दुर्भिक्षं चापि निन्दितम्॥

मरणं दिवसैः षड्‍भिर्महानृपस्य भवेत् तदा।

नश्यन्ते पुरवरा क्षिप्रं मध्यदेशेषु ते जनाः॥

ईषच्च चलिता भूमिरनुराधायां शुभोदया।

सस्यनिष्पत्ति सर्वत्र मध्या यदि जायते॥

मूलाषाढामिति ज्ञेयं नक्षत्रेष्वेव कम्पते।

पूर्व उत्तराषाढे तृधा दुःखसमोदये॥

व्याधिदुर्भिक्ष सर्वत्र तस्करादिभि पीड्यते।

मेदिनी सर्वतो ज्ञेया यदि कम्पो भवेद् दिवा॥

श्रवणासु चलिता भूमिर्धनिष्ठेष्वेव सर्वतः।

सुभिक्षमायुरारोग्यं दुर्भिक्षैश्चापि वर्जिता॥

मेदिनी सस्यसम्पन्ना यदि कम्पो भवेन्निशम्।

शतभिषे भद्रपदे चापि यदि कम्पेत मेदिनी॥

दुर्भिक्षं राष्ट्रभङ्गं वै दृश्यते तत्र आस्पदे।

हन्यते तस्करे मर्त्या दुर्भिक्षं चापि कुत्सितम्॥

भवन्ति भूतले मर्त्या अर्धरात्रे निशि कम्पते।

उत्तरासु च सर्वासु रेवत्यासु च कीर्त्तिता॥

उभौ नक्षत्रौ सर्वत्र रेवती भद्रपदस्तथा।

एतेष्वेव हि सर्वत्र यदा कम्प अजायत॥

नक्षत्रेष्वेव पूर्वोक्तकम्पो दृष्टः सुखावहः।

एते कम्पा समाख्याता निर्घाता वरचिह्निता॥

उल्कापातसमे काले त्रिदोषा जन्तुपीडना।

निर्याते च यदा पूर्विं निर्दिष्टं विस्तरान्वितम्॥

गुहास्तत्रैव कर्तव्या सर्वं चैव दिशाह्वये।

सरवः कम्पनिर्दिष्टः सालोकश्चापि सुखान्वितम्॥

सिद्धिकाले तदा सर्वे दृश्यन्ते मन्त्रजापिनाम्।

योगिनां च तथा सिद्धि अभिक्षां तु सम्भवे॥

बोधिसत्त्वानां तथा जाते बुद्धबोधिं च प्राप्तये।

प्रभावा ऋषिमुख्यानां ऋद्‍ध्या वर्जितचेतसाम्॥

सुरश्रेष्ठस्तदा काले आगमं चापि कीर्तयेत्।

सालोका सरवा मूरी घोषनिःस्वनगर्जनम्॥

कम्पमुत्पद्यते क्षिप्रं एतेष्वेव च कारणैः।

निःशब्दा च निरालोका यदा कम्पेत मेदिनी॥

नारकाणां तु सत्त्वानां चलितानां तु निर्दिशेत्।

दुःखं बहुविधैः खिन्ना मया कायाति भीषणा॥

तेषां च कर्मजं दुःखं पश्यमावृत्ति दृश्यते।

कथितां कर्मनिर्घोषां तं जनानृषिसत्तमा॥

निबोध्यमखिलं सर्वं धारयध्व सुखेच्छया।

केतुना दृश्यते सर्वं गगनस्थं तु कीर्तयेत्॥

रात्रौ दिवा च कथ्येते दृश्यन्ते चोत्तरा नभे।

मध्याह्नि सर्वत्र दृश्यते दीर्घतो ध्रुवा॥

धूम्रवर्णा महारश्मा धूमायन्तं महद् भयम्।

यदेव देशमाशृत्य धूमयेत नभस्तलम्॥

तदेव देशे नृपो ह्यग्रो हन्यते व्याधिभिर्ध्रुवम्।

यदेव ग्रहमाशृत्य वारं नक्षत्रमुज्ज्वला॥

