Digital Sanskrit Buddhist Canon

अथ एकोनविंशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Atha ekonaviṁśaḥ paṭalavisaraḥ

अथ एकोनविंशः पटलविसरः।



अथ खलु भगवान् शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म॥



अस्ति मञ्जुश्रीः ! तृतीयमपि ज्योतिषज्ञाननियमपरिवर्तं भाषिष्ये पूर्वकैः सम्यक् सम्बुद्धैर्भाषितं चाभ्यनुमोदितं च त्वदीयमन्त्रतन्त्रार्थकल्पितम्। शृणु साधु च सुष्ठु च मनसि कुरु॥



एवमुक्ते भगवता शाक्यमुनिना मञ्जुश्रीः कुमारभूतो बोधिसत्त्वो महासत्त्वः उत्थायासनादेकांशमुत्तरासङ्गं कृत्वा, दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य, येन भगवां, तेनाञ्जलिं प्रगृह्य, भगवन्तमेतदवोचत्। तत् साधु भगवां भाषतु ज्योतिषज्ञानपटलविसरम्। तद् भविष्यति सत्त्वानामर्थाय हिताय सुखाय। देवमनुष्याणां सर्वमन्त्रचर्यानुप्रविष्टानां च सत्त्वानामनुत्तरायां सम्यक् सम्बोधो, अभिप्रस्थितानां च, उपायकौशल्यमन्त्रचर्या सुखेन साधयिष्यन्ति। सर्वसत्त्वानुकूलं योगविधानकर्मानुकूलं कालनियमनिष्यन्दितकर्मस्वकतां नक्षत्रवारग्रहयोनिक्षेत्रराशिसमोदयाम्। तद् भविष्यति सुखसाधनोपायं मन्त्रानुवर्तनं सुखविपाकं तद् भविष्यति ते बोधिसत्त्वानां विष्पन्दितविकुर्वण ऋद्ध्यधिष्ठानम्॥



एवमुक्ते मञ्जुश्रिया कुमारभूतेन अथ भगवां मञ्जुश्रियं कुमारभूतमेतदवोचत्। साधु साधु मञ्जुश्रीः! यस्तथागतमेतमर्थं परिपृच्छसे। तेन हि शृणु साधु च सुष्ठु च मनसि कुरु। भाषिष्ये सर्वसत्त्वानामर्थाय॥



एवमुक्ते मञ्जुश्रीः कुमारभूतो भगवतश्चरणयोर्निपत्य, निषण्णो धर्मश्रवणाय॥



अथ भगवां सर्वावन्तं शुद्धावासभवनमाभया स्फुरित्वा, सर्वबुद्धावलोकनद्योतनीं नाम समाधिं समापद्यते स्म। समनन्तरसमापन्नस्य भगवतः कायान्नीलपीतावदातमाञ्जिष्ठस्फटिकवर्णादयो रश्मयो निश्चरन्ति स्म। निर्गत्य च सत्त्वानां बुद्धक्षेत्रां अवभास्य, सर्वाणि च ग्रहनक्षत्रयोनिं समाश्रयराशितारां भवनान्यवभास्य, गगनतलगतां नरकतिर्यक्प्रेतदेवभवनमनुष्यसर्वसत्त्वभवनानि चावभास्य सर्वदुःखानि च प्रतिप्रस्रभ्य सर्वसत्त्वानां पुनरेव भगवतः शाक्यमुनेः कार्येऽन्तर्द्धीयते स्म॥