दृश्यते धूम्ररेखायाः गगने चापि उज्ज्वलम्।

तदेव राशिनक्षत्रं ग्रहं चैव सुलक्षयेत्॥

तदेव हन्यते जन्तुः शस्त्रिभिर्व्याधिभिस्तदा।

यस्मात् तु दृश्यते रेखा धूम्रवर्णा महद्भया॥

तं देशं नाशयेत् क्षिप्रं ग्रहः क्रूरो न संशयः।

स्निग्धा च नीलसङ्काशा धूम्ररेखामजायत॥

तच्छिवं शान्तिकं विद्यादायुरारोग्यवर्धनम्।

रूक्षवर्णा विवर्णा वा धूम्रवर्णा तु निन्दिता॥

प्रशस्ता शुक्लसङ्काशा चतुरश्मिसमुद्भवा।

सौम्या कीर्तिता नित्यं शुभवर्णफलप्रदा॥

कीर्तिता पुष्पलक्ष्मीकं तं विद्याद्यत्र मा तिथाः।

हिमपुञ्जनिभा शुभ्रा स्निग्धस्फटिकसन्निभा॥

सोमसौम्य विज्ञेया रूक्षवर्णसमप्रभा।

कल्याणं चार्थनिष्पत्तिं दुःखनिर्वाणते दृशम्॥

+ + + + + ++ + + + + यस्मिन् देशे समोदिता।

नक्षत्रे वापि युक्तेऽग्रे तले तारकमण्डले॥

निर्गते नभसि विख्याते दृश्यते यं महीतले।

सर्वा समन्तादायुरारोग्यं जाता ये तारकाश्रयाः॥

प्रभविष्णु भवेत् तत्र सुखी धर्मचरः प्रभुः।

श्रेष्ठो जायते मर्त्यः तस्मैः नक्षत्रमाश्रयेत्॥

ग्रहे वा शुचिते प्रोक्ता सर्वदुःखनिवारणी।

रेखा च दृश्यते यत्र तं विद्यात् सुखसमर्पितम्॥

प्रहृष्टरूपसम्पन्नस्निग्धाकारभूषितम्।

रेखा नभस्तले याता धूमायन्ती महद्भया॥

ततोऽन्यश्रेयसि युक्ता प्रशस्ता वापि नभस्तले।

शिवं सुभिक्षमारोग्यं तं देशं विदुर्बुधाः॥

धार्मिकं तत्र भूयिष्ठं धूमकेतोरजायते।

सिता स्फटिकसङ्काशा प्रभाः सञ्चेयु सर्वतः॥

एकशः श्रीमतो ख्याताः तारकेऽस्मिं नभस्तले।

ततः स्फटिकसङ्काशा रश्म्या चापि मूर्तिजः॥

प्रभवः श्रीमतः ख्यातः तस्मिन् नक्षत्रमाश्रयेत्।

केतवो बहुधा हुक्ता सहस्रौ द्वौ त्रयोऽथ वा॥

त्रिंशमेकं च बहुधा नानाकर्मफलोदया।

केचिच्छ्रेष्ठा तथा मध्या केचिद्धर्मपरान्मुखाः॥

उदयन्तं तदा केचिन्महद्भयसुदारुणा।

स्निग्धाकारसमा ज्ञेया स्फटिकाकारसमप्रभा॥

स्निग्धा शोभना ज्ञेया स्फटिकाकारसमप्रभा।

स्निग्धा शोभना ज्ञेया चारुवर्णाल्पभोगता॥

केचित् तिर्यगः क्रूरा उत्तरा दक्षिणा परा।

श्रेयसा चैव भूतानां उदयन्ते शशिसमप्रभा॥

महाप्राणा विकृतास्तु अतिदीर्घा नृपनाशना।

मध्ये उदिता ह्येते प्राच्यावस्थितरश्मिजाः॥

पूर्वपश्चिमतो याता पूर्वदेशाधिपतिं हनेत्।

पूर्वपश्चिमतो याता पश्चाद् देशा नृपतिं हनेत्॥

समन्ताद् रश्मिजातायाः समन्ताद् दुर्भिक्षमादिशेत्।