अथ भगवान् शाक्यमुनिस्तस्मात् समाधेर्व्युत्थाय सर्वां तां नक्षत्रग्रहराशिदेवसङ्घानामन्त्रयते स्म। शृण्वन्तु भवन्तः सर्वनक्षत्रदेवसङ्घाः ! यो ह्यस्मिन् धर्मविनये मन्त्रचर्यायां समनुप्रविष्ट इह कल्पविसरे तत् साधयेत् सर्वमन्त्राणां सर्वद्रव्यकर्मविधानादिषु, न भवद्भिस्तत्र विघ्नं कर्तव्यं सर्वैरेव सन्निपतितैः रक्षाविधानसान्निध्यं कथयितव्यम्। यो ह्येनं समयमतिक्रमेत्, तस्य यमान्तकः क्रोधराजा सर्वनक्षत्रग्रहाणां तत्क्षणादेवमपर्यन्तलोकधातुस्थितानां ससुतानां सबान्धवां सपार्षदानानयति स्म, सर्वेषां च मूर्धनि स्थित्वा पादेनाक्रम्य विविधानि क्रूरकर्मऋद्धिप्रातिहार्याणि दर्शयति स्म, बुद्धाधिष्ठानेन प्राणैर्वियोजयति स्म, समये च स्थापयति स्म, विकृतरूपमात्मानं दर्शयति स्म, अन्ते सर्वभूतयक्षराक्षसनक्षत्रग्रहराशयो निसत्त्वगरुडमरुतमहोरगगणा सर्वैर्भीतास्त्रस्ताः, थरथरायमानाः, महाविक्रोशं कुर्वाणः भगवतः पादयोर्निपत्य प्रकम्प्यमाना एवमाहुः - परित्रायस्व भगवन् ! परित्रायस्व। सुगत अनाथाः स्म, अत्राणाः स्म, महाक्रोधराज भयभीता जीवितं नो भगवान् समनुप्रयच्छास्माकम्। इत्येवमुक्त्वा तूष्णीम्भूताः प्रवेपमानगात्राः॥



अथ भगवान् शाक्यमुनिः। तां नक्षत्रग्रहसङ्घातांश्च यक्षराक्षसप्रेतपिशाचमातरगणानामन्त्रयते स्म। मा भैष्टथ मार्षाः ! भो भैष्टथ मार्षाः ! नास्ति अथागतानामन्तिक उपसङ्क्रान्तानां भयं वा मरणं वा। सर्वदुःखा निवार्यो हि मार्षाः ! बुद्धं शरणं गच्छेद्, विपदानामग्र्यं धर्मं शरणं गच्छेद्, विरागाणामग्र्यं सङ्घं शरणं गच्छेद्, गणानामग्र्यं न तस्य भवति लोमहर्षम्। वाञ्छन्ति तत्त्वो वाकः पुनर्वादो मृत्युभयं सर्वभयदुःखेभ्यो मुक्त एव द्रष्टव्यः। सर्वसांसारिकं भयं न कदाचिद् विद्यते। दुःखोपशमं शान्तिं निज्वरं सन्नियतं बोधिपरायणं पदमवाप्नुयादिति॥



अथ तत्क्षणादेव भगवता तेषां सर्वदुःखानि ऋद्ध्या प्रतिप्रमुग्धानीति यमान्तकश्च क्रोधराजा भगवतश्चरणयोर्निपत्य, मञ्जुश्रियस्य कुमारभूतस्य समीपे सन्निषण्णो धर्मश्रवणाय॥



सर्वे च ते ग्रहनक्षत्रगणाः सर्वदुःखानि च प्रतिप्रस्रभ्यन्ते स्म। सर्वश्च केतवो प्रशान्ता निषण्णाश्च धर्मश्रवणाय स्वस्थीभूता एकाग्रमनसो भगवन्तं व्यवलोकमाना विस्मयोत्फुल्लनयना + द्विल्पमनसश्च संवृत्ता अभूवं॥



अथ भगवता लोकानुकम्पार्थं तथा तथा धर्मदेशना कृता चतुरार्यसत्यसम्प्रयुक्ता यथा यथा तैः सत्त्वैः कैश्चित् सत्यानि दृष्टानि कैश्चिदर्हत्वं कृतम्, कैश्चित् प्रत्येकबोधः, कैश्चिदनुत्तरायां सम्यक् सम्बोधौ चित्तान्युत्पादितानि, सर्वं च नियताव्याकृतानुत्तरायां सम्यक् सम्बोधौ, सर्वैश्च पिथितान्यपापदुर्गतिविनिपातानि देवमनुष्योपपत्तौ द्वाराण्युत्पादितानि, स्वर्गार्गलमपावृतम्। सर्वे च समयमधितिष्ठन्ति॥



अथ भगवान् शाक्यमुनिस्तेषामनुशयं ज्ञात्वा, विनयकालसमयमनन्तरमेव तेषां विनीतां सत्त्वां ज्ञात्वा, धर्मं भाषते स्म॥



अरिदुःखसमाक्रान्तं दोषजं विनिधाश्रयम्।

अभावो देवगणाः सर्वे पृज्यन्ते शासने इह॥

आरभध्वं परं वीर्यं बोधिसोपानहेतुकम्।

प्राप्नुयादेव सङ्घाताः शान्तनिज्वरमालयम्॥

अशोकं विरजं क्षेमं निर्वाणं वापि नैष्ठिकम्।

निर्मलं गगनतुल्याख्यं अभावं तु स्वभाविकम्॥

परं प्राप्स्यथानिन्दितं दिव्यं सुजुष्टमनावृतम्।

अनित्यदुःखशून्यार्थमनात्मं तु समोदितम्॥

भावयन्तो दिवा सर्वं प्राप्स्यन्ते चैव नैष्ठिकमिति।

मन्त्रतन्त्राभिधानेन चर्या चैव सुखोदया॥

कथिता जिनवरैः श्रेष्ठा मन्त्रसिद्धिरुदाहृता।

उपायं सत्त्वानां अग्रे नियोगेनैव धीमतैः॥

कथिता मन्त्रसिद्धिस्तु फलकाले समोदये।

विचित्रं कर्मणां जाति विचित्रेव योजिता॥

विचित्रा कर्मतः सिद्धिर्विचित्रं कर्मयोनिजम्।

विचित्रा चित्ररूपेण मन्त्रैरेभिर्नियोजिता॥

विचित्रार्थाः कर्मविस्तरा विचित्रं कर्म उच्यते।

कर्म चिन्त्या तथा चित्रं अचिन्त्यं चापि चिन्तितम्॥

तस्मात् प्रारम्भन्मन्त्री मन्त्रचित्रेषु पुष्कलाम्।

राशयः कथिताश्चित्रा तेषु जाता नरा सदा॥

सदेवासुरमुख्यास्तु विविधा प्राणिविहङ्गमा।

तेषां च यानि चिह्नानि तानि सिद्धिषु योजयेत्॥

मेषराशौ तथा जातः मनुजा वा दिवौकसा।

बह्वपत्यो बहुभाष्यो सुरूपश्चापि जायते॥

वणिक् शीली तथा शूरः मनुजः स्त्रीषु वर्णितः।

वक्रो लुब्धचित्तश्च भूपतिर्गृहसेविनः॥

तत्रस्थश्चन्द्रमा प्रोक्तः सर्वकर्मे प्रयोजयेत्।

आदित्यो यदि दृश्येत मेपराशिसमाश्रितः॥

तत्र कर्म सदा सिद्धि क्रूरकर्मसुयोजिताम्।

यानं गमनं चैव आसनं शयनं सदा॥

न भजेत् तन्त्रमन्त्रज्ञो विरुद्धा सर्वयोगिभिः।

तत्र जातः सदा मर्त्यो मन्त्रं देयाभिचारुकम्॥

वृषराशौ तदा जातो मनुजो भोगवान्सदा।

स्त्रीषु कान्तः सदा लुब्धः धर्माधर्मविचारकः॥

ग्राम्यसेवी सदाध्यक्षो देवराङ्गानि बोधताम्।

तत्रस्थश्चन्द्रमा जातो धार्मिकोऽसौ सुरेश्वरः॥

भवेत् तस्य चित्तं वै राज्यमाश्रयता सदा।

तस्य मन्त्रा सदा देया चैत्या जिनभाषितः॥

तेन चन्द्रार्थयुक्तेनराश्रयोऽर्थनिबोधिताः।

गमनागमनं कर्म स्मश्रुकर्म च युक्तिमाम्॥

आचरेद् ग्रहकर्माणि न कुर्याद्याभिचारुकम्।

सर्वकर्मसमुद्योगं मन्त्रसिद्धिसुखोदयम्॥

आलिखेन्मण्डलादीनां बुद्धबिम्बांश्च कारयेत्।

सिद्धद्रव्यसुराश्रेष्टा साध्यमाना दिवौकसा॥

सिध्यन्ते मन्त्रिभिर्युक्ता नक्षत्रेष्वेव रिसिषु।

मिथुनायां यदा जातो मानुषोऽथ दिवौकसः॥