विदिक्षा ह्युदिता ह्येते म्लेच्छप्रत्यन्तगणधिका॥

निहनेत् सर्वतो याता तस्मिं स्थाने समादिशेत्।

धूम्रवर्णा विवर्णास्तु रूक्षवर्णा महाभयाः॥

प्रभवः सर्वतो याता सर्वप्राणिषु आदिशेत्।

दिवा सर्वतो नित्यं मध्याह्ने यदि दृश्यते यदा॥

महद् दुःखं महोत्पातं नृपतीनां तदा विशेत्।

यत्र तिर्यग्गता रेखा यत्र स्थिते समोदिता॥

तत्रस्था नृपतिं हन्ति यस्मिं देशे समागता।

दिवा विदिक्षु निर्दिष्टा महाव्याधिसमागमम्॥

तस्करोपद्रवां मृत्युं तस्मिं स्थाने समादिशेत्।

नीलवर्णं यदाकाशे दिवा पश्येत केतवम्॥

विविधायासदुःखैस्तु विविधोपद्रवभूमिपा।

समन्तात् कथिता ह्येते महादुःखभयानकाः॥

यातिरौद्रा विदाह्युक्ता रात्रौ केचित् शुभोदया।

रक्तवर्णं यदा पश्येत् केतुश्चन्द्रसमाश्रितम्॥

रुधिराक्तां महीं क्षिप्रं शस्त्रसम्पातितं तदा।

पृथिव्यां क्षिप्रमसृक्र + + रात्र्यवसुन्धराम्॥

बहुसत्त्वोपघाताय बहुदुःखनिराश्रयम्।

जायन्ते जनपदास्तत्र यस्मिं स्थाने समादिशेत्॥

पीता च पीतनिर्भासा दृश्यते व्योम्नि मूर्तिना।

हरिद्राकारसङ्काशा हरितालसमप्रभा॥

हेमवर्णा यदाकाशे केतवो उदयन्ति वै।

तत्र विद्यान्महद् दुःखं सर्वसत्त्वेषु लक्षणम्॥

महामारिगताध्यक्षो जनास्वेव निबोधिता।

द्वादशाब्दं तथा हन्ति अनावृष्ट्योपद्रवादिषु॥

अतिकृष्णा रौद्रमित्याहुरतिधूम्रास्तु वर्जिता।

अतसीपुष्पसङ्काशा पावकोच्छिष्टवर्जिता॥

महामेघसमाकारा नीलकज्जलवर्णिता।

वराहाकार तथा केचित् परपुष्टसमप्रभा॥

दृश्यन्ते गगना घोरा तस्माद् देशादपक्रमेत्।

महाक्रूरा तथा रौद्रा दृश्यन्ते क्रूरकर्मिणः॥

महादुःखं महाघोरं मार्योपसृष्टिरेव वा।

महादुर्भिक्षमित्याहुस्तस्मिं देशे भयानकम्॥

ओड्रपुष्पसमाकारं रक्तभास्करविद्विषम्।

असृग्वर्णं यदा पश्येदुदितं केतुनभस्तलम्॥

सर्वत्र व्याधितद्वेगं बहुसत्त्वोपरोधिनम्।

नृपतीनां तदा मृत्युस्तत्क्षणादेवमादिशेत्॥

अकस्मात् पश्यते यो हि नरो वा यदि वा स्त्रियः।

तस्य मृत्यु समादिष्टं सप्ताहाभ्यन्तरेण तु॥

द्विरात्रैस्त्रिभिर्वापि दिवसैः शस्त्रिभिर्हन्यते।

तदा दिवा वा यदि वा पश्येदकस्मान्निशिरेव वा॥

तस्य मृत्यु समादिष्टा तत्क्षणादेव भूतले।

विषेण हन्यते जन्तुः शस्त्रिभिर्वा न संशयः॥

शुक्ला स्निग्धवर्णाश्च निशिरेव सुखोदया।

अन्यथा दर्शनं नेष्टं विविधाकाररूपिणाम्॥