तेषां च गतिचिह्नानि सिद्धिकालं निबोधताम्।

आढ्यो उद्युक्तचित्तश्च शठो मूर्खोऽथ जायते॥

तत्रस्थो यदि विख्यातः नक्षत्रा निशि भूषणम्।

ततः कान्तो कवेन्मर्त्यो बन्धूनां वल्लभः सदा॥

धनाढ्यो युक्तिमन्तश्च महेशाख्योऽथ जायते।

शेषै ग्रहैः क्रूरैस्तु विविधैश्चापि कुत्सितैः॥

जायते धूर्त्तरागार्त्तः व्याधिभिश्च समाकुलः।

नेदद्युस्तस्य मन्त्रा वै शान्तिकं पौष्टिकं परम्॥

क्षुद्रां कश्मलांश्चैव क्रव्यादां पिशिताशिनाम्।

क्रूरै ग्रहमुख्यैस्तु दर्शनाश्च भवेत् सदा॥

एतेषां मन्त्रसिध्यर्थं क्रूरकर्मेषु योजये।

निषिद्धं गमनं तत्र अग्रपञ्चविवर्जितम्॥

गमनागमनयोस्तत्र न सिद्धिः सर्वकर्मसु।

क्षुद्रकर्म तथा तेषां दद्यः सर्वतो जाना॥

सिताख्यौ ग्रहमुख्यौ तौ पातकौ द्वे परेऽपरौ।

चतुर्था ग्रहमुख्यानां दर्शनं श्रेयसोद्भवम्॥

उभौ रक्तौ उभौ कृष्णौ दर्शनं क्रूरकर्मिणाम्।

सितौ शुक्लेन्दुमुख्यौ तौ पीतकौ बुधबृहस्पतौ॥

अर्काङ्गारकश्चैव रक्तौ तौ दिशि भूमिजौ।

षण्डो राहो तथा कृष्णौ विचित्रा शेषका ग्रहा॥

नानाग्रहगृहा प्रोक्ता विचित्रा धातुसुभूषिताः।

विचित्राकृतयः केचिद् विचित्रप्रहरणोद्यता॥

नानाधातुगणाध्यक्षा नानाऋषिपुरातनै।

शिष्यन्ते ग्रहाणां सर्वं अप्सराभिश्च किन्नरैः।

गगनस्था वर्णतो याता गतियोनिविदिता।

अन्तरीक्षचराः सर्वे नक्षत्रैः सहचारिणः॥

व्योम्नि धानसमायाता विचित्रा गतिचेष्टिता।

महर्द्धिका प्रभावतः गत्या रूपवेषसमाश्रयात्॥

कथिता मुनिवरैः सर्वैः कर्मतत्त्वार्थयोजिताः।

चतुर्थेऽहनि संयुक्ताश्चतुःसत्त्वनियोजिताः॥

चत्वारो ग्रहवरा प्रोक्ता सितो पीतोऽर्थसाधकाः।

शेषाः क्रूरकर्मसु रक्तौ कृष्णौ च योजितौ॥

नाचरेत् सर्वकर्माणि शान्तिकानि विशेषतः।

कृष्णरक्तौ ग्रहौ ह्येतौ तिथौ चापि चतुर्दशी॥

नाचरेत् सर्वकार्याणि क्षुद्रकर्माणि साधयेत्।

मानुषे साधयेदर्थी गणनामे शुभोदयाम्॥

तैरेव कारयेत् क्षिप्रं आसनं शयनं सदा।

मन्दिरं च विशेद्धीमां सर्वदुर्गाणि कारयेत्॥

कर्कटराशिजातस्थो दृश्यते मनुजाः शुभः।

शास्ता च भवेत् क्षिप्रं राजानश्चक्रवर्तिनः॥

भवन्ते जन्मिनो बोधो पूर्वकर्मसमुद्भवैः।

शुक्रेन्द्रग्रहमुख्यानां दर्शनं चैव जायताम्॥

शुभेऽहनि शुभे देशे बोधिसत्त्व अजायत।

पुष्यनक्षत्रयोगेन जायन्ते मरुपूजिता॥

बुद्धास्त्रैलोक्यगुरवोऽन्येऽपि महर्द्धिकाः।

राज्यकर्त्ता निकृन्ता च बहुप्राणिनराधिपाः॥

जायन्ते विविधा लोके शन्यर्काङ्गारचिह्निताः।

केचिज्जनभूयिष्ठा मर्त्या कर्मपरायणा॥

जायन्ते विविधाचारा पुष्ये जातापि ते सदा।

तस्मात् कर्मफलं विद्धि गतिमात्मानचेष्टिता॥

केवलं तु सदाचारा ग्रहकर्मनियोजिता।

लोकधर्मानपेक्षेह निर्दिशन्ति तथा जिनाः॥

कर्म लोकवैचित्र्यं लोकधातुसमाधिजम्।

भाजनं सर्वलोकनामाश्रयोद्भवसम्भवम्॥

विचित्रं कथितं लोके सुराः ! श्रेष्ठां निबोधताम्।

कर्मजं हि पुरा प्यासी कथयामास वत्सलः॥

सत्त्वसाधारणा धीमां बोधिसत्त्वो महर्द्धिकः।

मञ्जुघोषस्तदा वव्रे सत्त्वानां हितकाम्यया॥

कर्मजं कथितं सर्वं मन्त्रतन्त्रसविस्तरम्।

एषो वः सुराः सर्वे धर्मो ह्येकेन यः सदा॥

कर्कटो राशिजातस्य दद्यान्मन्त्रं तु पौष्टिकम्।

ततः परेण सिंहस्य राशिर्दृश्यति मानवाम्॥

सिंहजातो भवेन्मर्त्य अशून् लुब्ध एव तु।

स्त्रीशठो मांसभोजी स्याद् गिरिकन्दरवासिनः॥

सेनापत्य तथा नित्यं कारयेच्च वसुन्धराम्।

महीपालो महाध्यक्षः क्रूरकर्मा सदा शुचिः॥

कृतघ्नः कृतमन्त्रश्च पापकर्मसदारतः।

मित्रद्रोही सदा लुब्धः शठश्चैवमजायत॥

ग्रहैश्चापि सदा दृष्टा सितैः पीतैश्च धीमतैः।

जायते धार्मिकस्तत्र कृष्णैश्चापि शठः स्मृतः॥

तत्र कर्म समुद्दिष्टं पौष्टिकं सिद्धिलिप्सिताम्।

उत्तिष्ठं खेचरं चापि अतिमानसमोद्गतम्॥

नान्यं कर्म समुद्वेतं समानं चापि वर्जयेत्।

ततः परेण सिंहस्य कन्यराशिरिति स्मृतः॥

तत्र जातो भवेद्धूर्तस्तस्करः कृपणः शठः।

स्त्रीषु कान्तः सदा लुब्धः क्रूरः साहसिकः सदा॥

मूर्खः परदारी च स्तब्धो मानोन्नतः सदा।

शुभनक्षत्रवारेण शुभदृष्टिग्रहोदितैः॥

पीतशुक्लैर्ग्रहैर्दृष्टा जायन्ते च महाधनाः।

शुद्धमन्त्रः सदा धीमान् शुचिवृत्तिसमाश्रये॥

सम्भूता मन्त्रतन्त्राश्च साधयेत् महीतले।

क्षिप्रमर्थकरा ये तु पुष्ट्यर्था ये तु कीर्तिता॥

साधयेन्मन्त्रवित् सर्वां जिनाङ्गीकुलयोरपि।

जिनेन्द्रमुख्या ये मन्त्रा बहुधा चापि कीर्तिता॥

साधयेन्मन्त्रवित् सर्वां राश्यर्थेष्वेव जातिषु।

ततः परेण भवेद् राशिः तुलानामनि कीर्तिता॥

प्रसिद्धां कर्मभूयिष्ठां तन्नासेवेत् तदाश्रिताम्।

तुलायां जायते धीमान्मन्त्रसिद्धिषु योजितः॥

न कारयेत् साधनां सर्वां उत्तिष्ठं भूनिबन्धनाम्।

सर्वमन्त्रप्रसिद्‍ध्यर्थं गतियोनिषु आचरेत्॥

धूर्तः कृपणो लुब्धः मत्सरी चैव जायते।

तुलायां राशिजातस्थो दृश्यते च सदा रतः॥

तं कुर्यात् सदा मन्त्री तस्मिं राशौ समासृतः।

यं न चाचक्षते लोके भूमिरर्थार्थसम्पदाम्॥