स्वकायपरकाये वा यदि केतुसमाश्रिता।

रात्रौ चापि दिवा चापि सद्यः प्राणहराः स्मृता॥

शुक्लवर्णां यदा पश्ये शशिगोक्षीरसमप्रभाम्।

हिमकुन्दसमाकारां नानारत्नसमप्रभाम्॥

तस्य राज्यं समाख्यातं सिद्धिर्वा मन्त्रजापिने।

एते केतवो इष्टा शरीरे मन्दिरेऽपि वा॥

स्वसैन्यपरसैन्ये वा यत्रस्थं तत्र फलप्रदम्।

तमाहुः कीर्तितां श्रेष्ठां नानाचित्रसमप्रभाम्॥

दृश्यन्ते सर्वतो मर्त्यैः बह्वानर्थावहाः स्मृताः।

सर्वतः कथिता मर्त्यैर्विग्रहे मन्दिरेऽपि वा॥

केतवः सिद्धकायानां सर्वेष्टाः सफलाः स्मृताः।

अन्यथा कुत्सिताः सर्वे बहुदुःखभयप्रदाः॥

सर्वे वै कथिता ह्येते केतवो ग्रहचिह्निताः।

पूर्ववत् कथितं सर्वं तिथिनक्षत्रराशिजाः।

विविधैर्वारयोगैस्तु ग्रहैश्चापि महर्द्धिकाः।

पूर्ववत् सर्वमित्येषां कथिताः सर्वतः लोके॥

तदा सर्वे ते संज्ञिनो केचिच्चारुसमप्रभा।

चित्रा क्वचित्ततः शुभ्रः स्निग्धो वर्णतः शुभः॥

सुनेत्रो नेत्रनामः शुशिकुन्दसमप्रभः।

सुभ्रू सुनयनश्चैव रुग्मवर्णः सहेमजः॥

सर्वे सिता विचित्राश्च नानानामसमोदिताः।

षड्वर्णानामपि तेषां केतूनां निबोधिता॥

नानावर्णरूपाणां तत्संज्ञाश्च प्रयोजयेत्।

नानाविकृतिनो येऽपि घोराः सुदारुणाः॥

ये मया कथिता पूर्वं तत्संज्ञाश्च सर्वतः।

एवमाद्याधिका प्रोक्ता केतवो बहुरूपिणः॥

मानुषाणां तदा चक्रे शुभाशुभफलोदयाः।

विग्रहा ग्रहमुख्यानां दृश्यते च समन्ततः॥

देवासुरे च युद्धे वै दर्शयन्ति तदात्मनाम्।

महाप्रभावा महेशाख्या दिव्या दिव्ययोनयः।

सिताः शुभोदयाः सर्वे देवपर्षत्समाश्रिताः।

विकृताविकृतरूपास्तु कुत्सिता विकृतवर्णिनः॥

सर्वे वै असुरपक्षे तु क्रूरकर्मान्तचारिणा।

यदा देवासुरे युद्धे वर्तमाने महद्भये॥

असुराः पराजिता देवैः केतवः सूचयन्ति ते।

दर्शने भू(त)ले मर्त्यं प्रदद्युः सर्वतो नभः॥

सिताः शुभफला नित्यमिष्टाश्चैव सुरप्रिया।

दर्शयन्ति तदात्मानं देवपक्षसमाश्रिताः॥

मर्त्यानां तदा क्षिप्रं सुभिक्षमारोग्यविनिर्दिशेत्।

असुरैर्निर्जिता देवा यदा काले भवन्ति वै॥

तदा विकृवर्णास्तु क्रूरकर्मनियोजिता।

असुराणां तदा पक्षे केतव उदयन्ति वै॥

तदा सर्वतः क्रूरा वाता वायन्ति जन्तुनाम्।

महावृष्टिमनावृष्टिनागाश्चैव क्रूरिणः॥

मुमोच विषजां तोयं बहुव्याधिसमाकुलम्।

मानुषाणां तदा चक्रे विषविस्फोटमूर्च्छनम्॥