ग्रहमुख्ये तदा जातो पीतैः शुक्लैश्च सर्वतः।

न भजेन्मन्त्रसिद्धिं च यत्न‍रक्षार्थसम्पदे॥

क्षणमात्रे तथा सर्वं साध्यन्तं नियोजितैः।

शुभैर्ग्रहैर्यदा दृष्टः पीतैः शुक्लैश्च सर्वतः॥

महात्मा जायते शूरः धार्मिकोऽथ नराधिपः।

क्रूरतरैर्ग्रहैर्दृष्टः शन्यर्काङ्गारसिंहजैः॥

तुलाया जातराश्यर्थः मत्सरो भवते पुमां।

बहुरोगो दरिद्रश्च व्याधिरोगार्तसमुद्भवम्॥

प्रचण्डः सर्वकर्मेषु क्रूरः साहसिकः सदा।

न भजेच्छान्तिकर्माणि जिनतत्त्वाङ्गभाषितम्॥

रौद्रं कुरुते कर्मां वज्रिणे समुदयोदिताम्।

आभिचारुककर्माणि नानायुद्धकृतानि तु॥

तस्मिं राशौ सदा तत्र कुले तत्र समुद्भवे।

कुत्सिता जिनवरैः कर्म सिद्धिमायाति तत्र तु॥

प्रधानगुणविस्तारं प्रभावं चापि वर्जयेत्।

प्रवासगमनं चैव नाचरेद्दिशि माशुजम्॥

मन्दरं वाहनं चापि सत्त्वधातुकृताकृतम्।

नाचरेत् सर्वकर्माणि तस्मिं राशौ दिवाकरे॥

वृश्चिकात्तु समुत्पादे सत्त्वयोनि समाश्रयेत्।

भवते लिङ्गवैचित्र्यं कथ्यमानं निबोधताम्॥

तीव्रः साहसिकः क्रूरो दुर्धर्षो मानदर्पितः।

वक्रो लुब्धस्तथा मर्त्यो जायते वसुधातले॥

प्राज्ञो धार्मिको विद्वान् वक्रश्चैव दुरासदः।

स्त्रीषु कान्तो भवेन्मर्त्यः कृतज्ञो दृढपराक्रमः॥

तन्त्रमन्त्रसदोद्युक्तः सेवायां गुरुपूजकः।

दर्शनं ग्रहमुख्यानां शुक्रचन्द्रबुधो गुरुः॥

प्रशस्तं श्रेयसं लक्ष्यं आयुरारोग्यवर्द्धनम्।

तेषां दर्शनसिद्ध्यर्थं मन्त्रिणामूर्ध्वसाधने॥

शन्यर्काङ्गारकौ राहुः पश्यति तं नरं यदा।

क्रूरः साहसिको वक्रो जायते रौद्रकर्मकृत्॥

तेषां च वज्रिणे मन्त्राः सिद्ध्यन्ते क्रूरकर्मिणाम्।

नागच्छेत् सर्वतो मर्त्यो दिनेष्वेव सुकुत्सितैः॥

ततः परेण धन्वाख्यं राशिमुक्तं तथागतैः।

जायन्ते बहुधा मर्त्या गतिदेशसमाश्रयात्॥

अन्ते च शोभनाः सर्वे बाल्या दुःखभागिनः।

यथाविभागनिर्देशा आयुषः परिकीर्तिताः॥

तथा धनार्थनिष्पत्तिं वाचिष्ये अर्थसम्पदाम्।

स्वयोनिं नाशयेन्नित्यं परयोनिं विवर्द्धयेत्॥

वहपत्यो बहुभाष्य बहुरागरतिप्रियः।

असंयतो भवेन्मर्त्यः धनूराशिसमाश्रयात्॥

प्रभुः श्रीमां सदा दक्षो धार्मिको वापि जायते।

दर्शनं यदि मुख्यानां ग्रहाणां सितपीतकाम्॥

तेषामाचरेन्मन्त्रा नानाप्रहरणोद्भवाम्।

नानाशस्त्रफला वापि वस्त्रभूषणवाहना॥

नानाधातुकृतांश्चैव नानाधातुफलोद्भवाम्।

सिद्ध्यन्ते तस्य मन्त्रं वै मुनिजुष्टाङ्गसम्भवा॥

ततः परेण कर्माणि सर्वद्रव्यैस्तु कारयेत्।

प्रसवेत् सर्वतो मन्त्री गतिदेशनिरत्ययाम्॥

स्वालयं वाहनम् चापि स्वसुतां च निवेशनम्।

भुषजं सर्वमिष्टं तु महार्थं चोर्ध्वगामिनम्॥

सिद्धये तस्य मुक्तात्मा क्षिप्रमेव करे स्थिता।

ततः परेण राश्यायां मकरस्थो दृश्यते सम॥

तेषु जातः सदा मर्त्यः लिङ्गैरेतैर्हि लक्षयेत्।

मातृभक्तो पितृभक्तश्च ख्यातो बहुमतः प्रभुः॥

दुःसहः सर्वदुःखानामाढ्योऽपि धनसञ्चकः।

कृपणो लुब्धचित्तश्च शठश्चैवमजायत॥

शुक्रेन्द्रग्रहदृष्टानां सर्वसम्पत्ति जायते।

कृष्णरक्तग्रहा ये तु क्रूरकर्मा तु पूर्ववत्॥

नागच्छेत् तत्र मन्त्रज्ञः विदिशां चैव सर्वतः।

दुष्टां साधयेत् कर्मां अनिष्टं चैव वर्जयेत्॥

वमनगमनं चैव उत्तरां दिशिमाश्रयेत्।

महासमुद्रार्थगतां द्रव्यां नौयानमाविशेत्॥

प्राप्नुयात् सम्पदां तत्र निम्नमाध्यक्षदेशजम्।

ततः परेण कुम्भेति मकरात् समुदितात् परः॥

कुम्भराशिसमाख्येया सत्त्वजाताश्रया सदा।

बहुधा बहुलिङ्गास्तु कथिता ते नरोत्तमैः॥

विचित्रा चित्ररूपास्तु वर्णजातिसमाश्रयात्।

श्यामवर्णो विशालाक्षो जायन्ते बहुमता नराः॥

मैथुनाशक्तवस्ते तु ग्राम्यधर्मार्थचिन्तकाः।

कृतज्ञा धार्मिका प्रोक्ता मन्त्रजाः कुम्भराशयः॥

शुक्लपीता ग्रहा दृष्टा लोकेऽस्मिन् सम्प्रपूजिताः।

कृष्णरक्ता ग्रहा ये तु दृष्टजातिसमोदया॥

व्यङ्गा कृपणयो मूर्खा चपलाः तस्करावहा।

बहुरोगा दरिद्राश्च जायन्ते मानवा सदा॥

तेषां न कारयेत् कर्म उत्तमं मुनिपूजितम्।

अङ्गार्थसम्भवा येन दद्युः सर्वकर्मसु॥

न गच्छेत् प्राप्य तीरान्तं अतो नैवापि वर्णितम्।

कुर्यात् वज्रकुले कर्म मन्त्रसिद्धिलिलिप्सया॥

क्रूरं क्रूरकर्मान्तं स्फट् हुङ्कारभूषितम्।

मन्त्रं साधयेच्चात्र क्रोधराजसुयोजितम्॥

सिद्ध्यन्ते पापकर्मास्तु रौद्रकर्मासु योजिता।

ततः परेण मीनेति राशिरुक्ता तथागतैः॥

तत्रस्था मानवाः सर्वे दृश्यन्ते बहुलिङ्गिनः।

मीनराशिसमाजाता रूपाण्येतानि समुद्भवैः॥

प्रभुर्मानधीः श्रीमां भोगसम्पच्छतान्वितः।

प्रभवः सर्वलोकानां जायतेऽसौ महीतले॥

क्षिप्रमर्थकरो धीमां नराधिपोऽथ अजायत।

शुक्रेन्दुदर्शनाज्जातः भवेल्लोके नरोत्तमः॥

दर्शनाद् बुधजीवानां धनाढ्योऽथमजायत।

प्रांशुमूर्त्तिर्विशालाक्षः स्त्रीषु कान्तो भवेत् सदा॥

बह्वमित्रो नराध्यक्षः कुटिलश्चैवमजायत।

बहुमित्रोऽथ शुक्रश्च जायते मित्रवत्सलः॥

ततः परेण क्रूरो वै ग्रहमुख्यो दिवाकरः।