विविधा राक्षसा चैव दैत्ययक्षसमाश्रिता।

कुर्वन्ति मानुषां हिंसामतिदारुणविघ्नकाम्॥

प्राणोपरोधिनं दुःखं कुर्वन्तीह महीतले।

अश्मवृष्टिं तदाकाशे प्रपतेद् भूतले तदा॥

महावाताः प्रवायन्ति तस्मिं काले तु भीषणाः।

प्रचण्डा वायवो वान्ति बहुसत्त्वापकारिणः॥

नानातिर्यगता प्राणा सस्यनाशं प्रचक्रिरे।

बहुभूतगणाः क्रूरा कुर्वन्तीह च भूतले॥

मानुषाणां तदा विघ्नं चक्रिरे प्राणोपरोधिनाम्।

एवंप्रकारा ह्यनेकाश्च बहुविघ्नसमाश्रया॥

नानातिर्यग्गताश्चैव चण्डाः श्वापदमौरगाः।

विविधा नागयोनिस्था सत्त्वानामपकारका॥

प्राणोपरोधिनं कुर्वन्ति विविधा म्लेच्छतस्करा।

कपिला भासतो वर्णा वाता क्रूराश्च अग्निजाः॥

वायन्ति विविधा लोके यदा देवपराजयेत्।

अधर्मिष्ठा तदा मर्त्या जाम्बूद्वीपगता सदा॥

तदा ते देवपक्षास्तु हीयन्ते दैत्ययोनिभिः।

यदा धर्मवतः सत्त्वा भूतलेऽस्मिं समागता॥

बुद्धधर्मरताः श्रेष्ठा सङ्घे चैव सदा वरा।

मातृपितृभक्ताश्च सत्यसत्त्वा जपे रता॥

तदा ते सर्वतो देवा निर्जिजे दैत्ययोनिजम्।

तदा सस्यफलसम्पन्ना बहुपूर्णा वसुन्धरा॥

दीर्घकालायुषो मर्त्या बहुसङ्ख्यपरायणा।

धार्मिका नृपतयः सर्वे सुखदाः सौख्यपरायणाः॥

तदा तासु सुखा दैत्या ह्लादिनो व्याधिनाशकाः।

भवेयुः सर्वे ते लोके सुखकारणशीतलाः॥

नातिशीता न चोष्णा वै ऋतवः सुखदा सदा।

नानापक्षिगणाश्चैव कूजयेन्मधुरं सदा॥

बहुपुष्पफलाढ्या तु तरवः सर्वतो शुभा।

सर्वे व्याधिविनिर्मुक्ता जन्तवो भूनिवासिनः॥

न चोद्वेगं तदा चक्रे नृपतिर्धार्मिको भवेत्।

बहुधान्यसुखाश्चैव नानारत्नथ मन्दिरम्॥

पश्यते सर्वयोन्यांस्तु जम्बूद्वीपगता नराः।

फलाढ्या तरवो नित्यं बहुक्षीराश्च धेनवः॥

धर्मायतनशत्राश्च कूपवाक्य समन्ततः।

कुर्वन्ते च जनाः सर्वे जम्बूद्वीपगता नराः॥

बहुधा बहुविधाश्चैव प्राणिधर्मरतः स्थिताः।

समन्तात् सर्वतो तेषां यस्य पूर्णा वसुन्धरा॥

विपरीता तदन्यथा तेषां भ्रष्टमर्यादचेष्टिताम्।

कर्मे युगाधमे काले अन्यथा फलमादिशेत्॥

निःफलं सफलं चैव + + + + + + + + + + ।

विकृतं हेतुजं कर्म अशुभा चैव कामयेत्॥ इति।



बोधिसत्त्वपिटकावतसंकान्महायानवैपुल्यसूत्राद्

आर्यमञ्जुश्रियमूलकल्पाच्चतुर्थो निमित्तज्ञानमहोत्पादपटलपरिवर्तः

परिसमाप्त इति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project