पश्यते यद्यसौ मर्त्यान् शनिराहुसु भूमिजा॥

तदा कष्टमिति ध्वजः क्रूरश्चैव जायते।

पूर्ववत् कथिता ह्येते ग्रहाः कृष्णान्तशुक्लयोः।

कुर्यात् सर्वकर्माणि मीनराशिसमाश्रयाः।

तत्रस्थश्चन्द्रमां पश्येत् सर्वांश्चैव साधयेत्॥

अतः परेण राशीनां गजमानुषमानुषाम्।

गन्धर्वा राक्षसा गरुडाश्चापि पन्नगाः॥

तेषां स्वरूपतो जातिगतिदेशमचिह्नितः।

मना उद्भवस्तेषां लिङ्गैरेवैस्तु लक्षयेत्॥

यथा सत्त्वप्रकृतिश्च तथा लिङ्गं विभाष्यते।

स्वमन्त्रा भाषिता ह्येतैः तेषां चैव नियोजयेत्॥

राशयः कथिता लोके द्वादशैव गणोद्भवाः।

गणिता ग्रहमुख्यैस्तु नक्षत्रैस्तु नियोजिताः॥

संक्षेपात् कथिता ह्येते कथ्यमानातिविस्तरा।

मानुषाणां तदा चक्रे नक्षत्रे ग्रहमण्डलैः॥

अत ऊर्ध्वं तु देवानां ऋषीणां च महर्द्धिकम्।

ज्ञानं प्रवर्त्तते तत्र एतन्मानुषचेष्टितम्॥

अचिन्त्या बुद्धधर्माणां ज्ञानदृष्टि नरोत्तमाम्।

साधयेत् सर्वमन्त्रज्ञः राशिजातौ समुद्भवा॥

+ रनक्षत्रां तिथयो नित्यं शुक्लपक्षे समाचरेत्।

सिद्धिस्तेषु सदा प्रोक्ता कृष्णे कृष्णकर्मिणाम्॥

ग्रहैः सितैः पीतैः दिनैश्चैव समाचरेत्।

शुक्लपूर्णगता चन्द्रे पौर्णमास्येषु योजयेत्॥

प्रतिपच्छुक्लपक्षे तु तृतीये चैव रोचयेत्।

पञ्चमी सप्तमी चैव दशम्येकादशोद्भवाम्॥

त्रयोदश्यां तथा शुक्ले सर्वकर्माणि आचरेत्।

पुष्ट्यर्थं शान्तियोगं च गमनागमनं शुभाशुभम्॥

आलोख्या मन्त्रतन्त्रस्थं नृत्यगीतरतिः सदा।

भूषणं यानमावासं क्षुरकर्मं च धीमता॥

प्रयोक्ताः सर्वतो विद्वां मर्त्यैश्चापि श्रीमतैः।

भोगसम्पत्सदासिद्धिरिष्टसत्त्वसमागमम्॥

निर्दिष्टं मुनिमुख्यैस्तु अन्य अन्यकर्माणि अन्यतः।

धनार्थिभिः श्रीमतैः क्षिप्रं कुर्यान्मन्त्रार्थसाधनम्॥

+ + + + + + + + + चन्द्रशुक्रगुरुर्बुधैः।

वारैर्ग्रहवरैर्दिव्यैः सुपूजितैः शुचिमङ्गलैः॥

तिथियुक्तैः समासेन निर्दिष्टैश्चापि भावयेत्।

घोरैर्घोररूपैस्तु ग्रहैर्मन्त्रैस्तिथिभिः सदा॥

आचरेद् रौद्रकर्माणि कृष्णे कृष्णकर्मिणाम्।

गतिदेशसमासं च युक्तिमन्त्रार्थसाधने॥

ग्रहा राश्यर्थनक्षत्रा तिथयश्च समोदिता।

कर्मसिद्धिप्रभावं च नियमं सर्वकर्मसु॥ इति।



बोधिसत्त्वपिटकावतसंकान्महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रियमूलकल्पात् सप्तदशमः पटलविसरात् तृतीयो ज्योतिषज्ञानपटलविसरः परिसमाप्त इति।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project